तैत्तिरीयसंहिता(विस्वरः)/काण्डम् १/प्रपाठकः ६

1.6 प्रपाठक: 6 ऐष्टिक याजमानमन्त्राः तद्ब्राह्मणानि च॥
1.6.1 अनुवाक 1 आज्यग्रहणानुमन्त्रण मन्त्राः
1 सं त्वा सिञ्चामि यजुषा प्रजाम् आयुर् धनं च । बृहस्पतिप्रसूतो यजमान इह मा रिषत् ॥ आज्यम् असि सत्यम् असि सत्यस्याध्यक्षम् असि हविर् असि वैश्वानरं वैश्वदेवम् उत्पूतशुष्मꣳ सत्यौजाः सहो ऽसि सहमानम् असि सहस्वारातीः सहस्वारातीयतः सहस्व पृतनाः सहस्व पृतन्यतः सहस्रवीर्यम् असि तन् मा जिन्वाज्यस्याज्यम् असि सत्यस्य सत्यम् असि सत्यायुः
2 असि सत्यशुष्मम् असि सत्येन त्वाऽभि घारयामि तस्य ते भक्षीय पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वा दिशाꣳ यन्त्राय धर्त्राय गृह्णामि पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि चरोस् त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि ब्रह्मणस् त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि क्षत्रस्य त्वौजसे यन्त्राय
3 धर्त्राय गृह्णामि विशे त्वा यन्त्राय धर्त्राय गृह्णामि सुवीर्याय त्वा गृह्णामि सुप्रजास्त्वाय त्वा गृह्णामि रायस् पोषाय त्वा गृह्णामि ब्रह्मवर्चसाय त्वा गृह्णामि भूर् अस्माकꣳ हविर् देवानाम् आशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामि कामाय त्वा गृह्णामि ॥

1.6.2 अनुवाक 2 हविर्होमानुमन्त्रण मन्त्राः
1 ध्रुवो ऽसि ध्रुवो ऽहꣳ सजातेषु भूयासं धीरश् चेत्ता वसुविद् । उग्रो ऽस्य् उग्रो ऽहꣳ सजातेषु भूयासम् उग्रश् चेत्ता वसुविद् । अभिभूर् अस्य् अभिभूर् अहꣳ सजातेषु भूयासम् अभिभूश् चेत्ता वसुविद् । युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास् त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते ॥ यन् मे अग्ने अस्य यज्ञस्य रिष्यात्
2 यद् वा स्कन्दाद् आज्यस्योत विष्णो । तेन हन्मि सपत्नम् दुर्मरायुम् ऐनं दधामि निर्ऋत्या उपस्थे ॥ भूर् भुवः सुवर् उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वामर्त्यस्य ते होतर् मूर्धन्न् आ जिघर्मि रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय मनो ऽसि प्राजापत्यम् मनसा मा भूतेनाविश वाग् अस्य् ऐन्द्री सपत्नक्षयणी
3 वाचा मेन्द्रियेणाविश वसन्तम् ऋतूनाम् प्रीणामि स मा प्रीतः प्रीणातु ग्रीष्मम् ऋतूनाम् प्रीणामि स मा प्रीतः प्रीणातु वर्षा ऋतूनाम् प्रीणामि ता मा प्रीताः प्रीणन्तु शरदम् ऋतूनाम् प्रीणामि सा मा प्रीता प्रीणातु हेमन्तशिशिराव् ऋतूनाम् प्रीणामि तौ मा प्रीतौ प्रीणीताम् अग्नीषोमयोर् अहं देवयज्यया चक्षुष्मान् भूयासम् अग्नेर् अहं देवयज्ययाऽन्नादो भूयासम् ॥
4 दब्धिरस्य् अदब्धो भूयासम् अमुं दभेयम् अग्नीषोमयोर् अहं देवयज्यया वृत्रहा भूयासम् इन्द्राग्नियोर् अहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् इन्द्रस्याहं देवयज्ययेन्द्रियावी भूयासम् महेन्द्रस्याहं देवयज्यया जेमानम् महिमानं गमेयम् अग्नेः स्विष्टकृतो ऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् ॥

1.6.3 अनुवाक 3 इडाभागादि अनुमन्त्रणमन्त्राः
1 अग्निर् मा दुरिष्टात् पातु सविताऽघशꣳसात् । यो मे ऽन्ति दूरे ऽरातीयति तम् एतेन जेषम् । सुरूपवर्षवर्ण एहीमान् भद्रान् दुर्याꣳ अभ्य् एहि माम् अनुव्रता न्यु शीर्षाणि मृढ्वम् इड एह्य् अदित एह्य् सरस्वत्य् एहि रन्तिर् असि रमतिर् असि सूनर्य् असि जुष्टे जुष्टिं ते ऽशीयोपहूत उपहवं
2 ते ऽशीय सा मे सत्याशीर् अस्य यज्ञस्य भूयात् । अरेडता मनसा तच् छकेयम् । यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु यो देवयानः पन्थास् तेन यज्ञो देवाꣳ अप्य् एतु । अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् राय उत यज्ञाः सचन्ताम् अस्मासु सन्त्व् आशिषः सा नः प्रिया सुप्रतूर्तिर् मघोनी जुष्टिर् असि जुषस्व नो जुष्टा नः
3 असि जुष्टिं ते गमेयम् मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञꣳ सम् इमं दधातु । बृहस्पतिस् तनुताम् इमं नो विश्वे देवा इह मादयन्ताम् ॥ ब्रधन् पिन्वस्व ददतो मे मा क्षायि कुर्वतो मे मोप दसत् प्रजापतेर् भागो ऽस्य् ऊर्जस्वान् पयस्वान् प्राणापानौ मे पाहि समानव्यानौ मे पाह्य् उदानव्यानौ मे पाहि । अक्षितो ऽस्य् अक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रा ऽमुष्मिँल्लोके

1.6.4 अनुवाक 4 अनुयाजाद्यनुमन्त्रम्
1 बर्हिषो ऽहं देवयज्यया प्रजावान् भूयासम् । नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् अग्नेर् अहम् उज्जितिम् अनूज् जेषम् । सोमस्याहम् उज्जितिम् अनूज् जेषम् अग्नेर् अहम् उज्जितिम् अनूज् जेषम् अग्नीषोमयोर् अहम् उज्जितिम् अनूज् जेषम् इन्द्राग्नियोर् अहम् उज्जितिम् अनूज् जेषम् इन्द्रस्याहम्
2 उज्जितिम् अनूज् जेषम् महेन्द्रस्याहम् उज्जितिम् अनूज् जेषम् अग्नेः स्विष्टकृतो ऽहम् उज्जितिम् अनूज् जेषम् वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाꣳ इन्द्रो मे निग्राभेणाधराꣳ अकः ॥ उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥ एमा अग्मन्न् आशिषो दोहकामा इन्द्रवन्तः
3 वनामहे धुक्षीमहि प्रजाम् इषम् ॥ रोहितेन त्वाऽग्निर् देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्व् एतशेन त्वा सूर्यो देवतां गमयतु वि ते मुञ्चामि रशना वि रश्मीन् वि योक्त्रा यानि परिचर्तनानि धत्ताद् अस्मासु द्रविणं यच् च भद्रम् प्र णो ब्रूताद् भागधान् देवतासु विष्णोः शम्योर् अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् । सोमस्याहं देवयज्यया
4 सुरेता रेतो धिषीय त्वष्टुर् अहं देवयज्यया पशूनाꣳ रूपम् पुषेयम् । देवानाम् पत्नीर् अग्निर् गृहपतिर् यज्ञस्य मिथुनं तयोर् अहं देवयज्यया मिथुनेन प्र भूयासम् । वेदो ऽसि वित्तिर् असि विदेय कर्मासि करुणम् असि क्रियासम् । सनिर् असि सनितासि सनेयम् । घृतवन्तं कुलायिनꣳ रायस् पोषꣳ सहस्रिणं वेदो ददातु वाजिनम् ॥

1.6.5 अनुवाक 5 आप्यायनादि अनुमन्त्रणम्
1 आ प्यायतां ध्रुवा घृतेन यज्ञंयज्ञम् प्रति देवयद्भ्यः । सूर्याया ऊधो ऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन् ॥ प्रजापतेर् विभान् नाम लोकस् तस्मिꣳस् त्वा दधामि सह यजमानेन सद् असि सन् मे भूयाः सर्वम् असि सर्वम् मे भूयाः पूर्णम् असि पूर्णम् मे भूया अक्षितम् असि मा मे क्षेष्ठाः । प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणायाम्
2 दिशि मासाः पितरो मार्जयन्ताम् प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम् उदीच्यां दिश्य् आप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर् मार्जयन्ताम् । विष्णोः क्रमो ऽस्य् अभिमातिहा गायत्रेण छन्दसा पृथिवीम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः । विष्णोः क्रमो ऽस्य् अभिशस्तिहा त्रैष्टुभेन छन्दसान्तरिक्षम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः । विष्णोः क्रमो ऽस्य् अरातीयतो हन्ता जागतेन छन्दसा दिवम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः । विष्णोः क्रमो ऽसि शत्रूयतो हन्ताऽऽनुष्टुभेन छन्दसा दिशो ऽनु वि क्रमे निर्भक्तः स यं द्विष्मः ॥

1.6.6 अनुवाक 6 सूर्योपस्थानादि मन्त्राः
1 अगन्म सुवः सुवर् अगन्म संदृशस् ते मा छित्सि यत् ते तपस् तस्मै ते मा वृक्षि सुभूर् असि श्रेष्ठो रश्मीनाम् आयुर्धा अस्य् आयुर् मे धेहि वर्चोधा असि वर्चो मयि धेहि । इदम् अहम् अमुम् भ्रातृव्यम् आभ्यो दिग्भ्यो ऽस्यै दिवो ऽस्माद् अन्तरिक्षाद् अस्यै पृथिव्या अस्माद् अन्नाद्यान् निर् भजामि निर्भक्तः स यं द्विष्मः ॥
2 सम् ज्योतिषाऽभूवम् ऐन्द्रीम् आवृतम् अन्वावर्ते सम् अहम् प्रजया सम् मया प्रजा सम् अहꣳ रायस् पोषेण सम् मया रायस् पोषः । समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् । वसुमान् यज्ञो वसीयान् भूयासम् अग्न आयूꣳषि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥ अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्
3 दधत् पोषꣳ रयिम् मयि ॥ अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासꣳ सुगृहपतिर् मया त्वं गृहपतिना भूयाः शतꣳ हिमास् ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीं ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् । कस् त्वा युनक्ति स त्वा वि मुञ्चत्व् ॥ अग्ने व्रतपते व्रतम् अचारिषं तद् अशकं तन् मे ऽराधि यज्ञो बभूव स आ
4 बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम् गोमाꣳ अग्ने ऽविमाꣳ अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । इडावाꣳ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥

1.6.7 अनुवाक 7 देवतापरिग्रहादि
1 यथा वै समृतसोमा एवं वा एते समृतयज्ञा यद् दर्शपूर्णमासौ कस्य वाह देवा यज्ञम् आगच्छन्ति कस्य वा न बहूनां यजमानानां यो वै देवताः पूर्वः परिगृह्णाति स एनाः श्वो भूते यजते । एतद् वै देवानाम् आयतनं यद् आहवनीयः । अन्तराग्नी पशूनाम् । गार्हपत्यो मनुष्याणाम् अन्वाहार्यपचनः पितृणाम् अग्निं गृह्णाति स्व एवायतने देवताः परि
2 गृह्णाति ताः श्वो भूते यजते व्रतेन वै मेध्यो ऽग्निर् व्रतपतिः । ब्राह्मणो व्रतभृत् । व्रतम् उपैष्यन् ब्रूयात् । अग्ने व्रतपते व्रतं चरिष्यामीति । अग्निर् वै देवानां व्रतपतिस् तस्मा एव प्रतिप्रोच्य व्रतम् आ लभते बर्हिषा पूर्णमासे व्रतम् उपैति वत्सैर् अमावास्यायाम् एतद् ध्य् एतयोर् आयतनम् उपस्तीर्यः पूर्वश् चाग्निर् अपरश् चेत्य् आहुः । मनुष्याः
3 इन् न्वा उपस्तीर्णम् इच्छन्ति किम् उ देवा येषां नवावसानम् उपास्मिञ् छ्वो यक्ष्यमाणे देवता वसन्ति य एवं विद्वान् अग्निम् उपस्तृणाति यजमानेन ग्राम्याश् च पशवो ऽवरुध्या आरण्याश् चेत्य् आहुः । यद् ग्राम्यान् उपवसति तेन ग्राम्यान् अव रुन्द्धे यद् आरण्यस्याश्नाति तेनारण्यान् यद् अनाश्वान् उपवसेत् पितृदेवत्यः स्यात् । आरण्यस्याश्नाति । इन्द्रियम्
4 वा आरण्यम् इन्द्रियम् एवात्मन् धत्ते यद् अनाश्वान् उपवसेत् क्षोधुकः स्यात् । यद् अश्नीयाद् रुद्रो ऽस्य पशून् अभि मन्येत । अपो ऽश्नाति तन् नेवाशितं नेवानशितम् । न क्षोधुको भवति नास्य रुद्रः पशून् अभि मन्यते वज्रो वै यज्ञः क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः । यद् अनाश्वान् उपवसति वज्रेणैव साक्षात् क्षुधम् भ्रातृव्यꣳ हन्ति ॥
 
1.6.8 अनुवाक 8 यज्ञायुधभृतिः
1 यो वै श्रद्धाम् अनारभ्य यज्ञेन यजते नास्येष्टाय श्रद् दधते । अपः प्र णयति श्रद्धा वा आपः श्रद्धाम् एवारभ्य यज्ञेन यजत उभये ऽस्य देवमनुष्या इष्टाय श्रद् दधते तद् आहुर् अति वा एता वर्त्रं नेदन्त्य् अति वाचं मनो वावैता नाति नेदन्तीति मनसा प्र णयतीयं वै मनः
2 अनयैवैनाः प्र णयत्य् अस्कन्नहविर् भवति य एवं वेद यज्ञायुधानि सम् भवति यज्ञो वै यज्ञायुधानि यज्ञम् एव तत् सम् भरति यद् एकमेकꣳ सम्भरेत् पितृदेवत्यानि स्युर् यत् सह सर्वाणि मानुषाणि द्वेद्वे सम् भरति याज्यानुवाक्ययोर् एव रूपं करोत्य् अथो मिथुनम् एव यो वै दश यज्ञायुधानि वेद मुखतो ऽस्य यज्ञः कल्पते स्फ्यः
3 च कपालानि चाग्निहोत्रहवणी शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच् चोपला चैतानि वै दश यज्ञायुधानि य एवं वेद मुखतो ऽस्य यज्ञः कल्पते यो वै देवेभ्यः प्रतिप्रोच्य यज्ञेन यजते जुषन्ते ऽस्य देवा हव्यम् हविर् निरुप्यमाणम् अभि मन्त्रयेताग्निꣳ होतारम् इह तꣳ हुव इति ॥
4 देवेभ्य एव प्रतिप्रोच्य यज्ञेन यजते जुषन्ते ऽस्य देवा हव्यम् एष वै यज्ञस्य ग्रहो गृहीत्वैव यज्ञेन यजते तद् उदित्वा वाचं यच्छति यज्ञस्य धृत्यै । अथो मनसा वै प्रजापतिर् यज्ञम् अतनुत मनसैव तद् यज्ञं तनुते रक्षसाम् अनन्ववचाराय यो वै यज्ञं योग आगते युनक्ति युङ्क्ते युञ्जानेषु कस् त्वा युनक्ति स त्वा युनक्त्व् इत्य् आह प्रजापतिर् वै कः प्रजापतिनैवैनं युनक्ति युङ्क्ते युञ्जानेषु ॥


1.6.9 अनुवाक 9 द्वादश द्वन्द्व सम्पत्तिः
1 प्रजापतिर् यज्ञान् असृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासीं चोक्थ्यं चामावास्यां चातिरात्रं च तान् उद् अमिमीत यावद् अग्निहोत्रम् आसीत् तावान् अग्निष्टोमो यावती पौर्णमासी तावान् उक्थ्यो यावत्य् अमावास्या तावान् अतिरात्रः । य एवं विद्वान् अग्निहोत्रं जुहोति यावद् अग्निष्टोमेनोपाप्नोति तावद् उपाप्नोति
य एवं विद्वान् पौर्णमासीं यजते यावद् उक्थ्येनोपाप्नोति
2 तावद् उपाप्नोति य एवं विद्वान् अमावास्यां यजते यावद् अतिरात्रेणोपाप्नोति तावद् उपाप्नोति परमेष्ठिनो वा एष यज्ञो ऽग्र आसीत् तेन स परमां काष्ठाम् अगच्छत् तेन प्रजापतिं निरवासाययत् तेन प्रजापतिः परमां काष्ठाम् अगच्छत् तेनेन्द्रं निरवासाययत् तेनेन्द्रः परमां काष्ठाम् अगच्छत् तेनाग्नीषोमौ निरवासाययत् तेनाग्नीषोमौ परमां काष्ठाम् अगच्छताम् । यः
3 एवं विद्वान् दर्शपूर्णमासौ यजते परमाम् एव काष्ठां गच्छति यो वै प्रजातेन यज्ञेन यजते प्र प्रजया पशुभिर् मिथुनैर् जायते द्वादश मासाः संवत्सरो द्वादश द्वंद्वानि दर्शपूर्णमासयोस् तानि सम्पाद्यानीत्य् आहुः । वत्सं चोपावसृजत्य् उखां चाधि श्रयति । अव च हन्ति दृषदौ च समाहन्ति । अधि च वपते कपालानि चोप दधाति पुरोडाशं च ॥
4 अधिश्रयत्य् आज्यं च स्तम्बयजुश् च हरत्य् अभि च गृह्णाति वेदिं च परि गृह्णाति पत्नीं च सं नह्यति प्रोक्षणीश् चासादयत्य् आज्यं च । एतानि वै द्वादश द्वंद्वानि दर्शपूर्णमासयोस् तानि य एवꣳ सम्पाद्य यजते प्रजातेनैव यज्ञेन यजते प्र प्रजया पशुभिर् मिथुनैर् जायते ॥


1.6.10 अनुवाक 10 हविःसादनम्
1 ध्रुवो ऽसि ध्रुवो ऽहꣳ सजातेषु भूयासम् इत्य् आह ध्रुवान् एवैनान् कुरुते । उग्रो ऽस्य् उग्रो ऽहꣳ सजातेषु भूयासम् इत्य् आहाप्रतिवादिन एवैनान् कुरुते । अभिभूर् अस्य् अभिभूर् अहꣳ सजातेषु भूयासम् इत्य् आह य एवैनम् प्रत्युत्पिपीते तम् उपास्यते युनज्मि त्वा ब्रह्मणा दैव्येनेत्य् आहैष वा अग्नेर् योगस् तेन
2 एवैनं युनक्ति यज्ञस्य वै समृद्धेन देवाः सुवर्गं लोकम् आयन् यज्ञस्य व्यृद्धेनासुरान् परा भावयन् यन् मे अग्ने अस्य यज्ञस्य रिष्याद् इत्य् आह यज्ञस्यैव तत् समृद्धेन यजमानः सुवर्गं लोकम् एति यज्ञस्य व्यृद्धेन भ्रातृव्यान् परा भावयति । अग्निहोत्रम् एताभिर् व्याहृतीभिर् उप सादयेद् यज्ञमुखं वा अग्निहोत्रम् ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म
3 कुरुते संवत्सरे पर्यागत एताभिर् एवोप सादयेद् ब्रह्मणैवोभयतः संवत्सरम् परि गृह्णाति दर्शपूर्णमासौ चातुर्मास्यान्य् आलभमान एताभिर् व्याहृतीभिर् हवीꣳष्य् आ सादयेद् यज्ञमुखं वै दर्शपूर्णमासौ चातुर्मास्यानि ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते संवत्सरे पर्यागत एताभिर् एवा सादयेद् ब्रह्मणैवोभयतः संवत्सरम् परि गृह्णाति
यद् वै यज्ञस्य साम्ना क्रियते राष्ट्रम्
4 यज्ञस्याऽऽशीर् गच्छति यद् ऋचा विशं यज्ञस्याऽऽशीर् गच्छत्य् अथ ब्राह्मणो ऽनाशीर्केण यज्ञेन यजते सामिधेनीर् अनुवक्ष्यन्न् एता व्याहृतीः पुरस्ताद् दध्याद् ब्रह्मैव प्रतिपदं कुरुते तथा ब्राह्मणः साशीर्केण यज्ञेन यजते यं कामयेत यजमानम् भ्रातृव्यम् अस्य यज्ञस्याऽऽशीर् गच्छेद् इति तस्यैता व्याहृतीः पुरोऽनुवाक्यायां दध्याद् भ्रातृव्यदेवत्या वै पुरोऽनुवाक्या भ्रातृव्यम् एवास्य यज्ञस्य
5 आशीर् गच्छति यान् कामयेत यजमानान्त् समावत्य् एनान् यज्ञस्याऽऽशीर् गच्छेद् इति तेषाम् एता व्याहृतीः पुरोऽनुवाक्याया अर्धर्च एकां दध्याद् याज्यायै पुरस्ताद् एकां याज्याया अर्धर्च एकां तथैनान्त् समावती यज्ञस्याशीर् गच्छति यथा वै पर्जन्यः सुवृष्टं वर्षत्य् एवं यज्ञो यजमानस्य वर्षति स्थलयोदकम् परिगृह्णन्त्य् आशिषा यज्ञं यजमानः परि गृह्णाति मनो ऽसि प्राजापत्यम् ॥
6 मनसा मा भूतेना ऽऽविशेत्य् आह मनो वै प्राजापत्यम् प्रजापत्यो यज्ञो मन एव यज्ञम् आत्मन् धत्ते वाग् अस्य् ऐन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाऽऽ विशेत्य् आहैन्द्री वै वाग् वाचम् एवैन्द्रीम् आत्मन् धत्ते ॥

1.6.11 अनुवाक 11 आश्रावणादिमन्त्राः
1 यो वै सप्तदशम् प्रजापतिं यज्ञम् अन्वायत्तं वेद प्रति यज्ञेन तिष्ठति न यज्ञाद् भ्रꣳशते । आ श्रावयेति चतुरक्षरम् अस्तु श्रौषड् इति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कारः । एष वै सप्तदशः प्रजापतिर् यज्ञम् अन्वायत्तः । य एवं वेद प्रति यज्ञेन तिष्ठत् न यज्ञाद् भ्रꣳशते यो वै यज्ञस्य प्रायणम् प्रतिष्ठाम्
2 उदयनं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सꣳस्थां गच्छति । आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कार एतद् वै यज्ञस्य प्रायणम् एषा प्रतिष्ठैतद् उदयनम् । य एवं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सꣳस्थां गच्छति यो वै सूनृतायै दोहं वेद दुह एवैनाम् । यज्ञो वै सूनृता । आ श्रावयेत्येवैनाम् अह्वत् । अस्तु
3 श्रौषड् इत्य् { उपावास्राग् ^ उपावास्राज् } यजेत्य् उद् अनैषीत् । ये यजामह इत्य् उपासदत् । वषट्कारेण दोग्धि । एष वै सूनृतायै दोहः । य एवं वेद दुह एवैनाम् । देवा वै सत्त्रम् आसत तेषां दिशो ऽदस्यन् त एताम् आर्द्राम् पङ्क्तिम् अपश्यन्न् आ श्रावयेति पुरोवातम् अजनयन्न् अस्तु श्रौषड् इत्य् अभ्रꣳ सम् अप्लावयन् यजेति विद्युतम्
4 अजनयन् ये यजामह इति प्रावर्षयन् अभ्य् अस्तनयन् वषट्कारेण ततो वै तेभ्यो दिशः प्राप्यायन्त य एवं वेद प्रास्मै दिशः प्यायन्ते प्रजापतिं त्वो वेद प्रजापतिस् त्वं वेद यम् प्रजापतिर् वेद स पुण्यो भवति । एष वै छन्दस्यः प्रजापतिर् आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कारः । य एवं वेद पुण्यो भवति वसन्तम्
5 ऋतूनाम् प्रीणामीत्य् आह । ऋतवो वै प्रयाजाः । ऋतून् एव प्रीणाति ते ऽस्मै प्रीता यथापूर्वं कल्पन्ते कल्पन्ते ऽस्मा ऋतवो य एवं वेद । अग्नीषोमयोर् अहं देवयज्यया चक्षुष्मान् भूयासम् इत्य् आह । अग्नीषोमाभ्यां वै यज्ञश् चक्षुष्मान् ताभ्याम् एव चक्षुर् आत्मन् धत्ते । अग्नेर् अहं देवयज्ययान्नादो भूयासम् इत्य् आह । अग्निर् वै देवानाम् अन्नादस् तेनैव
6 अन्नाद्यम् आत्मन् धत्ते दब्धिरस्य् अदब्धो भूयासम् अमुं दभेयम् इत्य् आह । एतया वै दब्ध्या देवा असुरान् अदभ्नुवन् तयैव भ्रातृव्यं दभ्नोति । अग्नीषोमयोर् अहं देवयज्यया वृत्रहा भूयासम् इत्य् आह । अग्नीषोमाभ्यां वा इन्द्रो वृत्रम् अहन् ताभ्याम् एव भ्रातृव्यꣳ स्तृणुते । इन्द्राग्नियोर् अहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् इत्य् आह । इन्द्रियाव्य् एवान्नादो भवति । इन्द्रस्य
7 अहं देवयज्ययेन्द्रियावी भूयासम् इत्य् आह । इन्द्रियाव्य् एव भवति महेन्द्रस्याहं देवयज्यया जेमानम् महिमानं गमेयम् इत्य् आह जेमानम् एव महिमानं गच्छति । अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह । आयुर् एवात्मन् धत्ते प्रति यज्ञेन तिष्ठति

1.6.12 अनुवाक 12 काम्येष्टियाज्यापुरोनुवाक्याः
1 इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः । अस्माकम् अस्तु केवलः ॥ इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः । शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥ इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आ वृणे ॥ अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । अनु
2 क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥ आ यस्मिन्त् सप्त वासवास् तिष्ठन्ति स्वारुहो यथा । ऋषिर् ह दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथिः ॥ आमासु पक्वम् ऐरय आ सूर्यꣳ रोहयो दिवि । घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे गिरः ॥ इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । इन्द्रं वाणीर् अनूषत ॥
गायन्ति त्वा गायत्रिणः
3 अर्चन्त्य् अर्कम् अर्किणः । ब्रह्माणस् त्वा शतक्रतव् उद् वꣳशम् इव येमिरे ॥ अꣳहोमुचे प्र भरेमा मनीषाम् ओषिष्ठदाव्ने सुमतिं गृणानाः । इदम् इन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥ विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः । अꣳहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥ प्र सम्राजम् प्रथमम् अध्वराणाम्
4 अꣳहोमुचं वृषभं यज्ञियानाम् । अपां नपातम् अश्विना हयन्तम् अस्मिन् नर इन्द्रियं धत्तम् ओजः ॥ वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । अधस्पदं तम् ईं कृधि यो अस्माꣳ अभिदासति ॥ इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ॥ मृगो न भीमः कुचरो गिरिष्ठाः परावतः
5 आ जगामा परस्याः । सृकꣳ सꣳशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥ वि शत्रून् वि मृधो नुद वि वृत्रस्य हनू रुज । वि मन्युम् इन्द्र भामितो ऽमित्रस्याभिदासतः ॥ त्रातारम् इन्द्रम् अवितारम् इन्द्रꣳ हवेहवे सुहवꣳ शूरम् इन्द्रम् । हुवे नु शक्रम् पुरुहूतम् इन्द्रꣳ स्वस्ति नो मघवा धात्व् इन्द्रः ॥ मा ते अस्याम्
6 सहसावन् परिष्टाव् अघाय भूम हरिवः परादै । त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥ अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत द्युमन्तम् । ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥ वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः । अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥  


1.6.1 अनुवाक 1
आज्यग्रहणानुमन्त्रण मन्त्राः

1
सं त्वा सिञ्चामि यजुषा प्रजाम् आयुर् धनं च । बृहस्पतिप्रसूतो यजमान इह मा रिषत् ॥
आज्यम् असि सत्यम् असि सत्यस्याध्यक्षम् असि हविर् असि वैश्वानरं वैश्वदेवम् उत्पूतशुष्मꣳ सत्यौजाः सहो ऽसि सहमानम् असि सहस्वारातीः सहस्वारातीयतः सहस्व पृतनाः सहस्व पृतन्यतः सहस्रवीर्यम् असि तन् मा जिन्वाज्यस्याज्यम् असि सत्यस्य सत्यम् असि सत्यायुः

2
असि सत्यशुष्मम् असि सत्येन त्वाऽभि घारयामि तस्य ते भक्षीय
पञ्चानां त्वा वातानां यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वर्तूनां यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वा दिशाꣳ यन्त्राय धर्त्राय गृह्णामि
पञ्चानां त्वा पञ्चजनानां यन्त्राय धर्त्राय गृह्णामि
चरोस् त्वा पञ्चबिलस्य यन्त्राय धर्त्राय गृह्णामि
ब्रह्मणस् त्वा तेजसे यन्त्राय धर्त्राय गृह्णामि
क्षत्रस्य त्वौजसे यन्त्राय

3
धर्त्राय गृह्णामि
विशे त्वा यन्त्राय धर्त्राय गृह्णामि
सुवीर्याय त्वा गृह्णामि
सुप्रजास्त्वाय त्वा गृह्णामि
रायस् पोषाय त्वा गृह्णामि
ब्रह्मवर्चसाय त्वा गृह्णामि
भूर् अस्माकꣳ हविर् देवानाम् आशिषो यजमानस्य देवानां त्वा देवताभ्यो गृह्णामि
कामाय त्वा गृह्णामि ॥

1.6.2 अनुवाक 2
हविर्होमानुमन्त्रण मन्त्राः

1
ध्रुवो ऽसि ध्रुवो ऽहꣳ सजातेषु भूयासं धीरश् चेत्ता वसुविद् ।
उग्रो ऽस्य् उग्रो ऽहꣳ सजातेषु भूयासम् उग्रश् चेत्ता वसुविद् ।
अभिभूर् अस्य् अभिभूर् अहꣳ सजातेषु भूयासम् अभिभूश् चेत्ता वसुविद् ।
युनज्मि त्वा ब्रह्मणा दैव्येन हव्यायास्मै वोढवे जातवेदः । इन्धानास् त्वा सुप्रजसः सुवीरा ज्योग् जीवेम बलिहृतो वयं ते ॥
यन् मे अग्ने अस्य यज्ञस्य रिष्यात्

2
यद् वा स्कन्दाद् आज्यस्योत विष्णो । तेन हन्मि सपत्नम् दुर्मरायुम् ऐनं दधामि निर्ऋत्या उपस्थे ॥
भूर् भुवः सुवर्
उच्छुष्मो अग्ने यजमानायैधि निशुष्मो अभिदासते
अग्ने देवेद्ध मन्विद्ध मन्द्रजिह्वामर्त्यस्य ते होतर् मूर्धन्न् आ जिघर्मि रायस् पोषाय सुप्रजास्त्वाय सुवीर्याय
मनो ऽसि प्राजापत्यम् मनसा मा भूतेनाविश
वाग् अस्य् ऐन्द्री सपत्नक्षयणी

3
वाचा मेन्द्रियेणाविश
वसन्तम् ऋतूनाम् प्रीणामि स मा प्रीतः प्रीणातु
ग्रीष्मम् ऋतूनाम् प्रीणामि स मा प्रीतः प्रीणातु
वर्षा ऋतूनाम् प्रीणामि ता मा प्रीताः प्रीणन्तु
शरदम् ऋतूनाम् प्रीणामि सा मा प्रीता प्रीणातु
हेमन्तशिशिराव् ऋतूनाम् प्रीणामि तौ मा प्रीतौ प्रीणीताम्
अग्नीषोमयोर् अहं देवयज्यया चक्षुष्मान् भूयासम्
अग्नेर् अहं देवयज्ययाऽन्नादो भूयासम् ॥

4
दब्धिरस्य् अदब्धो भूयासम् अमुं दभेयम्
अग्नीषोमयोर् अहं देवयज्यया वृत्रहा भूयासम्
इन्द्राग्नियोर् अहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम्
इन्द्रस्याहं देवयज्ययेन्द्रियावी भूयासम्
महेन्द्रस्याहं देवयज्यया जेमानम् महिमानं गमेयम्
अग्नेः स्विष्टकृतो ऽहं देवयज्ययाऽऽयुष्मान् यज्ञेन प्रतिष्ठां गमेयम् ॥

1.6.3 अनुवाक 3
इडाभागादि अनुमन्त्रणमन्त्राः

1
अग्निर् मा दुरिष्टात् पातु सविताऽघशꣳसात् ।
यो मे ऽन्ति दूरे ऽरातीयति तम् एतेन जेषम् ।
सुरूपवर्षवर्ण एहीमान् भद्रान् दुर्याꣳ अभ्य् एहि माम् अनुव्रता
न्यु शीर्षाणि मृढ्वम्
इड एह्य् अदित एह्य् सरस्वत्य् एहि
रन्तिर् असि रमतिर् असि सूनर्य् असि
जुष्टे जुष्टिं ते ऽशीयोपहूत उपहवं

2
ते ऽशीय
सा मे सत्याशीर् अस्य यज्ञस्य भूयात् ।
अरेडता मनसा तच् छकेयम् ।
यज्ञो दिवꣳ रोहतु यज्ञो दिवं गच्छतु
यो देवयानः पन्थास् तेन यज्ञो देवाꣳ अप्य् एतु ।
अस्मास्व् इन्द्र इन्द्रियं दधात्व् अस्मान् राय उत यज्ञाः सचन्ताम् अस्मासु सन्त्व् आशिषः सा नः प्रिया सुप्रतूर्तिर् मघोनी
जुष्टिर् असि जुषस्व नो जुष्टा नः

3
असि जुष्टिं ते गमेयम्
मनो ज्योतिर् जुषताम् आज्यं विच्छिन्नं यज्ञꣳ सम् इमं दधातु । बृहस्पतिस् तनुताम् इमं नो विश्वे देवा इह मादयन्ताम् ॥
ब्रधन् पिन्वस्व
ददतो मे मा क्षायि कुर्वतो मे मोप दसत्
प्रजापतेर् भागो ऽस्य् ऊर्जस्वान् पयस्वान्
प्राणापानौ मे पाहि समानव्यानौ मे पाह्य् उदानव्यानौ मे पाहि ।
अक्षितो ऽस्य् अक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रा ऽमुष्मिँल्लोके

1.6.4 अनुवाक 4
अनुयाजाद्यनुमन्त्रम्

1
बर्हिषो ऽहं देवयज्यया प्रजावान् भूयासम् ।
नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम्
अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम्
अग्नेर् अहम् उज्जितिम् अनूज् जेषम् ।
सोमस्याहम् उज्जितिम् अनूज् जेषम्
अग्नेर् अहम् उज्जितिम् अनूज् जेषम्
अग्नीषोमयोर् अहम् उज्जितिम् अनूज् जेषम्
इन्द्राग्नियोर् अहम् उज्जितिम् अनूज् जेषम्
इन्द्रस्याहम्

2
उज्जितिम् अनूज् जेषम्
महेन्द्रस्याहम् उज्जितिम् अनूज् जेषम्
अग्नेः स्विष्टकृतो ऽहम् उज्जितिम् अनूज् जेषम्
वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाꣳ इन्द्रो मे निग्राभेणाधराꣳ अकः ॥
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥
एमा अग्मन्न् आशिषो दोहकामा इन्द्रवन्तः

3
वनामहे धुक्षीमहि प्रजाम् इषम् ॥
रोहितेन त्वाऽग्निर् देवतां गमयतु हरिभ्यां त्वेन्द्रो देवतां गमयत्व् एतशेन त्वा सूर्यो देवतां गमयतु
वि ते मुञ्चामि रशना वि रश्मीन् वि योक्त्रा यानि परिचर्तनानि धत्ताद् अस्मासु द्रविणं यच् च भद्रम् प्र णो ब्रूताद् भागधान् देवतासु
विष्णोः शम्योर् अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् ।
सोमस्याहं देवयज्यया

4
सुरेता रेतो धिषीय
त्वष्टुर् अहं देवयज्यया पशूनाꣳ रूपम् पुषेयम् ।
देवानाम् पत्नीर् अग्निर् गृहपतिर् यज्ञस्य मिथुनं तयोर् अहं देवयज्यया मिथुनेन प्र भूयासम् ।
वेदो ऽसि वित्तिर् असि विदेय
कर्मासि करुणम् असि क्रियासम् ।
सनिर् असि सनितासि सनेयम् ।
घृतवन्तं कुलायिनꣳ रायस् पोषꣳ सहस्रिणं वेदो ददातु वाजिनम् ॥

1.6.5 अनुवाक 5
आप्यायनादि अनुमन्त्रणम्

1
आ प्यायतां ध्रुवा घृतेन यज्ञंयज्ञम् प्रति देवयद्भ्यः । सूर्याया ऊधो ऽदित्या उपस्थ उरुधारा पृथिवी यज्ञे अस्मिन् ॥
प्रजापतेर् विभान् नाम लोकस् तस्मिꣳस् त्वा दधामि सह यजमानेन
सद् असि सन् मे भूयाः सर्वम् असि सर्वम् मे भूयाः पूर्णम् असि पूर्णम् मे भूया अक्षितम् असि मा मे क्षेष्ठाः ।
प्राच्यां दिशि देवा ऋत्विजो मार्जयन्तां दक्षिणायाम्

2
दिशि मासाः पितरो मार्जयन्ताम् प्रतीच्यां दिशि गृहाः पशवो मार्जयन्ताम् उदीच्यां दिश्य् आप ओषधयो वनस्पतयो मार्जयन्तामूर्ध्वायां दिशि यज्ञः संवत्सरो यज्ञपतिर् मार्जयन्ताम् ।
विष्णोः क्रमो ऽस्य् अभिमातिहा गायत्रेण छन्दसा पृथिवीम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः ।
विष्णोः क्रमो ऽस्य् अभिशस्तिहा त्रैष्टुभेन छन्दसान्तरिक्षम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः ।
विष्णोः क्रमो ऽस्य् अरातीयतो हन्ता जागतेन छन्दसा दिवम् अनु वि क्रमे निर्भक्तः स यं द्विष्मः ।
विष्णोः क्रमो ऽसि शत्रूयतो हन्ताऽऽनुष्टुभेन छन्दसा दिशो ऽनु वि क्रमे निर्भक्तः स यं द्विष्मः ॥

1.6.6 अनुवाक 6
सूर्योपस्थानादि मन्त्राः
1
अगन्म सुवः सुवर् अगन्म
संदृशस् ते मा छित्सि यत् ते तपस् तस्मै ते मा वृक्षि
सुभूर् असि श्रेष्ठो रश्मीनाम् आयुर्धा अस्य् आयुर् मे धेहि वर्चोधा असि वर्चो मयि धेहि ।
इदम् अहम् अमुम् भ्रातृव्यम् आभ्यो दिग्भ्यो ऽस्यै दिवो ऽस्माद् अन्तरिक्षाद् अस्यै पृथिव्या अस्माद् अन्नाद्यान् निर् भजामि निर्भक्तः स यं द्विष्मः ॥

2
सम् ज्योतिषाऽभूवम्
ऐन्द्रीम् आवृतम् अन्वावर्ते
सम् अहम् प्रजया सम् मया प्रजा
सम् अहꣳ रायस् पोषेण सम् मया रायस् पोषः ।
समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् ।
वसुमान् यज्ञो वसीयान् भूयासम्
अग्न आयूꣳषि पवस आ सुवोर्जम् इषं च नः । आरे बाधस्व दुच्छुनाम् ॥
अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यम्

3
दधत् पोषꣳ रयिम् मयि ॥
अग्ने गृहपते सुगृहपतिर् अहं त्वया गृहपतिना भूयासꣳ सुगृहपतिर् मया त्वं गृहपतिना भूयाः शतꣳ हिमास् ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीं ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् ।
कस् त्वा युनक्ति स त्वा वि मुञ्चत्व् ॥
अग्ने व्रतपते व्रतम् अचारिषं तद् अशकं तन् मे ऽराधि
यज्ञो बभूव स आ

4
बभूव स प्र जज्ञे स वावृधे । स देवानाम् अधिपतिर् बभूव सो अस्माꣳ अधिपतीन् करोतु वयꣳ स्याम पतयो रयीणाम्
गोमाꣳ अग्ने ऽविमाꣳ अश्वी यज्ञो नृवत्सखा सदम् इद् अप्रमृष्यः । इडावाꣳ एषो असुर प्रजावान् दीर्घो रयिः पृथुबुध्नः सभावान् ॥

1.6.7 अनुवाक 7
देवतापरिग्रहादि

1
यथा वै समृतसोमा एवं वा एते समृतयज्ञा यद् दर्शपूर्णमासौ
कस्य वाह देवा यज्ञम् आगच्छन्ति कस्य वा न
बहूनां यजमानानां यो वै देवताः पूर्वः परिगृह्णाति स एनाः श्वो भूते यजते ।
एतद् वै देवानाम् आयतनं यद् आहवनीयः ।
अन्तराग्नी पशूनाम् ।
गार्हपत्यो मनुष्याणाम्
अन्वाहार्यपचनः पितृणाम्
अग्निं गृह्णाति
स्व एवायतने देवताः परि

2
गृह्णाति
ताः श्वो भूते यजते
व्रतेन वै मेध्यो ऽग्निर् व्रतपतिः ।
ब्राह्मणो व्रतभृत् ।
व्रतम् उपैष्यन् ब्रूयात् ।
अग्ने व्रतपते व्रतं चरिष्यामीति ।
अग्निर् वै देवानां व्रतपतिस्
तस्मा एव प्रतिप्रोच्य व्रतम् आ लभते
बर्हिषा पूर्णमासे व्रतम् उपैति वत्सैर् अमावास्यायाम्
एतद् ध्य् एतयोर् आयतनम्
उपस्तीर्यः पूर्वश् चाग्निर् अपरश् चेत्य् आहुः ।
मनुष्याः

3
इन् न्वा उपस्तीर्णम् इच्छन्ति किम् उ देवा येषां नवावसानम्
उपास्मिञ् छ्वो यक्ष्यमाणे देवता वसन्ति य एवं विद्वान् अग्निम् उपस्तृणाति
यजमानेन ग्राम्याश् च पशवो ऽवरुध्या आरण्याश् चेत्य् आहुः ।
यद् ग्राम्यान् उपवसति तेन ग्राम्यान् अव रुन्द्धे
यद् आरण्यस्याश्नाति तेनारण्यान्
यद् अनाश्वान् उपवसेत् पितृदेवत्यः स्यात् ।
आरण्यस्याश्नाति ।
इन्द्रियम्

4
वा आरण्यम्
इन्द्रियम् एवात्मन् धत्ते
यद् अनाश्वान् उपवसेत् क्षोधुकः स्यात् ।
यद् अश्नीयाद् रुद्रो ऽस्य पशून् अभि मन्येत ।
अपो ऽश्नाति
तन् नेवाशितं नेवानशितम् ।
न क्षोधुको भवति
नास्य रुद्रः पशून् अभि मन्यते
वज्रो वै यज्ञः
क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः ।
यद् अनाश्वान् उपवसति
वज्रेणैव साक्षात् क्षुधम् भ्रातृव्यꣳ हन्ति ॥

1.6.8 अनुवाक 8
यज्ञायुधभृतिः

1
यो वै श्रद्धाम् अनारभ्य यज्ञेन यजते नास्येष्टाय श्रद् दधते ।
अपः प्र णयति श्रद्धा वा आपः श्रद्धाम् एवारभ्य यज्ञेन यजत उभये ऽस्य देवमनुष्या इष्टाय श्रद् दधते तद् आहुर् अति वा एता वर्त्रं नेदन्त्य् अति वाचं मनो वावैता नाति नेदन्तीति
मनसा प्र णयतीयं वै मनः

2
अनयैवैनाः प्र णयत्य् अस्कन्नहविर् भवति य एवं वेद
यज्ञायुधानि सम् भवति यज्ञो वै यज्ञायुधानि यज्ञम् एव तत् सम् भरति
यद् एकमेकꣳ सम्भरेत् पितृदेवत्यानि स्युर् यत् सह सर्वाणि मानुषाणि
द्वेद्वे सम् भरति याज्यानुवाक्ययोर् एव रूपं करोत्य् अथो मिथुनम् एव
यो वै दश यज्ञायुधानि वेद मुखतो ऽस्य यज्ञः कल्पते
स्फ्यः

3
च कपालानि चाग्निहोत्रहवणी शूर्पं च कृष्णाजिनं च शम्या चोलूखलं च मुसलं च दृषच् चोपला चैतानि वै दश यज्ञायुधानि य एवं वेद मुखतो ऽस्य यज्ञः कल्पते
यो वै देवेभ्यः प्रतिप्रोच्य यज्ञेन यजते जुषन्ते ऽस्य देवा हव्यम्
हविर् निरुप्यमाणम् अभि मन्त्रयेताग्निꣳ होतारम् इह तꣳ हुव इति ॥

4
देवेभ्य एव प्रतिप्रोच्य यज्ञेन यजते जुषन्ते ऽस्य देवा हव्यम्
एष वै यज्ञस्य ग्रहो गृहीत्वैव यज्ञेन यजते
तद् उदित्वा वाचं यच्छति यज्ञस्य धृत्यै ।
अथो मनसा वै प्रजापतिर् यज्ञम् अतनुत मनसैव तद् यज्ञं तनुते रक्षसाम् अनन्ववचाराय
यो वै यज्ञं योग आगते युनक्ति युङ्क्ते युञ्जानेषु
कस् त्वा युनक्ति स त्वा युनक्त्व् इत्य् आह प्रजापतिर् वै कः प्रजापतिनैवैनं युनक्ति युङ्क्ते युञ्जानेषु ॥

1.6.9 अनुवाक 9
द्वादश द्वन्द्व सम्पत्तिः

1
प्रजापतिर् यज्ञान् असृजताग्निहोत्रं चाग्निष्टोमं च पौर्णमासीं चोक्थ्यं चामावास्यां चातिरात्रं च
तान् उद् अमिमीत
यावद् अग्निहोत्रम् आसीत् तावान् अग्निष्टोमो यावती पौर्णमासी तावान् उक्थ्यो यावत्य् अमावास्या तावान् अतिरात्रः ।
य एवं विद्वान् अग्निहोत्रं जुहोति यावद् अग्निष्टोमेनोपाप्नोति तावद् उपाप्नोति
य एवं विद्वान् पौर्णमासीं यजते यावद् उक्थ्येनोपाप्नोति

2
तावद् उपाप्नोति
य एवं विद्वान् अमावास्यां यजते यावद् अतिरात्रेणोपाप्नोति तावद् उपाप्नोति
परमेष्ठिनो वा एष यज्ञो ऽग्र आसीत्
तेन स परमां काष्ठाम् अगच्छत्
तेन प्रजापतिं निरवासाययत्
तेन प्रजापतिः परमां काष्ठाम् अगच्छत्
तेनेन्द्रं निरवासाययत्
तेनेन्द्रः परमां काष्ठाम् अगच्छत्
तेनाग्नीषोमौ निरवासाययत्
तेनाग्नीषोमौ परमां काष्ठाम् अगच्छताम् ।
यः

3
एवं विद्वान् दर्शपूर्णमासौ यजते परमाम् एव काष्ठां गच्छति
यो वै प्रजातेन यज्ञेन यजते प्र प्रजया पशुभिर् मिथुनैर् जायते
द्वादश मासाः संवत्सरो द्वादश द्वंद्वानि दर्शपूर्णमासयोस् तानि सम्पाद्यानीत्य् आहुः ।
वत्सं चोपावसृजत्य् उखां चाधि श्रयति ।
अव च हन्ति दृषदौ च समाहन्ति ।
अधि च वपते कपालानि चोप दधाति
पुरोडाशं च ॥

4
अधिश्रयत्य् आज्यं च
स्तम्बयजुश् च हरत्य् अभि च गृह्णाति
वेदिं च परि गृह्णाति पत्नीं च सं नह्यति
प्रोक्षणीश् चासादयत्य् आज्यं च ।
एतानि वै द्वादश द्वंद्वानि दर्शपूर्णमासयोस्
तानि य एवꣳ सम्पाद्य यजते प्रजातेनैव यज्ञेन यजते प्र प्रजया पशुभिर् मिथुनैर् जायते ॥

1.6.10 अनुवाक 10
हविःसादनम्

1
ध्रुवो ऽसि ध्रुवो ऽहꣳ सजातेषु भूयासम् इत्य् आह ध्रुवान् एवैनान् कुरुते ।
उग्रो ऽस्य् उग्रो ऽहꣳ सजातेषु भूयासम् इत्य् आहाप्रतिवादिन एवैनान् कुरुते ।
अभिभूर् अस्य् अभिभूर् अहꣳ सजातेषु भूयासम् इत्य् आह य एवैनम् प्रत्युत्पिपीते तम् उपास्यते
युनज्मि त्वा ब्रह्मणा दैव्येनेत्य् आहैष वा अग्नेर् योगस् तेन

2
एवैनं युनक्ति
यज्ञस्य वै समृद्धेन देवाः सुवर्गं लोकम् आयन् यज्ञस्य व्यृद्धेनासुरान् परा भावयन् यन् मे अग्ने अस्य यज्ञस्य रिष्याद् इत्य् आह यज्ञस्यैव तत् समृद्धेन यजमानः सुवर्गं लोकम् एति यज्ञस्य व्यृद्धेन भ्रातृव्यान् परा भावयति ।
अग्निहोत्रम् एताभिर् व्याहृतीभिर् उप सादयेद् यज्ञमुखं वा अग्निहोत्रम् ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म

3
कुरुते संवत्सरे पर्यागत एताभिर् एवोप सादयेद् ब्रह्मणैवोभयतः संवत्सरम् परि गृह्णाति
दर्शपूर्णमासौ चातुर्मास्यान्य् आलभमान एताभिर् व्याहृतीभिर् हवीꣳष्य् आ सादयेद् यज्ञमुखं वै दर्शपूर्णमासौ चातुर्मास्यानि ब्रह्मैता व्याहृतयो यज्ञमुख एव ब्रह्म कुरुते संवत्सरे पर्यागत एताभिर् एवा सादयेद् ब्रह्मणैवोभयतः संवत्सरम् परि गृह्णाति
यद् वै यज्ञस्य साम्ना क्रियते राष्ट्रम्

4
यज्ञस्याऽऽशीर् गच्छति यद् ऋचा विशं यज्ञस्याऽऽशीर् गच्छत्य् अथ ब्राह्मणो ऽनाशीर्केण यज्ञेन यजते सामिधेनीर् अनुवक्ष्यन्न् एता व्याहृतीः पुरस्ताद् दध्याद् ब्रह्मैव प्रतिपदं कुरुते तथा ब्राह्मणः साशीर्केण यज्ञेन यजते
यं कामयेत यजमानम् भ्रातृव्यम् अस्य यज्ञस्याऽऽशीर् गच्छेद् इति तस्यैता व्याहृतीः पुरोऽनुवाक्यायां दध्याद् भ्रातृव्यदेवत्या वै पुरोऽनुवाक्या भ्रातृव्यम् एवास्य यज्ञस्य

5
आशीर् गच्छति
यान् कामयेत यजमानान्त् समावत्य् एनान् यज्ञस्याऽऽशीर् गच्छेद् इति तेषाम् एता व्याहृतीः पुरोऽनुवाक्याया अर्धर्च एकां दध्याद् याज्यायै पुरस्ताद् एकां याज्याया अर्धर्च एकां तथैनान्त् समावती यज्ञस्याशीर् गच्छति
यथा वै पर्जन्यः सुवृष्टं वर्षत्य् एवं यज्ञो यजमानस्य वर्षति स्थलयोदकम् परिगृह्णन्त्य् आशिषा यज्ञं यजमानः परि गृह्णाति
मनो ऽसि प्राजापत्यम् ॥

6
मनसा मा भूतेना ऽऽविशेत्य् आह मनो वै प्राजापत्यम् प्रजापत्यो यज्ञो मन एव यज्ञम् आत्मन् धत्ते
वाग् अस्य् ऐन्द्री सपत्नक्षयणी वाचा मेन्द्रियेणाऽऽ विशेत्य् आहैन्द्री वै वाग् वाचम् एवैन्द्रीम् आत्मन् धत्ते ॥

1.6.11 अनुवाक 11
आश्रावणादिमन्त्राः

1
यो वै सप्तदशम् प्रजापतिं यज्ञम् अन्वायत्तं वेद प्रति यज्ञेन तिष्ठति न यज्ञाद् भ्रꣳशते ।
आ श्रावयेति चतुरक्षरम् अस्तु श्रौषड् इति चतुरक्षरं यजेति द्व्यक्षरं ये यजामह इति पञ्चाक्षरं द्व्यक्षरो वषट्कारः ।
एष वै सप्तदशः प्रजापतिर् यज्ञम् अन्वायत्तः ।
य एवं वेद प्रति यज्ञेन तिष्ठत् न यज्ञाद् भ्रꣳशते
यो वै यज्ञस्य प्रायणम् प्रतिष्ठाम्

2
उदयनं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सꣳस्थां गच्छति ।
आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कार एतद् वै यज्ञस्य प्रायणम् एषा प्रतिष्ठैतद् उदयनम् ।
य एवं वेद प्रतिष्ठितेनारिष्टेन यज्ञेन सꣳस्थां गच्छति
यो वै सूनृतायै दोहं वेद दुह एवैनाम् ।
यज्ञो वै सूनृता ।
आ श्रावयेत्येवैनाम् अह्वत् ।
अस्तु

3
श्रौषड् इत्य् { उपावास्राग् ^ उपावास्राज् }
यजेत्य् उद् अनैषीत् ।
ये यजामह इत्य् उपासदत् ।
वषट्कारेण दोग्धि ।
एष वै सूनृतायै दोहः ।
य एवं वेद दुह एवैनाम् ।
देवा वै सत्त्रम् आसत
तेषां दिशो ऽदस्यन्
त एताम् आर्द्राम् पङ्क्तिम् अपश्यन्न् आ श्रावयेति पुरोवातम् अजनयन्न् अस्तु श्रौषड् इत्य् अभ्रꣳ सम् अप्लावयन् यजेति विद्युतम्

4
अजनयन् ये यजामह इति प्रावर्षयन् अभ्य् अस्तनयन् वषट्कारेण
ततो वै तेभ्यो दिशः प्राप्यायन्त
य एवं वेद प्रास्मै दिशः प्यायन्ते
प्रजापतिं त्वो वेद प्रजापतिस् त्वं वेद
यम् प्रजापतिर् वेद स पुण्यो भवति ।
एष वै छन्दस्यः प्रजापतिर् आ श्रावयास्तु श्रौषड् यज ये यजामहे वषट्कारः ।
य एवं वेद पुण्यो भवति
वसन्तम्

5
ऋतूनाम् प्रीणामीत्य् आह ।
ऋतवो वै प्रयाजाः ।
ऋतून् एव प्रीणाति
ते ऽस्मै प्रीता यथापूर्वं कल्पन्ते
कल्पन्ते ऽस्मा ऋतवो य एवं वेद ।
अग्नीषोमयोर् अहं देवयज्यया चक्षुष्मान् भूयासम् इत्य् आह ।
अग्नीषोमाभ्यां वै यज्ञश् चक्षुष्मान्
ताभ्याम् एव चक्षुर् आत्मन् धत्ते ।
अग्नेर् अहं देवयज्ययान्नादो भूयासम् इत्य् आह ।
अग्निर् वै देवानाम् अन्नादस्
तेनैव

6
अन्नाद्यम् आत्मन् धत्ते
दब्धिरस्य् अदब्धो भूयासम् अमुं दभेयम् इत्य् आह ।
एतया वै दब्ध्या देवा असुरान् अदभ्नुवन्
तयैव भ्रातृव्यं दभ्नोति ।
अग्नीषोमयोर् अहं देवयज्यया वृत्रहा भूयासम् इत्य् आह ।
अग्नीषोमाभ्यां वा इन्द्रो वृत्रम् अहन्
ताभ्याम् एव भ्रातृव्यꣳ स्तृणुते ।
इन्द्राग्नियोर् अहं देवयज्ययेन्द्रियाव्यन्नादो भूयासम् इत्य् आह ।
इन्द्रियाव्य् एवान्नादो भवति ।
इन्द्रस्य

7
अहं देवयज्ययेन्द्रियावी भूयासम् इत्य् आह ।
इन्द्रियाव्य् एव भवति
महेन्द्रस्याहं देवयज्यया जेमानम् महिमानं गमेयम् इत्य् आह
जेमानम् एव महिमानं गच्छति ।
अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह ।
आयुर् एवात्मन् धत्ते प्रति यज्ञेन तिष्ठति

1.6.12 अनुवाक 12
काम्येष्टियाज्यापुरोनुवाक्याः

1
इन्द्रं वो विश्वतस् परि हवामहे जनेभ्यः । अस्माकम् अस्तु केवलः ॥
इन्द्रं नरो नेमधिता हवन्ते यत् पार्या युनजते धियस् ताः । शूरो नृषाता शवसश् चकान आ गोमति व्रजे भजा त्वं नः ॥
इन्द्रियाणि शतक्रतो या ते जनेषु पञ्चसु । इन्द्र तानि त आ वृणे ॥
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । अनु

2
क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ॥
आ यस्मिन्त् सप्त वासवास् तिष्ठन्ति स्वारुहो यथा । ऋषिर् ह दीर्घश्रुत्तम इन्द्रस्य घर्मो अतिथिः ॥
आमासु पक्वम् ऐरय आ सूर्यꣳ रोहयो दिवि । घर्मं न सामन् तपता सुवृक्तिभिर् जुष्टं गिर्वणसे गिरः ॥
इन्द्रम् इद् गाथिनो बृहद् इन्द्रम् अर्केभिर् अर्किणः । इन्द्रं वाणीर् अनूषत ॥
गायन्ति त्वा गायत्रिणः

3
अर्चन्त्य् अर्कम् अर्किणः । ब्रह्माणस् त्वा शतक्रतव् उद् वꣳशम् इव येमिरे ॥
अꣳहोमुचे प्र भरेमा मनीषाम् ओषिष्ठदाव्ने सुमतिं गृणानाः । इदम् इन्द्र प्रति हव्यं गृभाय सत्याः सन्तु यजमानस्य कामाः ॥
विवेष यन् मा धिषणा जजान स्तवै पुरा पार्याद् इन्द्रम् अह्नः । अꣳहसो यत्र पीपरद् यथा नो नावेव यान्तम् उभये हवन्ते ॥
प्र सम्राजम् प्रथमम् अध्वराणाम्

4
अꣳहोमुचं वृषभं यज्ञियानाम् । अपां नपातम् अश्विना हयन्तम् अस्मिन् नर इन्द्रियं धत्तम् ओजः ॥
वि न इन्द्र मृधो जहि नीचा यच्छ पृतन्यतः । अधस्पदं तम् ईं कृधि यो अस्माꣳ अभिदासति ॥
इन्द्र क्षत्रम् अभि वामम् ओजो ऽजायथा वृषभ चर्षणीनाम् । अपानुदो जनम् अमित्रयन्तम् उरुं देवेभ्यो अकृणोर् उ लोकम् ॥
मृगो न भीमः कुचरो गिरिष्ठाः परावतः

5
आ जगामा परस्याः । सृकꣳ सꣳशाय पविम् इन्द्र तिग्मं वि शत्रून् ताढि वि मृधो नुदस्व ॥
वि शत्रून् वि मृधो नुद वि वृत्रस्य हनू रुज । वि मन्युम् इन्द्र भामितो ऽमित्रस्याभिदासतः ॥
त्रातारम् इन्द्रम् अवितारम् इन्द्रꣳ हवेहवे सुहवꣳ शूरम् इन्द्रम् । हुवे नु शक्रम् पुरुहूतम् इन्द्रꣳ स्वस्ति नो मघवा धात्व् इन्द्रः ॥
मा ते अस्याम्

6
सहसावन् परिष्टाव् अघाय भूम हरिवः परादै । त्रायस्व नो ऽवृकेभिर् वरूथैस् तव प्रियासः सूरिषु स्याम ॥
अनवस् ते रथम् अश्वाय तक्षन् त्वष्टा वज्रम् पुरुहूत द्युमन्तम् । ब्रह्माण इन्द्रम् महयन्तो अर्कैर् अवर्धयन्न् अहये हन्तवा उ ॥
वृष्णे यत् ते वृषणो अर्कम् अर्चान् इन्द्र ग्रावाणो अदितिः सजोषाः । अनश्वासो ये पवयो ऽरथा इन्द्रेषिता अभ्यवर्तन्त दस्यून् ॥