प्रमुखा विकल्पसूचिः उद्घाट्यताम्

1.4 प्रपाठक: 4
1.4.1अनुवाक 1 सोमाभिषवः
1 आ ददे ग्रावास्य् अध्वरकृद् देवेभ्यो गम्भीरम् इमम् अध्वरं कृध्य् उत्तमेन पविनेन्द्राय सोमम्̇ सुषुतम् मधुमन्तम् पयस्वन्तं वृष्टिवनिम् इन्द्राय त्वा वृत्रघ्न इन्द्राय त्वा वृत्रतुर इन्द्राय त्वाऽभिमातिघ्न इन्द्राय त्वाऽऽदित्यवत इन्द्राय त्वा विश्वदेव्यावते श्वात्राः स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस् ता देवीर् देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकम् ॥
2 सोमः पिबतु यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्य् अधि दात्रे वोचो । धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जम् मे धत्तम्, मा वाम्̇ हिम्̇सिषम् मा मा हिम्̇सिष्टम् प्राग् अपाग् उदग् अधराक् तास् त्वा दिश आ धावन्त्व् अम्ब नि ष्वर यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ॥

1.4.2 अनुवाक 2 उपांशुग्रहः
1 वाचस् पतये पवस्व वाजिन् वृषा वृष्णो अम्̇शुभ्यां गभस्तिपूतो देवो देवानाम् पवित्रम् असि येषां भागो ऽसि तेभ्यस् त्वा स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः । मनस् त्वाऽष्टु । उर्व् अन्तरिक्षम् अन्व् इहि स्वाहा त्वा सुभवः सूर्याय देवेभ्यस् त्वा मरीचिपेभ्यः । एष ते योनिः प्राणाय त्वा ॥

1.4.3 अनुवाक 3 अन्तर्यामग्रहः
1 उपयामगृहीतो ऽसि । अन्तर् यच्छ मघवन् पाहि सोमम् उरुष्य रायः सम् इषो यजस्वान्तस् ते दधामि द्यावापृथिवी अन्तर् उर्वन्तरिक्षम्̇ सजोषा देवैर् अवरैः परैश् चान्तर्यामे मघवन् मादयस्व स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः {W दिव्येभ्याः} {ASS दिव्येभ्यः} {BI दिव्येभ्यः} {GOLS दिव्येभ्यः} पार्थिवेभ्यः ।
मनस् त्वाष्टु । उर्व् अन्तरिक्षम् अन्व् इहि स्वाहा त्वा सुभवः सूर्याय देवेभ्यस् त्वा मरीचिपेभ्यः । एष ते योनिर् अपानाय त्वा ॥
 
1.4.4 अनुवाक 4 ऐन्द्रवायवग्रहः
1 आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥ उपयामगृहीतो ऽसि वायवे त्वा । इन्द्रवायू इमे सुताः । उप प्रयोभिर् आ गतम् इन्दवो वाम् उशन्ति हि । उपयामगृहीतो ऽसीन्द्रवायुभ्यां त्वैष ते योनिः सजोषाभ्यां त्वा ॥

1.4.5 अनुवाक 5 मैत्रावरुणग्रहः
1 अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेद् इह श्रुतम्̇ हवम् ॥ उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वैष ते योनिर् ऋतायुभ्यां त्वा ॥

1.4.6 अनुवाक 6 आश्विन् ग्रहः
1 या वां कशा मधुमत्य् अश्विना सूनृतावती । तया यज्ञम् मिमिक्षतम् ॥ उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् माध्वीभ्यां त्वा ॥

1.4.7 अनुवाक 7 आश्विन् ग्रहः
1 प्रातर्युजौ वि मुच्येथाम् अश्विनाव् एह गच्छतम् । अस्य सोमस्य पीतये ॥ उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् अश्विभ्यां त्वा ॥

1.4.8 अनुवाक 8 शुक्रग्रहः
1 अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इमम् अपाम्̇ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥ उपयामगृहीतो ऽसि शण्डाय त्वैष ते योनिर् वीरताम् पाहि ॥

1.4.9 अनुवाक 9 मन्थिग्रहः
1 तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदम्̇ सुवर्विदम् । प्रतीचीनं वृजनं दोहसे गिराऽऽशुं जयन्तम् अनु यासु वर्धसे ॥ उपयामगृहीतो ऽसि मर्काय त्वैष ते योनिः प्रजाः पाहि ॥

1.4.10 अनुवाक 10 आग्रयणग्रहः
1 ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थाप्सुषदो महिनैकादश स्थ ते देवा यज्ञम् इमं जुषध्वम् । उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशम् त्वम् पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.11 अनुवाक 11 भ्रातृव्यवतः आग्रयणग्रहः
1 त्रिम्̇शत् त्रयश् च गणिनो रुजन्तो दिवम्̇ रुद्राः पृथिवीं च सचन्ते । एकादशासो अप्सुषदः सुतम्̇ सोमं जुषन्ताम्̇ सवनाय विश्वे ॥ उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.12 अनुवाक 12 उक्थ्यग्रहः
1 उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवे यत् त इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वैष ते योनिर् इन्द्राय त्वोक्थायुवे ॥

1.4.13अनुवाक 13 ध्रुवग्रहः
1 मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋताय जातम् अग्निम् । कविम्̇ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥ उपयामगृहीतो ऽस्य् अग्नये त्वा वैश्वानराय ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तम एष ते योनिर् अग्नये त्वा वैश्वानराय ॥

1.4.14 अनुवाक 14 ऋतुग्रहाः
1 मधुश् च माधवश् च शुक्रश् च शुचिश् च नभश् च नभस्यश् चेषश् चोर्जश् च सहश् च सहस्यश् च तपश् च तपस्यश् च । उपयामगृहीतो ऽसि सम्̇सर्पो ऽसि । अम्̇हस्पत्याय त्वा ॥

1.4.15 अनुवाक 15 ऐन्द्राग्नग्रहाः
1 इन्द्राग्नी आ गतम्̇ सुतं गीर्भिर् नभो वरेण्यम् अस्य पातं धियेषिता ॥ उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वैष ते योनिर् इन्द्राग्निभ्यां त्वा ॥

1.4.16 अनुवाक 16 वैश्वदेवग्रहः
1 ओमासश् चर्षणीधृतो विश्वे देवास आ गत । दाश्वाम्̇सो दाशुषः सुतम् ॥ उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्य एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.17 अनुवाक 17 पूर्वोमरुत्वतीयग्रहः
1 मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यम्̇ शासम् इन्द्रम् । विश्वासाहम् अवसे नूतनायो ऽग्रम्̇ सहोदाम् इह तम्̇ हुवेम ॥ उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.18 अनुवाक 18 उत्तरो मरुत्वतीयग्रहः
1 इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥ उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.19 अनुवाक 19 तृतीयो मरुत्वतीयग्रहः
1 मरुत्वाम्̇ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वम्̇ राजासि प्रदिवः सुतानाम् ॥ उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.20 अनुवाक 20 माहेन्द्रग्रहः
1 महाम्̇ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाम्̇ इव । स्तोमैर् वत्सस्य वावृधे ॥ उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥

1.4.21अनुवाक 21 माहेन्द्रग्रहः
1 महाम्̇ इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मद्रियग् वावृधे वीर्यायो उरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥ उपयाम गृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥

1.4.22 अनुवाक 22 आदित्यग्रहः
1 कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥ उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । तुरीयादित्य सवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥ यज्ञो देवानाम् प्रत्य् एति सुम्नं आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अम्̇होश् चिद् या वरिवोवित्तराऽसत् ॥ विवस्व आदित्यैष ते सोमपीथस् तेन मन्दस्व तेन तृप्य तृप्यास्म ते वयं तर्पयितारो या दिव्या वृष्टिस् तया त्वा श्रीणामि ॥

1.4.23 अनुवाक 23 सावित्रग्रहः
1 वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यम्̇ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥ उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥
 
1.4.24 अनुवाक 24 सावित्रग्रहः
1 अदब्धेभिः सवितः पायुभिष् ट्वम्̇ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशम्̇स ईशत ॥ उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥
 
1.4.25 अनुवाक 25 सावित्रग्रहः
1 हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥ उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.26 अनुवाक 26 वैश्वदेवग्रहः
1 सुशर्माऽसि सुप्रतिष्ठानो । बृहद् उक्षे नमः। एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.27अनुवाक 27 पात्नीवतग्रहः
1 बृहस्पतिसुतस्य त इन्दो इन्द्रियावतः पत्नीवन्तं ग्रहं गृह्णामि । अग्ना३इ पत्नीवा३ः सजूर् देवेन त्वष्ट्रा सोमम् पिब स्वाहा ॥

1.4.28 अनुवाक 28 हारियोजनग्रहः
1 हरिर् असि हारियोजनो हर्योः स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामि हरीः स्थ हर्योर् धानाः सहसोमाः । इन्द्राय स्वाहा ॥

1.4.29 अनुवाक 29 आग्नेयः अतिग्राह्यग्रहः
1 अग्न आयूम्̇षि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् उपयामगृहीतो ऽस्य् अग्नये त्वा तेजस्वत एष ते योनिर् अग्नये त्वा तेजस्वते ॥

1.4.30 अनुवाक 30 ऐन्द्रः अतिग्राह्यग्रहः
1 उत्तिष्ठन्न् ओजसा सह पीत्वा शिप्रे अवेपयः । सोमम् इन्द्र चमू सुतम् ॥ उपयामगृहीतो ऽसीन्द्राय त्वौजस्वत एष ते योनिर् इन्द्राय त्वौजस्वते ॥

1.4.31 अनुवाक 31 सौर्यः अतिग्राह्यग्रहः
1 तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । विश्वम् आ भासि रोचनम् ॥ उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते ॥

1.4.32 अनुवाक 32
1 आ प्यायस्व मदिन्तम सोम विश्वाभिर् ऊतिभिः । भवा नः सप्रथस्तमः ॥

1.4.33 अनुवाक 33
1 ईयुष् ट ये पूर्वतराम् अपश्यन् व्युछन्तीम् उषसम् मर्त्यासः । अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥

1.4.34 अनुवाक 34
1 ज्योतिष्मतीं त्वा सादयामि ज्योतिष्कृतं त्वा सादयामि ज्योतिर्विदं त्वा सादयामि भास्वतीं त्वा सादयामि ज्वलन्तीं त्वा सादयामि मल्मलाभवन्तीं त्वा सादयामि दीप्यमानां त्वा सादयामि रोचमानां त्वा सादयामि अजस्रां त्वा सादयामि बृहज्ज्योतिषं त्वा सादयामि बोधयन्तीं त्वा सादयामि जाग्रतीं त्वा सादयामि ॥

1.4.35 अनुवाक 35
1 प्रयासाय स्वाहायासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा ॥

1.4.36 अनुवाक 36
1 चित्तम्̇ संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपतिम्̇ स्थूलहृदयेनाग्निम्̇ हृदयेन रुद्रं लोहितेन शर्वम् मतस्नाभ्याम् महादेवम् अन्तःपार्श्वेनौषिष्ठहनम्̇ शिङ्गीनिकोश्याभ्याम् ॥

1.4.37 अनुवाक 37 षोडशिग्रहः
1 आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनम्̇ सु ते मनो ग्रावा कृणोतु वग्नुना ॥ उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
 
1.4.38 अनुवाक 38 षोडशिग्रहः
1 इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम् उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
 
1.4.39 अनुवाक 39 षोडशिग्रहः
1 असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । आ त्वा पृणक्त्व् इन्द्रियम्̇ रजः सूर्यं न रश्मिभिः ॥ उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
 
1.4.40अनुवाक 40 षोडशिग्रहः
1 सर्वस्य प्रतिशीवरी भूमिस् त्वोपस्थ आऽधित । स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः ॥ उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥
 
1.4.41 अनुवाक 41 षोडशिग्रहः
1 महाम्̇ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु । स्वस्ति नो मघवा करोतु हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ॥ उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.42 अनुवाक 42 षोडशिग्रहः
1 सजोषा इन्द्रः सगणो मरुद्भिः सोमम् पिब वृत्रहञ् छूर विद्वान् । जहि शत्रूम्̇र् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥ उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.43 अनुवाक 43 दक्षिणा
1 उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥ चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम्̇ सूर्य आत्मा जगतस् तस्थुषश् च ॥ अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमउक्तिं विधेम ॥ दिवं गच्छ सुवः पत रूपेण
2 वो रूपम् अभ्य् ऐमि वयसा वयः । तुथो वो विश्ववेदा वि भजतु वर्षिष्ठे अधि नाके । एतत् ते अग्ने राध ऐति सोमच्युतम् । तन् मित्रस्य पथा नय । ऋतस्य पथा प्रेत चन्द्रदक्षिणा यज्ञस्य पथा सुविता नयन्तीः । ब्राह्मणम् अद्य राध्यासम् ऋषिम् आर्षेयम् पितृमन्तम् पैतृमत्यम्̇ सुधातुदक्षिणम् ।
वि सुवः पश्य व्यन्तरिक्षम् । यतस्व सदस्यैः (2) अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारम् आ विशतानवहायास्मान् देवयानेन पथेत सुकृतां लोके सीदत तन् नः सम्̇स्कृतम् ॥

1.4.44 अनुवाक 44 समिष्टयजुर्होमः
1 धाता रातिः सवितेदं जुषन्ताम् प्रजापतिर् निधिपतिर् नो अग्निः । त्वष्टा विष्णुः प्रजया सम्̇रराणो यजमानाय द्रविणं दधातु ॥ सम् इन्द्र णो मनसा नेषि गोभिः सम्̇ सूरिभिर् मघवन्त् सम्̇ स्वस्त्या । सम् ब्रह्मणा देवकृतं यद् अस्ति सं देवानाम्̇ सुमत्या यज्ञियानाम् ॥ सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सम्̇ शिवेन । त्वष्टा नो अत्र वरिवः कृणोतु
2 अनु मार्ष्टु तनुवो यद् विलिष्टम् ॥ यद् अद्य त्वा प्रयति यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह । ऋधग् अयाड् ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान् ॥ स्वगा वो देवाः सदनम् अकर्म य आजग्म सवनेदं जुषाणाः । जक्षिवाम्̇सः पपिवाम्̇सश् च विश्वे ऽस्मे धत्त वसवो वसूनि ॥ यान् आवह उशतो देव देवान् तान्
3 प्रेरय स्वे अग्ने सधस्थे । वहमाना भरमाणा हवीम्̇षि वसुं घर्मं दिवम् आ तिष्ठतानु ॥ यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा । एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरः स्वाहा देवा गातुविदो गातुं वित्त्वा गातुम् इत मनसस् पत इमं नो देव देवेषु यज्ञम्̇ स्वाहा वाचि स्वाहा वाते धाः ॥

1.4.45 अनुवाक 45 अवभृथः
1 उरुम्̇ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥ शतं ते राजन् भिषजः सहस्रम् उर्वी गम्भीरा सुमतिष् टे अस्तु । बाधस्व द्वेषो निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत् अभिष्ठितो वरुणस्य पाशः । अग्नेर् अनीकम् अप आ विवेश । अपां नपात् प्रतिरक्षन्न् असुर्यं दमेदमे
2 समिधं यक्ष्य् अग्ने । प्रति ते जिह्वा घृतम् उच् चरण्येत् समुद्रे ते हृदयम् अप्स्व् अन्तः । सं त्वा विशन्त्व् ओषधीर् उतापो यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम । अवभृथ निचंकुण निचेरुर् असि निचंकुणाव देवैर् देवकृतम् एनो ऽयाड् अव मर्त्यैर् मर्त्यकृतम् उरोर् आ नो देव रिषस् पाहि सुमित्रा न आप ओषधयः
3 सन्तु दुर्मित्रास् तस्मै भूयासुर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः । देवीर् आप एष वो गर्भस् तं वः सुप्रीतम्̇ सुभृतम् अकर्म देवेषु नः सुकृतो ब्रूतात्
प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः । एधो ऽस्य् एधिषीमहि समिद् असि तेजो ऽसि तेजो मयि धेहि । अपो अन्व् अचारिषम्̇ रसेन सम् असृक्ष्महि पयस्वाम्̇ अग्न आगमं तम् मा सम्̇ सृज वर्चसा ॥

1.4.46 अनुवाक 46 काम्येष्टियाज्यापुरोनुवाक्या
1 यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥ यस्मै त्वम्̇ सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । अश्विनम्̇ स पुत्रिणं वीरवन्तं गोमन्तम्̇ रयिं नशते स्वस्ति ॥ त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । न त्वाम् इन्द्राति रिच्यते ॥ उक्थौक्थे सोम इन्द्रम् ममाद नीथेनीथे मघवानम्
2 सुतासः । यद् ईम्̇ सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥ अग्ने रसेन तेजसा जातवेदो वि रोचसे । रक्षोहाऽमीवचातनः ॥ अपो अन्व् अचारिषम्̇ रसेन सम् असृक्षमहि । पयस्वाम्̇ अग्न आगमं तम् मा सम्̇ सृज वर्चसा ॥ वसुर् वसुपतिर् हिकम् अस्य् अग्ने विभावसुः । स्याम ते सुमताव् अपि ॥ त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे
3 अध्वरेषु राजन् । त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥ त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । स नो रास्व सुवीर्यम् ॥ अयं नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयम्̇ शत्रूञ् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥ अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः ॥ त्वम्̇ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता । सखा सख्या समिध्यसे ॥ उद् अग्ने शुचयस् तव वि ज्योतिषा ॥  


1.4.1अनुवाक 1 सोमाभिषवः

1
आ ददे ग्रावास्य् अध्वरकृद् देवेभ्यो गम्भीरम् इमम् अध्वरं कृध्य् उत्तमेन पविनेन्द्राय सोमम्̇ सुषुतम् मधुमन्तम् पयस्वन्तं वृष्टिवनिम्
इन्द्राय त्वा वृत्रघ्न इन्द्राय त्वा वृत्रतुर इन्द्राय त्वाऽभिमातिघ्न इन्द्राय त्वाऽऽदित्यवत इन्द्राय त्वा विश्वदेव्यावते
श्वात्राः स्थ वृत्रतुरो राधोगूर्ता अमृतस्य पत्नीस् ता देवीर् देवत्रेमं यज्ञं धत्तोपहूताः सोमस्य पिबतोपहूतो युष्माकम् ॥

2
सोमः पिबतु
यत् ते सोम दिवि ज्योतिर् यत् पृथिव्यां यद् उराव् अन्तरिक्षे तेनास्मै यजमानायोरु राया कृध्य् अधि दात्रे वोचो ।
धिषणे वीडू सती वीडयेथामूर्जं दधाथामूर्जम् मे धत्तम्, मा वाम्̇ हिम्̇सिषम् मा मा हिम्̇सिष्टम्
प्राग् अपाग् उदग् अधराक् तास् त्वा दिश आ धावन्त्व् अम्ब नि ष्वर
यत् ते सोमादाभ्यं नाम जागृवि तस्मै ते सोम सोमाय स्वाहा ॥

1.4.2 अनुवाक 2 उपांशुग्रहः

1
वाचस् पतये पवस्व वाजिन् वृषा वृष्णो अम्̇शुभ्यां गभस्तिपूतो देवो देवानाम् पवित्रम् असि येषां भागो ऽसि तेभ्यस् त्वा
स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः पार्थिवेभ्यः ।
मनस् त्वाऽष्टु ।
उर्व् अन्तरिक्षम् अन्व् इहि
स्वाहा त्वा सुभवः सूर्याय
देवेभ्यस् त्वा मरीचिपेभ्यः ।
एष ते योनिः प्राणाय त्वा ॥

1.4.3 अनुवाक 3 अन्तर्यामग्रहः

1
उपयामगृहीतो ऽसि ।
अन्तर् यच्छ मघवन् पाहि सोमम् उरुष्य रायः सम् इषो यजस्वान्तस् ते दधामि द्यावापृथिवी अन्तर् उर्वन्तरिक्षम्̇ सजोषा देवैर् अवरैः परैश् चान्तर्यामे मघवन् मादयस्व
स्वांकृतो ऽसि मधुमतीर् न इषस् कृधि विश्वेभ्यस् त्वेन्द्रियेभ्यो दिव्येभ्यः {W दिव्येभ्याः} {ASS दिव्येभ्यः} {BI दिव्येभ्यः} {GOLS दिव्येभ्यः} पार्थिवेभ्यः ।
मनस् त्वाष्टु ।
उर्व् अन्तरिक्षम् अन्व् इहि
स्वाहा त्वा सुभवः सूर्याय
देवेभ्यस् त्वा मरीचिपेभ्यः ।
एष ते योनिर् अपानाय त्वा ॥

1.4.4 अनुवाक 4 ऐन्द्रवायवग्रहः

1
आ वायो भूष शुचिपा उप नः सहस्रं ते नियुतो विश्ववार । उपो ते अन्धो मद्यम् अयामि यस्य देव दधिषे पूर्वपेयम् ॥
उपयामगृहीतो ऽसि वायवे त्वा ।
इन्द्रवायू इमे सुताः । उप प्रयोभिर् आ गतम् इन्दवो वाम् उशन्ति हि ।
उपयामगृहीतो ऽसीन्द्रवायुभ्यां त्वैष ते योनिः सजोषाभ्यां त्वा ॥

1.4.5 अनुवाक 5 मैत्रावरुणग्रहः

1
अयं वां मित्रावरुणा सुतः सोम ऋतावृधा । ममेद् इह श्रुतम्̇ हवम् ॥
उपयामगृहीतो ऽसि मित्रावरुणाभ्यां त्वैष ते योनिर् ऋतायुभ्यां त्वा ॥

1.4.6 अनुवाक 6 आश्विन् ग्रहः

1
या वां कशा मधुमत्य् अश्विना सूनृतावती । तया यज्ञम् मिमिक्षतम् ॥
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् माध्वीभ्यां त्वा ॥

1.4.7 अनुवाक 7 आश्विन् ग्रहः

1
प्रातर्युजौ वि मुच्येथाम् अश्विनाव् एह गच्छतम् । अस्य सोमस्य पीतये ॥
उपयामगृहीतो ऽस्य् अश्विभ्यां त्वैष ते योनिर् अश्विभ्यां त्वा ॥

1.4.8 अनुवाक 8 शुक्रग्रहः

1
अयं वेनश् चोदयत् पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने । इमम् अपाम्̇ संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहन्ति ॥
उपयामगृहीतो ऽसि शण्डाय त्वैष ते योनिर् वीरताम् पाहि ॥

1.4.9 अनुवाक 9 मन्थिग्रहः

1
तम् प्रत्नथा पूर्वथा विश्वथेमथा ज्येष्ठतातिम् बर्हिषदम्̇ सुवर्विदम् । प्रतीचीनं वृजनं दोहसे गिराऽऽशुं जयन्तम् अनु यासु वर्धसे ॥
उपयामगृहीतो ऽसि मर्काय त्वैष ते योनिः प्रजाः पाहि ॥

1.4.10 अनुवाक 10 आग्रयणग्रहः

1
ये देवा दिव्य् एकादश स्थ पृथिव्याम् अध्य् एकादश स्थाप्सुषदो महिनैकादश स्थ ते देवा यज्ञम् इमं जुषध्वम् ।
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशम् त्वम् पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.11 अनुवाक 11 भ्रातृव्यवतः आग्रयणग्रहः

1
त्रिम्̇शत् त्रयश् च गणिनो रुजन्तो दिवम्̇ रुद्राः पृथिवीं च सचन्ते । एकादशासो अप्सुषदः सुतम्̇ सोमं जुषन्ताम्̇ सवनाय विश्वे ॥
उपयामगृहीतो ऽस्य् आग्रयणो ऽसि स्वाग्रयणो जिन्व यज्ञं जिन्व यज्ञपतिम् अभि सवना पाहि विष्णुस् त्वाम् पातु विशं त्वं पाहीन्द्रियेणैष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.12 अनुवाक 12 उक्थ्यग्रहः

1
उपयामगृहीतो ऽसीन्द्राय त्वा बृहद्वते वयस्वत उक्थायुवे यत् त इन्द्र बृहद् वयस् तस्मै त्वा विष्णवे त्वैष ते योनिर् इन्द्राय त्वोक्थायुवे ॥

1.4.13अनुवाक 13 ध्रुवग्रहः

1
मूर्धानं दिवो अरतिम् पृथिव्या वैश्वानरम् ऋताय जातम् अग्निम् । कविम्̇ सम्राजम् अतिथिं जनानाम् आसन्न् आ पात्रं जनयन्त देवाः ॥
उपयामगृहीतो ऽस्य् अग्नये त्वा वैश्वानराय ध्रुवो ऽसि ध्रुवक्षितिर् ध्रुवाणां ध्रुवतमो ऽच्युतानाम् अच्युतक्षित्तम एष ते योनिर् अग्नये त्वा वैश्वानराय ॥

1.4.14 अनुवाक 14 ऋतुग्रहाः

1
मधुश् च माधवश् च शुक्रश् च शुचिश् च नभश् च नभस्यश् चेषश् चोर्जश् च सहश् च सहस्यश् च तपश् च तपस्यश् च ।
उपयामगृहीतो ऽसि
सम्̇सर्पो ऽसि ।
अम्̇हस्पत्याय त्वा ॥

1.4.15 अनुवाक 15 ऐन्द्राग्नग्रहाः

1
इन्द्राग्नी आ गतम्̇ सुतं गीर्भिर् नभो वरेण्यम् अस्य पातं धियेषिता ॥
उपयामगृहीतो ऽसीन्द्राग्निभ्यां त्वैष ते योनिर् इन्द्राग्निभ्यां त्वा ॥

1.4.16 अनुवाक 16 वैश्वदेवग्रहः

1
ओमासश् चर्षणीधृतो विश्वे देवास आ गत । दाश्वाम्̇सो दाशुषः सुतम् ॥
उपयामगृहीतो ऽसि विश्वेभ्यस् त्वा देवेभ्य एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.17 अनुवाक 17 पूर्वोमरुत्वतीयग्रहः

1
मरुत्वन्तं वृषभं वावृधानम् अकवारिं दिव्यम्̇ शासम् इन्द्रम् । विश्वासाहम् अवसे नूतनायो ऽग्रम्̇ सहोदाम् इह तम्̇ हुवेम ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.18 अनुवाक 18 उत्तरो मरुत्वतीयग्रहः

1
इन्द्र मरुत्व इह पाहि सोमं यथा शार्याते अपिबः सुतस्य । तव प्रणीती तव शूर शर्मन्न् आ विवासन्ति कवयः सुयज्ञाः ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.19 अनुवाक 19 तृतीयो मरुत्वतीयग्रहः

1
मरुत्वाम्̇ इन्द्र वृषभो रणाय पिबा सोमम् अनुष्वधम् मदाय । आ सिञ्चस्व जठरे मध्व ऊर्मिं त्वम्̇ राजासि प्रदिवः सुतानाम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वा मरुत्वत एष ते योनिर् इन्द्राय त्वा मरुत्वते ॥

1.4.20 अनुवाक 20 माहेन्द्रग्रहः

1
महाम्̇ इन्द्रो य ओजसा पर्जन्यो वृष्टिमाम्̇ इव । स्तोमैर् वत्सस्य वावृधे ॥
उपयामगृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥

1.4.21अनुवाक 21 माहेन्द्रग्रहः

1
महाम्̇ इन्द्रो नृवद् आ चर्षणिप्रा उत द्विबर्हा अमिनः सहोभिः । अस्मद्रियग् वावृधे वीर्यायो उरुः पृथुः सुकृतः कर्तृभिर् भूत् ॥
उपयाम गृहीतो ऽसि महेन्द्राय त्वैष ते योनिर् महेन्द्राय त्वा ॥

1.4.22 अनुवाक 22 आदित्यग्रहः

1
कदा चन स्तरीर् असि नेन्द्र सश्चसि दाशुषे । उपोपेन् नु मघवन् भूय इन् नु ते दानं देवस्य पृच्यते ॥
उपयामगृहीतो ऽस्य् आदित्येभ्यस् त्वा
कदा चन प्र युच्छस्य् उभे नि पासि जन्मनी । तुरीयादित्य सवनं त इन्द्रियम् आ तस्थाव् अमृतं दिवि ॥
यज्ञो देवानाम् प्रत्य् एति सुम्नं आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अम्̇होश् चिद् या वरिवोवित्तराऽसत् ॥
विवस्व आदित्यैष ते सोमपीथस् तेन मन्दस्व तेन तृप्य तृप्यास्म ते वयं तर्पयितारो या दिव्या वृष्टिस् तया त्वा श्रीणामि ॥

1.4.23 अनुवाक 23 सावित्रग्रहः

1
वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यम्̇ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.24 अनुवाक 24 सावित्रग्रहः

1
अदब्धेभिः सवितः पायुभिष् ट्वम्̇ शिवेभिर् अद्य परि पाहि नो गयम् । हिरण्यजिह्वः सुविताय नव्यसे रक्षा माकिर् नो अघशम्̇स ईशत ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.25 अनुवाक 25 सावित्रग्रहः

1
हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥
उपयामगृहीतो ऽसि देवाय त्वा सवित्रे ॥

1.4.26 अनुवाक 26 वैश्वदेवग्रहः

1
सुशर्माऽसि सुप्रतिष्ठानो ।
बृहद् उक्षे नमः।
एष ते योनिर् विश्वेभ्यस् त्वा देवेभ्यः ॥

1.4.27अनुवाक 27 पात्नीवतग्रहः

1
बृहस्पतिसुतस्य त इन्दो इन्द्रियावतः पत्नीवन्तं ग्रहं गृह्णामि ।
अग्ना३इ पत्नीवा३ः सजूर् देवेन त्वष्ट्रा सोमम् पिब स्वाहा ॥

1.4.28 अनुवाक 28 हारियोजनग्रहः

1
हरिर् असि हारियोजनो हर्योः स्थाता वज्रस्य भर्ता पृश्नेः प्रेता तस्य ते देव सोमेष्टयजुष स्तुतस्तोमस्य शस्तोक्थस्य हरिवन्तं ग्रहं गृह्णामि
हरीः स्थ हर्योर् धानाः सहसोमाः ।
इन्द्राय स्वाहा ॥

1.4.29 अनुवाक 29 आग्नेयः अतिग्राह्यग्रहः

1
अग्न आयूम्̇षि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम्
उपयामगृहीतो ऽस्य् अग्नये त्वा तेजस्वत एष ते योनिर् अग्नये त्वा तेजस्वते ॥

1.4.30 अनुवाक 30 ऐन्द्रः अतिग्राह्यग्रहः

1
उत्तिष्ठन्न् ओजसा सह पीत्वा शिप्रे अवेपयः । सोमम् इन्द्र चमू सुतम् ॥
उपयामगृहीतो ऽसीन्द्राय त्वौजस्वत एष ते योनिर् इन्द्राय त्वौजस्वते ॥

1.4.31 अनुवाक 31 सौर्यः अतिग्राह्यग्रहः

1
तरणिर् विश्वदर्शतो ज्योतिष्कृद् असि सूर्य । विश्वम् आ भासि रोचनम् ॥
उपयामगृहीतो ऽसि सूर्याय त्वा भ्राजस्वत एष ते योनिः सूर्याय त्वा भ्राजस्वते ॥

1.4.32 अनुवाक 32

1
आ प्यायस्व मदिन्तम सोम विश्वाभिर् ऊतिभिः । भवा नः सप्रथस्तमः ॥

1.4.33 अनुवाक 33

1
ईयुष् ट ये पूर्वतराम् अपश्यन् व्युछन्तीम् उषसम् मर्त्यासः । अस्माभिर् ऊ नु प्रतिचक्ष्याभूद् ओ ते यन्ति ये अपरीषु पश्यान् ॥

1.4.34 अनुवाक 34

1
ज्योतिष्मतीं त्वा सादयामि
ज्योतिष्कृतं त्वा सादयामि
ज्योतिर्विदं त्वा सादयामि
भास्वतीं त्वा सादयामि
ज्वलन्तीं त्वा सादयामि
मल्मलाभवन्तीं त्वा सादयामि
दीप्यमानां त्वा सादयामि
रोचमानां त्वा सादयामि
अजस्रां त्वा सादयामि
बृहज्ज्योतिषं त्वा सादयामि
बोधयन्तीं त्वा सादयामि
जाग्रतीं त्वा सादयामि ॥

1.4.35 अनुवाक 35

1
प्रयासाय स्वाहायासाय स्वाहा वियासाय स्वाहा संयासाय स्वाहोद्यासाय स्वाहाऽवयासाय स्वाहा शुचे स्वाहा शोकाय स्वाहा तप्यत्वै स्वाहा तपते स्वाहा ब्रह्महत्यायै स्वाहा सर्वस्मै स्वाहा ॥

1.4.36 अनुवाक 36

1
चित्तम्̇ संतानेन भवं यक्ना रुद्रं तनिम्ना पशुपतिम्̇ स्थूलहृदयेनाग्निम्̇ हृदयेन रुद्रं लोहितेन शर्वम् मतस्नाभ्याम् महादेवम् अन्तःपार्श्वेनौषिष्ठहनम्̇ शिङ्गीनिकोश्याभ्याम् ॥

1.4.37 अनुवाक 37 षोडशिग्रहः

1
आ तिष्ठ वृत्रहन् रथं युक्ता ते ब्रह्मणा हरी । अर्वाचीनम्̇ सु ते मनो ग्रावा कृणोतु वग्नुना ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.38 अनुवाक 38 षोडशिग्रहः
1
इन्द्रम् इद् धरी वहतो ऽप्रतिधृष्टशवसम् ऋषीणां च स्तुतीर् उप यज्ञं च मानुषाणाम्
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.39 अनुवाक 39 षोडशिग्रहः

1
असावि सोम इन्द्र ते शविष्ठ धृष्णव् आ गहि । आ त्वा पृणक्त्व् इन्द्रियम्̇ रजः सूर्यं न रश्मिभिः ॥
उपयामगृहीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.40अनुवाक 40 षोडशिग्रहः

1
सर्वस्य प्रतिशीवरी भूमिस् त्वोपस्थ आऽधित । स्योनास्मै सुषदा भव यच्छास्मै शर्म सप्रथाः ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.41 अनुवाक 41 षोडशिग्रहः

1
महाम्̇ इन्द्रो वज्रबाहुः षोडशी शर्म यच्छतु । स्वस्ति नो मघवा करोतु हन्तु पाप्मानं यो ऽस्मान् द्वेष्टि ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.42 अनुवाक 42 षोडशिग्रहः

1
सजोषा इन्द्रः सगणो मरुद्भिः सोमम् पिब वृत्रहञ् छूर विद्वान् । जहि शत्रूम्̇र् अप मृधो नुदस्वाथाभयं कृणुहि विश्वतो नः ॥
उपयामगृथीतो ऽसीन्द्राय त्वा षोडशिन एष ते योनिर् इन्द्राय त्वा षोडशिने ॥

1.4.43 अनुवाक 43 दक्षिणा

1
उद् उ त्यं जातवेदसं देवं वहन्ति केतवः । दृशे विश्वाय सूर्यम् ॥
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम्̇ सूर्य आत्मा जगतस् तस्थुषश् च ॥
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्य् अस्मज् जुहुराणम् एनो भूयिष्ठां ते नमउक्तिं विधेम ॥
दिवं गच्छ सुवः पत
रूपेण

2
वो रूपम् अभ्य् ऐमि वयसा वयः ।
तुथो वो विश्ववेदा वि भजतु वर्षिष्ठे अधि नाके ।
एतत् ते अग्ने राध ऐति सोमच्युतम् ।
तन् मित्रस्य पथा नय ।
ऋतस्य पथा प्रेत चन्द्रदक्षिणा यज्ञस्य पथा सुविता नयन्तीः ।
ब्राह्मणम् अद्य राध्यासम् ऋषिम् आर्षेयम् पितृमन्तम् पैतृमत्यम्̇ सुधातुदक्षिणम् ।
वि सुवः पश्य व्यन्तरिक्षम् ।
यतस्व सदस्यैः (2)
अस्मद्दात्रा देवत्रा गच्छत मधुमतीः प्रदातारम् आ विशतानवहायास्मान् देवयानेन पथेत सुकृतां लोके सीदत
तन् नः सम्̇स्कृतम् ॥

1.4.44 अनुवाक 44 समिष्टयजुर्होमः

1
धाता रातिः सवितेदं जुषन्ताम् प्रजापतिर् निधिपतिर् नो अग्निः । त्वष्टा विष्णुः प्रजया सम्̇रराणो यजमानाय द्रविणं दधातु ॥
सम् इन्द्र णो मनसा नेषि गोभिः सम्̇ सूरिभिर् मघवन्त् सम्̇ स्वस्त्या । सम् ब्रह्मणा देवकृतं यद् अस्ति सं देवानाम्̇ सुमत्या यज्ञियानाम् ॥
सं वर्चसा पयसा सं तनूभिर् अगन्महि मनसा सम्̇ शिवेन । त्वष्टा नो अत्र वरिवः कृणोतु

2
अनु मार्ष्टु तनुवो यद् विलिष्टम् ॥
यद् अद्य त्वा प्रयति यज्ञे अस्मिन्न् अग्ने होतारम् अवृणीमहीह । ऋधग् अयाड् ऋधग् उताशमिष्ठाः प्रजानन् यज्ञम् उप याहि विद्वान् ॥
स्वगा वो देवाः सदनम् अकर्म य आजग्म सवनेदं जुषाणाः । जक्षिवाम्̇सः पपिवाम्̇सश् च विश्वे ऽस्मे धत्त वसवो वसूनि ॥
यान् आवह उशतो देव देवान् तान्

3
प्रेरय स्वे अग्ने सधस्थे ।
वहमाना भरमाणा हवीम्̇षि वसुं घर्मं दिवम् आ तिष्ठतानु ॥
यज्ञ यज्ञं गच्छ यज्ञपतिं गच्छ स्वां योनिं गच्छ स्वाहा ।
एष ते यज्ञो यज्ञपते सहसूक्तवाकः सुवीरः स्वाहा
देवा गातुविदो गातुं वित्त्वा गातुम् इत
मनसस् पत इमं नो देव देवेषु यज्ञम्̇ स्वाहा वाचि स्वाहा वाते धाः ॥

1.4.45 अनुवाक 45 अवभृथः

1
उरुम्̇ हि राजा वरुणश् चकार सूर्याय पन्थाम् अन्वेतवा उ । अपदे पादा प्रतिधातवे ऽकर् उतापवक्ता हृदयाविधश् चित् ॥
शतं ते राजन् भिषजः सहस्रम् उर्वी गम्भीरा सुमतिष् टे अस्तु । बाधस्व द्वेषो निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुग्ध्य् अस्मत्
अभिष्ठितो वरुणस्य पाशः ।
अग्नेर् अनीकम् अप आ विवेश । अपां नपात् प्रतिरक्षन्न् असुर्यं दमेदमे

2
समिधं यक्ष्य् अग्ने ।
प्रति ते जिह्वा घृतम् उच् चरण्येत्
समुद्रे ते हृदयम् अप्स्व् अन्तः । सं त्वा विशन्त्व् ओषधीर् उतापो यज्ञस्य त्वा यज्ञपते हविर्भिः । सूक्तवाके नमोवाके विधेम ।
अवभृथ निचंकुण निचेरुर् असि निचंकुणाव देवैर् देवकृतम् एनो ऽयाड् अव मर्त्यैर् मर्त्यकृतम् उरोर् आ नो देव रिषस् पाहि
सुमित्रा न आप ओषधयः

3
सन्तु दुर्मित्रास् तस्मै भूयासुर् यो ऽस्मान् द्वेष्टि यं च वयं द्विष्मः ।
देवीर् आप एष वो गर्भस् तं वः सुप्रीतम्̇ सुभृतम् अकर्म देवेषु नः सुकृतो ब्रूतात्
प्रतियुतो वरुणस्य पाशः प्रत्यस्तो वरुणस्य पाशः ।
एधो ऽस्य् एधिषीमहि समिद् असि तेजो ऽसि तेजो मयि धेहि ।
अपो अन्व् अचारिषम्̇ रसेन सम् असृक्ष्महि पयस्वाम्̇ अग्न आगमं तम् मा सम्̇ सृज वर्चसा ॥

1.4.46 अनुवाक 46 काम्येष्टियाज्यापुरोनुवाक्या

1
यस् त्वा हृदा कीरिणा मन्यमानो ऽमर्त्यम् मर्त्यो जोहवीमि । जातवेदो यशो अस्मासु धेहि प्रजाभिर् अग्ने अमृतत्वम् अश्याम् ॥
यस्मै त्वम्̇ सुकृते जातवेद उ लोकम् अग्ने कृणवः स्योनम् । अश्विनम्̇ स पुत्रिणं वीरवन्तं गोमन्तम्̇ रयिं नशते स्वस्ति ॥
त्वे सु पुत्र शवसो ऽवृत्रन् कामकातयः । न त्वाम् इन्द्राति रिच्यते ॥
उक्थौक्थे सोम इन्द्रम् ममाद नीथेनीथे मघवानम्

2
सुतासः । यद् ईम्̇ सबाधः पितरं न पुत्राः समानदक्षा अवसे हवन्ते ॥
अग्ने रसेन तेजसा जातवेदो वि रोचसे । रक्षोहाऽमीवचातनः ॥
अपो अन्व् अचारिषम्̇ रसेन सम् असृक्षमहि । पयस्वाम्̇ अग्न आगमं तम् मा सम्̇ सृज वर्चसा ॥
वसुर् वसुपतिर् हिकम् अस्य् अग्ने विभावसुः । स्याम ते सुमताव् अपि ॥
त्वाम् अग्ने वसुपतिं वसूनाम् अभि प्र मन्दे

3
अध्वरेषु राजन् । त्वया वाजं वाजयन्तो जयेमाभि ष्याम पृत्सुतीर् मर्त्यानाम् ॥
त्वाम् अग्ने वाजसातमं विप्रा वर्धन्ति सुष्टुतम् । स नो रास्व सुवीर्यम् ॥
अयं नो अग्निर् वरिवः कृणोत्व् अयम् मृधः पुर एतु प्रभिन्दन् । अयम्̇ शत्रूञ् जयतु जर्हृषाणो ऽयं वाजं जयतु वाजसातौ ॥
अग्निनाग्निः सम् इध्यते कविर् गृहपतिर् युवा । हव्यवाड् जुह्वास्यः ॥
त्वम्̇ ह्य् अग्ने अग्निना विप्रो विप्रेण सन्त् सता । सखा सख्या समिध्यसे ॥
उद् अग्ने शुचयस् तव
वि ज्योतिषा ॥