प्रमुखा विकल्पसूचिः उद्घाट्यताम्

1.8 प्रपाठक: 8 राजसूयः
1.8.1 अनुवाक 1 राजसूये अनुमत्यादयो यागाः
1 अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति धेनुर् दक्षिणा ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतम् एककपालं कृष्णं वासः कृष्णतूषं दक्षिणा वीहि स्वाहाऽऽहुतिं जुषाणः । एष ते निर्ऋते भागो भूते हविष्मत्य् असि मुञ्चेमम् अम्̇हसः स्वाहा नमो य इदं चकार । ऽआदित्यं चरुं निर्वपति वरो दक्षिणा । आग्नावैष्णवम् एकादशकपालं वामनो वही दक्षिणा । अग्नीषोमीयम्
2 एकादशकपालम्̇ हिरण्यं दक्षिणा । ऐन्द्रम् एकादशकपालम् ऋषभो वही दक्षिणा । आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा । ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् प्रथमजो वत्सो दक्षिणा सौम्यम्̇ श्यामाकं चरुं वासो दक्षिणा सरस्वते चरुम् मिथुनौ गावौ दक्षिणा ॥

1.8.2 अनुवाक 2 चातुर्मास्येषु वैश्वदेवपर्व
1 आग्नेयम् अष्टाकपालं निर्वपति सौम्यं चरुम्̇ सावित्रं द्वादशकपालम्̇ सारस्वतं चरुम् पौष्णं चरुम् मारुतम्̇ सप्तकपालं वैश्वदेवीम् आमिक्षां द्यावापृथिव्यम् एककपालम् ॥

1.8.3 अनुवाक 3 चातुर्मास्येषु वरुणप्रघासपर्व
1 ऐन्द्राग्नम् एकादशकपालम् मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम् प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः । मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवया । मही ह्य् अस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः । यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा । अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तम् प्रेत सुदानवः ॥
 
1.8.4 अनुवाक 4 चातुर्मास्येषु साकमेध पर्व
1 अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालम् निर् वपति साकम्̇ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुम् मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम् पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहा इषमूर्जम्̇ शतक्रतो ॥ देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारम् इन् नि मे हरा निहारम्
2 नि हरामि ते ॥ मरुद्भ्यः क्रीडिभ्यः पुरोडाशम्̇ सप्तकपालं निर् वपति साकम्̇ सूर्येणोद्यताग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुम्̇ सावित्रं द्वादशकपालम्̇ सारस्वतं चरुम् पौष्णं चरुम् ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम् ॥

1.8.5 अनुवाक 5 साकमेधे महापितृयज्ञः
1 सोमाय पितृमते पुरोडाशम्̇ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम् एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अन्व् अत्र पितरो यथाभागम् मन्दध्वम् । सुसंदृशं त्वा वयम् मघवन् मन्दिषीमहि । प्र नूनम् पूर्णवन्धुर स्तुतो यासि वशाम्̇ अनु । योजा न्व् इन्द्र ते हरी ॥
2 अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजा न्व् इन्द्र ते हरी ॥ अक्षन् पितरो ऽमीमदन्त पितरो ऽतीतृपन्त पितरो ऽमीमृजन्त पितरः परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त् सुविदत्राम्̇ अपीत यमेन ये सधमादम् मदन्ति ॥ मनो न्व् आ हुवामहे नाराशम्̇सेन स्तोमेन पितृणां च मन्मभिः । आ
3 न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥ पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातम्̇ सचेमहि ॥ यद् अन्तरिक्षम् पृथिवीम् उत द्यां यन् मातरम् पितरं वा जिहिम्̇सिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम् ॥

1.8.6 अनुवाक 6 साकमेधे त्रयम्बकहवींषि
1 प्रतिपूरुषम् एककपालान् निर् वपत्य् एकम् अतिरिक्तम् । यावन्तो गृह्याः स्मस् तेभ्यः कम् अकरम् पशूनाम्̇ शर्मासि शर्म यजमानस्य शर्म मे यच्छ । एक एव रुद्रो न द्वितीयाय तस्थे । आखुस् ते रुद्र पशुस् तं जुषस्व । एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व भेषजं गवे ऽश्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजम्̇ सुभेषजम्
2 यथाऽसति सुगम् मेषाय मेष्यै अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद् यथा नो वस्यसः करद् यथा नः पशुमतः करद् यथा नो व्यवसाययात् ॥ त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् । एष ते रुद्र भागस् तं जुषस्व तेनावसेन परो मूजवतो ऽतीहि । अवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥

1.8.7 अनुवाक 7 शुनासीर्यम्, इन्द्रतुरीयादि
1 ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यम् पयः सौर्यम् एककपालं द्वादशगवम्̇ सीरं दक्षिणा । आग्नेयम् अष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुम् ऐन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर् दक्षिणा ये देवाः पुरःसदो ऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदः सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस् ते नः पान्तु ते नो ऽवन्तु तेभ्यः
2 नमस् तेभ्यः स्वाहा समूढम्̇ रक्षः संदग्धम्̇ रक्ष इदम् अहम्̇ रक्षो ऽभि सं दहामि । अग्नये रक्षोघ्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा
प्रष्टिवाही रथो दक्षिणा देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम्̇ रक्षसो वधं जुहोमि हतम्̇ रक्षो ऽवधिष्म रक्षः । यद् वस्ते तद् दक्षिणा ॥

1.8.8 अनुवाक 8 देविकादि हवींषि
1 धात्रे पुरोडाशं द्वादशकपालं निर् वपति । अनुमत्यै चरुम् । राकायै चरुम् । सिनीवाल्यै चरुम् । कुह्वै चरुम् मिथुनौ गावौ दक्षिणा । आग्नावैष्णवम् एकादशकपालं निर् वपति । ऐन्द्रावैष्णवम् एकादशकपालम् । वैष्णवं त्रिकपालम् । वामनो वही दक्षिणा । अग्नीषोमीयम् एकादशकपालं निर् वपति । इन्द्रासोमीयम् एकादशकपालम् । सौम्यं चरुम् बभ्रुर् दक्षिणा सोमापौष्णं चरुं निर् वपति । ऐन्द्रापौष्णं चरुम् पौष्णं चरुम् श्यामो दक्षिणा वैश्वानरं द्वादशकपालं निर् वपति हिरण्यं दक्षिणा वारुणं यवमयं चरुम् अश्वो दक्षिणा ॥

1.8.9 अनुवाक 9 रत्निनां हवींषि
1 बार्हस्पत्यं चरुं निर् वपति ब्रह्मणो गृहे शितिपृष्ठो दक्षिणा । ऐन्द्रम् एकादशकपालम्̇ राजन्यस्य गृह ऋषभो दक्षिणा । आदित्यं चरुम् महिष्यै गृहे धेनुर् दक्षिणा नैर्ऋतं चरुम् परिवृक्त्य्àइ गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटाँ दक्षिणा । आग्नेयम् अष्टाकपालम्̇ सेनान्यो गृहे हिरण्यं दक्षिणा वारुणं दशकपालम्̇ सूतस्य गृहे महानिरष्टो दक्षिणा मारुतम्̇ सप्तकपालं ग्रामण्यो गृहे पृश्निर् दक्षिणा सावित्रं द्वादशकपालम्
2 क्षत्तुर् गृह उपध्वस्तो दक्षिणा । आश्विनं द्विकपालम्̇ सम्ग्रहीतुर् गृहे सवात्यौ दक्षिणा पौष्णं चरुम् भागदुघस्य गृहे श्यामो दक्षिणा रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे शबल उद्वारो दक्षिणा । इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् प्रति निर् वपतीन्द्रायाम्̇होमुचे ऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यात् । मैत्राबार्हस्पत्यम् भवति श्वेतायै श्वेतवत्सायै दुग्धे स्वयम्मूर्ते स्वयम्मथित आज्य आश्वत्थे
3 पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै कर्णाम्̇श् चाकर्णाम्̇श् च तण्डुलान् वि चिनुयाद् ये कर्णाः स पयसि बार्हस्पत्यो ये ऽकर्णाः स आज्ये मैत्रः स्वयंकृता वेदिर् भवति स्वयंदिनम् बर्हिः स्वयंकृत इध्मः सैव श्वेता श्वेतवत्सा दक्षिणा ॥
 
1.8.10 अनुवाक 10 देवसुवां हवींषि
1 अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाम्̇ सोमाय वनस्पतये श्यामाकं चरुम्̇ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाम्̇ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् । सविता त्वा प्रसवानाम्̇ सुवताम् अग्निर् गृहपतीनाम्̇ सोमो वनस्पतीनाम्̇ रुद्रः पशूनाम्
2 बृहस्पतिर् वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानां वरुणो धर्मपतीनाम् । ये देवा देवसुव स्थ त इमम् आमुष्यायणम् अनमित्राय सुवध्वम् महते क्षत्राय महत आधिपत्याय महते जानराज्याय । एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाम्̇ राजा प्रति त्यन् नाम राज्यम् अधायि स्वां तनुवं वरुणो अशिश्रेच् छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम सर्वे व्राता वरुणस्याभूवन् वि मित्र एवैर् अरातिम् अतारीद् असूषुदन्त यज्ञिया ऋतेन व्य् उ त्रितो जरिमाणं न आनड्
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि

1.8.11 अनुवाक 11 अभिषेकार्थ जलविषया मन्त्राः
1 अर्थेतः स्थापाम् पतिर् असि वृषाऽस्य् ऊर्मिर् वृषसेनो ऽसि व्रजक्षित स्थ मरुताम् ओज स्थ सूर्यवर्चस स्थ सूर्यत्वचस स्थ मान्दा स्थ वाशा स्थ शक्वरी स्थ विश्वभृत स्थ जनभृत स्थाग्नेस् तेजस्याः स्थापाम् ओषधीनाम्̇ रसः स्थ । आपो देवीर् मधुमतीर् अगृह्णन्न् ऊर्जस्वती राजसूयाय चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥ राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥
 
1.8.12 अनुवाक 12 अभिषेकजलसंस्कारमन्त्राः
1 देवीर् आपः सम् मधुमतीर् मधुमतीभिः सृज्यध्वम् महि वर्चः क्षत्रियाय वन्वानाः । अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः । अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि शुक्रा वः शुक्रेनोत् पुनामि चन्द्राश् चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चितानाः सधमादो द्युम्निनीर् ऊर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाम्̇ शिशुः
2 मातृतमास्व् अन्तः ॥ क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि । आविन्नो अग्निर् गृहपतिर् आविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा आविन्नौ मित्रावरुणव् ऋतावृधाव् आविन्ने द्यावापृथिवी धृतव्रते आविन्ना देव्य् अदितिर् विश्वरूप्य् आविन्नोयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय । एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाम्̇ राजा । इन्द्रस्य
3 वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्यात् । शत्रुबाधना स्थ पात मा प्रत्यञ्चम् पात मा तिर्यञ्चम् अन्वञ्चम् मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥

1.8.13 अनुवाक 13 दिग् व्यास्थापनमन्त्राः
1 समिधम् आ तिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथंतरम्̇ सामाग्निर् देवता ब्रह्म द्रविणम् उग्राम् आ तिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदश स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणम् । विराजम् आ तिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदश स्तोमो वैरूपम्̇ साम मरुतो देवता विड् द्रविणम् उदीचीम् आ तिष्ठानुष्टुप् त्वा
2 छन्दसाम् अवत्व् एक विम्̇श स्तोमो वैराजम्̇ साम मित्रावरुणौ देवता बलं द्रविणम् ऊर्ध्वाम् आ तिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिम्̇शौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता वर्चो द्रविणम् ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः शुक्रज्योतिष् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माम्̇श् च सत्यश् चर्तपाश् च
3 अत्यम्̇हाः । अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाम्̇शाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा

1.8.14 अनुवाक 14 अभिषेकः
1 सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् । अमृतम् असि मृत्योर् मा पाहि दिद्योन् मा पाहि । अवेष्टा दन्दशूकाः । निरस्तं नमुचेः शिरः सोमो राजा वरुणो देवा धर्मसुवश् च ये । ते ते वाचम्̇ सुवन्तां ते ते प्राणम्̇ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रम्̇ सुवन्ताम् । सोमस्य त्वा द्युम्नेनाभि षिञ्चाम्य् अग्नेः
2 तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा क्षत्राणां क्षत्रपतिर् असि । अति दिवस् पाहि समाववृत्रन्न् अधराग् उदीचीर् अहिम् बुध्नियम् अनु संचरन्तीः ताः पर्वतस्य वृषभस्य पृष्ठे नावश् चरन्ति स्वसिच इयानाः ॥ रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥ प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयम्̇ स्याम पतयो रयीणाम् ॥

1.8.15 अनुवाक 15 रथेन विजयः
1 इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् । मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि मरुताम् प्रसवे जेषम् आप्तम् मनः सम् अहम् इन्द्रियेण वीर्येण पशूनाम् मन्युर् असि तवेव मे मन्युर् भूयात् । नमो मात्रे पृथिव्यै माहम् मातरम् पृथिवीम्̇ हिम्̇सिषम् मा
2 मां माता पृथिवी हिम्̇सीत् । इयद् अस्य् आयुर् अस्य् आयुर् मे धेह्य् ऊर्ग् अस्य् ऊर्जम् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि । अग्नये गृह पतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुताम् ओजसे स्वाहा हम्̇सः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥

1.8.16 अनुवाक 16 जितवतो राज्ञः सेवोपचारः
1 मित्रो ऽसि वरुणो ऽसि सम् अहं विश्वैर् देवैः क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि स्योनाम् आ सीद सुषदाम् आ सीद मा त्वा हिम्̇सीन् मा मा हिम्̇सीत् । नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः । ब्रह्मा3न् त्वम्̇ राजन् ब्रह्मासि सवितासि सत्यसवो ब्रह्मा3न् त्वम्̇ राजन् ब्रह्मासीन्द्रो ऽसि सत्यौजाः ॥
2 ब्रह्मा3न् त्वम्̇ राजन् ब्रह्माऽसि मित्रो ऽसि सुशेवो ब्रह्मा3न् त्वम्̇ राजन् ब्रह्माऽसि वरुणो ऽसि सत्यधर्मा । इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तेन मे रध्य दिशो ऽभ्य् अयम्̇ राजाऽभूत् सुश्लोका3म्̇ सुमङ्गला3म्̇ सत्यराजा3न् अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥

1.8.17 अनुवाक 17 संसृपां हवींषि
1 आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा सारस्वतं चरुं वत्सतरी दक्षिणा सावित्रं द्वादशकपालम् उपध्वस्तो दक्षिणा पौष्णं चरुम्̇ श्यामो दक्षिणा बार्हस्पत्यं चरुम्̇ शितिपृष्ठो दक्षिणैन्द्रम् एकदशकपालम् ऋषभो दक्षिणा वारुणं दशकपालम् महानिरष्टो दक्षिणा सौम्यं चरुम् बभ्रुर् दक्षिणा त्वाष्ट्रम् अष्टाकपालम्̇ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥
 
1.8.18 अनुवाक 18 दशपेयः
1 सद्यो दीक्षयन्ति सद्यः सोमं क्रीणन्ति पुण्डरिस्रजाम् प्र यच्छति दशभिर् वत्सतरैः सोमं क्रीणाति दशपेयो भवति शतम् ब्राह्मणाः पिबन्ति सप्तदशम्̇ स्तोत्रम् भवति प्राकाशाव् अध्वर्यवे ददाति स्रजम् उद्गात्रे रुक्मम्̇ होत्रे । अश्वम् प्रस्तोतृप्रतिहर्तृभ्याम् । द्वादश पष्ठौहीर् ब्रह्मणे वशाम् मैत्रावरुणाय । ऋषभम् ब्राह्मणाच्छम्̇सिने वाससी नेष्टापोतृभ्याम् । स्थूरि यवाचितम् अच्छावाकाय । अनड्वाहम् अग्नीधे भार्गवो होता भवति श्रायन्तीयम् ब्रह्मसामम् भवति वारवन्तीयम् अग्निष्टोमसामम् । सारस्वतीर् अपो गृह्णाति ॥

1.8.19 अनुवाक 19 दिशामवेष्ट्यादि
1 आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा । ऐन्द्रम् एकादशकपालम् ऋषभो दक्षिणा वैश्वदेवं चरुम् पिशंगी पष्ठौही दक्षिणा मैत्रावरुणीम् आमिक्षां वशा दक्षिणा बार्हस्पत्यं चरुम्̇ शितिपृष्ठो दक्षिणा । आदित्याम् मल्हां गर्भिणीम् आ लभते मारुतीम् पृश्निम् पष्ठौहीम् अश्विभ्याम् पूष्णे पुरोडाशं द्वादशकपालं निर् वपति सरस्वते सत्यवाचे चरुम्̇ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् । तिसृधन्वम्̇ शुष्कदृतिर् दक्षिणा ॥

1.8.20 अनुवाक 20 प्रयुजां हवींषि
1 आग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुम् । सावित्रं द्वादशकपालम् बार्हस्पत्यं चरुम् । त्वाष्ट्रम् अष्टाकपालम् । वैश्वानरं द्वादशकपालम् । दक्षिणो रथवाहनवाहो दक्षिणा सारस्वतं चरुं निर् वपति पौष्णं चरुम् मैत्रं चरुम् । वारुणं चरुम् । क्षैत्रपत्यं चरुम् आदित्यं चरुम् उत्तरो रथवाहनवाहो दक्षिणा ॥

1.8.21 अनुवाक 21 सौत्रामणी
1 स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन सृजामि सम्̇ सोमेन सोमो ऽस्य् अश्विभ्याम् पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व पुनातु ते परिस्रुतम्̇ सोमम्̇ सूर्यस्य दुहिता । वारेण शश्वता तना ॥ वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥ कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥ आश्विनं धूम्रम् आ लभते सारस्वतम् मेषम् ऐन्द्रम् ऋषभम् ऐन्द्रम् एकादशकपालं निर् वपति सावित्रं द्वादशकपालं वारुणं दशकपालम् । सोमप्रतीकाः पितरस् तृप्णुत वडबा दक्षिणा ॥

1.8.22 अनुवाक 22 काम्ययाज्यापुरोनुवाक्याः
1 अग्नाविष्णू महि तद् वाम् महित्वं वीतं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् आ चरण्येत् ॥ अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुतीर् वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्येत् ॥ प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु ॥ आ नो दिवो बृहतः
2 पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥ बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥ एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयम्̇ स्याम पतयो रयीणाम् ॥ बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवसा
3 ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥ आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाम्̇सि सुक्रतू ॥ प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥ अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥ मक्षू देववतो रथः ॥
4 शूरो वा पृत्सु कासु चित् । देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥ न यजमान रिष्यसि न सुन्वान न देवयो । असद् अत्र सुवीर्यम् उत त्यद् आश्वश्वियम् । नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ॥ उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च
5 श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥ सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथां निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥ सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥ सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥ इमौ देवौ जायमानौ जुषन्तेमौ तमाम्̇सि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥  


1.8.1 अनुवाक 1
राजसूये अनुमत्यादयो यागाः

1
अनुमत्यै पुरोडाशम् अष्टाकपालं निर्वपति धेनुर् दक्षिणा
ये प्रत्यञ्चः शम्याया अवशीयन्ते तं नैर्ऋतम् एककपालं कृष्णं वासः कृष्णतूषं दक्षिणा
वीहि स्वाहाऽऽहुतिं जुषाणः ।
एष ते निर्ऋते भागो भूते हविष्मत्य् असि मुञ्चेमम् अम्̇हसः
स्वाहा नमो य इदं चकार ।
ऽआदित्यं चरुं निर्वपति वरो दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं वामनो वही दक्षिणा ।
अग्नीषोमीयम्

2
एकादशकपालम्̇ हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो वही दक्षिणा ।
आग्नेयम् अष्टाकपालम् ऐन्द्रं दध्य् ऋषभो वही दक्षिणा ।
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् प्रथमजो वत्सो दक्षिणा
सौम्यम्̇ श्यामाकं चरुं वासो दक्षिणा
सरस्वते चरुम् मिथुनौ गावौ दक्षिणा ॥

1.8.2 अनुवाक 2
चातुर्मास्येषु वैश्वदेवपर्व

1
आग्नेयम् अष्टाकपालं निर्वपति सौम्यं चरुम्̇ सावित्रं द्वादशकपालम्̇ सारस्वतं चरुम् पौष्णं चरुम् मारुतम्̇ सप्तकपालं वैश्वदेवीम् आमिक्षां द्यावापृथिव्यम् एककपालम् ॥

1.8.3 अनुवाक 3
चातुर्मास्येषु वरुणप्रघासपर्व

1
ऐन्द्राग्नम् एकादशकपालम् मारुतीम् आमिक्षां वारुणीम् आमिक्षां कायम् एककपालम्
प्रघास्यान् हवामहे मरुतो यज्ञवाहसः करम्भेण सजोषसः ।
मो षू ण इन्द्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवया । मही ह्य् अस्य मीढुषो यव्या । हविष्मतो मरुतो वन्दते गीः ।
यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यच् छूद्रे यद् अर्य एनश् चकृमा वयम् । यद् एकस्याधि धर्मणि तस्यावयजनम् असि स्वाहा ।
अक्रन् कर्म कर्मकृतः सह वाचा मयोभुवा । देवेभ्यः कर्म कृत्वाऽस्तम् प्रेत सुदानवः ॥

1.8.4 अनुवाक 4
चातुर्मास्येषु साकमेध पर्व

1
अग्नये ऽनीकवते पुरोडाशम् अष्टाकपालम् निर् वपति साकम्̇ सूर्येणोद्यता मरुद्भ्यः सांतपनेभ्यो मध्यन्दिने चरुम् मरुद्भ्यो गृहमेधिभ्यः सर्वासां दुग्धे सायं चरुम्
पूर्णा दर्वि परा पत सुपूर्णा पुनर् आ पत । वस्नेव वि क्रीणावहा इषमूर्जम्̇ शतक्रतो ॥
देहि मे ददामि ते नि मे धेहि नि ते दधे । निहारम् इन् नि मे हरा निहारम्

2
नि हरामि ते ॥
मरुद्भ्यः क्रीडिभ्यः पुरोडाशम्̇ सप्तकपालं निर् वपति साकम्̇ सूर्येणोद्यताग्नेयम् अष्टाकपालं निर् वपति सौम्यं चरुम्̇ सावित्रं द्वादशकपालम्̇ सारस्वतं चरुम् पौष्णं चरुम् ऐन्द्राग्नम् एकादशकपालम् ऐन्द्रं चरुं वैश्वकर्मणम् एककपालम् ॥

1.8.5 अनुवाक 5
साकमेधे महापितृयज्ञः

1
सोमाय पितृमते पुरोडाशम्̇ षट्कपालं निर्वपति पितृभ्यो बर्हिषद्भ्यो धानाः पितृभ्यो ऽग्निष्वात्तेभ्यो ऽभिवान्यायै दुग्धे मन्थम्
एतत् ते तत ये च त्वाम् अन्व् एतत् ते पितामह प्रपितामह ये च त्वाम् अन्व् अत्र पितरो यथाभागम् मन्दध्वम् ।
सुसंदृशं त्वा वयम् मघवन् मन्दिषीमहि । प्र नूनम् पूर्णवन्धुर स्तुतो यासि वशाम्̇ अनु । योजा न्व् इन्द्र ते हरी ॥

2
अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्टया मती योजा न्व् इन्द्र ते हरी ॥
अक्षन् पितरो ऽमीमदन्त पितरो ऽतीतृपन्त पितरो ऽमीमृजन्त पितरः
परेत पितरः सोम्या गम्भीरैः पथिभिः पूर्व्यैः । अथा पितॄन्त् सुविदत्राम्̇ अपीत यमेन ये सधमादम् मदन्ति ॥
मनो न्व् आ हुवामहे नाराशम्̇सेन स्तोमेन पितृणां च मन्मभिः ।


3
न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥
पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातम्̇ सचेमहि ॥
यद् अन्तरिक्षम् पृथिवीम् उत द्यां यन् मातरम् पितरं वा जिहिम्̇सिम । अग्निर् मा तस्माद् एनसो गार्हपत्यः प्र मुञ्चतु दुरिता यानि चकृम करोतु माम् अनेनसम् ॥

1.8.6 अनुवाक 6
साकमेधे त्रयम्बकहवींषि

1
प्रतिपूरुषम् एककपालान् निर् वपत्य् एकम् अतिरिक्तम् ।
यावन्तो गृह्याः स्मस् तेभ्यः कम् अकरम्
पशूनाम्̇ शर्मासि शर्म यजमानस्य शर्म मे यच्छ ।
एक एव रुद्रो न द्वितीयाय तस्थे ।
आखुस् ते रुद्र पशुस् तं जुषस्व ।
एष ते रुद्र भागः सह स्वस्राम्बिकया तं जुषस्व
भेषजं गवे ऽश्वाय पुरुषाय भेषजम् अथो अस्मभ्यम् भेषजम्̇ सुभेषजम्

2
यथाऽसति सुगम् मेषाय मेष्यै
अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नः श्रेयसः करद् यथा नो वस्यसः करद् यथा नः पशुमतः करद् यथा नो व्यवसाययात् ॥
त्र्यम्बकं यजामहे सुगन्धिम् पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ।
एष ते रुद्र भागस् तं जुषस्व तेनावसेन परो मूजवतो ऽतीहि ।
अवततधन्वा पिनाकहस्तः कृत्तिवासाः ॥

1.8.7 अनुवाक 7
शुनासीर्यम्, इन्द्रतुरीयादि

1
ऐन्द्राग्नं द्वादशकपालं वैश्वदेवं चरुम् इन्द्राय शुनासीराय पुरोडाशं द्वादशकपालं वायव्यम् पयः सौर्यम् एककपालं द्वादशगवम्̇ सीरं दक्षिणा ।
आग्नेयम् अष्टाकपालं निर्वपति रौद्रं गावीधुकं चरुम् ऐन्द्रं दधि वारुणं यवमयं चरुं वहिनी धेनुर् दक्षिणा
ये देवाः पुरःसदो ऽग्निनेत्रा दक्षिणसदो यमनेत्राः पश्चात्सदः सवितृनेत्रा उत्तरसदो वरुणनेत्रा उपरिषदो बृहस्पतिनेत्रा रक्षोहणस् ते नः पान्तु ते नो ऽवन्तु तेभ्यः

2
नमस् तेभ्यः स्वाहा
समूढम्̇ रक्षः संदग्धम्̇ रक्ष इदम् अहम्̇ रक्षो ऽभि सं दहामि ।
अग्नये रक्षोघ्ने स्वाहा यमाय सवित्रे वरुणाय बृहस्पतये दुवस्वते रक्षोघ्ने स्वाहा
प्रष्टिवाही रथो दक्षिणा
देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम्̇ रक्षसो वधं जुहोमि हतम्̇ रक्षो ऽवधिष्म रक्षः ।
यद् वस्ते तद् दक्षिणा ॥

1.8.8 अनुवाक 8
देविकादि हवींषि

1
धात्रे पुरोडाशं द्वादशकपालं निर् वपति ।
अनुमत्यै चरुम् ।
राकायै चरुम् ।
सिनीवाल्यै चरुम् ।
कुह्वै चरुम्
मिथुनौ गावौ दक्षिणा ।
आग्नावैष्णवम् एकादशकपालं निर् वपति ।
ऐन्द्रावैष्णवम् एकादशकपालम् ।
वैष्णवं त्रिकपालम् ।
वामनो वही दक्षिणा ।
अग्नीषोमीयम् एकादशकपालं निर् वपति ।
इन्द्रासोमीयम् एकादशकपालम् ।
सौम्यं चरुम् बभ्रुर् दक्षिणा
सोमापौष्णं चरुं निर् वपति ।
ऐन्द्रापौष्णं चरुम्
पौष्णं चरुम् श्यामो दक्षिणा
वैश्वानरं द्वादशकपालं निर् वपति हिरण्यं दक्षिणा
वारुणं यवमयं चरुम् अश्वो दक्षिणा ॥

1.8.9 अनुवाक 9
रत्निनां हवींषि

1
बार्हस्पत्यं चरुं निर् वपति ब्रह्मणो गृहे शितिपृष्ठो दक्षिणा ।
ऐन्द्रम् एकादशकपालम्̇ राजन्यस्य गृह ऋषभो दक्षिणा ।
आदित्यं चरुम् महिष्यै गृहे धेनुर् दक्षिणा
नैर्ऋतं चरुम् परिवृक्त्य्àइ गृहे कृष्णानां व्रीहीणां नखनिर्भिन्नं कृष्णा कूटाँ दक्षिणा ।
आग्नेयम् अष्टाकपालम्̇ सेनान्यो गृहे हिरण्यं दक्षिणा
वारुणं दशकपालम्̇ सूतस्य गृहे महानिरष्टो दक्षिणा
मारुतम्̇ सप्तकपालं ग्रामण्यो गृहे पृश्निर् दक्षिणा
सावित्रं द्वादशकपालम्

2
क्षत्तुर् गृह उपध्वस्तो दक्षिणा ।
आश्विनं द्विकपालम्̇ सम्ग्रहीतुर् गृहे सवात्यौ दक्षिणा
पौष्णं चरुम् भागदुघस्य गृहे श्यामो दक्षिणा
रौद्रं गावीधुकं चरुम् अक्षावापस्य गृहे शबल उद्वारो दक्षिणा ।
इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालम् प्रति निर् वपतीन्द्रायाम्̇होमुचे ऽयं नो राजा वृत्रहा राजा भूत्वा वृत्रं वध्यात् ।
मैत्राबार्हस्पत्यम् भवति श्वेतायै श्वेतवत्सायै दुग्धे स्वयम्मूर्ते स्वयम्मथित आज्य आश्वत्थे

3
पात्रे चतुःस्रक्तौ स्वयमवपन्नायै शाखायै
कर्णाम्̇श् चाकर्णाम्̇श् च तण्डुलान् वि चिनुयाद् ये कर्णाः स पयसि बार्हस्पत्यो ये ऽकर्णाः स आज्ये मैत्रः
स्वयंकृता वेदिर् भवति स्वयंदिनम् बर्हिः स्वयंकृत इध्मः
सैव श्वेता श्वेतवत्सा दक्षिणा ॥

1.8.10 अनुवाक 10
देवसुवां हवींषि

1
अग्नये गृहपतये पुरोडाशम् अष्टाकपालं निर् वपति कृष्णानां व्रीहीणाम्̇ सोमाय वनस्पतये श्यामाकं चरुम्̇ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् आशूनां व्रीहीणाम्̇ रुद्राय पशुपतये गावीधुकं चरुम् बृहस्पतये वाचस्पतये नैवारं चरुम् इन्द्राय ज्येष्ठाय पुरोडाशम् एकादशकपालम् महाव्रीहीणाम् मित्राय सत्यायाम्बानां चरुं वरुणाय धर्मपतये यवमयं चरुम् ।
सविता त्वा प्रसवानाम्̇ सुवताम् अग्निर् गृहपतीनाम्̇ सोमो वनस्पतीनाम्̇ रुद्रः पशूनाम्

2
बृहस्पतिर् वाचाम् इन्द्रो ज्येष्ठानाम् मित्रः सत्यानां वरुणो धर्मपतीनाम् ।
ये देवा देवसुव स्थ त इमम् आमुष्यायणम् अनमित्राय सुवध्वम् महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाम्̇ राजा
प्रति त्यन् नाम राज्यम् अधायि स्वां तनुवं वरुणो अशिश्रेच् छुचेर् मित्रस्य व्रत्या अभूमामन्महि महत ऋतस्य नाम
सर्वे व्राता वरुणस्याभूवन् वि मित्र एवैर् अरातिम् अतारीद् असूषुदन्त यज्ञिया ऋतेन व्य् उ त्रितो जरिमाणं न आनड्
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि

1.8.11 अनुवाक 11
अभिषेकार्थ जलविषया मन्त्राः

1
अर्थेतः स्थापाम् पतिर् असि वृषाऽस्य् ऊर्मिर् वृषसेनो ऽसि व्रजक्षित स्थ मरुताम् ओज स्थ सूर्यवर्चस स्थ सूर्यत्वचस स्थ मान्दा स्थ वाशा स्थ शक्वरी स्थ विश्वभृत स्थ जनभृत स्थाग्नेस् तेजस्याः स्थापाम् ओषधीनाम्̇ रसः स्थ ।
आपो देवीर् मधुमतीर् अगृह्णन्न् ऊर्जस्वती राजसूयाय चितानाः । याभिर् मित्रावरुणाव् अभ्यषिञ्चन् याभिर् इन्द्रम् अनयन्न् अत्य् अरातीः ॥
राष्ट्रदाः स्थ राष्ट्रं दत्त स्वाहा राष्ट्रदाः स्थ राष्ट्रम् अमुष्मै दत्त ॥

1.8.12 अनुवाक 12
अभिषेकजलसंस्कारमन्त्राः

1
देवीर् आपः सम् मधुमतीर् मधुमतीभिः सृज्यध्वम् महि वर्चः क्षत्रियाय वन्वानाः ।
अनाधृष्टाः सीदतोर्जस्वतीर् महि वर्चः क्षत्रियाय दधतीः ।
अनिभृष्टम् असि वाचो बन्धुस् तपोजाः सोमस्य दात्रम् असि
शुक्रा वः शुक्रेनोत् पुनामि चन्द्राश् चन्द्रेणामृता अमृतेन स्वाहा राजसूयाय चितानाः
सधमादो द्युम्निनीर् ऊर्ज एता अनिभृष्टा अपस्युवो वसानः । पस्त्यासु चक्रे वरुणः सधस्थम् अपाम्̇ शिशुः

2
मातृतमास्व् अन्तः ॥
क्षत्रस्योल्बम् असि क्षत्रस्य योनिर् असि ।
आविन्नो अग्निर् गृहपतिर् आविन्न इन्द्रो वृद्धश्रवा आविन्नः पूषा विश्ववेदा आविन्नौ मित्रावरुणव् ऋतावृधाव् आविन्ने द्यावापृथिवी धृतव्रते आविन्ना देव्य् अदितिर् विश्वरूप्य् आविन्नोयम् असाव् आमुष्यायणो ऽस्यां विश्य् अस्मिन् राष्ट्रे महते क्षत्राय महत आधिपत्याय महते जानराज्याय ।
एष वो भरता राजा सोमो ऽस्माकम् ब्राह्मणानाम्̇ राजा ।
इन्द्रस्य

3
वज्रो ऽसि वार्त्रघ्नस् त्वयायं वृत्रं वध्यात् ।
शत्रुबाधना स्थ
पात मा प्रत्यञ्चम् पात मा तिर्यञ्चम् अन्वञ्चम् मा पात दिग्भ्यो मा पात विश्वाभ्यो मा नाष्ट्राभ्यः पात
हिरण्यवर्णाव् उषसां विरोके ऽयःस्थूणाव् उदितौ सूर्यस्याऽऽ रोहतं वरुण मित्र गर्तं ततश् चक्षाथाम् अदितिं दितिं च ॥

1.8.13 अनुवाक 13 दिग् व्यास्थापनमन्त्राः

1
समिधम् आ तिष्ठ गायत्री त्वा छन्दसाम् अवतु त्रिवृत् स्तोमो रथंतरम्̇ सामाग्निर् देवता ब्रह्म द्रविणम्
उग्राम् आ तिष्ठ त्रिष्टुप् त्वा छन्दसाम् अवतु पञ्चदश स्तोमो बृहत् सामेन्द्रो देवता क्षत्रं द्रविणम् ।
विराजम् आ तिष्ठ जगती त्वा छन्दसाम् अवतु सप्तदश स्तोमो वैरूपम्̇ साम मरुतो देवता विड् द्रविणम्
उदीचीम् आ तिष्ठानुष्टुप् त्वा

2
छन्दसाम् अवत्व् एक विम्̇श स्तोमो वैराजम्̇ साम मित्रावरुणौ देवता बलं द्रविणम्
ऊर्ध्वाम् आ तिष्ठ पङ्क्तिस् त्वा छन्दसाम् अवतु त्रिणवत्रयस्त्रिम्̇शौ स्तोमौ शाक्वररैवते सामनी बृहस्पतिर् देवता वर्चो द्रविणम्
ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः
शुक्रज्योतिष् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माम्̇श् च सत्यश् चर्तपाश् च

3
अत्यम्̇हाः ।
अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहेन्द्राय स्वाहा घोषाय स्वाहा श्लोकाय स्वाहाम्̇शाय स्वाहा भगाय स्वाहा क्षेत्रस्य पतये स्वाहा
पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहाद्भ्यः स्वाहौषधीभ्यः स्वाहा वनस्पतिभ्यः स्वाहा चराचरेभ्यः स्वाहा परिप्लवेभ्यः स्वाहा सरीसृपेभ्यः स्वाहा

1.8.14 अनुवाक 14
अभिषेकः

1
सोमस्य त्विषिर् असि तवेव मे त्विषिर् भूयात् ।
अमृतम् असि मृत्योर् मा पाहि
दिद्योन् मा पाहि ।
अवेष्टा दन्दशूकाः ।
निरस्तं नमुचेः शिरः
सोमो राजा वरुणो देवा धर्मसुवश् च ये । ते ते वाचम्̇ सुवन्तां ते ते प्राणम्̇ सुवन्तां ते ते चक्षुः सुवन्तां ते ते श्रोत्रम्̇ सुवन्ताम् ।
सोमस्य त्वा द्युम्नेनाभि षिञ्चाम्य् अग्नेः

2
तेजसा सूर्यस्य वर्चसेन्द्रस्येन्द्रियेण मित्रावरुणयोर् वीर्येण मरुताम् ओजसा
क्षत्राणां क्षत्रपतिर् असि ।
अति दिवस् पाहि
समाववृत्रन्न् अधराग् उदीचीर् अहिम् बुध्नियम् अनु संचरन्तीः ताः पर्वतस्य वृषभस्य पृष्ठे नावश् चरन्ति स्वसिच इयानाः ॥
रुद्र यत् ते क्रयी परं नाम तस्मै हुतम् असि यमेष्टम् असि ॥
प्रजापते न त्वद् एतान्य् अन्यो विश्वा जातानि परि ता बभूव । यत्कामास् ते जुहुमस् तन् नो अस्तु वयम्̇ स्याम पतयो रयीणाम् ॥

1.8.15 अनुवाक 15
रथेन विजयः

1
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् त्वयाऽयं वृत्रं वध्यात् ।
मित्रावरुणयोस् त्वा प्रशास्त्रोः प्रशिषा युनज्मि यज्ञस्य योगेन
विष्णोः क्रमो ऽसि विष्णोः क्रान्तम् असि विष्णोर् विक्रान्तम् असि
मरुताम् प्रसवे जेषम्
आप्तम् मनः
सम् अहम् इन्द्रियेण वीर्येण
पशूनाम् मन्युर् असि तवेव मे मन्युर् भूयात् ।
नमो मात्रे पृथिव्यै माहम् मातरम् पृथिवीम्̇ हिम्̇सिषम् मा

2
मां माता पृथिवी हिम्̇सीत् ।
इयद् अस्य् आयुर् अस्य् आयुर् मे धेह्य् ऊर्ग् अस्य् ऊर्जम् मे धेहि युङ्ङ् असि वर्चो ऽसि वर्चो मयि धेहि ।
अग्नये गृह पतये स्वाहा सोमाय वनस्पतये स्वाहेन्द्रस्य बलाय स्वाहा मरुताम् ओजसे स्वाहा
हम्̇सः शुचिषद् वसुर् अन्तरिक्षसद् होता वेदिषद् अतिथिर् दुरोणसत् । नृषद् वरसद् ऋतसद् व्योमसद् अब्जा गोजा ऋतजा अद्रिजा ऋतम् बृहत् ॥

1.8.16 अनुवाक 16
जितवतो राज्ञः सेवोपचारः

1
मित्रो ऽसि वरुणो ऽसि
सम् अहं विश्वैर् देवैः
क्षत्रस्य नाभिर् असि क्षत्रस्य योनिर् असि
स्योनाम् आ सीद सुषदाम् आ सीद
मा त्वा हिम्̇सीन् मा मा हिम्̇सीत् ।
नि षसाद धृतव्रतो वरुणः पस्त्यास्वा साम्राज्याय सुक्रतुः ।
ब्रह्मा3न् त्वम्̇ राजन् ब्रह्मासि सवितासि सत्यसवो ब्रह्मा3न् त्वम्̇ राजन् ब्रह्मासीन्द्रो ऽसि सत्यौजाः ॥

2
ब्रह्मा3न् त्वम्̇ राजन् ब्रह्माऽसि मित्रो ऽसि सुशेवो ब्रह्मा3न् त्वम्̇ राजन् ब्रह्माऽसि वरुणो ऽसि सत्यधर्मा ।
इन्द्रस्य वज्रो ऽसि वार्त्रघ्नस् तेन मे रध्य
दिशो ऽभ्य् अयम्̇ राजाऽभूत्
सुश्लोका3म्̇ सुमङ्गला3म्̇ सत्यराजा3न्
अपां नप्त्रे स्वाहोर्जो नप्त्रे स्वाहाऽग्नये गृहपतये स्वाहा ॥

1.8.17 अनुवाक 17
संसृपां हवींषि

1
आग्नेयम् अष्टाकपालं निर् वपति
हिरण्यं दक्षिणा सारस्वतं चरुं वत्सतरी दक्षिणा सावित्रं द्वादशकपालम् उपध्वस्तो दक्षिणा पौष्णं चरुम्̇ श्यामो दक्षिणा बार्हस्पत्यं चरुम्̇ शितिपृष्ठो दक्षिणैन्द्रम् एकदशकपालम् ऋषभो दक्षिणा वारुणं दशकपालम् महानिरष्टो दक्षिणा सौम्यं चरुम् बभ्रुर् दक्षिणा त्वाष्ट्रम् अष्टाकपालम्̇ शुण्ठो दक्षिणा वैष्णवं त्रिकपालं वामनो दक्षिणा ॥

1.8.18 अनुवाक 18
दशपेयः

1
सद्यो दीक्षयन्ति
सद्यः सोमं क्रीणन्ति
पुण्डरिस्रजाम् प्र यच्छति
दशभिर् वत्सतरैः सोमं क्रीणाति
दशपेयो भवति
शतम् ब्राह्मणाः पिबन्ति
सप्तदशम्̇ स्तोत्रम् भवति
प्राकाशाव् अध्वर्यवे ददाति
स्रजम् उद्गात्रे
रुक्मम्̇ होत्रे ।
अश्वम् प्रस्तोतृप्रतिहर्तृभ्याम् ।
द्वादश पष्ठौहीर् ब्रह्मणे
वशाम् मैत्रावरुणाय ।
ऋषभम् ब्राह्मणाच्छम्̇सिने
वाससी नेष्टापोतृभ्याम् ।
स्थूरि यवाचितम् अच्छावाकाय ।
अनड्वाहम् अग्नीधे
भार्गवो होता भवति
श्रायन्तीयम् ब्रह्मसामम् भवति
वारवन्तीयम् अग्निष्टोमसामम् ।
सारस्वतीर् अपो गृह्णाति ॥

1.8.19 अनुवाक 19
दिशामवेष्ट्यादि

1
आग्नेयम् अष्टाकपालं निर् वपति हिरण्यं दक्षिणा ।
ऐन्द्रम् एकादशकपालम् ऋषभो दक्षिणा
वैश्वदेवं चरुम् पिशंगी पष्ठौही दक्षिणा
मैत्रावरुणीम् आमिक्षां वशा दक्षिणा
बार्हस्पत्यं चरुम्̇ शितिपृष्ठो दक्षिणा ।
आदित्याम् मल्हां गर्भिणीम् आ लभते
मारुतीम् पृश्निम् पष्ठौहीम्
अश्विभ्याम् पूष्णे पुरोडाशं द्वादशकपालं निर् वपति सरस्वते सत्यवाचे चरुम्̇ सवित्रे सत्यप्रसवाय पुरोडाशं द्वादशकपालम् ।
तिसृधन्वम्̇ शुष्कदृतिर् दक्षिणा ॥

1.8.20 अनुवाक 20
प्रयुजां हवींषि

1
आग्नेयम् अष्टाकपालं निर् वपति
सौम्यं चरुम् ।
सावित्रं द्वादशकपालम्
बार्हस्पत्यं चरुम् ।
त्वाष्ट्रम् अष्टाकपालम् ।
वैश्वानरं द्वादशकपालम् ।
दक्षिणो रथवाहनवाहो दक्षिणा
सारस्वतं चरुं निर् वपति
पौष्णं चरुम्
मैत्रं चरुम् ।
वारुणं चरुम् ।
क्षैत्रपत्यं चरुम्
आदित्यं चरुम्
उत्तरो रथवाहनवाहो दक्षिणा ॥

1.8.21 अनुवाक 21
सौत्रामणी

1
स्वाद्वीं त्वा स्वादुना तीव्रां तीव्रेणामृताम् अमृतेन सृजामि सम्̇ सोमेन सोमो ऽस्य् अश्विभ्याम् पच्यस्व सरस्वत्यै पच्यस्वेन्द्राय सुत्राम्णे पच्यस्व
पुनातु ते परिस्रुतम्̇ सोमम्̇ सूर्यस्य दुहिता । वारेण शश्वता तना ॥
वायुः पूतः पवित्रेण प्रत्यङ्क् सोमो अतिद्रुतः । इन्द्रस्य युज्यः सखा ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ॥
आश्विनं धूम्रम् आ लभते सारस्वतम् मेषम् ऐन्द्रम् ऋषभम्
ऐन्द्रम् एकादशकपालं निर् वपति सावित्रं द्वादशकपालं वारुणं दशकपालम् ।
सोमप्रतीकाः पितरस् तृप्णुत
वडबा दक्षिणा ॥

1.8.22 अनुवाक 22
काम्ययाज्यापुरोनुवाक्याः

1
अग्नाविष्णू महि तद् वाम् महित्वं वीतं घृतस्य गुह्यानि नाम । दमेदमे सप्त रत्ना दधाना प्रति वां जिह्वा घृतम् आ चरण्येत् ॥
अग्नाविष्णू महि धाम प्रियं वां वीथो घृतस्य गुह्या जुषाणा । दमेदमे सुष्टुतीर् वावृधाना प्रति वां जिह्वा घृतम् उच् चरण्येत् ॥
प्र णो देवी सरस्वती वाजेभिर् वाजिनीवती । धीनाम् अवित्र्य् अवतु ॥
आ नो दिवो बृहतः

2
पर्वताद् आ सरस्वती यजता गन्तु यज्ञम् । हवं देवी जुजुषाणा घृताची शग्मां नो वाचम् उशती शृणोतु ॥
बृहस्पते जुषस्व नो हव्यानि विश्वदेव्य । रास्व रत्नानि दाशुषे ॥
एवा पित्रे विश्वदेवाय वृष्णे यज्ञैर् विधेम नमसा हविर्भिः । बृहस्पते सुप्रजा वीरवन्तो वयम्̇ स्याम पतयो रयीणाम् ॥
बृहस्पते अति यद् अर्यो अर्हाद् द्युमद् विभाति क्रतुमज् जनेषु । यद् दीदयच् छवसा

3
ऋतप्रजात तद् अस्मासु द्रविणं धेहि चित्रम् ॥
आ नो मित्रावरुणा घृतैर् गव्यूतिम् उक्षतम् । मध्वा रजाम्̇सि सुक्रतू ॥
प्र बाहवा सिसृतं जीवसे न आ नो गव्यूतिम् उक्षतं घृतेन । आ नो जने श्रवयतं युवाना श्रुतम् मे मित्रावरुणा हवेमा ॥
अग्निं वः पूर्व्यं गिरा देवम् ईडे वसूनाम् । सपर्यन्तः पुरुप्रियम् मित्रं न क्षेत्रसाधसम् ॥
मक्षू देववतो रथः ॥

4
शूरो वा पृत्सु कासु चित् । देवानां य इन् मनो यजमान इयक्षत्य् अभीद् अयज्वनो भुवत् ॥
न यजमान रिष्यसि न सुन्वान न देवयो । असद् अत्र सुवीर्यम् उत त्यद् आश्वश्वियम् । नकिष् टं कर्मणा नशन् न प्र योषन् न योषति ॥
उप क्षरन्ति सिन्धवो मयोभुव ईजानं च यक्ष्यमाणं च धेनवः । पृणन्तं च पपुरिं च

5
श्रवस्यवो घृतस्य धारा उप यन्ति विश्वतः ॥
सोमारुद्रा वि वृहतं विषूचीम् अमीवा या नो गयम् आविवेश । आरे बाधेथां निर्ऋतिम् पराचैः कृतं चिद् एनः प्र मुमुक्तम् अस्मत् ॥
सोमारुद्रा युवम् एतान्य् अस्मे विश्वा तनूषु भेषजानि धत्तम् । अव स्यतम् मुञ्चतं यन् नो अस्ति तनूषु बद्धं कृतम् एनो अस्मत् ॥
सोमापूषणा जनना रयीणां जनना दिवो जनना पृथिव्याः । जातौ विश्वस्य भुवनस्य गोपौ देवा अकृण्वन्न् अमृतस्य नाभिम् ॥
इमौ देवौ जायमानौ जुषन्तेमौ तमाम्̇सि गूहताम् अजुष्टा । आभ्याम् इन्द्रः पक्वम् आमास्व् अन्तः सोमापूषभ्यां जनद् उस्रियासु ॥