प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तैत्तिरीय संहिता
1.1 प्रपाठक 1
1.1.1 अनुवाक 1
इषे त्वोर्जे त्वा वायव स्थोपायव स्थ देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे । आ प्यायध्वम् अघ्निया देवभागमूर्जस्वतीः पयस्वतीः प्रजावतीर् अनमीवा अयक्ष्माः ।
मा व स्तेन ईशत माघशꣳसः । रुद्रस्य हेतिः परि वो वृणक्तु ध्रुवा अस्मिन् गोपतौ स्यात बह्वीः । यजमानस्य पशून् पाहि ॥

1.1.2 अनुवाक 2 बर्हिराहरणम्
VERSE: 1 यज्ञस्य घोषद् असि प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः प्रेयम् अगाद् धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा । त आ वहन्ति कवयः पुरस्ताद् देवेभ्यो जुष्टम् इह बर्हिर् आसदे ॥ देवानाम् परिषूतम् असि वर्षवृद्धम् असि देवबर्हिर् मा त्वान्वङ् मा तिर्यक् पर्व ते राध्यासम् आ छेत्ता ते मा रिषम् । देवबर्हिः शतवल्शं वि रोह सहस्रवल्शाः
VERSE: 2 वि वयꣳ रुहेम पृथिव्याः सम्पृचः पाहि सुसम्भृता त्वा सम् भरामि अदित्यै रास्नासीन्द्राण्यै संनहनम् पूषा ते ग्रन्थिं ग्रथ्नातु स ते मास्थात् । इन्द्रस्य त्वा बाहुभ्याम् उद् यच्छे बृहस्पतेर् मूर्ध्ना हरामि उर्व् अन्तरिक्षम् अन्व् इहि देवंगमम् असि ॥

1.1.3 अनुवाक 3 सांन्नाय्यं, पात्रप्रोक्षणादि
VERSE: 1 शुन्धध्वं दैव्याय कर्मणे देवयज्यायै मातरिश्वनो घर्मो ऽसि द्यौर् असि पृथिव्यसि विश्वधाया असि परमेण धाम्ना दृꣳहस्व मा ह्वार्। वसूनाꣳ पवित्रम् असि शतधारं वसूनां पवित्रम् असि सहस्रधारम् । हुतः स्तोको हुतो द्रप्सः । अग्नये बृहते नाकाय । स्वाहा द्यावापृथिवीभ्याम् । सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मा सम् पृच्यध्वम् ऋतावरीर् ऊर्मिणीर् मधुमत्तमा मन्द्रा धनस्य सातये सोमेन त्वा ऽऽतनच्मीन्द्राय दधि विष्णो हव्यꣳ रक्षस्व ॥

1.1.4 अनुवाक 4 हविर्निर्वापः
VERSE: 1 कर्मणे वां देवेभ्यः शकेयम् । वेषाय त्वा प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः । धूर् असि धूर्व धूर्वन्तं धूर्व तं यो ऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामस्
त्वं देवानां असि सस्नितमम् पप्रितमं जुष्टतमं वह्नितमं देवहूतमम् अह्रुतम् असि हविर्धानम् । दृꣳहस्व मा ह्वार् । मित्रस्य त्वा चक्षुषा प्रेक्षे मा भेर् मा सं विक्था मा त्वा
VERSE: 2 हिꣳसिषम् उरु वाताय देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् अग्नये जुष्टं निर् वपाम्य् अग्नीषोमाभ्याम् इदं देवानाम् इदम् उ नः सह स्फात्यै त्वा नारात्यै सुवर् अभि वि ख्येषं वैश्वानरं ज्योतिः । दृꣳहन्तां दुर्या द्यावापृथिव्योः । उर्व् अन्तरिक्षम् अन्व् इहि । अदित्यास् त्वोपस्थे सादयामि । अग्ने हव्यꣳ रक्षस्व ॥

1.1.5 अनुवाक 5 हविः प्रोक्षणादि
VERSE: 1 देवो वः सवितोत् पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः । आपो देवीर् अग्रेपुवो अग्रेगुवो ऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये प्रोक्षिता स्थ । अग्नये वो जुष्टम् प्रोक्षाम्य् अग्नीषोमाभ्याम् । शुन्धध्वं दैव्याय कर्मणे देवयज्यायै । अवधूतꣳ रक्षो ऽवधूता अरातयः । अदित्यास् त्वग् असि प्रति त्वा
VERSE: 2 पृथिवी वेत्तु । अधिषवणम् असि वानस्पत्यम् प्रति त्वाऽदित्यास् त्वग् वेत्तु । अग्नेस् तनूर् असि वाचो विसर्जनम् देववीतये त्वा गृह्णामि । अद्रिर् असि वानस्पत्यः स इदं देवेभ्यो हव्यꣳ सुशमि शमिष्व । इषम् आ वदोर्जम् आ वद द्युमद् वदत वयꣳ संघातं जेष्म वर्षवृद्धम् असि प्रति त्वा वर्षवृद्धं वेत्तु परापूतꣳ रक्षः परापूता अरातयः । रक्षसाम् भागो ऽसि वायुर् वो वि विनक्तु देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु ॥

1.1.6 अनुवाक 6 व्रीहिपेषणम्
VERSE: 1 अवधूतꣳ रक्षो ऽवधूता अरातयः । अदित्यास् त्वग् असि प्रति त्वा पृथिवी वेत्तु दिवः स्कम्भनिर् असि प्रति त्वाऽदित्यास् त्वग् वेत्तु धिषणाऽसि पर्वत्या प्रति त्वा दिव स्कम्भनिर् वेत्तु धिषणाऽसि पार्वतेयी प्रति त्वा पर्वतिर् वेत्तु देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् अधि वपामि धान्यम् असि धिनुहि देवान् प्राणाय त्वापानाय त्वा व्यानाय त्वा दीर्घाम् अनु प्रसितिम् आयुषे धाम् । देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु ॥

1.1.7 अनुवाक 7 कपालोपधानम्
VERSE: 1 धृष्टिर् असि ब्रह्म यच्छ । अपाग्ने ऽग्निम् आमादं जहि निष् क्रव्यादꣳ सेधाऽऽ देवयजं वह निर्दग्धꣳ रक्षो निर्दग्धा अरातयः । ध्रुवम् असि पृथिवीं दृꣳहाऽऽयुर् दृꣳह प्रजां दृꣳह सजातान् अस्मै यजमानाय पर्यूह धर्तम् अस्य् अन्तरिक्षं दृꣳह प्राणं दृꣳहापानं दृꣳह सजातान् अस्मै यजमानाय पर्यूह धरुणम् असि दिवं दृꣳह चक्षुः
VERSE: 2 दृꣳह श्रोत्रं दृꣳह सजातान् अस्मै यजमानाय पर्यूह धर्मासि दिशो दृꣳह योनिं दृꣳह प्रजां दृꣳह सजातान् अस्मै यजमानाय पर्यूह चित स्थ प्रजाम् अस्मै रयिं अस्मै सजातान् अस्मै यजमानाय पर्यूह भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् । यानि घर्मे कपालान्य् उपचिन्वन्ति वेधसः । पूष्णस् तान्य् अपि व्रत इन्द्रवायू वि मुञ्चताम् ॥

1.1.8 अनुवाक 8 संवापादिः
VERSE: 1 सं वपामि सम् आपो अद्भिर् अग्मत सम् ओषधयो रसेन सꣳ रेवतीर् जगतीभिर् मधुमतीर् मधुमतीभिः सृज्यध्वम् अद्भ्यः परि प्रजाता स्थ समद्भिः पृच्यध्वम् । जनयत्यै त्वा सं यौमि । अग्नये त्वाऽग्नीषोमाभ्याम् मखस्य शिरो ऽसि घर्मो ऽसि विश्वायुः । उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् । त्वचं गृह्णीष्व । अन्तरितꣳ रक्षो ऽन्तरिता अरातयः । देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके । अग्निस् ते तनुवम् माऽति धाक् । अग्ने हव्यꣳ रक्षस्व सम् ब्रह्मणा पृच्यस्व । एकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहा ॥

1.1.9 अनुवाक 9 वेदिकरणम्
VERSE: 1 आ ददे । इन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजाः । वायुर् असि तिग्मतेजाः पृथिवि देवयजन्य् ओषध्यास् ते मूलम् मा हिꣳसिषम् अपहतो ऽररुः पृथिव्यै व्रजं गच्छ गोस्थानम् । वर्षतु ते द्यौर् बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् । अपहतो ऽररुः पृथिव्यै देवयजन्यै व्रजम्
VERSE: 2 गच्छ गोस्थानम् । वर्षतु ते द्यौर् बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् । अपहतो ऽररुः पृथिव्या अदेवयजनः । व्रजं गच्छ गोस्थानम् । वर्षतु ते द्यौः । बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा
VERSE: 3 मौक् । अररुस् ते दिवं मा स्कान् वसवस् त्वा परि गृह्णन्तु गायत्रेण छन्दसा रुद्रास् त्वा परि गृह्णन्तु त्रैष्टुभेन छन्दसादित्यास् त्वा परि गृह्णन्तु जागतेन छन्दसा देवस्य सवितुः सवे कर्म कृण्वन्ति वेधसः । ऋतम् अस्य् ऋतसदनम् अस्य् ऋतश्रीर् असि धा असि स्वधा असि । उर्वी चासि वस्वी चासि पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीरदानुर् याम् ऐरयञ् चन्द्रमसि स्वधाभिस् तां धीरासो अनुदृश्य यजन्ते ॥

1.1.10 अनुवाक 10 हविर्ग्रहणम्
VERSE: 1 प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः । अग्नेर् वस् तेजिष्ठेन तेजसा निष्टपामि गोष्ठम् मा निर्मृक्षं वाजिनं त्वा सपत्नसहꣳ सम् मार्ज्मि वाचम् प्राणं चक्षुः श्रोत्रम् प्रजां योनिम् मा निर्मृक्षम् वाजिनीं त्वा सपत्नसाहीꣳ सम् मार्ज्मि । आशासाना सौमनसम् प्रजाम् सौभाग्यं तनूम् । अग्नेर् अनुव्रता भूत्वा सं नह्ये सुकृताय कम् । सुप्रजसस् त्वा वयꣳ सुपत्नीर् उप
VERSE: 2 सेदिम । अग्ने सपत्नदम्भनम् अदब्धासो अदाभ्यम् इमं वि ष्यामि वरुणस्य पाशं यम् अबध्नीत सविता सुकेतः । धातुश् च योनौ सुकृतस्य लोके स्योनम् मे सह पत्या करोमि सम् आयुषा सम् प्रजया सम् अग्ने वर्चसा पुनः । सम् पत्नी पत्याहं गच्छे सम् आत्मा तनुवा मम महीनाम् पयो ऽस्य् ओषधीनाꣳ रसस् तस्य ते ऽक्षीयमाणस्य निः
VERSE: 3 वपामि महीनाम् पयो ऽस्य् ओषधीनाꣳ रसो ऽदब्धेन त्वा चक्षुषाऽवेक्षे सुप्रजास्त्वाय तेजो ऽसि तेजो ऽनु प्रेह्य् अग्निस् ते तेजो मा वि नैत् । अग्नेर् जिह्वासि सुभूर् देवानाम् । धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भव शुक्रम् असि ज्योतिर् असि तेजो ऽसि देवो वः सवितोत् पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि ज्योतिस् त्वा ज्योतिष्य् अर्चिस् त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि

1.1.11 अनुवाक 11 हविरासादनादि
VERSE: 1 कृष्णो ऽस्य् आखरेष्ठो ऽग्नये त्वा स्वाहा वेदिर् असि बर्हिषे त्वा स्वाहा बर्हिर् असि स्रुग्भ्यस् त्वा स्वाहा दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा स्वधा पितृभ्य ऊर्ग् भव बर्हिषद्भ्यः । ऊर्जा पृथिवीं गच्छत विष्णोः स्तूपो ऽसि । ऊर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः । गन्धर्वो ऽसि विश्वावसुर् विश्वस्माद् ईषतो यजमानस्य परिधिर् इड ईडितः । इन्द्रस्य बाहुर् असि
VERSE: 2 दक्षिणो यजमानस्य परिधिर् इड ईडितः । मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा यजमानस्य परिधिर् इड ईडितः सूर्यस् त्वा पुरस्तात् पातु कस्याश् चिद् अभिशस्त्याः। वीतिहोत्रं त्वा कवे द्युमन्तꣳ सम् इधीमह्य् अग्ने बृहन्तम् अध्वरे विशो यन्त्रे स्थः । वसूनाꣳ रुद्राणाम् आदित्यानाꣳ सदसि सीद जुहूर् उपभृद् ध्रुवाऽसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीद । एता असदन्त् सुकृतस्य लोके ता विष्णो पाहि पाहि यज्ञम् पाहि यज्ञपतिम् पाहि मां यज्ञनियम् ॥

1.1.12 अनुवाक 12 आघारः
VERSE: 1 भुवनम् असि वि प्रथस्व । अग्ने यष्टर् इदं नमः । जुह्व् एह्य् अग्निस् त्वा ह्वयति देवयज्यायै । उपभृद् एहि देवस् त्वा सविता ह्वयति देवयज्यायै । अग्नाविष्णू मा वाम् अव क्रमिषम् । वि जिहाथाम् मा मा सं ताप्तम् । लोकम् मे लोककृतौ कृणुतम् । विष्णोः स्थानम् असि । इत इन्द्रो अकृणोद् वीर्याणि समारभ्योर्ध्वो अध्वरो दिविस्पृशम् अह्रुतो यज्ञो यज्ञपतेः । इन्द्रावान्त् स्वाहा बृहद् भाः पाहि माग्ने दुश्चरिताद् आ मा सुचरिते भज 5मखस्य शिरो ऽसि सं ज्योतिषा ज्योतिर् अङ्क्ताम् ॥

1.1.13 अनुवाक 13 स्रुग्व्यूहनादि
VERSE: 1 वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाꣳ इन्द्रो मे निग्राभेणाधराꣳ अकः ॥ उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥ वसुभ्यस् त्वा रुद्रेभ्यस् त्वादित्येभ्यस् त्वा । अक्तꣳ रिहाणा वियन्तु वयः प्रजां योनिम् मा निर् मृक्षम् आ प्यायन्ताम् आप ओषधयः । मरुताम् पृषतयः स्थ दिवम्
VERSE: 2 गच्छ ततो नो वृष्टिम् एरय । आयुष्पा अग्ने ऽस्य् आयुर् मे पाहि चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहि ध्रुवाऽसि यम् परिधिम् पर्यधत्था अग्ने देव पणिभिर् वीयमाणस् तं त एतम् अनु जोषम् भरामि नेद् एष त्वद् अपचेतयातै यज्ञस्य पाथ उप सम् इतम् । सꣳस्रावभागाः स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश् च ॥
VERSE: 3 देवा इमां वाचम् अभि विश्वे गृणन्त आसद्यास्मिन् बर्हिषि मादयध्वम् अग्नेर् वाम् अपन्नगृहस्य सदसि सादयामि सुम्नाय सुम्निनी सुम्ने मा धत्तम् । धुरि धुर्यौ पातम् अग्ने ऽदब्धायो ऽशीततनोपाहि माऽद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितात् । अविषं नः पितुं कृणु सुषदा योनिꣳ स्वाहा देवा गातुविदो गातुं वित्त्वा गातुम् इत मनसस् पत इमं नो देव देवेषु यज्ञꣳ स्वाहा वाचि स्वाहा वाते धाः ॥

1.1.14 अनुवाक 14 काम्येष्टियाज्यापुरोनुवाक्या
VERSE: 1 उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । उभा दाताराव् इषाꣳ रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥ अश्रवꣳ हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात् । अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि नव्यम् ॥ इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् । साकम् एकेन कर्मणा ॥ शुचिं नु स्तोमं नवजातं अद्येन्द्राग्नी वृत्रहणा जुषेथाम् ॥
VERSE: 2 उभा हि वाꣳ सुहवा जोहवीमि ता वाजꣳ सद्य उशते धेष्ठा ॥ वयम् उ त्वा पथस् पते रथं न वाजसातये । धिये पूषन्न् अयुज्महि ॥ पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्य् आनड् अर्कम् । स नो रासच् छुरुधश् चन्द्राग्रा धियं धियꣳ सीषधाति प्र पूषा ॥ क्षेत्रस्य पतिना वयं हितेनेव जयामसि । गाम् अश्वम् पोषयित्न्व् आ स नः
VERSE: 3 मृडातीदृशे ॥ क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृडयन्तु ॥ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमउक्तिं विधेम ॥ आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोढुम् । अग्निर् विद्वान्त् स यजात्
VERSE: 4 सेद् उ होता सो अध्वरान्त् स ऋतून् कल्पयाति ॥ यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो । महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ॥ अग्ने त्वम् पारया नव्यो अस्मान्त् स्वस्तिभिर् अति दुर्गाणि विश्वा । पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥ त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । त्वं यज्ञेष्व् ईड्यः ॥ यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवां ऋतुभिः कल्पयाति ॥




1.1.1 अनुवाक 1

इषे त्वोर्जे त्वा
वायव स्थोपायव स्थ
देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मणे ।
आ प्यायध्वम् अघ्निया देवभागमूर्जस्वतीः पयस्वतीः प्रजावतीर् अनमीवा अयक्ष्माः ।
मा व स्तेन ईशत माघशꣳसः ।
रुद्रस्य हेतिः परि वो वृणक्तु
ध्रुवा अस्मिन् गोपतौ स्यात बह्वीः ।
यजमानस्य पशून् पाहि ॥

1.1.2
अनुवाक 2
बर्हिराहरणम्

VERSE: 1
यज्ञस्य घोषद् असि
प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः
प्रेयम् अगाद् धिषणा बर्हिरच्छ मनुना कृता स्वधया वितष्टा । त आ वहन्ति कवयः पुरस्ताद् देवेभ्यो जुष्टम् इह बर्हिर् आसदे ॥
देवानाम् परिषूतम् असि
वर्षवृद्धम् असि
देवबर्हिर् मा त्वान्वङ् मा तिर्यक्
पर्व ते राध्यासम्
आ छेत्ता ते मा रिषम् ।
देवबर्हिः शतवल्शं वि रोह सहस्रवल्शाः

VERSE: 2
वि वयꣳ रुहेम
पृथिव्याः सम्पृचः पाहि
सुसम्भृता त्वा सम् भरामि
अदित्यै रास्नासीन्द्राण्यै संनहनम्
पूषा ते ग्रन्थिं ग्रथ्नातु स ते मास्थात् ।
इन्द्रस्य त्वा बाहुभ्याम् उद् यच्छे बृहस्पतेर् मूर्ध्ना हरामि
उर्व् अन्तरिक्षम् अन्व् इहि
देवंगमम् असि ॥

1.1.3 अनुवाक 3 सांन्नाय्यं, पात्रप्रोक्षणादि

VERSE: 1
शुन्धध्वं दैव्याय कर्मणे देवयज्यायै
मातरिश्वनो घर्मो ऽसि
द्यौर् असि पृथिव्यसि
विश्वधाया असि परमेण धाम्ना
दृꣳहस्व मा ह्वार्।
वसूनाꣳ पवित्रम् असि शतधारं वसूनां पवित्रम् असि सहस्रधारम् ।
हुतः स्तोको हुतो द्रप्सः ।
अग्नये बृहते नाकाय । स्वाहा द्यावापृथिवीभ्याम् ।
सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मा
सम् पृच्यध्वम् ऋतावरीर् ऊर्मिणीर् मधुमत्तमा मन्द्रा धनस्य सातये
सोमेन त्वा ऽऽतनच्मीन्द्राय दधि
विष्णो हव्यꣳ रक्षस्व ॥
1.1.4 अनुवाक 4 हविर्निर्वापः

VERSE: 1
कर्मणे वां देवेभ्यः शकेयम् ।
वेषाय त्वा
प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः ।
धूर् असि धूर्व धूर्वन्तं धूर्व तं यो ऽस्मान् धूर्वति तं धूर्व यं वयं धूर्वामस्
त्वं देवानां असि सस्नितमम् पप्रितमं जुष्टतमं वह्नितमं देवहूतमम्
अह्रुतम् असि हविर्धानम् ।
दृꣳहस्व मा ह्वार् ।
मित्रस्य त्वा चक्षुषा प्रेक्षे
मा भेर् मा सं विक्था मा त्वा

VERSE: 2
हिꣳसिषम्
उरु वाताय
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् अग्नये जुष्टं निर् वपाम्य् अग्नीषोमाभ्याम्
इदं देवानाम् इदम् उ नः सह
स्फात्यै त्वा नारात्यै
सुवर् अभि वि ख्येषं वैश्वानरं ज्योतिः ।
दृꣳहन्तां दुर्या द्यावापृथिव्योः ।
उर्व् अन्तरिक्षम् अन्व् इहि ।
अदित्यास् त्वोपस्थे सादयामि ।
अग्ने हव्यꣳ रक्षस्व ॥
1.1.5 अनुवाक 5 हविः प्रोक्षणादि

VERSE: 1
देवो वः सवितोत् पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः ।
आपो देवीर् अग्रेपुवो अग्रेगुवो ऽग्र इमं यज्ञं नयताग्रे यज्ञपतिं धत्त
युष्मान् इन्द्रो ऽवृणीत वृत्रतूर्ये यूयम् इन्द्रम् अवृणीध्वं वृत्रतूर्ये
प्रोक्षिता स्थ ।
अग्नये वो जुष्टम् प्रोक्षाम्य् अग्नीषोमाभ्याम् ।
शुन्धध्वं दैव्याय कर्मणे देवयज्यायै ।
अवधूतꣳ रक्षो ऽवधूता अरातयः ।
अदित्यास् त्वग् असि प्रति त्वा

VERSE: 2
पृथिवी वेत्तु ।
अधिषवणम् असि वानस्पत्यम् प्रति त्वाऽदित्यास् त्वग् वेत्तु ।
अग्नेस् तनूर् असि वाचो विसर्जनम्
देववीतये त्वा गृह्णामि ।
अद्रिर् असि वानस्पत्यः
स इदं देवेभ्यो हव्यꣳ सुशमि शमिष्व ।
इषम् आ वदोर्जम् आ वद
द्युमद् वदत
वयꣳ संघातं जेष्म
वर्षवृद्धम् असि
प्रति त्वा वर्षवृद्धं वेत्तु
परापूतꣳ रक्षः परापूता अरातयः ।
रक्षसाम् भागो ऽसि
वायुर् वो वि विनक्तु
देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु ॥

1.1.6 अनुवाक 6 व्रीहिपेषणम्

VERSE: 1
अवधूतꣳ रक्षो ऽवधूता अरातयः ।
अदित्यास् त्वग् असि प्रति त्वा पृथिवी वेत्तु
दिवः स्कम्भनिर् असि प्रति त्वाऽदित्यास् त्वग् वेत्तु
धिषणाऽसि पर्वत्या प्रति त्वा दिव स्कम्भनिर् वेत्तु
धिषणाऽसि पार्वतेयी प्रति त्वा पर्वतिर् वेत्तु
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् अधि वपामि
धान्यम् असि धिनुहि देवान्
प्राणाय त्वापानाय त्वा व्यानाय त्वा
दीर्घाम् अनु प्रसितिम् आयुषे धाम् ।
देवो वः सविता हिरण्यपाणिः प्रति गृह्णातु ॥

1.1.7 अनुवाक 7 कपालोपधानम्

VERSE: 1
धृष्टिर् असि ब्रह्म यच्छ ।
अपाग्ने ऽग्निम् आमादं जहि निष् क्रव्यादꣳ सेधाऽऽ देवयजं वह
निर्दग्धꣳ रक्षो निर्दग्धा अरातयः ।
ध्रुवम् असि पृथिवीं दृꣳहाऽऽयुर् दृꣳह प्रजां दृꣳह सजातान् अस्मै यजमानाय पर्यूह
धर्तम् अस्य् अन्तरिक्षं दृꣳह प्राणं दृꣳहापानं दृꣳह सजातान् अस्मै यजमानाय पर्यूह
धरुणम् असि दिवं दृꣳह चक्षुः

VERSE: 2
दृꣳह श्रोत्रं दृꣳह सजातान् अस्मै यजमानाय पर्यूह
धर्मासि दिशो दृꣳह योनिं दृꣳह प्रजां दृꣳह सजातान् अस्मै यजमानाय पर्यूह
चित स्थ प्रजाम् अस्मै रयिं अस्मै सजातान् अस्मै यजमानाय पर्यूह
भृगूणाम् अङ्गिरसां तपसा तप्यध्वम् ।
यानि घर्मे कपालान्य् उपचिन्वन्ति वेधसः । पूष्णस् तान्य् अपि व्रत इन्द्रवायू वि मुञ्चताम् ॥

1.1.8 अनुवाक 8 संवापादिः

VERSE: 1
सं वपामि
सम् आपो अद्भिर् अग्मत सम् ओषधयो रसेन
सꣳ रेवतीर् जगतीभिर् मधुमतीर् मधुमतीभिः सृज्यध्वम्
अद्भ्यः परि प्रजाता स्थ समद्भिः पृच्यध्वम् ।
जनयत्यै त्वा सं यौमि ।
अग्नये त्वाऽग्नीषोमाभ्याम्
मखस्य शिरो ऽसि
घर्मो ऽसि विश्वायुः ।
उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।
त्वचं गृह्णीष्व ।
अन्तरितꣳ रक्षो ऽन्तरिता अरातयः ।
देवस् त्वा सविता श्रपयतु वर्षिष्ठे अधि नाके ।
अग्निस् ते तनुवम् माऽति धाक् ।
अग्ने हव्यꣳ रक्षस्व
सम् ब्रह्मणा पृच्यस्व ।
एकताय स्वाहा द्विताय स्वाहा त्रिताय स्वाहा ॥

1.1.9 अनुवाक 9 वेदिकरणम्

VERSE: 1
आ ददे ।
इन्द्रस्य बाहुर् असि दक्षिणः सहस्रभृष्टिः शततेजाः ।
वायुर् असि तिग्मतेजाः
पृथिवि देवयजन्य् ओषध्यास् ते मूलम् मा हिꣳसिषम्
अपहतो ऽररुः पृथिव्यै
व्रजं गच्छ गोस्थानम् ।
वर्षतु ते द्यौर्
बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।
अपहतो ऽररुः पृथिव्यै देवयजन्यै
व्रजम्

VERSE: 2
गच्छ गोस्थानम् ।
वर्षतु ते द्यौर्
बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा मौक् ।
अपहतो ऽररुः पृथिव्या अदेवयजनः ।
व्रजं गच्छ गोस्थानम् ।
वर्षतु ते द्यौः ।
बधान देव सवितः परमस्याम् परावति शतेन पाशैर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मस् तम् अतो मा

VERSE: 3
मौक् ।
अररुस् ते दिवं मा स्कान्
वसवस् त्वा परि गृह्णन्तु गायत्रेण छन्दसा रुद्रास् त्वा परि गृह्णन्तु त्रैष्टुभेन छन्दसादित्यास् त्वा परि गृह्णन्तु जागतेन छन्दसा
देवस्य सवितुः सवे कर्म कृण्वन्ति वेधसः ।
ऋतम् अस्य् ऋतसदनम् अस्य् ऋतश्रीर् असि
धा असि स्वधा असि ।
उर्वी चासि वस्वी चासि
पुरा क्रूरस्य विसृपो विरप्शिन्न् उदादाय पृथिवीं जीरदानुर् याम् ऐरयञ् चन्द्रमसि स्वधाभिस् तां धीरासो अनुदृश्य यजन्ते ॥
1.1.10 अनुवाक 10 हविर्ग्रहणम्

VERSE: 1
प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातयः ।
अग्नेर् वस् तेजिष्ठेन तेजसा निष्टपामि
गोष्ठम् मा निर्मृक्षं वाजिनं त्वा सपत्नसहꣳ सम् मार्ज्मि
वाचम् प्राणं चक्षुः श्रोत्रम् प्रजां योनिम् मा निर्मृक्षम् वाजिनीं त्वा सपत्नसाहीꣳ सम् मार्ज्मि ।
आशासाना सौमनसम् प्रजाम् सौभाग्यं तनूम् । अग्नेर् अनुव्रता भूत्वा सं नह्ये सुकृताय कम् ।
सुप्रजसस् त्वा वयꣳ सुपत्नीर् उप

VERSE: 2
सेदिम । अग्ने सपत्नदम्भनम् अदब्धासो अदाभ्यम्
इमं वि ष्यामि वरुणस्य पाशं यम् अबध्नीत सविता सुकेतः । धातुश् च योनौ सुकृतस्य लोके स्योनम् मे सह पत्या करोमि
सम् आयुषा सम् प्रजया सम् अग्ने वर्चसा पुनः । सम् पत्नी पत्याहं गच्छे सम् आत्मा तनुवा मम
महीनाम् पयो ऽस्य् ओषधीनाꣳ रसस् तस्य ते ऽक्षीयमाणस्य निः

VERSE: 3
वपामि
महीनाम् पयो ऽस्य् ओषधीनाꣳ रसो ऽदब्धेन त्वा चक्षुषाऽवेक्षे सुप्रजास्त्वाय
तेजो ऽसि तेजो ऽनु प्रेह्य् अग्निस् ते तेजो मा वि नैत् ।
अग्नेर् जिह्वासि सुभूर् देवानाम् ।
धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भव
शुक्रम् असि ज्योतिर् असि तेजो ऽसि
देवो वः सवितोत् पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः
शुक्रं त्वा शुक्रायां धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि
ज्योतिस् त्वा ज्योतिष्य् अर्चिस् त्वार्चिषि धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे गृह्णामि

1.1.11
अनुवाक 11
हविरासादनादि

VERSE: 1
कृष्णो ऽस्य् आखरेष्ठो ऽग्नये त्वा स्वाहा
वेदिर् असि बर्हिषे त्वा स्वाहा
बर्हिर् असि स्रुग्भ्यस् त्वा स्वाहा
दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वा
स्वधा पितृभ्य ऊर्ग् भव बर्हिषद्भ्यः ।
ऊर्जा पृथिवीं गच्छत
विष्णोः स्तूपो ऽसि ।
ऊर्णाम्रदसं त्वा स्तृणामि स्वासस्थं देवेभ्यः ।
गन्धर्वो ऽसि विश्वावसुर् विश्वस्माद् ईषतो यजमानस्य परिधिर् इड ईडितः ।
इन्द्रस्य बाहुर् असि

VERSE: 2
दक्षिणो यजमानस्य परिधिर् इड ईडितः ।
मित्रावरुणौ त्वोत्तरतः परि धत्तां ध्रुवेण धर्मणा यजमानस्य परिधिर् इड ईडितः
सूर्यस् त्वा पुरस्तात् पातु कस्याश् चिद् अभिशस्त्याः।
वीतिहोत्रं त्वा कवे द्युमन्तꣳ सम् इधीमह्य् अग्ने बृहन्तम् अध्वरे
विशो यन्त्रे स्थः ।
वसूनाꣳ रुद्राणाम् आदित्यानाꣳ सदसि सीद
जुहूर् उपभृद् ध्रुवाऽसि घृताची नाम्ना प्रियेण नाम्ना प्रिये सदसि सीद ।
एता असदन्त् सुकृतस्य लोके
ता विष्णो पाहि
पाहि यज्ञम् पाहि यज्ञपतिम् पाहि मां यज्ञनियम् ॥

1.1.12 अनुवाक 12 आघारः

VERSE: 1
भुवनम् असि वि प्रथस्व ।
अग्ने यष्टर् इदं नमः ।
जुह्व् एह्य् अग्निस् त्वा ह्वयति देवयज्यायै ।
उपभृद् एहि देवस् त्वा सविता ह्वयति देवयज्यायै ।
अग्नाविष्णू मा वाम् अव क्रमिषम् ।
वि जिहाथाम् मा मा सं ताप्तम् ।
लोकम् मे लोककृतौ कृणुतम् ।
विष्णोः स्थानम् असि ।
इत इन्द्रो अकृणोद् वीर्याणि
समारभ्योर्ध्वो अध्वरो दिविस्पृशम्
अह्रुतो यज्ञो यज्ञपतेः ।
इन्द्रावान्त् स्वाहा
बृहद् भाः
पाहि माग्ने दुश्चरिताद् आ मा सुचरिते भज
5मखस्य शिरो ऽसि सं ज्योतिषा ज्योतिर् अङ्क्ताम् ॥

1.1.13 अनुवाक 13 स्रुग्व्यूहनादि

VERSE: 1
वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाꣳ इन्द्रो मे निग्राभेणाधराꣳ अकः ॥
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
वसुभ्यस् त्वा रुद्रेभ्यस् त्वादित्येभ्यस् त्वा ।
अक्तꣳ रिहाणा वियन्तु वयः
प्रजां योनिम् मा निर् मृक्षम्
आ प्यायन्ताम् आप ओषधयः ।
मरुताम् पृषतयः स्थ
दिवम्

VERSE: 2
गच्छ ततो नो वृष्टिम् एरय ।
आयुष्पा अग्ने ऽस्य् आयुर् मे पाहि
चक्षुष्पा अग्ने ऽसि चक्षुर् मे पाहि
ध्रुवाऽसि
यम् परिधिम् पर्यधत्था अग्ने देव पणिभिर् वीयमाणस् तं त एतम् अनु जोषम् भरामि नेद् एष त्वद् अपचेतयातै
यज्ञस्य पाथ उप सम् इतम् ।
सꣳस्रावभागाः स्थेषा बृहन्तः प्रस्तरेष्ठा बर्हिषदश् च ॥

VERSE: 3
देवा इमां वाचम् अभि विश्वे गृणन्त आसद्यास्मिन् बर्हिषि मादयध्वम्
अग्नेर् वाम् अपन्नगृहस्य सदसि सादयामि
सुम्नाय सुम्निनी सुम्ने मा धत्तम् ।
धुरि धुर्यौ पातम्
अग्ने ऽदब्धायो ऽशीततनोपाहि माऽद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितात् ।
अविषं नः पितुं कृणु सुषदा योनिꣳ स्वाहा
देवा गातुविदो गातुं वित्त्वा गातुम् इत
मनसस् पत इमं नो देव देवेषु यज्ञꣳ स्वाहा वाचि स्वाहा वाते धाः ॥

1.1.14 अनुवाक 14 काम्येष्टियाज्यापुरोनुवाक्या

VERSE: 1
उभा वाम् इन्द्राग्नी आहुवध्या उभा राधसः सह मादयध्यै । उभा दाताराव् इषाꣳ रयीणाम् उभा वाजस्य सातये हुवे वाम् ॥
अश्रवꣳ हि भूरिदावत्तरा वां विजामातुर् उत वा घा स्यालात् । अथा सोमस्य प्रयती युवभ्याम् इन्द्राग्नी स्तोमं जनयामि नव्यम् ॥
इन्द्राग्नी नवतिम् पुरो दासपत्नीर् अधूनुतम् । साकम् एकेन कर्मणा ॥
शुचिं नु स्तोमं नवजातं अद्येन्द्राग्नी वृत्रहणा जुषेथाम् ॥

VERSE: 2
उभा हि वाꣳ सुहवा जोहवीमि ता वाजꣳ सद्य उशते धेष्ठा ॥
वयम् उ त्वा पथस् पते रथं न वाजसातये । धिये पूषन्न् अयुज्महि ॥
पथस्पथः परिपतिं वचस्या कामेन कृतो अभ्य् आनड् अर्कम् । स नो रासच् छुरुधश् चन्द्राग्रा धियं धियꣳ सीषधाति प्र पूषा ॥
क्षेत्रस्य पतिना वयं हितेनेव जयामसि । गाम् अश्वम् पोषयित्न्व् आ स नः

VERSE: 3
मृडातीदृशे ॥
क्षेत्रस्य पते मधुमन्तमूर्मिं धेनुर् इव पयो अस्मासु धुक्ष्व । मधुश्चुतं घृतम् इव सुपूतम् ऋतस्य नः पतयो मृडयन्तु ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमउक्तिं विधेम ॥
आ देवानाम् अपि पन्थाम् अगन्म यच् छक्नवाम तद् अनु प्रवोढुम् । अग्निर् विद्वान्त् स यजात्

VERSE: 4
सेद् उ होता सो अध्वरान्त् स ऋतून् कल्पयाति ॥
यद् वाहिष्ठं तद् अग्नये बृहद् अर्च विभावसो । महिषीव त्वद् रयिस् त्वद् वाजा उद् ईरते ॥
अग्ने त्वम् पारया नव्यो अस्मान्त् स्वस्तिभिर् अति दुर्गाणि विश्वा । पूश् च पृथ्वी बहुला न उर्वी भवा तोकाय तनयाय शं योः ॥
त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ । त्वं यज्ञेष्व् ईड्यः ॥
यद् वो वयम् प्रमिनाम व्रतानि विदुषां देवा अविदुष्टरासः । अग्निष् टद् विश्वम् आ पृणाति विद्वान् येभिर् देवां ऋतुभिः कल्पयाति ॥