तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः २
1.2 प्रपाठक: 2
1.2.1 अनुवाक 1 यजमानस्य क्षौरादिसंस्काराः
1 आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे । ओषधे त्रायस्वैनम् । स्वधिते मैनꣳ हिꣳसीः । देवश्रूर् एतानि प्र वपे स्वस्त्य् उत्तराण्य् अशीय । आपो अस्मान् मातरः शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु । विश्वम् अस्मत् प्र वहन्तु रिप्रम् उद् आभ्यः शुचिर् आ पूत एमि सोमस्य तनूर् असि तनुवम् मे पाहि महीनाम् पयो ऽसि वर्चोधा असि वर्चः
2 मयि धेहि वृत्रस्य कनीनिकाऽसि चक्षुष्पा असि चक्षुर् मे पाहि चित्पतिस् त्वा पुनातु वाक्पतिस् त्वा पुनातु देवस् त्वा सविता पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभि तस्य ते पवित्रपते पवित्रेण यस्मै कम् पुने तच्छकेयम् आ वो देवास ईमहे सत्यधर्माणो अध्वरे यद् वो देवास आगुरे यज्ञियासो हवामहे । इन्द्राग्नी द्यावापृथिवी आप ओषधीस् त्वं दीक्षाणाम् अधिपतिर् असीह मा सन्तम् पाहि ॥
1.2.2 अनुवाक 2 दीक्षा
1 आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहा । आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी उर्व् अन्तरिक्षम् बृहस्पतिर् नो हविषा वृधातु स्वाहा विश्वे देवस्य नेतुर् मर्तो वृणीत सख्यं । विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा । ऋक्सामयोः शिल्पे स्थस् ते वाम् आ रभे ते मा
2 पातमाऽस्य यज्ञस्योदृचः । इमां धियꣳ शिक्षमाणस्य देव क्रतुं दक्षं वरुण सꣳ शिशाधि । ययाऽति विश्वा दुरिता तरेम सुतर्माणम् अधि नावꣳ रुहेम । ऊर्ग् अस्य् आङ्गिरस्य् ऊर्णम्रदा ऊर्जम् मे यच्छ पाहि मा मा मा हिꣳसीः । विष्णोः शर्माऽसि शर्म यजमानस्य शर्म मे यच्छ नक्षत्राणाम् माऽतीकाशात् पाहि । इन्द्रस्य योनिर् असि ॥
3 मा मा हिꣳसीः कृष्यै त्वा सुसस्यायै सुपिप्पलाभ्यस् त्वौषधीभ्यः सूपस्था देवो वनस्पतिर् ऊर्ध्वो मा पाह्य् ओदृचः स्वाहा यज्ञम् मनसा स्वाहा द्यावापृथिवीभ्याꣳ स्वाहोरोर् अन्तरिक्षात् स्वाहा यज्ञं वाताद् आ रभे ॥
1.2.3 अनुवाक 3 देवयजनस्वीकारः
1 दैवीं धियम् मनामहे सुमृडीकाम् अभिष्टये । वर्चोधां यज्ञवाहसꣳ सुपारा नो असद् वशे ॥ ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस् ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा । अग्ने त्वꣳ सु जागृहि वयꣳ सु मन्दिषीमहि । गोपाय नः स्वस्तये प्रबुधे नः पुनर् ददः ॥ त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ त्वं
2 यज्ञेष्व् ईड्यः ॥ विश्वे देवा अभि माम् आऽववृत्रन् पूषा सन्या सोमो राधसा देवः सविता वसोर् वसुदावा
रास्वेयत् सोमाऽऽभूयो भर मा पृणन् पूर्त्या वि राधि माऽहम् आयुषा चन्द्रम् असि मम भोगाय भव वस्त्रम् असि मम भोगाय भवोस्राऽसि मम भोगाय भव हयो ऽसि मम भोगाय भव ॥
3 छागो ऽसि मम भोगाय भव मेषो ऽसि मम भोगाय भव वायवे त्वा वरुणाय त्वा निर्ऋत्यै त्वा रुद्राय त्वा देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं वो माव क्रमिषम् अच्छिन्नं तन्तुम् पृथिव्या अनु गेषम् भद्राद् अभि श्रेयः प्रेहि बृहस्पतिः पुरएता ते अस्त्व् अथेम् अव स्य वर आ पृथिव्या आरे शत्रून् कृणुहि सर्ववीरः । एदम् अगन्म देवयजनम् पृथिव्या विश्वे देवा यद् अजुषन्त पूर्व ऋक्सामाभ्यां यजुषा संतरन्तो रायस् पोषेण सम् इषा मदेम ॥
1.2.4 अनुवाक 4 सोमक्रयणीहोमादि
1 इयं ते शुक्र तनूर् इदं वर्चस् तया सम् भव भ्राजं गच्छ जूर् असि धृता मनसा जुष्टा विष्णवे तस्यास् ते सत्यसवसः प्रसवे वाचो यन्त्रम् अशीय स्वाहा शुक्रम् अस्य् अमृतम् असि वैश्वदेवꣳ हविः सूर्यस्य चक्षुर् आरुहम् अग्नेर् अक्ष्णः कनीनिकां यद् एतशेभिर् ईयसे भ्राजमानो विपश्चिता चिद् असि मनाऽसि धीर् असि दक्षिणा
2 असि यज्ञियाऽसि क्षत्रियाऽस्य् अदितिर् अस्य् उभयतःशीर्ष्णी सा नः सुप्राची सुप्रतीची सम् भव मित्रस् त्वा पदि बध्नातु पूषाऽध्वनः पातु । इन्द्रायाध्यक्षाय । अनु त्वा माता मन्यताम् अनु पिताऽनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः सा देवि देवम् अच्छेहीन्द्राय सोमम् । रुद्रस् त्वा वर्तयतु मित्रस्य पथा स्वस्ति सोमसखा पुनर् एहि सह रय्या ॥
1.2.5
अनुवाक 5 सोमक्रयण्याः पदसंग्रहः
1 वस्व्य् असि रुद्राऽस्य् अदितिर् अस्य् आदित्याऽसि शुक्राऽसि चन्द्राऽसि बृहस्पतिस् त्वा सुम्ने रण्वतु रुद्रो वसुभिर् आ चिकेतु पृथिव्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहा परिलिखितꣳ रक्षः परिलिखिता अरातय इदम् अहꣳ रक्षसो ग्रीवा अपि कृन्तामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् अस्य ग्रीवाः
2 अपि कृन्तामि । अस्मे रायस् त्वे रायस् तोते रायः सं देवि देव्योर्वश्या पश्यस्व त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव संदृशि माहꣳ रायस् पोषेण वि योषम् ॥
1.2.6 अनुवाक 6 सोमोन्मानम्
1 अꣳशुना ते अꣳशुः पृच्यताम् परुषा परुर् गन्धस् ते कामम् अवतु मदाय रसो अच्युतो ऽमात्यो ऽसि शुक्रस् ते ग्रहः । अभि त्यं देवꣳ सवितारमूण्योः कविक्रतुम् अर्चामि सत्यसवसꣳ रत्नधाम् अभि प्रियम् मतिम् । ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा सुवः ॥ प्रजाभ्यस् त्वा प्राणाय त्वा व्यानाय त्वा प्रजास् त्वम् अनु प्राणिहि प्रजास् त्वाम् अनु प्राणन्तु ॥
1.2.7 अनुवाक 7 सोमक्रयः
1 सोमं ते क्रीणाम्य् ऊर्जस्वन्तम् पयस्वन्तं वीर्यावन्तम् अभिमातिषाहꣳ शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतम् अमृतेन सम्यत् ते गोः । अस्मे चन्द्राणि तपसस् तनूर् असि प्रजापतेर् वर्णस् तस्यास् ते सहस्रपोषम् पुष्यन्त्याश्चरमेण पशुना क्रीणामि । अस्मे ते बन्धुर् मयि ते रायः श्रयन्ताम् अस्मे ज्योतिः सोमविक्रयिणि तमः । मित्रो न एहि सुमित्रधा । इन्द्रस्योरुम् आ विश दक्षिणम् उशन्न् उशन्तꣳ स्योनः स्योनम् । स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान् रक्षध्वम् मा वो दभन् ॥
1.2.8 अनुवाक 8 सोमस्य शकटारोपणम्
1 उदायुषा स्वायुषोदोषधीनाꣳ रसेनोत् पर्जन्यस्य शुष्मेणोदस्थाम् अमृताꣳ अनु । उर्व् अन्तरिक्षम् अन्व् इहि । अदित्याः सदो ऽसि । अदित्याः सद आ सीद । अस्तभ्नाद् द्याम् ऋषभो अन्तरिक्षम् अमिमीत वरिमाणम् पृथिव्या आऽसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥ वनेषु व्यन्तरिक्षं ततान वाजम् अर्वत्सु पयो अघ्नियासु हृत्सु
2 क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ । उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ उस्राव् एतं धूर्षाहाव् अनश्रू अवीरहणौ ब्रह्मचोदनौ वरुणस्य स्कम्भनम् असि वरुणस्य स्कम्भसर्जनम् असि प्रत्यस्तो वरुणस्य पाशः ॥
1.2.9 अनुवाक 9 सोमस्य प्राचीनवंशं प्रति गमनम्
1 प्र च्यवस्व भुवस् पते विश्वान्य् अभि धामानि मा त्वा परिपरी विदन् मा त्वा परिपन्थिनो विदन् मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुर् आ दघत् । श्येनो भूत्वा परा पत यजमानस्य नो गृहे देवैः सꣳस्कृतं यजमानस्य स्वस्त्ययन्य् असि । अपि पन्थाम् अगस्महि स्वस्तिगाम् अनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतꣳ सपर्यत दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शꣳसत ॥ वरुणस्य स्कम्भनम् असि वरुणस्य स्कम्भसर्जनम् असि । उन्मुक्तो वरुणस्य पाशः ॥
1.2.10 अनुवाक 10 तानूनप्त्रम्
1 अग्नेर् आतिथ्यम् असि विष्णवे त्वा सोमस्याऽऽतिथ्यम् असि विष्णवे त्वाऽतिथेर् आतिथ्यम् असि विष्णवे त्वाऽग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् ॥ अदित्याः सदो ऽस्य् अदित्याः सद आ
2 सीद वरुणो ऽसि धृतव्रतो वारुणम् असि शंयोर् देवानाꣳ सख्यान् मा देवानाम् अपसश् छित्स्महि । आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्न् ओजिष्ठाय त्वा गृह्णामि । अनाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजो ऽभिषस्तिपा अनभिशस्तेन्यम् अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिर् अञ्जसा सत्यम् उप गेषꣳ सुविते मा धाः ॥
1.2.11 अनुवाक 11 सौमिकी वेदिः (अवान्तरदीक्षा, उपसदः)
1 अꣳशुरꣳशुस् ते देव सोमाऽऽ प्यायताम् इन्द्रायैकधनविद आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व । आऽऽ प्यायय सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय । एष्टा रायः प्रेषे भगायर्तम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्यै । अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि या मम तनूर् एषा सा त्वयि ॥
2 या तव तनूर् इयꣳ सा मयि सह नौ व्रतपते व्रतिनोर् व्रतानि या ते अग्ने रुद्रिया तनूस् तया नः पाहि तस्यास् ते स्वाहा या ते अग्ने ऽयाशया रजाशया हराशया तनूर् वर्षिष्ठा गह्वरे ष्ठा । उग्रं वचो अपावधीं त्वेषं वचो अपावधीꣳ स्वाहा ॥
1.2.12 अनुवाक 12 उत्तरवेदिः
1 वित्तायनी मे ऽसि तिक्तायनी मे ऽस्य् अवतान् मा नाथितम् अवतान् मा व्यथितम् । विदेर् अग्निर् नभो नाम । अग्ने अङ्गिरो यो ऽस्याम् पृथिव्याम् अस्य् आयुषा नाम्नेहि यत् ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे । अग्ने अङ्गिरो यो द्वितीयस्यां तृतीयस्याम् पृथिव्याम् अस्य् आयुषा नाम्नेहि यत् ते ऽनाधृष्टं नाम ॥
2 यज्ञियं तेन त्वाऽऽ दधे सिꣳहीर् असि महिषीर् असि । उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् । ध्रुवाऽसि देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व । इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पातु मनोजवास् त्वा पितृभिर् दक्षिणतः पातु प्रचेतास् त्वा रुद्रैः पश्चात् पातु विश्वकर्मा त्वाऽऽदित्यैर् उत्तरतः पातु सिꣳहीर् असि सपत्नसाही स्वाहा सिꣳहीर् असि सुप्रजावनिः स्वाहा सिꣳहीः ॥
3 असि रायस्पोषवनिः स्वाहा सिꣳहीर् अस्य् आदित्यवनिः स्वाहा सिꣳहीर् अस्य् आ वह देवान् देवयते यजमानाय स्वाहा भूतेभ्यस् त्वा विश्वायुर् असि पृथिवीं दृꣳह ध्रुवक्षिद् अस्य् अन्तरिक्षं दृꣳहाच्युतक्षिद् असि दिवं दृꣳह । अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि ॥
1.2.13 अनुवाक 13 हविर्धानम्
1 युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ॥ सुवाग् देव दुर्याꣳ आ वद देवश्रुतौ देवेष्व् आ घोषेथाम् आ नो वीरो जायतां कर्मण्यो यꣳ सर्वे ऽनुजीवाम यो बहूनाम् असद् वशी । इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् । समूढम् अस्य ॥
2 पाꣳसुरे इरावरी धेनुमती हि भूतꣳ सूयवसिनी मनवे यशस्ये । व्यस्कभ्नाद् रोदसी विष्णुर् एते दाधार पृथिवीम् अभितो मयूखैः ॥ प्राची प्रेतम् अध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतम् मा जीह्वरतम् अत्र रमेथां वर्ष्मन् पृथिव्या । दिवो वा विष्णव् उत वा पृथिव्या महो वा विष्णव् उत वान्तरिक्षाद्धस्तौ पृणस्व बहुभिर् वसव्यैर् आ प्र यच्छ ॥
3 दक्षिणादोत सव्यात् ॥ विष्णोर् नुकं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाꣳसि यो अस्कभायद् उत्तरꣳ सधस्थं विचक्रमाणस् त्रेधोरुगायो । विष्णो रराटम् असि विष्णोः पृष्ठम् असि विष्णोः श्न्यप्त्रे स्थः । विष्णोः स्यूर् असि विष्णोर् ध्रुवम् असि वैष्णवम् असि विष्णवे त्वा ॥
1.2.14 अनुवाक 14 काम्येष्टियाज्यापुरोनुवाक्याः
1 कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाꣳ इभेन । तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥ तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । तपूꣳष्य् अग्ने जुह्वा पतंगान् असंदितो वि सृज विष्वग् उल्काः ॥ प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः । यो नो दूरे अघशꣳसः ॥
2 यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥ उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राꣳ ओषतात् तिग्महेते । यो नो अरातिꣳ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥ ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । अव स्थिरा तनुहि यातुजूनां जामिम् {W जामिं} अजामिम् प्र मृणीहि शत्रून् ॥ स ते
3 जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् । विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ॥ सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः । पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥ अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम्
4 इयं गीः । स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥ इह त्वा भूर्य् आ चरेद् उप त्मन् दोषावस्तर् दीदिवाꣳसम् अनु द्यून् । क्रीडन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवाꣳसो जनानाम् ॥ यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥ महो रुजामि
5 बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय । त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥ अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः । ते पायवः सध्रियञ्चो निषद्याऽग्ने तव नः पान्त्व् अमूर ॥ ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । ररक्ष तान्त् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो ना ह
6 देभुः ॥ त्वया वयꣳ सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् । उभा शꣳसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥ अया ते अग्ने समिधा विधेम प्रति स्तोमꣳ शस्यमानं गृभाय । दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥ रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रतिष्ठम् {W प्रथिष्ठम्} उप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा
7 स रिषः पातु नक्तम् ॥ वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥ उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ । मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥
1.2.1 अनुवाक 1 यजमानस्य क्षौरादिसंस्काराः
1
आप उन्दन्तु जीवसे दीर्घायुत्वाय वर्चसे ।
ओषधे त्रायस्वैनम् ।
स्वधिते मैनꣳ हिꣳसीः ।
देवश्रूर् एतानि प्र वपे
स्वस्त्य् उत्तराण्य् अशीय ।
आपो अस्मान् मातरः शुन्धन्तु घृतेन नो घृतपुवः पुनन्तु । विश्वम् अस्मत् प्र वहन्तु रिप्रम् उद् आभ्यः शुचिर् आ पूत एमि
सोमस्य तनूर् असि तनुवम् मे पाहि
महीनाम् पयो ऽसि वर्चोधा असि वर्चः
2
मयि धेहि
वृत्रस्य कनीनिकाऽसि चक्षुष्पा असि चक्षुर् मे पाहि
चित्पतिस् त्वा पुनातु वाक्पतिस् त्वा पुनातु देवस् त्वा सविता पुनात्व् अच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभि
तस्य ते पवित्रपते पवित्रेण यस्मै कम् पुने तच्छकेयम्
आ वो देवास ईमहे सत्यधर्माणो अध्वरे यद् वो देवास आगुरे यज्ञियासो हवामहे ।
इन्द्राग्नी द्यावापृथिवी आप ओषधीस्
त्वं दीक्षाणाम् अधिपतिर् असीह मा सन्तम् पाहि ॥
1.2.2 अनुवाक 2 दीक्षा
1
आकूत्यै प्रयुजे ऽग्नये स्वाहा मेधायै मनसे ऽग्नये स्वाहा दीक्षायै तपसे ऽग्नये स्वाहा सरस्वत्यै पूष्णे ऽग्नये स्वाहा ।
आपो देवीर् बृहतीर् विश्वशम्भुवो द्यावापृथिवी उर्व् अन्तरिक्षम् बृहस्पतिर् नो हविषा वृधातु स्वाहा
विश्वे देवस्य नेतुर् मर्तो वृणीत सख्यं । विश्वे राय इषुध्यसि द्युम्नं वृणीत पुष्यसे स्वाहा ।
ऋक्सामयोः शिल्पे स्थस् ते वाम् आ रभे ते मा
2
पातमाऽस्य यज्ञस्योदृचः ।
इमां धियꣳ शिक्षमाणस्य देव क्रतुं दक्षं वरुण सꣳ शिशाधि । ययाऽति विश्वा दुरिता तरेम सुतर्माणम् अधि नावꣳ रुहेम ।
ऊर्ग् अस्य् आङ्गिरस्य् ऊर्णम्रदा ऊर्जम् मे यच्छ पाहि मा मा मा हिꣳसीः ।
विष्णोः शर्माऽसि शर्म यजमानस्य शर्म मे यच्छ
नक्षत्राणाम् माऽतीकाशात् पाहि ।
इन्द्रस्य योनिर् असि ॥
3
मा मा हिꣳसीः
कृष्यै त्वा सुसस्यायै
सुपिप्पलाभ्यस् त्वौषधीभ्यः
सूपस्था देवो वनस्पतिर् ऊर्ध्वो मा पाह्य् ओदृचः
स्वाहा यज्ञम् मनसा स्वाहा द्यावापृथिवीभ्याꣳ स्वाहोरोर् अन्तरिक्षात् स्वाहा यज्ञं वाताद् आ रभे ॥
1.2.3 अनुवाक 3 देवयजनस्वीकारः
1
दैवीं धियम् मनामहे सुमृडीकाम् अभिष्टये । वर्चोधां यज्ञवाहसꣳ सुपारा नो असद् वशे ॥
ये देवा मनोजाता मनोयुजः सुदक्षा दक्षपितारस् ते नः पान्तु ते नो ऽवन्तु तेभ्यो नमस् तेभ्यः स्वाहा ।
अग्ने त्वꣳ सु जागृहि वयꣳ सु मन्दिषीमहि । गोपाय नः स्वस्तये प्रबुधे नः पुनर् ददः ॥
त्वम् अग्ने व्रतपा असि देव आ मर्त्येष्व् आ त्वं
2
यज्ञेष्व् ईड्यः ॥
विश्वे देवा अभि माम् आऽववृत्रन् पूषा सन्या सोमो राधसा देवः सविता वसोर् वसुदावा
रास्वेयत् सोमाऽऽभूयो भर
मा पृणन् पूर्त्या वि राधि माऽहम् आयुषा
चन्द्रम् असि मम भोगाय भव वस्त्रम् असि मम भोगाय भवोस्राऽसि मम भोगाय भव हयो ऽसि मम भोगाय भव ॥
3
छागो ऽसि मम भोगाय भव मेषो ऽसि मम भोगाय भव
वायवे त्वा वरुणाय त्वा निर्ऋत्यै त्वा रुद्राय त्वा
देवीर् आपो अपां नपाद् य ऊर्मिर् हविष्य इन्द्रियावान् मदिन्तमस् तं वो माव क्रमिषम्
अच्छिन्नं तन्तुम् पृथिव्या अनु गेषम्
भद्राद् अभि श्रेयः प्रेहि
बृहस्पतिः पुरएता ते अस्त्व् अथेम् अव स्य वर आ पृथिव्या आरे शत्रून् कृणुहि सर्ववीरः ।
एदम् अगन्म देवयजनम् पृथिव्या विश्वे देवा यद् अजुषन्त पूर्व ऋक्सामाभ्यां यजुषा संतरन्तो रायस् पोषेण सम् इषा मदेम ॥
1.2.4 अनुवाक 4 सोमक्रयणीहोमादि
1
इयं ते शुक्र तनूर् इदं वर्चस् तया सम् भव भ्राजं गच्छ
जूर् असि धृता मनसा जुष्टा विष्णवे
तस्यास् ते सत्यसवसः प्रसवे वाचो यन्त्रम् अशीय स्वाहा
शुक्रम् अस्य् अमृतम् असि वैश्वदेवꣳ हविः
सूर्यस्य चक्षुर् आरुहम् अग्नेर् अक्ष्णः कनीनिकां यद् एतशेभिर् ईयसे भ्राजमानो विपश्चिता
चिद् असि मनाऽसि धीर् असि दक्षिणा
2
असि यज्ञियाऽसि क्षत्रियाऽस्य् अदितिर् अस्य् उभयतःशीर्ष्णी
सा नः सुप्राची सुप्रतीची सम् भव
मित्रस् त्वा पदि बध्नातु
पूषाऽध्वनः पातु ।
इन्द्रायाध्यक्षाय ।
अनु त्वा माता मन्यताम् अनु पिताऽनु भ्राता सगर्भ्यो ऽनु सखा सयूथ्यः
सा देवि देवम् अच्छेहीन्द्राय सोमम् ।
रुद्रस् त्वा वर्तयतु मित्रस्य पथा
स्वस्ति सोमसखा पुनर् एहि सह रय्या ॥
1.2.5
अनुवाक 5
सोमक्रयण्याः पदसंग्रहः
1
वस्व्य् असि रुद्राऽस्य् अदितिर् अस्य् आदित्याऽसि शुक्राऽसि चन्द्राऽसि
बृहस्पतिस् त्वा सुम्ने रण्वतु रुद्रो वसुभिर् आ चिकेतु
पृथिव्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजन इडायाः पदे घृतवति स्वाहा
परिलिखितꣳ रक्षः परिलिखिता अरातय इदम् अहꣳ रक्षसो ग्रीवा अपि कृन्तामि
यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इदम् अस्य ग्रीवाः
2
अपि कृन्तामि ।
अस्मे रायस् त्वे रायस् तोते रायः
सं देवि देव्योर्वश्या पश्यस्व
त्वष्टीमती ते सपेय सुरेता रेतो दधाना वीरं विदेय तव संदृशि
माहꣳ रायस् पोषेण वि योषम् ॥
1.2.6 अनुवाक 6 सोमोन्मानम्
1
अꣳशुना ते अꣳशुः पृच्यताम् परुषा परुर् गन्धस् ते कामम् अवतु मदाय रसो अच्युतो ऽमात्यो ऽसि शुक्रस् ते ग्रहः ।
अभि त्यं देवꣳ सवितारमूण्योः कविक्रतुम् अर्चामि सत्यसवसꣳ रत्नधाम् अभि प्रियम् मतिम् । ऊर्ध्वा यस्यामतिर् भा अदिद्युतत् सवीमनि हिरण्यपाणिर् अमिमीत सुक्रतुः कृपा सुवः ॥
प्रजाभ्यस् त्वा प्राणाय त्वा व्यानाय त्वा प्रजास् त्वम् अनु प्राणिहि प्रजास् त्वाम् अनु प्राणन्तु ॥
1.2.7 अनुवाक 7 सोमक्रयः
1
सोमं ते क्रीणाम्य् ऊर्जस्वन्तम् पयस्वन्तं वीर्यावन्तम् अभिमातिषाहꣳ शुक्रं ते शुक्रेण क्रीणामि चन्द्रं चन्द्रेणामृतम् अमृतेन सम्यत् ते गोः ।
अस्मे चन्द्राणि
तपसस् तनूर् असि प्रजापतेर् वर्णस् तस्यास् ते सहस्रपोषम् पुष्यन्त्याश्चरमेण पशुना क्रीणामि ।
अस्मे ते बन्धुर् मयि ते रायः श्रयन्ताम्
अस्मे ज्योतिः सोमविक्रयिणि तमः ।
मित्रो न एहि सुमित्रधा ।
इन्द्रस्योरुम् आ विश दक्षिणम् उशन्न् उशन्तꣳ स्योनः स्योनम् ।
स्वान भ्राजाङ्घारे बम्भारे हस्त सुहस्त कृशानवेते वः सोमक्रयणास्तान् रक्षध्वम् मा वो दभन् ॥
1.2.8 अनुवाक 8 सोमस्य शकटारोपणम्
1
उदायुषा स्वायुशोदोषधीनाꣳ रसेनोत् पर्जन्यस्य शुष्मेणोदस्थाम् अमृताꣳ अनु ।
उर्व् अन्तरिक्षम् अन्व् इहि ।
अदित्याः सदो ऽसि ।
अदित्याः सद आ सीद ।
अस्तभ्नाद् द्याम् ऋषभो अन्तरिक्षम् अमिमीत वरिमाणम् पृथिव्या आऽसीदद् विश्वा भुवनानि सम्राड् विश्वेत् तानि वरुणस्य व्रतानि ॥
वनेषु व्यन्तरिक्षं ततान वाजम् अर्वत्सु पयो अघ्नियासु हृत्सु
2
क्रतुं वरुणो विक्ष्व् अग्निं दिवि सूर्यम् अदधात् सोमम् अद्रौ ।
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
उस्राव् एतं धूर्षाहाव् अनश्रू अवीरहणौ ब्रह्मचोदनौ
वरुणस्य स्कम्भनम् असि
वरुणस्य स्कम्भसर्जनम् असि
प्रत्यस्तो वरुणस्य पाशः ॥
1.2.9 अनुवाक 9 सोमस्य प्राचीनवंशं प्रति गमनम्
1
प्र च्यवस्व भुवस् पते विश्वान्य् अभि धामानि मा त्वा परिपरी विदन् मा त्वा परिपन्थिनो विदन् मा त्वा वृका अघायवो मा गन्धर्वो विश्वावसुर् आ दघत् ।
श्येनो भूत्वा परा पत यजमानस्य नो गृहे देवैः सꣳस्कृतं यजमानस्य स्वस्त्ययन्य् असि ।
अपि पन्थाम् अगस्महि स्वस्तिगाम् अनेहसं येन विश्वाः परि द्विषो वृणक्ति विन्दते वसु
नमो मित्रस्य वरुणस्य चक्षसे महो देवाय तद् ऋतꣳ सपर्यत दूरेदृशे देवजाताय केतवे दिवस् पुत्राय सूर्याय शꣳसत ॥
वरुणस्य स्कम्भनम् असि
वरुणस्य स्कम्भसर्जनम् असि ।
उन्मुक्तो वरुणस्य पाशः ॥
1.2.10
अनुवाक 10
तानूनप्त्रम्
1
अग्नेर् आतिथ्यम् असि विष्णवे त्वा सोमस्याऽऽतिथ्यम् असि विष्णवे त्वाऽतिथेर् आतिथ्यम् असि विष्णवे त्वाऽग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वा श्येनाय त्वा सोमभृते विष्णवे त्वा
या ते धामानि हविषा यजन्ति ता ते विश्वा परिभूर् अस्तु यज्ञम् । गयस्फानः प्रतरणः सुवीरो ऽवीरहा प्र चरा सोम दुर्यान् ॥
अदित्याः सदो ऽस्य् अदित्याः सद आ
2
सीद
वरुणो ऽसि धृतव्रतो वारुणम् असि
शंयोर् देवानाꣳ सख्यान् मा देवानाम् अपसश् छित्स्महि ।
आपतये त्वा गृह्णामि परिपतये त्वा गृह्णामि तनूनप्त्रे त्वा गृह्णामि शाक्वराय त्वा गृह्णामि शक्मन्न् ओजिष्ठाय त्वा गृह्णामि ।
अनाधृष्टम् अस्य् अनाधृष्यं देवानाम् ओजो ऽभिषस्तिपा अनभिशस्तेन्यम्
अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिर् अञ्जसा सत्यम् उप गेषꣳ सुविते मा धाः ॥
1.2.11
अनुवाक 11
सौमिकी वेदिः (अवान्तरदीक्षा, उपसदः)
1
अꣳशुरꣳशुस् ते देव सोमाऽऽ प्यायताम् इन्द्रायैकधनविद आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्व ।
आऽऽ प्यायय सखीन्त् सन्या मेधया स्वस्ति ते देव सोम सुत्याम् अशीय ।
एष्टा रायः प्रेषे भगायर्तम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्यै ।
अग्ने व्रतपते त्वं व्रतानां व्रतपतिर् असि या मम तनूर् एषा सा त्वयि ॥
2
या तव तनूर् इयꣳ सा मयि सह नौ व्रतपते व्रतिनोर् व्रतानि
या ते अग्ने रुद्रिया तनूस् तया नः पाहि तस्यास् ते स्वाहा
या ते अग्ने ऽयाशया रजाशया हराशया तनूर् वर्षिष्ठा गह्वरे ष्ठा ।
उग्रं वचो अपावधीं त्वेषं वचो अपावधीꣳ स्वाहा ॥
1.2.12
अनुवाक 12
उत्तरवेदिः
1
वित्तायनी मे ऽसि तिक्तायनी मे ऽस्य् अवतान् मा नाथितम् अवतान् मा व्यथितम् ।
विदेर् अग्निर् नभो नाम ।
अग्ने अङ्गिरो यो ऽस्याम् पृथिव्याम् अस्य् आयुषा नाम्नेहि यत् ते ऽनाधृष्टं नाम यज्ञियं तेन त्वा दधे ।
अग्ने अङ्गिरो यो द्वितीयस्यां तृतीयस्याम् पृथिव्याम् अस्य् आयुषा नाम्नेहि यत् ते ऽनाधृष्टं नाम ॥
2
यज्ञियं तेन त्वाऽऽ दधे
सिꣳहीर् असि महिषीर् असि ।
उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् ।
ध्रुवाऽसि
देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्व ।
इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पातु मनोजवास् त्वा पितृभिर् दक्षिणतः पातु प्रचेतास् त्वा रुद्रैः पश्चात् पातु विश्वकर्मा त्वाऽऽदित्यैर् उत्तरतः पातु
सिꣳहीर् असि सपत्नसाही स्वाहा सिꣳहीर् असि सुप्रजावनिः स्वाहा सिꣳहीः ॥
3
असि रायस्पोषवनिः स्वाहा सिꣳहीर् अस्य् आदित्यवनिः स्वाहा सिꣳहीर् अस्य् आ वह देवान् देवयते यजमानाय स्वाहा
भूतेभ्यस् त्वा
विश्वायुर् असि पृथिवीं दृꣳह ध्रुवक्षिद् अस्य् अन्तरिक्षं दृꣳहाच्युतक्षिद् असि दिवं दृꣳह ।
अग्नेर् भस्मास्य् अग्नेः पुरीषम् असि ॥
1.2.13
अनुवाक 13
हविर्धानम्
1
युञ्जते मन उत युञ्जते धियो विप्रा विप्रस्य बृहतो विपश्चितः । वि होत्रा दधे वयुनाविद् एक इन् मही देवस्य सवितुः परिष्टुतिः ॥
सुवाग् देव दुर्याꣳ आ वद
देवश्रुतौ देवेष्व् आ घोषेथाम्
आ नो वीरो जायतां कर्मण्यो यꣳ सर्वे ऽनुजीवाम यो बहूनाम् असद् वशी ।
इदं विष्णुर् वि चक्रमे त्रेधा नि दधे पदम् । समूढम् अस्य ॥
2
पाꣳसुरे
इरावरी धेनुमती हि भूतꣳ सूयवसिनी मनवे यशस्ये । व्यस्कभ्नाद् रोदसी विष्णुर् एते दाधार पृथिवीम् अभितो मयूखैः ॥
प्राची प्रेतम् अध्वरं कल्पयन्ती ऊर्ध्वं यज्ञं नयतम् मा जीह्वरतम् अत्र रमेथां वर्ष्मन् पृथिव्या ।
दिवो वा विष्णव् उत वा पृथिव्या महो वा विष्णव् उत वान्तरिक्षाद्धस्तौ पृणस्व बहुभिर् वसव्यैर् आ प्र यच्छ ॥
3
दक्षिणादोत सव्यात् ॥
विष्णोर् नुकं वीर्याणि प्र वोचं यः पार्थिवानि विममे रजाꣳसि यो अस्कभायद् उत्तरꣳ सधस्थं विचक्रमाणस् त्रेधोरुगायो ।
विष्णो रराटम् असि विष्णोः पृष्ठम् असि
विष्णोः श्न्यप्त्रे स्थः ।
विष्णोः स्यूर् असि
विष्णोर् ध्रुवम् असि
वैष्णवम् असि विष्णवे त्वा ॥
1.2.14
अनुवाक 14
काम्येष्टियाज्यापुरोनुवाक्याः
1
कृणुष्व पाजः प्रसितिं न पृथ्वीं याहि राजेवामवाꣳ इभेन । तृष्वीम् अनु प्रसितिं द्रूणानो ऽस्तासि विध्य रक्षसस् तपिष्ठैः ॥
तव भ्रमास आशुया पतन्त्य् अनु स्पृश धृषता शोशुचानः । तपूꣳष्य् अग्ने जुह्वा पतंगान् असंदितो वि सृज विष्वग् उल्काः ॥
प्रति स्पशो वि सृज तूर्णितमो भवा पायुर् विशो अस्या अदब्धः । यो नो दूरे अघशꣳसः ॥
2
यो अन्त्य् अग्ने माकिष् टे व्यथिर् आ दधर्षीत् ॥
उद् अग्ने तिष्ठ प्रत्य् आ तनुष्व न्य् अमित्राꣳ ओषतात् तिग्महेते । यो नो अरातिꣳ समिधान चक्रे नीचा तं धक्ष्य् अतसं न शुष्कम् ॥
ऊर्ध्वो भव प्रति विध्याध्य् अस्मद् आविष् कृणुष्व दैव्यान्य् अग्ने । अव स्थिरा तनुहि यातुजूनां जामिम् {W जामिं} अजामिम् प्र मृणीहि शत्रून् ॥
स ते
3
जानाति सुमतिं यविष्ठ य ईवते ब्रह्मणे गातुम् ऐरत् । विश्वान्य् अस्मै सुदिनानि रायो द्युम्नान्य् अर्यो वि दुरो अभि द्यौत् ॥
सेद् अग्ने अस्तु सुभगः सुदानुर् यस् त्वा नित्येन हविषा य उक्थैः । पिप्रीषति स्व आयुषि दुरोणे विश्वेद् अस्मै सुदिना सासद् इष्टिः ॥
अर्चामि ते सुमतिं घोष्य् अर्वाक् सं ते वावाता जरताम्
4
इयं गीः । स्वश्वास् त्वा सुरथा मर्जयेमास्मे क्षत्राणि धारयेर् अनु द्यून् ॥
इह त्वा भूर्य् आ चरेद् उप त्मन् दोषावस्तर् दीदिवाꣳसम् अनु द्यून् । क्रीडन्तस् त्वा सुमनसः सपेमाभि द्युम्ना तस्थिवाꣳसो जनानाम् ॥
यस् त्वा स्वश्वः सुहिरण्यो अग्न उपयाति वसुमता रथेन । तस्य त्राता भवसि तस्य सखा यस् त आतिथ्यम् आनुषग् जुजोषत् ॥
महो रुजामि
5
बन्धुता वचोभिस् तन् मा पितुर् गोतमाद् अन्व् इयाय । त्वं नो अस्य वचसश् चिकिद्धि होतर् यविष्ठ सुक्रतो दमूनाः ॥
अस्वप्नजस् तरणयः सुशेवा अतन्द्रासो ऽवृका अश्रमिष्ठाः । ते पायवः सध्रियञ्चो निषद्याऽग्ने तव नः पान्त्व् अमूर ॥
ये पायवो मामतेयं ते अग्ने पश्यन्तो अन्धं दुरिताद् अरक्षन् । ररक्ष तान्त् सुकृतो विश्ववेदा दिप्सन्त इद् रिपवो ना ह
6
देभुः ॥
त्वया वयꣳ सधन्यस् त्वोतास् तव प्रणीत्य् अश्याम वाजान् । उभा शꣳसा सूदय सत्यताते ऽनुष्ठुया कृणुह्य् अह्रयाण ॥
अया ते अग्ने समिधा विधेम प्रति स्तोमꣳ शस्यमानं गृभाय । दहाशसो रक्षसः पाह्य् अस्मान् द्रुहो निदो मित्रमहो अवद्यात् ॥
रक्षोहणं वाजिनम् आ जिघर्मि मित्रम् प्रतिष्ठम् {W प्रथिष्ठम्} उप यामि शर्म । शिशानो अग्निः क्रतुभिः समिद्धः स नो दिवा
7
स रिषः पातु नक्तम् ॥
वि ज्योतिषा बृहता भात्य् अग्निर् आविर् विश्वानि कृणुते महित्वा । प्रादेवीर् मायाः सहते दुरेवाः शिशीते शृङ्गे रक्षसे विनिक्षे ॥
उत स्वानासो दिवि षन्त्व् अग्नेस् तिग्मायुधा रक्षसे हन्तवा उ । मदे चिद् अस्य प्र रुजन्ति भामा न वरन्ते परिबाधो अदेवीः ॥