प्रमुखा विकल्पसूचिः उद्घाट्यताम्

1.7 प्रपाठक: 7
1.7.1 अनुवाक 1 इडानुमन्त्रणम्
1 पाकयज्ञं वा अन्व् आहिताग्नेः पशव उप तिष्ठन्त इडा खलु वै पाकयज्ञः सैषान्तरा प्रयाजानूयाजान् यजमानस्य लोके ऽवहिता । ताम् आह्रियमाणाम् अभि मन्त्रयेत
सुरूपवर्षवर्ण एहीति पशवो वा इडा पशून् एवोप ह्वयते । यज्ञं वै देवा अदुह्रन् यज्ञो ऽसुराꣳ अदुहत् ते ऽसुरा यज्ञदुग्धाः पराभवन् यो वै यज्ञस्य दोहं विद्वान्
2 यजते ऽप्य् अन्यं यजमानं दुहे । सा मे सत्याशीर् अस्य यज्ञस्य भूयाद् इत्य् आहैष वै यज्ञस्य दोहस् तेनैवैनं दुहे । प्रत्ता वै गौर् दुहे प्रत्तेडा यजमानाय दुह एते वा इडायै स्तना इडोपहूतेति वायुर् वत्सो । यर्हि होतेडाम् उपह्वयेत तर्हि यजमानो होतारम् ईक्षमाणो वायुम् मनसा ध्यायेत् ॥
3 मात्रे वत्सम् उपावसृजति । सर्वेण वै यज्ञेन देवाः सुवर्गं लोकम् आयन् पाकयज्ञेन मनुर् अश्राम्यत् सेडा मनुम् उपावर्तत तां देवासुरा व्यह्वयन्त प्रतीचीं देवाः पराचीं असुराः सा देवान् उपावर्तत पशवो वै तद् देवान् अवृणत पशवो ऽसुरान् अजहुर् । यं कामयेतापशुः स्याद् इति पराचीं तस्येडाम् उप ह्वयेतापशुर् एव भवन्ति यम्
4 कामयेत पशुमान्त् स्याद् इति प्रतीचीम् तस्येडाम् उप ह्वयेत पशुमान् एव भवति । ब्रह्मवादिनो वदन्ति स त्वा इडां उप ह्वयेत य इडां उपहूयात्मानम् इडायाम् उपह्वयेतेति । सा नः प्रिया सुप्रतूर्तिर् मघोनीत्य् आहेडाम् एवोपहूयात्मानम् इडायाम् उप ह्वयते । व्यस्तम् इव वा एतद् यज्ञस्य यद् इडा सामि प्राश्नन्ति
5 सामि मार्जयन्त एतत् प्रति वा असुराणां यज्ञो व्यच्छिद्यत ब्रह्मणा देवाः सम् अदधुर् । बृहस्पतिस् तनुताम् इमं न इत्य् आह ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैव यज्ञꣳ सं दधाति । विच्छिन्नं यज्ञꣳ सम् इमं दधात्व् इत्य् आह संतत्यै । विश्वे देवा इह मादयन्ताम् इत्य् आह संतत्यैव यज्ञं देवेभ्यो ऽनु दिशति । यां वै
6 यज्ञे दक्षिणां ददाति ताम् अस्य पशवो ऽनु सं क्रामन्ति स एष ईजानो ऽपशुर् भावुको यजमानेन खलु वै तत् कार्यम् इत्य् आहुर् यथा देवत्रा दत्तं कुर्वीताऽऽत्मन् पशून् रमयेतेति । ब्रध्न पिन्वस्वेत्य् आह यज्ञो वै ब्रध्नो यज्ञम् एव तन् महयत्य् अथो देवत्रैव दत्तं कुरुत आत्मन् पशून् रमयते । ददतो मे मा क्षायीत्य् आहाक्षितिम् एवोपैति । कुर्वतो मे मोप दसद् इत्य् आह
भूमानम् एवोपैति ॥

1.7.2 अनुवाक 2 इडाप्रशंसा
1 सꣳश्रवा ह सौवर्चनसस् तुमिंजम् औपोदितिम् उवाच यत् सत्त्रिणाꣳ होताभूः काम् इडाम् उपाह्वथा इति ताम् उपाह्व इति होवाच या प्राणेन देवान् दधार व्यानेन मनुष्यान् अपानेन पितॄन् इति छिनत्ति सा न छिनत्ती3 इति छिनत्तीति होवाच शरीरं वा अस्यै तद् उपाह्वथा इति होवाच गौर् वै
2 अस्यै शरीरम् । गां वाव तौ तत् पर्य् अवदताम् या यज्ञे दीयते सा प्राणेन देवान् दाधार यया मनुष्या जीवन्ति सा व्यानेन मनुष्यान् याम् पितृभ्यो घ्नन्ति साऽपानेन पितॄन् य एवं वेद पशुमान् भवति । अथ वै ताम् उपाह्व इति होवाच या प्रजाः प्रभवन्तीः प्रत्य् आभवतीति । अन्नं वा अस्यै तत् ॥
3 उपाह्वथा इति होवाच । ओषधयो वा अस्या अन्नम् ओषधयो वै प्रजाः प्रभवन्तीः प्रत्य् आ भवन्ति य एवं वेदान्नादो भवति । अथ वै ताम् उपाह्व इति होवाच या प्रजाः पराभवन्तीर् अनुगृह्णाति प्रत्य् आभवन्तीर् गृह्णातीति प्रतिष्ठां वा अस्यै तद् उपाह्वथा इति होवाच । इयं वा अस्यै प्रतिष्ठा ॥
4 इयं वै प्रजाः पराभवन्तीर् अनु गृह्णाति प्रत्य् आभवन्तीर् गृह्णाति य एवं वेद प्रत्य् एव तिष्ठति । अथ वै ताम् उपाह्व इति होवाच यस्यै निक्रमणे घृतम् प्रजाः संजीवन्तीः पिबन्तीति छिनत्ति सा न छिनत्ती3 इति न छिनत्तीति होवाच प्र तु जनयतीति । एष वा इडाम् उपाह्वथा इति होवाच वृष्टिर् वा इडा वृष्ट्यै वै निक्रमणे घृतम् प्रजाः संजीवन्तीः पिबन्ति य एवं वेद प्रैव जायते ऽन्नादो भवति ॥

1.7.3 अनुवाक 3 अन्वाहार्यः
1 परोऽक्षं वा अन्ये देवा इज्यन्ते प्रत्यक्षम् अन्ये यद् यजते य एव देवाः परोऽक्षम् इज्यन्ते तान् एव तद् यजति यद् अन्वाहार्यम् आहरत्य् एते वै देवाः प्रत्यक्षं यद् ब्राह्मणास् तान् एव तेन प्रीणाति । अथो दक्षिणैवास्यैषा । अथो यज्ञस्यैव छिद्रम् अपि दधाति यद् वै यज्ञस्य क्रूरं यद् विलिष्टं तद् अन्वाहार्येण
2 अन्वाहरति तद् अन्वाहार्यस्यान्वाहार्यत्वम् । देवदूता वा एते यद् ऋत्विजः । यद् अन्वाहार्यम् आहरति देवदूतान् एव प्रीणाति प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् स रिरिचानो ऽमन्यत स एतम् अन्वाहार्यम् अभक्तम् अपश्यत् तम् आत्मन्न् अधत्त स वा एष प्राजापत्यो यद् अन्वाहार्यः । यस्यैवंविदुषो ऽन्वाहार्य आह्रियते साक्षाद् एव प्रजापतिम् ऋध्नोति । अपरिमितो निरुप्यः । अपरिमितः प्रजापतिः । प्रजापतेः ॥
3 आप्त्यै देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत ते देवा एतम् प्राजापत्यम् अन्वाहार्यम् अपश्यन् तम् अन्वाहरन्त ततो देवा अभवन् परासुराः । यस्यैवं विदुषो ऽन्वाहार्य आह्रियते भवत्य् आत्मना परास्य भ्रातृव्यो भवति यज्ञेन वा इष्टी पक्वेन पूर्ती यस्यैवं विदुषो ऽन्वाहार्य आह्रियते स त्व् एवेष्टापूर्ती प्रजापतेर् भागो ऽसि
4 इत्य् आह प्रजापतिम् एव भागधेयेन सम् अर्धयति । ऊर्जस्वान् पयस्वान् इत्य् आह । ऊर्जम् एवास्मिन् पयो दधाति प्राणापानौ मे पाहि समानव्यानौ मे पाहीत्य् आह । आशिषम् एवैताम् आ शास्ते । अक्षितो ऽस्य् अक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिम्̐ लोक इत्य् आह क्षीयते वा अमुष्मिम्̐ लोके ऽन्नम् इतःप्रदानꣳ ह्य् अमुष्मिम्̐ लोके प्रजा उपजीवन्ति यद् एवम् अभिमृशत्य् अक्षितिम् एवैनद् गमयति नास्यामुष्मिम्̐ लोके ऽन्नं क्षीयते ॥

1.7.4 अनुवाक 4 शेषाहुत्यनुमन्त्रणम्
1 बर्हिषो ऽहं देवयज्यया प्रजावान् भूयासम् इत्य् आह बर्हिषा वै प्रजापतिः प्रजा असृजत तेनैव प्रजाः सृजते नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् इत्य् आह नराशꣳसेन वै प्रजापतिः पशून् असृजत तेनैव पशून्त् सृजते । अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह । आयुर् एवात्मन् धत्ते प्रति यज्ञेन तिष्ठति दर्शपूर्णमासयोः
2 वै देवा उज्जितिम् अनूदजयन् दर्शपूर्णमासाभ्याम् असुरान् अपानुदन्त । अग्नेर् अहम् उज्जितिम् अनूज् जेषम् इत्य् आह दर्शपूर्णमासयोर् एव देवतानां यजमान उज्जितिम् अनूज् जयति दर्शपूर्णमासाभ्याम् भ्रातृव्यान् अप नुदते वाजवतीभ्यां व्य् ऊहति । अन्नं वै वाजः । अन्नम् एवाव रुन्द्धे द्वाभ्याम् प्रतिष्ठित्यै यो वै यज्ञस्य द्वौ दोहौ विद्वान् यजत उभयतः
3 एव यज्ञं दुहे पुरस्ता च्चोपरिष्टाच् चैष वा अन्यो यज्ञस्य दोह इडायाम् अन्यः । यर्हि होता यजमानस्य नाम गृह्णीयात् तर्हि ब्रूयात् । एमा अग्मन्न् आशिषो दोहकामा इति सꣳस्तुता एव देवता दुहे । अथो उभयत एव यज्ञं दुहे पुरस्ताच् चोपरिष्टाच् च रोहितेन त्वाग्निर् देवतां गमयत्व् इत्य् आह । एते वै देवाश्वाः ।
4 यजमानःप्रस्तरः । यद् एतैः प्रस्तरम् प्रहरति देवाश्वैर् एव यजमानꣳ सुवर्गं लोकं गमयति वि ते मुञ्चामि रशना वि रश्मीन् इत्य् आह । एष वा अग्नेर् विमोकस् तेनैवैनं वि मुञ्चति विष्णोः शम्योर् अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह यज्ञो वै विष्णुर् यज्ञ एवान्ततः प्रति तिष्ठति सोमस्याहं देवयज्यया सुरेताः
5 रेतो धिषीयेत्य् आह सोमो वै रेतोधास् तेनैव रेत आत्मन् धत्ते त्वष्टुर् अहं देवयज्यया पशूनाꣳ रूपम् पुषेयम् इत्य् आह त्वष्टा वै पशूनाम् मिथुनानाꣳ रूपकृत् तेनैव पशूनाꣳ रूपम् आत्मन् धत्ते देवानाम् पत्नीर् अग्निर् गृहपतिर् यज्ञस्य मिथुनं तयोर् अहं देवयज्यया मिथुनेन प्र भूयासम् इत्य् आह । एतस्माद् वै मिथुनात् प्रजापतिर् मिथुनेन
6 प्राजायत तस्माद् एव यजमानो मिथुनेन प्र जायते वेदो ऽसि वित्तिर् असि विदेयेत्य् आह वेदेन वै देवा असुराणां वित्तं वेद्यम् अविन्दन्त तद् वेदस्य वेदत्वम् । यद्यद् भ्रातृव्यस्याभिध्यायेत् तस्य नाम गृह्णीयात् तद् एवास्य सर्वं वृङ्क्ते घृतवन्तं कुलायिनꣳ रायस् पोषꣳ सहस्रिणं वेदो ददातु वाजिनम् इत्य् आह प्र सहस्रम् पशून् आप्नोति । आस्य प्रजायां वाजी जायते य एवं वेद ॥

1.7.5 अनुवाक 5 आप्यायनादि मन्त्राः
1 ध्रुवां वै रिच्यमानां यज्ञो ऽनु रिच्यते यज्ञं यजमानो यजमानम् प्रजाः । ध्रुवाम् आप्यायमानां यज्ञो ऽन्व् आ प्यायते यज्ञं यजमानो यजमानम् प्रजाः । आ प्यायतां ध्रुवा घृतेनेत्य् आह ध्रुवाम् एवा प्याययति ताम् आप्यायमानां यज्ञो ऽन्व् आ प्यायते यज्ञं यजमानो यजमानम् प्रजाः प्रजापतेर् विभान् नाम लोकस् तस्मिꣳस् त्वा दधामि सह यजमानेनेति
2 आह । अयं वै प्रजापतेर् विभान् नाम लोकस् तस्मिन्न् एवैनं दधाति सह यजमानेन रिच्यत इव वा एतद् यद् यजते यद् यजमानभागम् प्राश्नात्य् आत्मानम् एव प्रीणाति । एतावान् वै यज्ञो यावान् यजमानभागः । यज्ञो यजमानः । यद् यजमान भागम् प्राश्नाति यज्ञ एव यज्ञम् प्रति ष्ठापयति । एतद् वै सूयवसꣳ सोदकं यद् बर्हिश् चापश् च । एतत्
3 यजमानस्यायतनं यद् वेदिः । यद् पूर्णपात्रम् अन्तर्वेदि निनयति स्व एवायतने सूयवसꣳ सोदकं कुरुते सद् असि सन् मे भूया इत्य् आह । आपो वै यज्ञः । आपो ऽमृतम् । यज्ञम् एवामृतम् आत्मन् धत्ते सर्वाणि वै भूतानि व्रतम् उपयन्तम् अनूप यन्ति प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् इत्य् आह । एष वै दर्शपूर्णमासयोर् अवभृथः ॥
4 यान्य् एवैनम् भूतानि व्रतम् उपयन्तम् अनूपयन्ति तैर् एव सहावभृथम् अवैति विष्णुमुखा वै देवाश् छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभ्य् अजयन् यद् विष्णुक्रमान् क्रमते विष्णुर् एव भूत्वा यजमानः । छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभि जयति विष्णोः क्रमो ऽस्य् अभिमातिहेत्य् आह गायत्री वै पृथिवी त्रैष्टुभम् अन्तरिक्षं जागती द्यौर् आनुष्टुभीर् दिशः । छन्दोभिर् एवेमाँल्लोकान् यथापूर्वम् अभि जयति ॥

1.7.6 अनुवाक 6 उपस्थानादि मन्त्राः
1 अगन्म सुवः सुवर् अगन्मेत्य् आह सुवर्गम् एव लोकम् एति संदृशस् ते मा छित्सि यत् ते तपस् तस्मै ते माऽऽ वृक्षीत्याह यथायजुर् एवैतत् सुभूर् असि श्रेष्ठो रश्मीनाम् आयुर्धा अस्य् आयुर् मे धेहीत्य् आह । आशिषम् एवैताम् आ शास्ते प्र वा एषो ऽस्माल् लोकाच् च्यवते यः
2 विष्णुक्रमान् क्रमते सुवर्गाय हि लोकाय विष्णुक्रमाः क्रम्यन्ते ब्रह्मवादिनो वदन्ति स त्वै विष्णुक्रमान् क्रमेत य इमाँल्लोकान् भ्रातृव्यस्य संविद्य पुनर् इमं लोकम् प्रत्यवरोहेद् इति । एष वा अस्य लोकस्य प्रत्यवरोहो यद् आह । इदम् अहम् अमुम् भ्रातृव्यम् आभ्यो दिग्भ्यो ऽस्यै दिव इति । इमान् एव लोकान् भ्रातृव्यस्य संविद्य पुनर् इमं लोकम् प्रत्यवरोहति सम्
3 ज्योतिषाभूवम् इत्य् आह । अस्मिन्न् एव लोके प्रति तिष्ठति । ऐन्द्रीम् आवृतम् अन्वावर्त इत्य् आह । असौ वा आदित्य इन्द्रस् तस्यैवावृतम् अनु पर्यावर्तते दक्षिणा पर्यावर्तते स्वम् एव वीर्यम् अनु पर्यावर्तते तस्माद् दक्षिनो ऽर्ध आत्मनो वीर्यावत्तरो ऽथो आदित्यस्यैवावृतम् अनु पर्यावर्तते सम् अहम् प्रजया सम् मया प्रजेत्य् आह । आशिषम्
4 एवैताम् आ शास्ते समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् इत्य् आह यथायजुर् एवैतत् । वसुमान् यज्ञो वसीयान् भूयासम् इत्य् आह । आशिषम् एवैताम् आ शास्ते बहु वै गार्हपत्यस्यान्ते मिश्रम् इव चर्यत आग्निपावमानीभ्याम् गार्हपत्यम् उप तिष्ठते पुनात्य् एवाग्निम् पुनीत आत्मानं द्वाभ्याम् प्रतिष्ठित्यै । अग्ने गृहपत इत्य् आह ॥
5 यथायजुर् एवैतच् छतꣳ हिमा इत्य् आह शतं त्वा हेमन्तान् इन्धिषीयेति वावैतद् आह पुत्रस्य नाम गृह्णात्य् अन्नादम् एवैनं करोति ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीम् इति ब्रूयाद् यस्य पुत्रो ऽजातः स्यात् तेजस्व्य् एवास्य ब्रह्मवर्चसी पुत्रो जायते ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् इति ब्रूयाद् यस्य पुत्रः
6 जातः स्यात् तेज एवास्मिन् ब्रह्मवर्चसं दधाति । यो वै यज्ञम् प्रयुज्य न विमुञ्चत्य् अप्रतिष्ठानो वै स भवति कस् त्वा युनक्ति स त्वा वि मुञ्चत्वित्याह प्रजापतिर् वै कः प्रजापतिनैवैनं युनक्ति प्रजापतिना वि मुञ्चति प्रतिष्ठित्यै । ईश्वरं वै व्रतम् अविसृष्टम् प्रदहो ऽग्ने व्रतपते व्रतम् अचारिषम् इत्य् आह व्रतम् एव
7 वि सृजते शान्त्या अप्रदाहाय पराङ् वाव यज्ञ एति न नि वर्तते पुनर् यो वै यज्ञस्य पुनरालम्भं विद्वान् यजते तम् अभि नि वर्तते यज्ञो बभूव स आ बभूवेत्य् आहैष वै यज्ञस्य पुनरालम्भस् तेनैवैनम् पुनर् आ लभते । अनवरुद्धा वा एतस्य विराड् य आहिताग्निः सन्न् असभः पशवः खलु वै ब्राह्मणस्य सभा । इष्ट्वा प्राङ् उत्क्रम्य ब्रूयाद् गोमाꣳ अग्ने ऽविमाꣳ अश्वी यज्ञ इत्य् अव सभाꣳ रुन्द्धे प्र सहस्रम् पशून् आप्नोत्य् आऽस्य प्रजायां वाजी जायते ॥

1.7.7 अनुवाक 7 वाजपेये रथविषयकाः मन्त्राः
1 देव सवितः प्र सुव यज्ञम् प्र सुव यज्ञपतिम् भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचम् अद्य स्वदाति नः । इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् । वाजस्य नु प्रसवे मातरम् महीम् अदितिं नाम वचसा करामहे । यस्याम् इदं विश्वम् भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् । अप्सु
2 अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवथ वाजिनः ॥ वायुर् वा त्वा मनुर् वा त्वा गन्धर्वाः सप्तविꣳशतिः । ते अग्रे अश्वम् आयुञ्जन् ते अस्मिञ् जवम् आदधुः ॥ अपां नपाद् आशुहेमन् य ऊर्मिः ककुद्मान् प्रतूर्तिर् वाजसातमस् तेनायं वाजꣳ सेत् । विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि । अङ्कौ न्यङ्काव् अभितो रथं यौ ध्वान्तं वाताग्रम् अनु संचरन्तौ । दूरेहेतिर् इन्द्रियावान् पतत्री ते नो ऽग्नयः पप्रयः पारयन्तु ॥
 
1.7.8 अनुवाक 8 रथधावनमन्त्राः
1 देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषम् । देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकꣳ रुहेयम् इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजम् अजयित् । अश्वाजनि वाजिनि वाजेषु वाजिनीवत्य् अश्वान्त् समत्सु वाजय । अर्वासि सप्तिर् असि वाज्य् असि वाजिनो वाजं धावत मरुताम् प्रसवे जयत वि योजना मिमीध्वम् अध्वन स्कभ्नीत ॥
2 काष्ठां गच्छत वाजेवाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥ ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनः । मितद्रवः सहस्रसा मेधसाता सनिष्यवः । महो ये रन्तꣳ समिथेषु जभ्रिरे शं नो भवन्तु वाजिनो हवेषु देवताता मितद्रवः स्वर्काः । जम्भयन्तो ऽहिं वृकꣳ रक्षाꣳसि सनेम्य् अस्मद् युयवन्
3 अमीवाः ॥ एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्काꣳस्य् अन्व् आपनीफणत् ॥ उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ॥ आ मा वाजस्य प्रसवो जगम्याद् आ द्यावापृथिवी विश्वशम्भू । आ मा गन्ताम् पितरा
4 मातरा चाऽऽ मा सोमो अमृतत्वाय गम्यात् ॥ वाजिनो वाजजितो वाजꣳ सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत ॥ वाजिनो वाजजितो वाजꣳ ससृवाꣳसो वाजं जिगिवाꣳसो बृहस्पतेर् भागे नि मृड्ढ्वम् इयं वः सा सत्या संधाभूद् याम् इन्द्रेण समधद्ध्वम् अजीजिपत वनस्पतय इन्द्रं वाजं वि मुच्यध्वम् ॥

1.7.9 अनुवाक 9 यूपारोहणमन्त्राः
1 क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि जाय एहि सुवो रोहाव रोहाव हि सुवर् अहं नाव् उभयोः सुवो रोक्ष्यामि वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चाऽऽन्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च । आयुर् यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानः
2 यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताꣳ श्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पतां वाग् यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् । सुवर् देवाꣳ अगन्मामृता अभूम प्रजापतेः प्रजा अभूम सम् अहम् प्रजया सम् मया प्रजा सम् अहꣳ रायस् पोषेण सम् मया रायस् पोषः । अन्नाय त्वान्नाद्याय त्वा वाजाय त्वा वाजजित्यायै त्वा । अमृतम् असि पुष्टिर् असि प्रजननम् असि ॥

1.7.10 अनुवाक 10 अन्नहोमाः
1 वाजस्येमम् प्रसवः सुषुवे अग्रे सोमꣳ राजानम् ओषधीष्व् अप्सु । ता अस्मभ्यम् मधुमतीर् भवन्तु वयꣳ राष्ट्रे जाग्रियाम पुरोहिताः ॥ वाजस्येदम् प्रसव आ बभूवेमा च विश्वा भुवनानि सर्वतः । स विराजम् पर्य् एति प्रजानन् प्रजाम् पुष्टिं वर्धयमानो अस्मे ॥ वाजस्येमाम् प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् । अदित्सन्तं दापयतु प्रजानन् रयिम्
2 च नः सर्ववीरां नि यच्छतु ॥ अग्ने अच्छा वदेह नः प्रति नः सुमना भव । प्र णो यच्छ भुवस् पते धनदा असि नस् त्वम् ॥ प्र णो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सूनृता प्र वाग् देवी ददातु नः ॥ अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय । वाचं विष्णुꣳ सरस्वतीꣳ सवितारम्
3 च वाजिनम् ॥ सोमꣳ राजानं वरुणम् अग्निम् अन्वारभामहे । आदित्यान् विष्णुꣳ सूर्यम् ब्रह्माणं च बृहस्पतिम् । देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेस् त्वा साम्राज्येनाभि षिञ्चामीन्द्रस्य बृहस्पतेस् त्वा साम्राज्येनाभि षिञ्चामि ॥

1.7.11 अनुवाक 11 उज्जिति मन्त्राः
1 अग्निर् एकाक्षरेण वाचम् उद् अजयत् । अश्विनौ द्व्यक्षरेण प्राणापानाव् उद् अजयताम् । विष्णुस् त्र्यक्षरेण त्रीन् लोकान् उद् अजयत् सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत् पूषा पञ्चाक्षरेण पङ्क्तिम् उद् अजयत् । धाता षडक्षरेण षड् ऋतून् उद् अजयत् । मरुतः सप्ताक्षरेण सप्तपदाꣳ शक्वरीम् उद् अजयन् बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् । मित्रो नवाक्षरेण त्रिवृतꣳ स्तोमम् उद् अजयत् ॥
2 वरुणो दशाक्षरेण विराजम् उद् अजयत् । इन्द्र एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् । विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयन् वसवस् त्रयोदशाक्षरेण त्रयोदशꣳ स्तोमम् उद् अजयन् । रुद्राश् चतुर्दशाक्षरेण चतुर्दशꣳ स्तोमम् उद् अजयन् । आदित्याः पञ्चदशाक्षरेण पञ्चदशꣳ स्तोमम् उद् अजयन् प्रजापतिः सप्तदशाक्षरेण सप्तदशꣳ स्तोमम् उद् अजयत् ॥
 
1.7.12 अनुवाक 12 अतिग्राह्यमन्त्राः
1 उपयामगृहीतो ऽसि नृषदं त्वा द्रुषदम् भुवनसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा । उपयामगृहीतो ऽसि अप्सुषदं त्वा घृतसदम् व्योमसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा । उपयामगृहीतो ऽसि पृथिविषदं त्वान्तरिक्षसदम् नाकसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ये ग्रहाः पञ्चजनीना येषां तिस्रः परमजाः । दैव्यः कोशः
2 समुब्जितः । तेषां विशिप्रियाणाम् इषमूर्जꣳ सम् अग्रभीम् एष ते योनिर् इन्द्राय त्वा । अपाꣳ रसम् उद्वयसꣳ सूर्यरश्मिꣳ समाभृतम् । अपाꣳ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् एष ते योनिर् इन्द्राय त्वा । अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः । स प्रत्युदैद् धरुणो मध्वो अग्रꣳ स्वायां यत् तनुवां तनूम् ऐरयत । उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ॥

1.7.13 अनुवाक 13 काम्येष्टियाज्यापुरोनुवाक्याः
1 अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः । अन्व् इन्द्रꣳ रोदसी वावशाने अन्व् आपो आजिहत जायमानम् ॥ अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये । इन्द्राणीम् आसु नारिषु सुपत्नीम् अहम् अश्रवम् । न ह्य् अस्या अपरं चन जरसा
2 मरते पतिः ॥ नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते । यस्येदम् अप्यꣳ हविः प्रियं देवेषु गच्छति ॥ यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । यस्य शुष्माद् रोदसी अभ्यसेताम् नृम्णस्य मह्ना स जनास इन्द्रः ॥ आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः । पताति दिद्द्युन् नर्यस्य बाहुवोर् मा ते
3 मनो विष्वद्रियग् वि चारीत् ॥ मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते । नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः ॥ आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् । इन्द्र यत् ते माहिनं दत्त्रम् अस्त्य् अस्मभ्यं तद्धर्यश्व
4 प्र यन्धि ॥ प्रदातारꣳ हवामह इन्द्रम् आ हविषा वयम् । उभा हि हस्ता वसुना पृणस्वाऽऽ प्र यच्छ दक्षिणाद् ओत सव्यात् ॥ प्रदाता वज्री वृषभस् तुराषाट् छुष्मी राजा वृत्रहा सोमपावा । अस्मिन् यज्ञे बर्हिष्य् आ निषद्याथा भव यजमानाय शं योः ॥ इन्द्रः सुत्रामा स्ववाꣳ अवोभिः सुमृडीको भवतु विश्ववेदाः । बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य
5 पतयः स्याम ॥ तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाꣳ इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥ रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥ प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत । अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहा । अस्माकम् बोधि चोदिता नभन्ताम् अन्यकेषाम् । ज्याका अधि धन्वसु ॥



1.7.1 अनुवाक 1

इडानुमन्त्रणम्
1
पाकयज्ञं वा अन्व् आहिताग्नेः पशव उप तिष्ठन्त इडा खलु वै पाकयज्ञः
सैषान्तरा प्रयाजानूयाजान् यजमानस्य लोके ऽवहिता । ताम् आह्रियमाणाम् अभि मन्त्रयेत
सुरूपवर्षवर्ण एहीति पशवो वा इडा पशून् एवोप ह्वयते । यज्ञं वै देवा अदुह्रन् यज्ञो ऽसुराꣳ अदुहत्
ते ऽसुरा यज्ञदुग्धाः पराभवन् यो वै यज्ञस्य दोहं विद्वान्

2
यजते ऽप्य् अन्यं यजमानं दुहे । सा मे सत्याशीर् अस्य यज्ञस्य भूयाद् इत्य् आहैष वै यज्ञस्य दोहस्
तेनैवैनं दुहे । प्रत्ता वै गौर् दुहे प्रत्तेडा यजमानाय दुह एते वा इडायै स्तना इडोपहूतेति वायुर् वत्सो । यर्हि होतेडाम् उपह्वयेत तर्हि यजमानो होतारम् ईक्षमाणो वायुम् मनसा ध्यायेत् ॥

3
मात्रे वत्सम् उपावसृजति । सर्वेण वै यज्ञेन देवाः सुवर्गं लोकम् आयन्
पाकयज्ञेन मनुर् अश्राम्यत् सेडा मनुम् उपावर्तत तां देवासुरा व्यह्वयन्त प्रतीचीं देवाः पराचीं असुराः सा देवान् उपावर्तत पशवो वै तद् देवान् अवृणत पशवो ऽसुरान् अजहुर् । यं कामयेतापशुः स्याद् इति पराचीं तस्येडाम् उप ह्वयेतापशुर् एव भवन्ति
यम्

4
कामयेत पशुमान्त् स्याद् इति प्रतीचीम् तस्येडाम् उप ह्वयेत पशुमान् एव भवति । ब्रह्मवादिनो वदन्ति
स त्वा इडां उप ह्वयेत य इडां उपहूयात्मानम् इडायाम् उपह्वयेतेति । सा नः प्रिया सुप्रतूर्तिर् मघोनीत्य् आहेडाम् एवोपहूयात्मानम् इडायाम् उप ह्वयते । व्यस्तम् इव वा एतद् यज्ञस्य यद् इडा सामि प्राश्नन्ति

5
सामि मार्जयन्त एतत् प्रति वा असुराणां यज्ञो व्यच्छिद्यत
ब्रह्मणा देवाः सम् अदधुर् । बृहस्पतिस् तनुताम् इमं न इत्य् आह ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैव यज्ञꣳ सं दधाति । विच्छिन्नं यज्ञꣳ सम् इमं दधात्व् इत्य् आह
संतत्यै । विश्वे देवा इह मादयन्ताम् इत्य् आह संतत्यैव यज्ञं देवेभ्यो ऽनु दिशति । यां वै

6
यज्ञे दक्षिणां ददाति ताम् अस्य पशवो ऽनु सं क्रामन्ति
स एष ईजानो ऽपशुर् भावुको यजमानेन खलु वै तत् कार्यम् इत्य् आहुर् यथा देवत्रा दत्तं कुर्वीताऽऽत्मन् पशून् रमयेतेति । ब्रध्न पिन्वस्वेत्य् आह
यज्ञो वै ब्रध्नो यज्ञम् एव तन् महयत्य् अथो देवत्रैव दत्तं कुरुत आत्मन् पशून् रमयते । ददतो मे मा क्षायीत्य् आहाक्षितिम् एवोपैति । कुर्वतो मे मोप दसद् इत्य् आह
भूमानम् एवोपैति ॥

1.7.2 अनुवाक 2 इडाप्रशंसा

1
सꣳश्रवा ह सौवर्चनसस् तुमिंजम् औपोदितिम् उवाच
यत् सत्त्रिणाꣳ होताभूः काम् इडाम् उपाह्वथा इति
ताम् उपाह्व इति होवाच या प्राणेन देवान् दधार व्यानेन मनुष्यान् अपानेन पितॄन् इति
छिनत्ति सा न छिनत्ती3 इति
छिनत्तीति होवाच
शरीरं वा अस्यै तद् उपाह्वथा इति होवाच
गौर् वै

2
अस्यै शरीरम् ।
गां वाव तौ तत् पर्य् अवदताम्
या यज्ञे दीयते सा प्राणेन देवान् दाधार यया मनुष्या जीवन्ति सा व्यानेन मनुष्यान् याम् पितृभ्यो घ्नन्ति साऽपानेन पितॄन्
य एवं वेद पशुमान् भवति ।
अथ वै ताम् उपाह्व इति होवाच या प्रजाः प्रभवन्तीः प्रत्य् आभवतीति ।
अन्नं वा अस्यै तत् ॥

3
उपाह्वथा इति होवाच ।
ओषधयो वा अस्या अन्नम्
ओषधयो वै प्रजाः प्रभवन्तीः प्रत्य् आ भवन्ति
य एवं वेदान्नादो भवति ।
अथ वै ताम् उपाह्व इति होवाच या प्रजाः पराभवन्तीर् अनुगृह्णाति प्रत्य् आभवन्तीर् गृह्णातीति
प्रतिष्ठां वा अस्यै तद् उपाह्वथा इति होवाच ।
इयं वा अस्यै प्रतिष्ठा ॥

4
इयं वै प्रजाः पराभवन्तीर् अनु गृह्णाति प्रत्य् आभवन्तीर् गृह्णाति
य एवं वेद प्रत्य् एव तिष्ठति ।
अथ वै ताम् उपाह्व इति होवाच यस्यै निक्रमणे घृतम् प्रजाः संजीवन्तीः पिबन्तीति
छिनत्ति सा न छिनत्ती3 इति
न छिनत्तीति होवाच प्र तु जनयतीति ।
एष वा इडाम् उपाह्वथा इति होवाच
वृष्टिर् वा इडा
वृष्ट्यै वै निक्रमणे घृतम् प्रजाः संजीवन्तीः पिबन्ति
य एवं वेद प्रैव जायते ऽन्नादो भवति ॥

1.7.3 अनुवाक 3
अन्वाहार्यः

1
परोऽक्षं वा अन्ये देवा इज्यन्ते प्रत्यक्षम् अन्ये
यद् यजते य एव देवाः परोऽक्षम् इज्यन्ते तान् एव तद् यजति
यद् अन्वाहार्यम् आहरत्य् एते वै देवाः प्रत्यक्षं यद् ब्राह्मणास् तान् एव तेन प्रीणाति ।
अथो दक्षिणैवास्यैषा ।
अथो यज्ञस्यैव छिद्रम् अपि दधाति
यद् वै यज्ञस्य क्रूरं यद् विलिष्टं तद् अन्वाहार्येण

2
अन्वाहरति
तद् अन्वाहार्यस्यान्वाहार्यत्वम् ।
देवदूता वा एते यद् ऋत्विजः ।
यद् अन्वाहार्यम् आहरति देवदूतान् एव प्रीणाति
प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत्
स रिरिचानो ऽमन्यत
स एतम् अन्वाहार्यम् अभक्तम् अपश्यत्
तम् आत्मन्न् अधत्त
स वा एष प्राजापत्यो यद् अन्वाहार्यः ।
यस्यैवंविदुषो ऽन्वाहार्य आह्रियते साक्षाद् एव प्रजापतिम् ऋध्नोति ।
अपरिमितो निरुप्यः ।
अपरिमितः प्रजापतिः ।
प्रजापतेः ॥

3
आप्त्यै
देवा वै यद् यज्ञे ऽकुर्वत तद् असुरा अकुर्वत
ते देवा एतम् प्राजापत्यम् अन्वाहार्यम् अपश्यन्
तम् अन्वाहरन्त
ततो देवा अभवन् परासुराः ।
यस्यैवं विदुषो ऽन्वाहार्य आह्रियते भवत्य् आत्मना परास्य भ्रातृव्यो भवति
यज्ञेन वा इष्टी पक्वेन पूर्ती
यस्यैवं विदुषो ऽन्वाहार्य आह्रियते स त्व् एवेष्टापूर्ती
प्रजापतेर् भागो ऽसि

4
इत्य् आह
प्रजापतिम् एव भागधेयेन सम् अर्धयति ।
ऊर्जस्वान् पयस्वान् इत्य् आह ।
ऊर्जम् एवास्मिन् पयो दधाति
प्राणापानौ मे पाहि समानव्यानौ मे पाहीत्य् आह ।
आशिषम् एवैताम् आ शास्ते ।
अक्षितो ऽस्य् अक्षित्यै त्वा मा मे क्षेष्ठा अमुत्रामुष्मिम्̐ लोक इत्य् आह
क्षीयते वा अमुष्मिम्̐ लोके ऽन्नम्
इतःप्रदानꣳ ह्य् अमुष्मिम्̐ लोके प्रजा उपजीवन्ति
यद् एवम् अभिमृशत्य् अक्षितिम् एवैनद् गमयति नास्यामुष्मिम्̐ लोके ऽन्नं क्षीयते ॥

1.7.4 अनुवाक 4
शेषाहुत्यनुमन्त्रणम्

1
बर्हिषो ऽहं देवयज्यया प्रजावान् भूयासम् इत्य् आह
बर्हिषा वै प्रजापतिः प्रजा असृजत
तेनैव प्रजाः सृजते
नराशꣳसस्याहं देवयज्यया पशुमान् भूयासम् इत्य् आह
नराशꣳसेन वै प्रजापतिः पशून् असृजत
तेनैव पशून्त् सृजते ।
अग्नेः स्विष्टकृतो ऽहं देवयज्ययायुष्मान् यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह ।
आयुर् एवात्मन् धत्ते प्रति यज्ञेन तिष्ठति
दर्शपूर्णमासयोः

2
वै देवा उज्जितिम् अनूदजयन् दर्शपूर्णमासाभ्याम् असुरान् अपानुदन्त ।
अग्नेर् अहम् उज्जितिम् अनूज् जेषम् इत्य् आह
दर्शपूर्णमासयोर् एव देवतानां यजमान उज्जितिम् अनूज् जयति दर्शपूर्णमासाभ्याम् भ्रातृव्यान् अप नुदते
वाजवतीभ्यां व्य् ऊहति ।
अन्नं वै वाजः ।
अन्नम् एवाव रुन्द्धे
द्वाभ्याम् प्रतिष्ठित्यै
यो वै यज्ञस्य द्वौ दोहौ विद्वान् यजत उभयतः

3
एव यज्ञं दुहे पुरस्ता च्चोपरिष्टाच् चैष वा अन्यो यज्ञस्य दोह इडायाम् अन्यः ।
यर्हि होता यजमानस्य नाम गृह्णीयात् तर्हि ब्रूयात् ।
एमा अग्मन्न् आशिषो दोहकामा इति
सꣳस्तुता एव देवता दुहे ।
अथो उभयत एव यज्ञं दुहे पुरस्ताच् चोपरिष्टाच् च
रोहितेन त्वाग्निर् देवतां गमयत्व् इत्य् आह ।
एते वै देवाश्वाः ।

4
यजमानःप्रस्तरः ।
यद् एतैः प्रस्तरम् प्रहरति देवाश्वैर् एव यजमानꣳ सुवर्गं लोकं गमयति
वि ते मुञ्चामि रशना वि रश्मीन् इत्य् आह ।
एष वा अग्नेर् विमोकस्
तेनैवैनं वि मुञ्चति
विष्णोः शम्योर् अहं देवयज्यया यज्ञेन प्रतिष्ठां गमेयम् इत्य् आह
यज्ञो वै विष्णुर् यज्ञ एवान्ततः प्रति तिष्ठति
सोमस्याहं देवयज्यया सुरेताः

5
रेतो धिषीयेत्य् आह
सोमो वै रेतोधास् तेनैव रेत आत्मन् धत्ते
त्वष्टुर् अहं देवयज्यया पशूनाꣳ रूपम् पुषेयम् इत्य् आह
त्वष्टा वै पशूनाम् मिथुनानाꣳ रूपकृत्
तेनैव पशूनाꣳ रूपम् आत्मन् धत्ते
देवानाम् पत्नीर् अग्निर् गृहपतिर् यज्ञस्य मिथुनं तयोर् अहं देवयज्यया मिथुनेन प्र भूयासम् इत्य् आह ।
एतस्माद् वै मिथुनात् प्रजापतिर् मिथुनेन

6
प्राजायत
तस्माद् एव यजमानो मिथुनेन प्र जायते
वेदो ऽसि वित्तिर् असि विदेयेत्य् आह
वेदेन वै देवा असुराणां वित्तं वेद्यम् अविन्दन्त
तद् वेदस्य वेदत्वम् ।
यद्यद् भ्रातृव्यस्याभिध्यायेत् तस्य नाम गृह्णीयात्
तद् एवास्य सर्वं वृङ्क्ते
घृतवन्तं कुलायिनꣳ रायस् पोषꣳ सहस्रिणं वेदो ददातु वाजिनम् इत्य् आह
प्र सहस्रम् पशून् आप्नोति ।
आस्य प्रजायां वाजी जायते य एवं वेद ॥

1.7.5 अनुवाक 5
आप्यायनादि मन्त्राः

1
ध्रुवां वै रिच्यमानां यज्ञो ऽनु रिच्यते यज्ञं यजमानो यजमानम् प्रजाः ।
ध्रुवाम् आप्यायमानां यज्ञो ऽन्व् आ प्यायते यज्ञं यजमानो यजमानम् प्रजाः ।
आ प्यायतां ध्रुवा घृतेनेत्य् आह
ध्रुवाम् एवा प्याययति
ताम् आप्यायमानां यज्ञो ऽन्व् आ प्यायते यज्ञं यजमानो यजमानम् प्रजाः
प्रजापतेर् विभान् नाम लोकस् तस्मिꣳस् त्वा दधामि सह यजमानेनेति

2
आह ।
अयं वै प्रजापतेर् विभान् नाम लोकस्
तस्मिन्न् एवैनं दधाति सह यजमानेन
रिच्यत इव वा एतद् यद् यजते
यद् यजमानभागम् प्राश्नात्य् आत्मानम् एव प्रीणाति ।
एतावान् वै यज्ञो यावान् यजमानभागः ।
यज्ञो यजमानः ।
यद् यजमान भागम् प्राश्नाति यज्ञ एव यज्ञम् प्रति ष्ठापयति ।
एतद् वै सूयवसꣳ सोदकं यद् बर्हिश् चापश् च ।
एतत्

3
यजमानस्यायतनं यद् वेदिः ।
यद् पूर्णपात्रम् अन्तर्वेदि निनयति स्व एवायतने सूयवसꣳ सोदकं कुरुते
सद् असि सन् मे भूया इत्य् आह ।
आपो वै यज्ञः ।
आपो ऽमृतम् ।
यज्ञम् एवामृतम् आत्मन् धत्ते
सर्वाणि वै भूतानि व्रतम् उपयन्तम् अनूप यन्ति
प्राच्यां दिशि देवा ऋत्विजो मार्जयन्ताम् इत्य् आह ।
एष वै दर्शपूर्णमासयोर् अवभृथः ॥

4
यान्य् एवैनम् भूतानि व्रतम् उपयन्तम् अनूपयन्ति तैर् एव सहावभृथम् अवैति
विष्णुमुखा वै देवाश् छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभ्य् अजयन्
यद् विष्णुक्रमान् क्रमते विष्णुर् एव भूत्वा यजमानः ।
छन्दोभिर् इमाँल्लोकान् अनपजय्यम् अभि जयति
विष्णोः क्रमो ऽस्य् अभिमातिहेत्य् आह
गायत्री वै पृथिवी त्रैष्टुभम् अन्तरिक्षं जागती द्यौर् आनुष्टुभीर् दिशः ।
छन्दोभिर् एवेमाँल्लोकान् यथापूर्वम् अभि जयति ॥

1.7.6 अनुवाक 6
उपस्थानादि मन्त्राः

1
अगन्म सुवः सुवर् अगन्मेत्य् आह सुवर्गम् एव लोकम् एति
संदृशस् ते मा छित्सि यत् ते तपस् तस्मै ते माऽऽ वृक्षीत्याह
यथायजुर् एवैतत्
सुभूर् असि श्रेष्ठो रश्मीनाम् आयुर्धा अस्य् आयुर् मे धेहीत्य् आह ।
आशिषम् एवैताम् आ शास्ते प्र वा एषो ऽस्माल् लोकाच् च्यवते यः

2
विष्णुक्रमान् क्रमते सुवर्गाय हि लोकाय विष्णुक्रमाः क्रम्यन्ते
ब्रह्मवादिनो वदन्ति
स त्वै विष्णुक्रमान् क्रमेत य इमाँल्लोकान् भ्रातृव्यस्य संविद्य पुनर् इमं लोकम् प्रत्यवरोहेद् इति ।
एष वा अस्य लोकस्य प्रत्यवरोहो यद् आह ।
इदम् अहम् अमुम् भ्रातृव्यम् आभ्यो दिग्भ्यो ऽस्यै दिव इति ।
इमान् एव लोकान् भ्रातृव्यस्य संविद्य पुनर् इमं लोकम् प्रत्यवरोहति
सम्

3
ज्योतिषाभूवम् इत्य् आह ।
अस्मिन्न् एव लोके प्रति तिष्ठति ।
ऐन्द्रीम् आवृतम् अन्वावर्त इत्य् आह ।
असौ वा आदित्य इन्द्रस् तस्यैवावृतम् अनु पर्यावर्तते
दक्षिणा पर्यावर्तते स्वम् एव वीर्यम् अनु पर्यावर्तते तस्माद् दक्षिनो ऽर्ध आत्मनो वीर्यावत्तरो ऽथो आदित्यस्यैवावृतम् अनु पर्यावर्तते
सम् अहम् प्रजया सम् मया प्रजेत्य् आह ।
आशिषम्

4
एवैताम् आ शास्ते
समिद्धो अग्ने मे दीदिहि समेद्धा ते अग्ने दीद्यासम् इत्य् आह
यथायजुर् एवैतत् ।
वसुमान् यज्ञो वसीयान् भूयासम् इत्य् आह ।
आशिषम् एवैताम् आ शास्ते
बहु वै गार्हपत्यस्यान्ते मिश्रम् इव चर्यत आग्निपावमानीभ्याम् गार्हपत्यम् उप तिष्ठते पुनात्य् एवाग्निम् पुनीत आत्मानं द्वाभ्याम् प्रतिष्ठित्यै ।
अग्ने गृहपत इत्य् आह ॥

5
यथायजुर् एवैतच् छतꣳ हिमा इत्य् आह शतं त्वा हेमन्तान् इन्धिषीयेति वावैतद् आह
पुत्रस्य नाम गृह्णात्य् अन्नादम् एवैनं करोति
ताम् आशिषम् आ शासे तन्तवे ज्योतिष्मतीम् इति ब्रूयाद् यस्य पुत्रो ऽजातः स्यात् तेजस्व्य् एवास्य ब्रह्मवर्चसी पुत्रो जायते
ताम् आशिषम् आ शासे ऽमुष्मै ज्योतिष्मतीम् इति ब्रूयाद् यस्य पुत्रः

6
जातः स्यात् तेज एवास्मिन् ब्रह्मवर्चसं दधाति ।
यो वै यज्ञम् प्रयुज्य न विमुञ्चत्य् अप्रतिष्ठानो वै स भवति
कस् त्वा युनक्ति स त्वा वि मुञ्चत्वित्याह प्रजापतिर् वै कः प्रजापतिनैवैनं युनक्ति प्रजापतिना वि मुञ्चति प्रतिष्ठित्यै ।
ईश्वरं वै व्रतम् अविसृष्टम् प्रदहो ऽग्ने व्रतपते व्रतम् अचारिषम् इत्य् आह व्रतम् एव

7
वि सृजते शान्त्या अप्रदाहाय
पराङ् वाव यज्ञ एति न नि वर्तते पुनर् यो वै यज्ञस्य पुनरालम्भं विद्वान् यजते तम् अभि नि वर्तते
यज्ञो बभूव स आ बभूवेत्य् आहैष वै यज्ञस्य पुनरालम्भस् तेनैवैनम् पुनर् आ लभते ।
अनवरुद्धा वा एतस्य विराड् य आहिताग्निः सन्न् असभः
पशवः खलु वै ब्राह्मणस्य सभा ।
इष्ट्वा प्राङ् उत्क्रम्य ब्रूयाद् गोमाꣳ अग्ने ऽविमाꣳ अश्वी यज्ञ इत्य् अव सभाꣳ रुन्द्धे प्र सहस्रम् पशून् आप्नोत्य् आऽस्य प्रजायां वाजी जायते ॥

1.7.7 अनुवाक 7
वाजपेये रथविषयकाः मन्त्राः

1
देव सवितः प्र सुव यज्ञम् प्र सुव यज्ञपतिम् भगाय दिव्यो गन्धर्वः केतपूः केतं नः पुनातु वाचस् पतिर् वाचम् अद्य स्वदाति नः ।
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् ।
वाजस्य नु प्रसवे मातरम् महीम् अदितिं नाम वचसा करामहे । यस्याम् इदं विश्वम् भुवनम् आविवेश तस्यां नो देवः सविता धर्म साविषत् ।
अप्सु

2
अन्तर् अमृतम् अप्सु भेषजम् अपाम् उत प्रशस्तिष्व् अश्वा भवथ वाजिनः ॥
वायुर् वा त्वा मनुर् वा त्वा गन्धर्वाः सप्तविꣳशतिः । ते अग्रे अश्वम् आयुञ्जन् ते अस्मिञ् जवम् आदधुः ॥
अपां नपाद् आशुहेमन् य ऊर्मिः ककुद्मान् प्रतूर्तिर् वाजसातमस् तेनायं वाजꣳ सेत् ।
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि ।
अङ्कौ न्यङ्काव् अभितो रथं यौ ध्वान्तं वाताग्रम् अनु संचरन्तौ । दूरेहेतिर् इन्द्रियावान् पतत्री ते नो ऽग्नयः पप्रयः पारयन्तु ॥

1.7.8 अनुवाक 8
रथधावनमन्त्राः

1
देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वाजं जेषम् ।
देवस्याहꣳ सवितुः प्रसवे बृहस्पतिना वाजजिता वर्षिष्ठं नाकꣳ रुहेयम्
इन्द्राय वाचं वदतेन्द्रं वाजं जापयतेन्द्रो वाजम् अजयित् ।
अश्वाजनि वाजिनि वाजेषु वाजिनीवत्य् अश्वान्त् समत्सु वाजय ।
अर्वासि सप्तिर् असि वाज्य् असि
वाजिनो वाजं धावत मरुताम् प्रसवे जयत वि योजना मिमीध्वम् अध्वन स्कभ्नीत ॥

2
काष्ठां गच्छत
वाजेवाजे ऽवत वाजिनो नो धनेषु विप्रा अमृता ऋतज्ञाः । अस्य मध्वः पिबत मादयध्वं तृप्ता यात पथिभिर् देवयानैः ॥
ते नो अर्वन्तो हवनश्रुतो हवं विश्वे शृण्वन्तु वाजिनः ।
मितद्रवः सहस्रसा मेधसाता सनिष्यवः । महो ये रन्तꣳ समिथेषु जभ्रिरे शं नो भवन्तु वाजिनो हवेषु
देवताता मितद्रवः स्वर्काः । जम्भयन्तो ऽहिं वृकꣳ रक्षाꣳसि सनेम्य् अस्मद् युयवन्

3
अमीवाः ॥
एष स्य वाजी क्षिपणिं तुरण्यति ग्रीवायाम् बद्धो अपिकक्ष आसनि । क्रतुं दधिक्रा अनु संतवीत्वत् पथाम् अङ्काꣳस्य् अन्व् आपनीफणत् ॥
उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः । श्येनस्येव ध्रजतो अङ्कसम् परि दधिक्राव्णः सहोर्जा तरित्रतः ॥
आ मा वाजस्य प्रसवो जगम्याद् आ द्यावापृथिवी विश्वशम्भू । आ मा गन्ताम् पितरा

4
मातरा चाऽऽ मा सोमो अमृतत्वाय गम्यात् ॥
वाजिनो वाजजितो वाजꣳ सरिष्यन्तो वाजं जेष्यन्तो बृहस्पतेर् भागम् अव जिघ्रत ॥
वाजिनो वाजजितो वाजꣳ ससृवाꣳसो वाजं जिगिवाꣳसो बृहस्पतेर् भागे नि मृड्ढ्वम्
इयं वः सा सत्या संधाभूद् याम् इन्द्रेण समधद्ध्वम्
अजीजिपत वनस्पतय इन्द्रं वाजं वि मुच्यध्वम् ॥

1.7.9 अनुवाक 9
यूपारोहणमन्त्राः

1
क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि
जाय एहि सुवो रोहाव रोहाव हि सुवर् अहं नाव् उभयोः सुवो रोक्ष्यामि
वाजश् च प्रसवश् चापिजश् च क्रतुश् च सुवश् च मूर्धा च व्यश्नियश् चाऽऽन्त्यायनश् चान्त्यश् च भौवनश् च भुवनश् चाधिपतिश् च ।
आयुर् यज्ञेन कल्पताम् प्राणो यज्ञेन कल्पताम् अपानः

2
यज्ञेन कल्पतां व्यानो यज्ञेन कल्पतां चक्षुर् यज्ञेन कल्पताꣳ श्रोत्रं यज्ञेन कल्पताम् मनो यज्ञेन कल्पतां वाग् यज्ञेन कल्पताम् आत्मा यज्ञेन कल्पतां यज्ञो यज्ञेन कल्पताम् ।
सुवर् देवाꣳ अगन्मामृता अभूम प्रजापतेः प्रजा अभूम
सम् अहम् प्रजया सम् मया प्रजा सम् अहꣳ रायस् पोषेण सम् मया रायस् पोषः ।
अन्नाय त्वान्नाद्याय त्वा वाजाय त्वा वाजजित्यायै त्वा ।
अमृतम् असि पुष्टिर् असि प्रजननम् असि ॥

1.7.10 अनुवाक 10 अन्नहोमाः

1
वाजस्येमम् प्रसवः सुषुवे अग्रे सोमꣳ राजानम् ओषधीष्व् अप्सु । ता अस्मभ्यम् मधुमतीर् भवन्तु वयꣳ राष्ट्रे जाग्रियाम पुरोहिताः ॥
वाजस्येदम् प्रसव आ बभूवेमा च विश्वा भुवनानि सर्वतः । स विराजम् पर्य् एति प्रजानन् प्रजाम् पुष्टिं वर्धयमानो अस्मे ॥
वाजस्येमाम् प्रसवः शिश्रिये दिवम् इमा च विश्वा भुवनानि सम्राट् । अदित्सन्तं दापयतु प्रजानन् रयिम्

2
च नः सर्ववीरां नि यच्छतु ॥
अग्ने अच्छा वदेह नः प्रति नः सुमना भव । प्र णो यच्छ भुवस् पते धनदा असि नस् त्वम् ॥
प्र णो यच्छत्व् अर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सूनृता प्र वाग् देवी ददातु नः ॥
अर्यमणम् बृहस्पतिम् इन्द्रं दानाय चोदय । वाचं विष्णुꣳ सरस्वतीꣳ सवितारम्

3
च वाजिनम् ॥
सोमꣳ राजानं वरुणम् अग्निम् अन्वारभामहे । आदित्यान् विष्णुꣳ सूर्यम् ब्रह्माणं च बृहस्पतिम् ।
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याꣳ सरस्वत्यै वाचो यन्तुर् यन्त्रेणाग्नेस् त्वा साम्राज्येनाभि षिञ्चामीन्द्रस्य बृहस्पतेस् त्वा साम्राज्येनाभि षिञ्चामि ॥

1.7.11 अनुवाक 11
उज्जिति मन्त्राः

1
अग्निर् एकाक्षरेण वाचम् उद् अजयत् ।
अश्विनौ द्व्यक्षरेण प्राणापानाव् उद् अजयताम् ।
विष्णुस् त्र्यक्षरेण त्रीन् लोकान् उद् अजयत्
सोमश् चतुरक्षरेण चतुष्पदः पशून् उद् अजयत्
पूषा पञ्चाक्षरेण पङ्क्तिम् उद् अजयत् ।
धाता षडक्षरेण षड् ऋतून् उद् अजयत् ।
मरुतः सप्ताक्षरेण सप्तपदाꣳ शक्वरीम् उद् अजयन्
बृहस्पतिर् अष्टाक्षरेण गायत्रीम् उद् अजयत् ।
मित्रो नवाक्षरेण त्रिवृतꣳ स्तोमम् उद् अजयत् ॥

2
वरुणो दशाक्षरेण विराजम् उद् अजयत् ।
इन्द्र एकादशाक्षरेण त्रिष्टुभम् उद् अजयत् ।
विश्वे देवा द्वादशाक्षरेण जगतीम् उद् अजयन्
वसवस् त्रयोदशाक्षरेण त्रयोदशꣳ स्तोमम् उद् अजयन् ।
रुद्राश् चतुर्दशाक्षरेण चतुर्दशꣳ स्तोमम् उद् अजयन् ।
आदित्याः पञ्चदशाक्षरेण पञ्चदशꣳ स्तोमम् उद् अजयन्
प्रजापतिः सप्तदशाक्षरेण सप्तदशꣳ स्तोमम् उद् अजयत् ॥

1.7.12 अनुवाक 12
अतिग्राह्यमन्त्राः

1
उपयामगृहीतो ऽसि नृषदं त्वा द्रुषदम् भुवनसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ।
उपयामगृहीतो ऽसि अप्सुषदं त्वा घृतसदम् व्योमसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ।
उपयामगृहीतो ऽसि पृथिविषदं त्वान्तरिक्षसदम् नाकसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा
ये ग्रहाः पञ्चजनीना येषां तिस्रः परमजाः । दैव्यः कोशः

2
समुब्जितः । तेषां विशिप्रियाणाम् इषमूर्जꣳ सम् अग्रभीम् एष ते योनिर् इन्द्राय त्वा ।
अपाꣳ रसम् उद्वयसꣳ सूर्यरश्मिꣳ समाभृतम् । अपाꣳ रसस्य यो रसस् तं वो गृह्णाम्य् उत्तमम् एष ते योनिर् इन्द्राय त्वा ।
अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः । स प्रत्युदैद् धरुणो मध्वो अग्रꣳ स्वायां यत् तनुवां तनूम् ऐरयत ।
उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ॥

1.7.13 अनुवाक 13
काम्येष्टियाज्यापुरोनुवाक्याः

1
अन्व् अह मासा अन्व् इद् वनान्य् अन्व् ओषधीर् अनु पर्वतासः । अन्व् इन्द्रꣳ रोदसी वावशाने अन्व् आपो आजिहत जायमानम् ॥
अनु ते दायि मह इन्द्रियाय सत्रा ते विश्वम् अनु वृत्रहत्ये । अनु क्षत्रम् अनु सहो यजत्रेन्द्र देवेभिर् अनु ते नृषह्ये ।
इन्द्राणीम् आसु नारिषु सुपत्नीम् अहम् अश्रवम् । न ह्य् अस्या अपरं चन जरसा

2
मरते पतिः ॥
नाहम् इन्द्राणि रारण सख्युर् वृषाकपेर् ऋते । यस्येदम् अप्यꣳ हविः प्रियं देवेषु गच्छति ॥
यो जात एव प्रथमो मनस्वान् देवो देवान् क्रतुना पर्यभूषत् । यस्य शुष्माद् रोदसी अभ्यसेताम् नृम्णस्य मह्ना स जनास इन्द्रः ॥
आ ते मह इन्द्रोत्य् उग्र समन्यवो यत् समरन्त सेनाः । पताति दिद्द्युन् नर्यस्य बाहुवोर् मा ते

3
मनो विष्वद्रियग् वि चारीत् ॥
मा नो मर्धीर् आ भरा दद्धि तन् नः प्र दाशुषे दातवे भूरि यत् ते । नव्ये देष्णे शस्ते अस्मिन् त उक्थे प्र ब्रवाम वयम् इन्द्र स्तुवन्तः ॥
आ तू भर माकिर् एतत् परि ष्ठाद् विद्मा हि त्वा वसुपतिं वसूनाम् । इन्द्र यत् ते माहिनं दत्त्रम् अस्त्य् अस्मभ्यं तद्धर्यश्व

4
प्र यन्धि ॥
प्रदातारꣳ हवामह इन्द्रम् आ हविषा वयम् । उभा हि हस्ता वसुना पृणस्वाऽऽ प्र यच्छ दक्षिणाद् ओत सव्यात् ॥
प्रदाता वज्री वृषभस् तुराषाट् छुष्मी राजा वृत्रहा सोमपावा । अस्मिन् यज्ञे बर्हिष्य् आ निषद्याथा भव यजमानाय शं योः ॥
इन्द्रः सुत्रामा स्ववाꣳ अवोभिः सुमृडीको भवतु विश्ववेदाः । बाधतां द्वेषो अभयं कृणोतु सुवीर्यस्य

5
पतयः स्याम ॥
तस्य वयꣳ सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम । स सुत्रामा स्ववाꣳ इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ॥
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥
प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत । अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहा । अस्माकम् बोधि चोदिता नभन्ताम् अन्यकेषाम् । ज्याका अधि धन्वसु ॥