प्रमुखा विकल्पसूचिः उद्घाट्यताम्

काण्ड 2 विकृति काण्डम्
2.1प्रपाठक: 1 काम्यपशुविधानम्

2.1.1 अनुवाक 1 ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्।
VERSE: 1 वायव्यम्̇ श्वेतम् आ लभेत भूतिकामः । वायुर् वै क्षेपिष्ठा देवता वायुम् एव स्वेन भागधेयेनोपधावति स एवैनम् भूतिं गमयति भवत्य् एव । अतिक्षिप्रा देवतेत्य् आहुः सैनम् ईश्वरा प्रदह इति । एतम् एव सन्तं वायवे नियुत्वत आ लभेत नियुद् वा अस्य धृतिः । धृत एव भूतिम् उपैत्य् अप्रदाहाय भवत्य् एव ॥
VERSE: 2 वायवे नियुत्वत आ लभेत ग्रामकामः । वायुर् वा इमाः प्रजा नस्योता नेनीयते वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप धावति स एवास्मै प्रजा नस्योता नि यच्छति ग्राम्येव भवति नियुत्वते भवति ध्रुवा एवास्मा अनपगाः करोति वायवे नियुत्वत आ लभेत प्रजाकामः । प्राणो वै वायुर् अपानो नियुत् 0 प्राणापानौ खलु वा एतस्य प्रजायाः
VERSE: 3 अप क्रामतो यो ऽलम् प्रजायै सन् प्रजां न विन्दते वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप धावति स एवास्मै प्राणापानाभ्याम् प्रजाम् प्र जनयति विन्दते प्रजाम् । वायवे नियुत्वत आ लभेत ज्योगामयावी प्राणो वै वायुर् अपानो नियुत् प्राणापानौ खलु वा एतस्माद् अप क्रामतो यस्य ज्योग् आमयति वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप
VERSE: 4 धावति स एवास्मिन् प्राणापानौ दधाति । उत यदीतासुर् भवति जीवत्य् एव प्रजापतिर् वा इदम् एक आसीत् सो ऽकामयत प्रजाः पशून्त् सृजेयेति स आत्मनो वपाम् उद् अक्खिदत् ताम् अग्नौ प्रागृह्णात् ततो ऽजस् तूपरः सम् अभवत् तम्̇ स्वायै देवताया आलभत ततो वै स प्रजाः पशून् असृजत यः प्रजाकामः
VERSE: 5 पशुकामः स्यात् स एतम् प्राजापत्यम् अजं तूपरम् आ लभेत प्रजापतिम् एव स्वेन भागधेयेनोप धावति स एवास्मै प्रजाम् पशून् प्र जनयति यच् छ्मश्रुणस् तत् पुरुषाणाम्̇ रूपम् । यत् तूपरस् तद् अश्वानाम् यद् अन्यतोदन् तद् गवाम् यद् अव्या इव शफास् तद् अवीनाम् । यद् अजस् तद् अजानाम् एतावन्तो वै ग्राम्याः पशवस् तान्
VERSE: 6 रूपेणैवाव रुन्द्धे सोमापौष्णं त्रैतम् आ लभेत पशुकामः । द्वौ वा अजायै स्तनौ नानैव द्वाव् अभि जायेते ऊर्जम् पुष्टिं तृतीयः सोमापूषणाव् एव स्वेन भागधेयेनोप धावति ताव् एवास्मै पशून् प्र जनयतः सोमो वै रेतोधाः पूषा पशूनाम् प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्र जनयति । औदुम्बरो यूपो भवति । ऊर्ग् वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे ॥

2.1.2 अनुवाक 2 काम्याः पशवः। वरुणगृहीतादिपशुविधानम्।
VERSE: 1 प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टाः पराचीर् आयन् ता वरुणम् अगच्छन् ता अन्वैत् ताः पुनर् अयाचत ता अस्मै न पुनर् अददात् सो ऽब्रवीत् । वरं वृणीष्वाथ मे पुनर् देहीति तासां वरम् आलभत स कृष्ण एकशितिपाद् अभवत् । यो वरुणगृहीतः स्यात् स एतं वारुणं कृष्णम् एकशितिपादम् आ लभेत वरुणम्
VERSE: 2 एव स्वेन भागधेयेनोप धावति स एवैनं वरुणपाशान् मुञ्चति कृष्ण एकशितिपाद् भवति वारुणो ह्य् एष देवतया समृद्ध्यै सुवर्भानुर् आसुरः सूर्यं तमसाविध्यत् तस्मै देवाः प्रायश्चित्तिम् ऐच्छन् तस्य यत् प्रथमं तमो ऽपाघ्नन्त् सा कृष्णाविर् अभवत् । यद् द्वितीयम्̇ सा फल्गुनी यत् तृतीयम्̇ सा भलक्षी यद् अध्यस्थाद् अपाकृन्तन्त् साविर् वशा
VERSE: 3 समभवत् । ते देवा अब्रुवन् देवपशुर् वा अयम्̇ सम् अभूत् कस्मा इमम् आ लप्स्यामह इति । अथ वै तर्ह्य् अल्पा पृथिव्य् आसीद् अजाता ओषधयस् ताम् अविं वशाम् आदित्येभ्यः कामायालभन्त ततो वा अप्रथत पृथिव्य् अजायन्तौषधयः । यः कामयेत प्रथेय पशुभिः प्र प्रजया जायेयेति स एताम् अविं वशाम् आदित्येभ्यः कामाय
VERSE: 4 आ लभेत । आदित्यान् एव कामम्̇ स्वेन भागधेयेनोप धावति त एवैनम् प्रथयन्ति पशुभिः प्र प्रजया जनयन्ति । असाव् आदित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिम् ऐच्छन् तस्मा एता मल्हा आलभन्ताग्नेयीं कृष्णग्रीवीम्̇ सम्̇हिताम् ऐन्द्रीम्̇ श्वेताम् बार्हस्पत्याम् । ताभिर् एवास्मिन् रुचम् अदधुः । यो ब्रह्मवर्चसकामः स्यात् तस्मा एता मल्हा आ लभेत ॥
VERSE: 5 आग्नेयीं कृष्णग्रीवीम्̇ सम्̇हिताम् ऐन्द्रीम्̇ श्वेताम् बार्हस्पत्याम् एता एव देवताः स्वेन भागधेयेनोप धावति ता एवास्मिन् ब्रह्मवर्चसं दधति ब्रह्मवर्चस्य् एव भवति वसन्ता प्रातर् आग्नेयीं कृष्णग्रीवीम् आ लभेत ग्रीष्मे मध्यंदिने सम्̇हिताम् ऐन्द्रीम्̇ शरद्य् अपराह्णे श्वेताम् बार्हस्पत्याम् । त्रीणि वा आदित्यस्य तेजाम्̇सि वसन्ता प्रातर् ग्रीष्मे मध्यंदिने शरद्य् अपराह्णे
यावन्त्य् एव तेजाम्̇सि तान्य् एव
VERSE: 6 अव रुन्द्धे। संवत्सरम् पर्यालभ्यन्ते संवत्सरो वै ब्रह्मवर्चसस्य प्रदाता संवत्सर एवास्मै ब्रह्मवर्चसम् प्र यच्छति ब्रह्मवर्चस्य् एव भवति गर्भिणयो भवन्ति । इन्द्रियं वै गर्भः । इन्द्रियम् एवास्मिन् दधति सारस्वतीम् मेषीम् आ लभेत य ईश्वरो वाचो वदितोः सन् वाचं न वदेत् । वाग् वै सरस्वती सरस्वतीम् एव स्वेन भागधेयेनोप धावति सैवास्मिन्
VERSE: 7 वाचं दधाति प्रवदिता वाचो भवति । अपन्नदती भवति तस्मान् मनुष्याः सर्वां वाचम् वदन्ति । आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुं ज्योगामयावी । अग्निं वा एतस्य शरीरं गच्छति सोमम्̇ रसो यस्य ज्योग् आमयति । अग्नेर् एवास्य शरीरं निष्क्रीणाति सोमाद् रसम् उत यदीतासुर् भवति जीवत्य् एव सौम्यम् बभ्रुम् आ लभेताग्नेयं कृष्णग्रीवम् प्रजाकामः ।
सोमो
VERSE: 8 वै रेतोधा अग्निः प्रजानाम् प्रजनयिता सोम एवास्मै रेतो दधात्य् अग्निः प्रजाम् प्र जनयति विन्दते प्रजाम् । आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुं यो ब्राह्मणो विद्याम् अनूच्य न विरोचेत यद् आग्नेयो भवति तेज एवास्मिन् तेन दधाति यत् सौम्यो ब्रह्मवर्चसं तेन कृष्णग्रीव आग्नेयो भवति तम एवास्माद् अप हन्ति श्वेतो भवति
VERSE: 9 रुचम् एवास्मिन् दधाति । बभ्रुः सौम्यो भवति ब्रह्मवर्चसम् एवास्मिन् त्विषिं दधाति । आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुम् आग्नेयं कृष्णग्रीवम् पुरोधायाम्̇ स्पर्धमानः । आग्नेयो वै ब्राह्मणः सौम्यो राजन्यः । अभितः सौम्यम् आग्नेयौ भवतस् तेजसैव ब्रह्मणोभयतो राष्ट्रम् परि गृह्णाति । एकधा समावृङ्क्ते पुर एनं दधते ॥

2.1.3अनुवाक 3 काम्याः पशवः। जयादिहेतुपशुविधिः।
VERSE: 1 देवासुरा एषु लोकेष्व् अस्पर्धन्त स एतं विष्णुर् वामनम् अपश्यत् तम्̇ स्वायै देवताया आलभत ततो वै स इमाँल्लोकान् अभ्य् अजयत् । वैष्णवं वामनम् आ लभेत स्पर्धमानः । विष्णुर् एव भूत्वेमाँल्लोकान् अभि जयति विषम आ लभेत विषमा इव हीमे लोकाः समृद्ध्यै । इन्द्राय मन्युमते मनस्वते ललामम् प्राशृङ्गम् आ लभेत संग्रामे
VERSE: 2 संयत्ते । इन्द्रियेण वै मन्युना मनसा संग्रामं जयति । इन्द्रम् एव मन्युमन्तम् मनस्वन्तम्̇ स्वेन भागधेयेनोप धावति स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति जयति तम्̇ संग्रामम् इन्द्राय मरुत्वते पृश्निसक्थम् आ लभेत ग्रामकामः । इन्द्रम् एव मरुत्वन्तम्̇ स्वेन भागधेयेनोप धावति स एवास्मै सजातान् प्र यच्छति ग्राम्य् एव भवति ।
यद् ऋषभस् तेन
VERSE: 3 ऐन्द्रः । यत् पृश्निस् तेन मारुतः। समृद्ध्यै । पश्चात् पृश्निसक्थो भवति पश्चादन्ववसायिनीम् एवास्मै विशं करोति सौम्यम् बभ्रुम् आ लभेतान्नकामः सौम्यं वा अन्नम् । सोमम् एव स्वेन भागधेयेनोप धावति स एवास्मा अन्नम् प्र यच्छति । अन्नाद एव भवति बभ्रुर् भवति । एतद् वा अन्नस्य रूपम् । समृद्ध्यै सौम्यम् बभ्रुम् आ लभेत यम् अलम्
VERSE: 4 राज्याय सन्तम्̇ राज्यं नोपनमेत् । सौम्यं वै राज्यम् । सोमम् एव स्वेन भागधेयेनोप धावति स एवास्मै राज्यम् प्र यच्छति । उपैनम्̇ राज्यं नमति बभ्रुर् भवति । एतद् वै सोमस्य रूपम् । समृद्ध्यै । इन्द्राय वृत्रतुरे ललामम् प्राशृङ्गम् आ लभेत गतश्रीः प्रतिष्ठाकामः । पाप्मानम् एव वृत्रं तीर्त्वा प्रतिष्ठां गच्छति । इन्द्रायाभिमातिघ्ने ललामम् प्राशृङ्गम् आ
VERSE: 5 लभेत यः पाप्मना गृहीतः स्यात् । पाप्मा वा अभिमातिः । इन्द्रम् एवाभिमातिहनम्̇ स्वेन भागधेयेनोप धावति स एवास्मात् पाप्मानम् अभिमातिम् प्र णुदते । इन्द्राय वज्रिणे ललामम् प्राशृङ्गम् आ लभेत यम् अलम्̇ राज्याय सन्तम्̇ राज्यं नोपनमेत् । इन्द्रम् एव वरिणम्̇ स्वेन भागधेयेनोपधावति स एवास्मै वज्रम् प्र यच्छति स एनं वज्रो भूत्या इन्द्धे । उपैनम्̇ राज्यं नमति ललामः प्राशृङ्गो भवति । एतद् वै वज्रस्य रूपम् । समृद्ध्यै ॥

2.1.4 अनुवाक 4 काम्याः पशवः। ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1 असाव् आदित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिम् ऐच्छन् तस्मा एतां दशर्षभाम् आलभन्त तयैवास्मिन् रुचम् अदधुः । यो ब्रह्मवर्चसकामः स्यात् तस्मा एतां दशर्षभाम् आ लभेत । अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति स एवास्मिन् ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्य् एव भवति वसन्ता प्रातस् त्रीन् ललामान् आ लभेत ग्रीष्मे मध्यंदिने ॥
VERSE: 2 त्रीञ्छितिपृष्ठान्̇ छरद्य् अपराह्णे त्रीञ् छितिवारान् त्रीणि वा आदित्यस्य तेजाम्̇सि वसन्ता प्रातर् ग्रीष्मे मध्यंदिने शरद्य् अपराह्णे यावन्त्य् एव तेजाम्̇सि तान्य् एवाव रुन्द्धे त्रयस्त्रय आ लभ्यन्ते । अभिपूर्वम् एवास्मिन् तेजो दधाति संवत्सरम् पर्यालभ्यन्ते संवत्सरो वै ब्रह्मवर्चसस्य प्रदाता संवत्सर एवास्मै ब्रह्मवर्चसम् प्र यच्छति ब्रह्मवर्चस्य् एव भवति संवत्सरस्य परस्तात् प्राजापत्यं कद्रुम्
VERSE: 3 आ लभेत प्रजापतिः सर्वा देवताः । देवतासु एव प्रति तिष्ठति यदि बिभीयात् । दुश्चर्मा भविष्यामीति सोमापौष्णम्̇ श्यामम् आ लभेत सौम्यो वै देवतया पुरुषः पौष्णाः पशवः स्वयैवास्मै देवतया पशुभिस् त्वचं करोति न दुश्चर्मा भवति देवाश् च वै यमश् चास्मिन् लोके ऽस्पर्धन्त स यमो देवानाम् इन्द्रियं वीर्यम् अयुवत तद् यमस्य
VERSE: 4 यमत्वम् । ते देवा अमन्यन्त यमो वा इदम् अभूद् यद् वयम्̇ स्म इति ते प्रजापतिम् उपाधावन् । स एतौ प्रजापतिर् आत्मन उक्षवशौ निर् अमिमीत ते देवा वैष्णावरुणीं वशाम् आलभन्तैन्द्रम् उक्षाणम् तं वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदन्तैन्द्रेणैवास्येन्द्रियम् अवृञ्जत यो भ्रातृव्यवान्त् स्यात् स स्पर्धमानो वैष्णावरुणीम्
VERSE: 5 वशाम् आ लभेतैन्द्रम् उक्षाणम् । वरुणेनैव भ्रातृव्यं ग्राहयित्वा विष्णुना यज्ञेन प्र णुदत ऐन्द्रेणैवास्येन्द्रियं वृङ्क्ते भवत्य् आत्मना परास्य भ्रातृव्यो भवति । इन्द्रो वृत्रम् अहन् तं वृत्रो हतः षोडशभिर् भोगैर् असिनात् तस्य वृत्रस्य शीर्षतो गाव उद् आयन् ता वैदेह्यो ऽभवन् तासाम् ऋषभो जघने ऽनूदैत् तम् इन्द्रः
VERSE: 6 अचायत् सो ऽमन्यत यो वा इमम् आलभेत मुच्येतास्मात् पाप्मन इति स आग्नेयं कृष्णग्रीवम् आलभतैन्द्रम् ऋषभम् । तस्याग्निर् एव स्वेन भागधेयेनोपसृतः षोडशधा वृत्रस्य भोगान् अप्य् अदहद् ऐन्द्रेणेन्द्रियम् आत्मन्न् अधत्त यः पाप्मना गृहीतः स्यात् स आग्नेयं कृष्णग्रीवम् आ लभेतैन्द्रम् ऋषभम् अग्निर् एवास्य स्वेन भागधेयेनोपसृतः
VERSE: 7 पाप्मानम् अपि दहत्य् ऐन्द्रेणेन्द्रियम् आत्मन् धत्ते मुच्यते पाप्मनः । भवत्य् एव द्यावापृथिव्यां धेनुम् आ लभेत ज्योगपरुद्धः । अनयोर् हि वा एषो ऽप्रतिष्ठितः । अथैष ज्योग् अपरुद्धो द्यावापृथिवी एव स्वेन भागधेयेनोप धावति ते एवैनम् प्रतिष्ठां गमयतः प्रत्य् एव तिष्ठति पर्यारिणी भवति पर्यारीव ह्य् एतस्य राष्ट्रं यो ज्योगपरुद्धः समृद्धयै वायव्यम्
VERSE: 8 वत्सम् आ लभेत । वायुर् वा अनयोर् वत्सः । इमे वा एतस्मै लोका अपशुष्का विड् अपशुष्का । अथैष ज्योग् अपरुद्धो वायुम् एव स्वेन भागधेयेनोप धावति स एवास्मा इमाँल्लोकान् विशम् प्र दापयति प्रास्मा इमे लोकाः स्नुवन्ति भुञ्जत्य् एनं विड् उप तिष्ठते ॥

2.1.5 अनुवाक 5 काम्याः पशवः। पशुकामादीनां पशुविधिः।
VERSE: 1 इन्द्रो वलस्य बिलम् अपौर्णोत् स य उत्तमः पशुर् आसीत् तम् पृष्ठम् प्रति संगृह्योद् अक्खिदत् तम्̇ सहस्रम् पशवो ऽनूदायन् । स उन्नतो ऽभवत् । यः पशुकामः स्यात् स एतम् ऐन्द्रम् उन्नतम् आ लभेत । इन्द्रम् एव स्वेन भागधेयोनोप धावति स एवास्मै पशून् प्र यच्छति पशुमान् एव भवति । उन्नतः
VERSE: 2 भवति साहस्री वा एषा लक्ष्मी यद् उन्नतः । लक्ष्मियैव पशून् अव रुन्द्धे यदा सहस्रम् पशून् प्राप्नुयात् अथ वैष्णवं वामनम् आ लभेत । एतस्मिन् वै तत् सहस्रम् अध्य् अतिष्ठत् तस्माद् एष वामनः समीषितः पशुभ्य एव प्रजातेभ्यः प्रतिष्ठां दधाति को ऽर्हति सहस्रम् पशून् प्राप्तुम् इत्य् आहुः । अहोरात्राण्य् एव सहस्रम्̇ सम्पाद्याऽऽ लभेत पशवः
VERSE: 3 वा अहोरात्राणि पशून् एव प्रजातान् प्रतिष्ठां गमयति । ओषधीभ्यो वेहतम् आ लभेत प्रजाकामः । ओषधयो वा एतम् प्रजायै परि बाधन्ते यो ऽलम् प्रजायै सन् प्रजां न विन्दते । ओषधयः खलु वा एतस्यै सूतुम् अपि घ्नन्ति या वेहद् भवति । ओषधीर् एव स्वेन भागधेयेनोप धावति ता एवास्मै स्वाद् योनेः प्रजाम् प्र जनयन्ति विन्दते
VERSE: 4 प्रजाम् आपो वा ओषधयो ऽसत् पुरुषः । आप एवास्मा असतः सद् ददति तस्माद् आहुर् यश् चैवं वेद यश् च न । आपस् त्वावासतः सद् ददतीति । ऐन्द्रीम्̇ सूतवशाम् आ लभेत भूतिकामः । अजातो वा एष यो ऽलम् भूत्यै सन् भूतिं न प्राप्नोति । इन्द्रम् खलु वा एषा सूत्वा वशाभवत् ॥
VERSE: 5 इन्द्रम् एव स्वेन भागधेयेनोप धावति स एवैनम् भूतिं गमयति भवत्य् एव यम्̇ सूत्वा वशा स्यात् तम् ऐन्द्रम् एवाऽऽ लभेत । एतद् वाव तद् इन्द्रियम् । साक्षाद् एवेन्द्रियम् अव रुन्द्धे । ऐन्द्राग्नम् पुनरुत्सृष्टम् आ लभेत य आ तृतीयात् पुरुषात् सोमं न पिबेत् । विच्छिन्नो वा एतस्य सोमपीथो यो ब्राह्मणः सन्न् आ
VERSE: 6 तृतीयात् पुरुषात् सोमं न पिबति । इन्द्राग्नी एव स्वेन भागधेयेनोप धावति ताव् एवास्मै सोमपीथम् प्र यच्छतः । उपैनम्̇ सोमपीथो नमति यद् ऐन्द्रो भवतीन्द्रियं वै सोमपीथ इन्द्रियम् एव सोमपीथम् अव रुन्द्धे यद् आग्नेयो भवत्य् आग्नेयो वै ब्राह्मणः स्वाम् एव देवताम् अनु सं तनोति पुनरुत्सृष्टो भवति पुनरुत्सृष्ट इव ह्य् एतस्य
VERSE: 7 सोमपीथः ।समृद्ध्यै। ब्राह्मणस्पत्यं तूपरम् आ लभेताभिचरन् ब्रह्मणस् पतिम् एव स्वेन भागधेयेनोप धावति तस्मा एवैनम् आ वृश्चति ताजग् आर्तिम् आर्छति तूपरो भवति क्षुरपविर् वा एषा लक्ष्मी यत् तूपरः । समृद्ध्यै। स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति शरमयम् बर्हिः शृणात्य् एवैनम् । वैभीदक इध्मो भिनत्त्य् एवैनम् ॥
 
2.1.6 अनुवाक 6 काम्याः पशवः। ग्रामकामादीनां पशुविधिः।
VERSE: 1 बार्हस्पत्यम्̇ शितिपृष्ठम् आ लभेत ग्रामकामो यः कामयेत पृष्ठम्̇ समानानाम्̇ स्याम् इति बृहस्पतिम् एव स्वेन भागधेयेनोप धावति स एवैनम् पृष्ठम्̇ समानानां करोति ग्राम्य् एव भवति शितिपृष्ठो भवति बार्हस्पत्यो ह्य् एष देवतया समृद्धयै पौष्णम्̇ श्यामम् आ लभेतान्नकामः । अन्नं वै पूषा पूषणम् एव स्वेन भागधेयेनोप धावति स एवास्मै
VERSE: 2 अन्नम् प्र यच्छति । अन्नाद एव भवति श्यामो भवति । एतद् वा अन्नस्य रूपम् । समृद्ध्यै मारुतम् पृश्निम् आ लभेतान्नकामः । अन्नं वै मरुतः । मरुत एव स्वेन भागधेयेनोप धावति त एवास्मा अन्नम् प्र यच्छन्ति । अन्नाद एव भवति पृश्निर् भवति । एतद् वा अन्नस्य रूपम् । समृद्ध्यै । ऐन्द्रम् अरुणम् आ लभेतेन्द्रियकामः । इन्द्रम् एव
VERSE: 3 स्वेन भागधेयेनोप धावति स एवास्मिन्न् इन्द्रियं दधाति । इन्द्रियाव्य् एव भवति । अरुणो भ्रूमान् भवति । एतद् वा इन्द्रस्य रूपम् । समृद्ध्यै सावित्रम् उपध्वस्तम् आ लभेत सनिकामः सविता वै प्रसवानाम् ईशे सवितारम् एव स्वेन भागधेयेनोप धावति स एवास्मै सनिम् प्र सुवति दानकामा अस्मै प्रजा भवन्ति । उपध्वस्तो भवति सावित्रो ह्य् एषः
VERSE: 4 देवतया ।समृद्ध्यै। वैश्वदेवम् बहुरूपम् आ लभेतान्नकामः । वैश्वदेवं वा अन्नम् । विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति त एवास्मा अन्नम् प्र यच्छन्ति । अन्नाद एव भवति बहुरूपो भवति बहुरूपम्̇ ह्य् अन्नम् । समृद्ध्यै । वैश्वदेवम् बहुरूपम् आ लभेत ग्रामकामः । वैश्वदेवा वै सजाताः । विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति त एवास्मै
VERSE: 5 सजातान् प्र यच्छन्ति। ग्राम्य् एव भवति बहुरूपो भवति बहुदेवत्यो ह्य् एषः । समृद्ध्यै प्रजापत्यं तूपरम् आ लभेत यस्यानाज्ञातम् एव ज्योग् आमयेत् प्राजापत्यो वै पुरुषः प्रजापतिः खलु वै तस्य वेद यस्यानाज्ञातम् इव ज्योग् आमयति प्रजापतिम् एव स्वेन भागधेयेनोप धावति स एवैनं तस्मात् स्रामान् मुञ्चति तूपरो भवति प्राजापत्यो ह्य् एष देवतया समृद्ध्यै ॥
 
2.1.7 अनुवाक 7 काम्याः पशवः।ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1 वषट्कारो वै गायत्रियै शिरो ऽच्छिनत् तस्यै रसः परापतत् तम् बृहस्पतिर् उपागृह्णात् सा शितिपृष्ठा वशाभवत् । यो द्वितीयः परापतत् तम् मित्रावरुणाव् उपागृह्णीताम्̇ सा द्विरूपा वशाभवत् । यस् तृतीयः परापतत् तं विश्वे देवा उपागृह्णन्त् सा बहुरूपा वशाभवत् । यश् चतुर्थः परापतत् स पृथिवीम् प्राविशत् तम् बृहस्पतिर् अभि
VERSE: 2 अगृह्णात् । अस्त्व् एवायम् भोगायेति स उक्षवशः सम् अभवत् । यल् लोहितम् परापतत् तद् रुद्र उपागृह्णात् सा रौद्री रोहिणी वशाभवत् । बार्हस्पत्याम्̇ शितिपृष्ठाम् आ लभेत ब्रह्मवर्चसकामः । बृहस्पतिम् एव स्वेन भागधेयेनोप धावति स एवास्मिन् ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्य् एव भवति छन्दसां वा एष रसो यद् वशा रस इव खलु
VERSE: 3 वै ब्रह्मवर्चसम् । छन्दसाम् एव रसेन रसम् ब्रह्मवर्चसम् अव रुन्द्धे मैत्रावरुणीं द्विरूपाम् आ लभेत वृष्टिकामः । मैत्रं वा अहर् वारुणी रात्रिः । अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति ताव् एवास्मा अहोरात्राभ्याम् पर्जन्यं वर्षयतः । छन्दसां वा एष रसो यद् वशा रस इव खलु वै वृष्टिः । छन्दसाम् एव रसेन
VERSE: 4 रसं वृष्टिम् अव रुन्द्धे मैत्रावरुणीं द्विरूपाम् आ लभेत प्रजाकामः । मैत्रं वा अहर् वारुणी रात्रिः । अहोरात्राभ्यां खलु वै प्रजाः प्र जायन्ते मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति ताव् एवास्मा अहोरात्राभ्याम् प्रजाम् प्र जनयतः । छन्दसां वा एष रसो यद् वशा रस इव खलु वै प्रजा छन्दसाम् एव रसेन रसम् प्रजाम् अव
VERSE: 5 रुन्द्धे । वैश्वदेवीम् बहुरूपाम् आ लभेतान्नकामः । वैश्वदेवं वा अन्नम् । विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति त एवास्मा अन्नम् प्र यच्छन्ति । अन्नाद एव भवति छन्दसां वा एष रसो यद् वशा रस इव खलु वा अन्नम् । छन्दसाम् एव रसेन रसम् अन्नम् अव रुन्द्धे वैश्वदेवीम् बहुरूपाम् आ लभेत ग्रामकामः । वैश्वदेवा वै
VERSE: 6 सजाताः । विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति त एवास्मै सजातान् प्र यच्छन्ति ग्राम्य् एव भवति छन्दसां वा एष रसो यद् वशा रस इव खलु वै सजाताः । छन्दसाम् एव रसेन रसम्̇ सजातान् अव रुन्द्धे बार्हस्पत्यम् उक्षवशम् आ लभेत ब्रह्मवर्चसकामः । बृहस्पतिम् एव स्वेन भागधेयेनोप धावति स एवास्मिन् ब्रह्मवर्चसम्
VERSE: 7 दधाति ब्रह्मवर्चस्य् एव भवति वशं वा एष चरति यद् उक्षा वश इव खलु वै ब्रह्मवर्चसम् । वशेनैव वशम् ब्रह्मवर्चसम् अव रुन्द्धे रौद्रीम्̇ रोहिणीम् आ लभेताभिचरन् रुद्रम् एव स्वेन भागधेयेनोप धावति तस्मा एवैनम् आ वृश्चति ताजग् आर्तिम् आर्छति रोहिणी भवति रौद्री ह्य् एषा देवतया समृद्ध्यै स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति शरमयम् बर्हिः शृणात्य् एवैनम् । वैभीदक इध्मो भिनत्त्य् एवैनम् ॥

2.1.8 अनुवाक 8 काम्याः पशवः। ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1 असाव् आदित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिम् ऐच्छन् तयैवास्मिन् रुचम् अदधुः । यो ब्रह्मवर्चसकामः स्यात् तस्मा एताम्̇ सौरीम्̇ श्वेतां वशाम् आ लभेत । अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति स एवास्मिन् ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्य् एव भवति बैल्वो यूपो भवति । असौ
VERSE: 2 वा आदित्यो यतो ऽजायत ततो बिल्व उद् अतिष्ठत् सयोन्य् एव ब्रह्मवर्चसम् अव रुन्द्धे ब्राह्मणस्पत्याम् बभ्रुकर्णीम् आ लभेताभिचरन् वारुणं दशकपालम् पुरस्तान् निर् वपेत् । वरुणेनैव भ्रातृव्यं ग्राहयित्वा ब्रह्मणा स्तृणुते बभ्रुकर्णी भवति । एतद् वै ब्रह्मणो रूपम् । समृद्ध्यै स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति 0 शरमयम् बर्हिः शृणाति
VERSE: 3 एवैनम् । वैभीदक इध्मो भिनत्त्य् एवैनम् । वैष्णवं वामनम् आ लभेत यं यज्ञो नोपनमेत् । विष्णुर् वै यज्ञः । विष्णुम् एव स्वेन भागधेयेनोप धावति स एवास्मै यज्ञम् प्र यच्छति । उपैनं यज्ञो नमति वामनो भवति वैष्णवो ह्य् एष देवतया समृद्ध्यै त्वाष्ट्रं वडबम् आ लभेत पशुकामस् त्वष्टा वै पशूनाम् मिथुनानाम्
VERSE: 4 प्रजनयिता । त्वष्टारम् एव स्वेन भागधेयेनोप धावति स एवास्मै पशून् मिथुनान् प्र जनयति प्रजा हि वा एतस्मिन् पशवः प्रविष्टाः । अथैष पुमान्त् सन् वडबः साक्षाद् एव प्रजाम् पशून् अव रुन्द्धे मैत्रम्̇ श्वेतम् आ लभेत संग्रामे संयत्ते समयकामः । मित्रम् एव स्वेन भागधेयेनोप धावति स एवैनम् मित्रेण सं नयति ॥
VERSE: 5 विशालो भवति व्यवसाययत्य् एवैनम् प्राजापत्यं कृष्णम् आ लभेत वृष्टिकामः प्रजापतिर् वै वृष्ट्या ईषे प्रजापतिम् एव स्वेन भागधेयेनोप धावति स एवास्मै पर्जन्यं वर्षयति कृष्णो भवति । एतद् वै वृष्ट्यै रूपम् । रूपेणैव वृष्टिम् अव रुन्द्धे शबलो भवति विद्युतम् एवास्मै जनयित्वा वर्षयति । अवाशृङ्गो भवति वृष्टिम् एवास्मै नि यच्छति ॥

2.1.9 अनुवाक 9 काम्याः पशवः। अन्नाद्यकामादीनां पशुविधिः।
VERSE: 1 वरुणम्̇ सुषुवाणम् अन्नाद्यं नोपानमत् स एतां वारुणीं कृष्णां वशाम् अपश्यत् ताम्̇ स्वायै देवताया आलभत ततो वै तम् अन्नाद्यम् उपानमत् । यम् अलम् अन्नाद्याय सन्तम् अन्नाद्यं नोपनमेत् स एतां वारुणीं कृष्णां वशाम् आ लभेत वरुणम् एव स्वेन भागधेयेनोप धावति स एवास्मा अन्नम् प्र यच्छत्य् अन्नादः
VERSE: 2 एव भवति। कृष्णा भवति वारुणी ह्य् एषा देवतया समृद्ध्यै मैत्रम्̇ श्वेतम् आ लभेत वारुणं कृष्णम् अपां चौषधीनां च संधाव् अन्नकामः । मैत्रीर् वा ओषधयो वारुणीर् आपः । अपां च खलु वा ओषधीनां च रसम् उप जीवामः । मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति ताव् एवास्मा अन्नम् प्र यच्छतो ऽन्नाद एव भवति ॥
VERSE: 3 अपां चौषधीनां च संधाव् आ लभत उभयस्यावरुद्ध्यै मैत्रम्̇ श्वेतम् आ लभेत वारुणं कृष्णं ज्योगामयावी यन् मैत्रो भवति मित्रेणैवास्मै वरुणम्̇ शमयति यद् वारुणः साक्षाद् एवैनं वरुणपाशान् मुञ्चति । उत यदीतासुर् भवति जीवत्य् एव देवा वै पुष्टिं नाविन्दन् ।
VERSE: 4 ताम् मिथुने ऽपश्यन् तस्याम् न सम् अराधयन् ताव् अश्विनाव् अब्रूताम् आवयोर् वा एषा मैतस्यां वदध्वम् इति साश्विनोर् एवाभवत् । यः पुष्टिकामः स्यात् स एताम् आश्विनीं यमीं वशाम् आ लभेत । अश्विनाव् एव स्वेन भागधेयेनोप धावति ताव् एवास्मिन् पुष्टिं धत्तः पुष्यति प्रजया पशुभिः ॥

2.1.10 अनुवाक 10 काम्याः पशवः। नैमित्तिकपशुविधिः।
VERSE: 1 आश्विनं धूम्रललामम् आ लभेत यो दुर्ब्राह्मणः सोमम् पिपासेत् । अश्विनौ वै देवानाम् असोमपाव् आस्ताम् । तौ पश्चा सोमपीथम् प्राप्नुताम् अश्विनाव् एतस्य देवता यो दुर्ब्राह्मणः सोमम् पिपासति । अश्विनाव् एव स्वेन भागधेयेनोप धावति तव् एवास्मै सोमपीथम् प्र यच्छत उपैनम्̇ सोमपीथो नमति यद् धूम्रो भवति धूम्रिमाणम् एवास्माद् अप हन्ति ललामः
VERSE: 2 भवति मुखत एवास्मिन् तेजो दधाति। वायव्यं गोमृगम् आ लभेत यम् अजघ्निवाम्̇सम् अभिशम्̇सेयुः । अपूता वा एतं वाग् ऋच्छति यम् अजघ्निवाम्̇सम् अभिशम्̇सन्ति नैष ग्राम्यः पशुर् नारण्यो यद् गोमृगः । नेवैष ग्रामे नारण्ये यम् अजघ्निवाम्̇सम् अभिशम्̇सन्ति वायुर् वै देवानाम् पवित्रम् । वायुम् एव स्वेन भागधेयेनोप धावति स एव
VERSE: 3 एनम् पवयति पराची वा एतस्मै व्युच्छन्ती व्य् उच्छति तमः पाप्मानम् प्र विशति यस्याश्विने शस्यमाने सूर्यो नाविर् भवति सौर्यम् बहुरूपम् आ लभेत । अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति स एवास्मात् तमः पाप्मानम् अप हन्ति प्रतीच्य् अस्मै व्युच्छन्ती व्य् उच्छत्य् अप तमः पाप्मानम्̇ हते ॥

2.1.11 अनुवाक 11 काम्येष्टियाज्यापुरोनुवाक्याः
VERSE: 1 इन्द्रं वो विश्वतस् परि । इन्द्रं नरः । मरुतो यद् ध वो दिवः । या वः शर्म भरेष्व् इन्द्रम्̇ सुहवम्̇ हवामहेऽम्̇होमुचम्̇ सुकृतं दैव्यं जनम् । अग्निम् मित्रं वरुणम्̇ सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥ ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः प्रिया वो नाम ।
VERSE: 2 हुवे तुराणाम् । आ यत् तृपन् मरुतो वावशानाः ॥ श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥ अग्निः प्रथमो वसुभिर् नो अव्यात् सोमो रुद्रेभिर् अभि रक्षतु त्मना । इन्द्रो मरुद्भिर् ऋतुधा कृणोत्व् आदित्यैर् नो वरुणः सम्̇ शिशातु ॥ सं नो देवो वसुभिर् अग्निः सम्
VERSE: 3 सोमस् तनूभी रुद्रियाभिः । सम् इन्द्रो मरुद्भिर् यज्ञियैः सम् आदित्यैर् नो वरुणो अजिज्ञिपत् ॥ यथादित्या वसुभिः सम्बभूवुर् मरुद्भी रुद्राः समजानताभि । एवा त्रिणामन्न् अहृणीयमाना विश्वे देवाः समनसो भवन्तु कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने । अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ॥ सं यद् इषो वनामहे सम्̇ हव्या मानुषाणाम् । उत द्युम्नस्य शवसः ॥
VERSE: 4 ऋतस्य रश्मिम् आ ददे ॥ यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अम्̇होश् चिद् या वरिवोवित्तरासत् ॥ शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ ॥ धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः । दीर्घाधियो रक्षमाणाः
VERSE: 5 असुर्यम् ऋतावानश् चयमाना ऋणानि ॥ तिस्रो भूमीर् धारयन् त्रीम्̇र् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् । ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥ त्यान् नु क्षत्रियाम्̇ अव आदित्यान् याचिषामहे सुमृडीकाम्̇ अभिष्टये ॥ न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा । पाक्या चिद् वसवो धीर्या चित् ॥
VERSE: 6 युष्मानीतो अभयं ज्योतिर् अश्याम् ॥ आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शंतमेन । अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥ इमम् मे वरुण श्रुधी हवम् अद्या च मृडय । त्वाम् अवस्युर् आ चके ॥ तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्य् उरुशम्̇स मा न आयुः प्र मोषीः ॥



2.1प्रपाठक: 1 काम्यपशुविधानम्
2.1.1 अनुवाक 1
काम्याः पशवः। ऐश्वर्यादिकामिनां तत्तत्पशुविधानम्।

VERSE: 1
वायव्यम्̇ श्वेतम् आ लभेत भूतिकामः ।
वायुर् वै क्षेपिष्ठा देवता
वायुम् एव स्वेन भागधेयेनोपधावति
स एवैनम् भूतिं गमयति
भवत्य् एव ।
अतिक्षिप्रा देवतेत्य् आहुः सैनम् ईश्वरा प्रदह इति ।
एतम् एव सन्तं वायवे नियुत्वत आ लभेत
नियुद् वा अस्य धृतिः ।
धृत एव भूतिम् उपैत्य् अप्रदाहाय
भवत्य् एव ॥

VERSE: 2
वायवे नियुत्वत आ लभेत ग्रामकामः ।
वायुर् वा इमाः प्रजा नस्योता नेनीयते
वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै प्रजा नस्योता नि यच्छति
ग्राम्येव भवति
नियुत्वते भवति
ध्रुवा एवास्मा अनपगाः करोति
वायवे नियुत्वत आ लभेत प्रजाकामः ।
प्राणो वै वायुर् अपानो नियुत्
0 प्राणापानौ खलु वा एतस्य प्रजायाः

VERSE: 3
अप क्रामतो यो ऽलम् प्रजायै सन् प्रजां न विन्दते
वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै प्राणापानाभ्याम् प्रजाम् प्र जनयति
विन्दते प्रजाम् ।
वायवे नियुत्वत आ लभेत ज्योगामयावी
प्राणो वै वायुर् अपानो नियुत्
प्राणापानौ खलु वा एतस्माद् अप क्रामतो यस्य ज्योग् आमयति
वायुम् एव नियुत्वन्तम्̇ स्वेन भागधेयेनोप

VERSE: 4
धावति
स एवास्मिन् प्राणापानौ दधाति ।
उत यदीतासुर् भवति जीवत्य् एव
प्रजापतिर् वा इदम् एक आसीत्
सो ऽकामयत
प्रजाः पशून्त् सृजेयेति
स आत्मनो वपाम् उद् अक्खिदत्
ताम् अग्नौ प्रागृह्णात्
ततो ऽजस् तूपरः सम् अभवत्
तम्̇ स्वायै देवताया आलभत
ततो वै स प्रजाः पशून् असृजत
यः प्रजाकामः

VERSE: 5
पशुकामः स्यात् स एतम् प्राजापत्यम् अजं तूपरम् आ लभेत
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मै प्रजाम् पशून् प्र जनयति
यच् छ्मश्रुणस् तत् पुरुषाणाम्̇ रूपम् ।
यत् तूपरस् तद् अश्वानाम्
यद् अन्यतोदन् तद् गवाम्
यद् अव्या इव शफास् तद् अवीनाम् ।
यद् अजस् तद् अजानाम्
एतावन्तो वै ग्राम्याः पशवस्
तान्

VERSE: 6
रूपेणैवाव रुन्द्धे
सोमापौष्णं त्रैतम् आ लभेत पशुकामः ।
द्वौ वा अजायै स्तनौ
नानैव द्वाव् अभि जायेते ऊर्जम् पुष्टिं तृतीयः
सोमापूषणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै पशून् प्र जनयतः
सोमो वै रेतोधाः पूषा पशूनाम् प्रजनयिता
सोम एवास्मै रेतो दधाति पूषा पशून् प्र जनयति ।
औदुम्बरो यूपो भवति ।
ऊर्ग् वा उदुम्बर ऊर्क् पशव ऊर्जैवास्मा ऊर्जम् पशून् अव रुन्द्धे ॥

2.1.2 अनुवाक 2
काम्याः पशवः। वरुणगृहीतादिपशुविधानम्।
VERSE: 1
प्रजापतिः प्रजा असृजत
ता अस्मात् सृष्टाः पराचीर् आयन्
ता वरुणम् अगच्छन्
ता अन्वैत्
ताः पुनर् अयाचत
ता अस्मै न पुनर् अददात्
सो ऽब्रवीत् ।
वरं वृणीष्वाथ मे पुनर् देहीति
तासां वरम् आलभत
स कृष्ण एकशितिपाद् अभवत् ।
यो वरुणगृहीतः स्यात् स एतं वारुणं कृष्णम् एकशितिपादम् आ लभेत
वरुणम्

VERSE: 2
एव स्वेन भागधेयेनोप धावति
स एवैनं वरुणपाशान् मुञ्चति
कृष्ण एकशितिपाद् भवति
वारुणो ह्य् एष देवतया
समृद्ध्यै
सुवर्भानुर् आसुरः सूर्यं तमसाविध्यत्
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्य यत् प्रथमं तमो ऽपाघ्नन्त् सा कृष्णाविर् अभवत् ।
यद् द्वितीयम्̇ सा फल्गुनी
यत् तृतीयम्̇ सा भलक्षी
यद् अध्यस्थाद् अपाकृन्तन्त् साविर् वशा

VERSE: 3
समभवत् ।
ते देवा अब्रुवन्
देवपशुर् वा अयम्̇ सम् अभूत् कस्मा इमम् आ लप्स्यामह इति ।
अथ वै तर्ह्य् अल्पा पृथिव्य् आसीद् अजाता ओषधयस्
ताम् अविं वशाम् आदित्येभ्यः कामायालभन्त
ततो वा अप्रथत पृथिव्य् अजायन्तौषधयः ।
यः कामयेत
प्रथेय पशुभिः प्र प्रजया जायेयेति स एताम् अविं वशाम् आदित्येभ्यः कामाय

VERSE: 4
आ लभेत ।
आदित्यान् एव कामम्̇ स्वेन भागधेयेनोप धावति
त एवैनम् प्रथयन्ति पशुभिः प्र प्रजया जनयन्ति ।
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्मा एता मल्हा आलभन्ताग्नेयीं कृष्णग्रीवीम्̇ सम्̇हिताम् ऐन्द्रीम्̇ श्वेताम् बार्हस्पत्याम् ।
ताभिर् एवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एता मल्हा आ लभेत ॥

VERSE: 5
आग्नेयीं कृष्णग्रीवीम्̇ सम्̇हिताम् ऐन्द्रीम्̇ श्वेताम् बार्हस्पत्याम्
एता एव देवताः स्वेन भागधेयेनोप धावति
ता एवास्मिन् ब्रह्मवर्चसं दधति
ब्रह्मवर्चस्य् एव भवति
वसन्ता प्रातर् आग्नेयीं कृष्णग्रीवीम् आ लभेत ग्रीष्मे मध्यंदिने सम्̇हिताम् ऐन्द्रीम्̇ शरद्य् अपराह्णे श्वेताम् बार्हस्पत्याम् ।
त्रीणि वा आदित्यस्य तेजाम्̇सि वसन्ता प्रातर् ग्रीष्मे मध्यंदिने शरद्य् अपराह्णे
यावन्त्य् एव तेजाम्̇सि तान्य् एव

VERSE: 6
अव रुन्द्धे।
संवत्सरम् पर्यालभ्यन्ते
संवत्सरो वै ब्रह्मवर्चसस्य प्रदाता
संवत्सर एवास्मै ब्रह्मवर्चसम् प्र यच्छति
ब्रह्मवर्चस्य् एव भवति
गर्भिणयो भवन्ति ।
इन्द्रियं वै गर्भः ।
इन्द्रियम् एवास्मिन् दधति
सारस्वतीम् मेषीम् आ लभेत य ईश्वरो वाचो वदितोः सन् वाचं न वदेत् ।
वाग् वै सरस्वती
सरस्वतीम् एव स्वेन भागधेयेनोप धावति सैवास्मिन्

VERSE: 7
वाचं दधाति प्रवदिता वाचो भवति ।
अपन्नदती भवति
तस्मान् मनुष्याः सर्वां वाचम् वदन्ति ।
आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुं ज्योगामयावी ।
अग्निं वा एतस्य शरीरं गच्छति सोमम्̇ रसो यस्य ज्योग् आमयति ।
अग्नेर् एवास्य शरीरं निष्क्रीणाति सोमाद् रसम्
उत यदीतासुर् भवति जीवत्य् एव
सौम्यम् बभ्रुम् आ लभेताग्नेयं कृष्णग्रीवम् प्रजाकामः ।
सोमो

VERSE: 8
वै रेतोधा अग्निः प्रजानाम् प्रजनयिता
सोम एवास्मै रेतो दधात्य् अग्निः प्रजाम् प्र जनयति
विन्दते प्रजाम् ।
आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुं यो ब्राह्मणो विद्याम् अनूच्य न विरोचेत
यद् आग्नेयो भवति तेज एवास्मिन् तेन दधाति
यत् सौम्यो ब्रह्मवर्चसं तेन
कृष्णग्रीव आग्नेयो भवति तम एवास्माद् अप हन्ति
श्वेतो भवति

VERSE: 9
रुचम् एवास्मिन् दधाति ।
बभ्रुः सौम्यो भवति ब्रह्मवर्चसम् एवास्मिन् त्विषिं दधाति ।
आग्नेयं कृष्णग्रीवम् आ लभेत सौम्यम् बभ्रुम् आग्नेयं कृष्णग्रीवम् पुरोधायाम्̇ स्पर्धमानः ।
आग्नेयो वै ब्राह्मणः सौम्यो राजन्यः ।
अभितः सौम्यम् आग्नेयौ भवतस्
तेजसैव ब्रह्मणोभयतो राष्ट्रम् परि गृह्णाति ।
एकधा समावृङ्क्ते पुर एनं दधते ॥

2.1.3अनुवाक 3
काम्याः पशवः। जयादिहेतुपशुविधिः।
VERSE: 1
देवासुरा एषु लोकेष्व् अस्पर्धन्त
स एतं विष्णुर् वामनम् अपश्यत्
तम्̇ स्वायै देवताया आलभत
ततो वै स इमाँल्लोकान् अभ्य् अजयत् ।
वैष्णवं वामनम् आ लभेत स्पर्धमानः ।
विष्णुर् एव भूत्वेमाँल्लोकान् अभि जयति
विषम आ लभेत
विषमा इव हीमे लोकाः
समृद्ध्यै ।
इन्द्राय मन्युमते मनस्वते ललामम् प्राशृङ्गम् आ लभेत संग्रामे

VERSE: 2
संयत्ते ।
इन्द्रियेण वै मन्युना मनसा संग्रामं जयति ।
इन्द्रम् एव मन्युमन्तम् मनस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति
जयति तम्̇ संग्रामम्
इन्द्राय मरुत्वते पृश्निसक्थम् आ लभेत ग्रामकामः ।
इन्द्रम् एव मरुत्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै सजातान् प्र यच्छति
ग्राम्य् एव भवति ।
यद् ऋषभस् तेन

VERSE: 3
ऐन्द्रः ।
यत् पृश्निस् तेन मारुतः।
समृद्ध्यै ।
पश्चात् पृश्निसक्थो भवति
पश्चादन्ववसायिनीम् एवास्मै विशं करोति
सौम्यम् बभ्रुम् आ लभेतान्नकामः
सौम्यं वा अन्नम् ।
सोमम् एव स्वेन भागधेयेनोप धावति
स एवास्मा अन्नम् प्र यच्छति ।
अन्नाद एव भवति
बभ्रुर् भवति ।
एतद् वा अन्नस्य रूपम् ।
समृद्ध्यै
सौम्यम् बभ्रुम् आ लभेत यम् अलम्

VERSE: 4
राज्याय सन्तम्̇ राज्यं नोपनमेत् ।
सौम्यं वै राज्यम् ।
सोमम् एव स्वेन भागधेयेनोप धावति
स एवास्मै राज्यम् प्र यच्छति ।
उपैनम्̇ राज्यं नमति
बभ्रुर् भवति ।
एतद् वै सोमस्य रूपम् ।
समृद्ध्यै ।
इन्द्राय वृत्रतुरे ललामम् प्राशृङ्गम् आ लभेत गतश्रीः प्रतिष्ठाकामः ।
पाप्मानम् एव वृत्रं तीर्त्वा प्रतिष्ठां गच्छति ।
इन्द्रायाभिमातिघ्ने ललामम् प्राशृङ्गम् आ

VERSE: 5
लभेत यः पाप्मना गृहीतः स्यात् ।
पाप्मा वा अभिमातिः ।
इन्द्रम् एवाभिमातिहनम्̇ स्वेन भागधेयेनोप धावति
स एवास्मात् पाप्मानम् अभिमातिम् प्र णुदते ।
इन्द्राय वज्रिणे ललामम् प्राशृङ्गम् आ लभेत यम् अलम्̇ राज्याय सन्तम्̇ राज्यं नोपनमेत् ।
इन्द्रम् एव वरिणम्̇ स्वेन भागधेयेनोपधावति
स एवास्मै वज्रम् प्र यच्छति
स एनं वज्रो भूत्या इन्द्धे ।
उपैनम्̇ राज्यं नमति
ललामः प्राशृङ्गो भवति ।
एतद् वै वज्रस्य रूपम् ।
समृद्ध्यै ॥

2.1.4 अनुवाक 4
काम्याः पशवः। ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्मा एतां दशर्षभाम् आलभन्त तयैवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एतां दशर्षभाम् आ लभेत ।
अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति
वसन्ता प्रातस् त्रीन् ललामान् आ लभेत ग्रीष्मे मध्यंदिने ॥

VERSE: 2
त्रीञ्छितिपृष्ठान्̇ छरद्य् अपराह्णे त्रीञ् छितिवारान्
त्रीणि वा आदित्यस्य तेजाम्̇सि वसन्ता प्रातर् ग्रीष्मे मध्यंदिने शरद्य् अपराह्णे
यावन्त्य् एव तेजाम्̇सि तान्य् एवाव रुन्द्धे
त्रयस्त्रय आ लभ्यन्ते ।
अभिपूर्वम् एवास्मिन् तेजो दधाति
संवत्सरम् पर्यालभ्यन्ते
संवत्सरो वै ब्रह्मवर्चसस्य प्रदाता
संवत्सर एवास्मै ब्रह्मवर्चसम् प्र यच्छति
ब्रह्मवर्चस्य् एव भवति
संवत्सरस्य परस्तात् प्राजापत्यं कद्रुम्

VERSE: 3
आ लभेत
प्रजापतिः सर्वा देवताः ।
देवतासु एव प्रति तिष्ठति
यदि बिभीयात् ।
दुश्चर्मा भविष्यामीति सोमापौष्णम्̇ श्यामम् आ लभेत
सौम्यो वै देवतया पुरुषः पौष्णाः पशवः
स्वयैवास्मै देवतया पशुभिस् त्वचं करोति
न दुश्चर्मा भवति
देवाश् च वै यमश् चास्मिन् लोके ऽस्पर्धन्त
स यमो देवानाम् इन्द्रियं वीर्यम् अयुवत
तद् यमस्य

VERSE: 4
यमत्वम् ।
ते देवा अमन्यन्त
यमो वा इदम् अभूद् यद् वयम्̇ स्म इति
ते प्रजापतिम् उपाधावन् ।
स एतौ प्रजापतिर् आत्मन उक्षवशौ निर् अमिमीत
ते देवा वैष्णावरुणीं वशाम् आलभन्तैन्द्रम् उक्षाणम्
तं वरुणेनैव ग्राहयित्वा विष्णुना यज्ञेन प्राणुदन्तैन्द्रेणैवास्येन्द्रियम् अवृञ्जत
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमानो वैष्णावरुणीम्

VERSE: 5
वशाम् आ लभेतैन्द्रम् उक्षाणम् ।
वरुणेनैव भ्रातृव्यं ग्राहयित्वा विष्णुना यज्ञेन प्र णुदत ऐन्द्रेणैवास्येन्द्रियं वृङ्क्ते
भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
इन्द्रो वृत्रम् अहन्
तं वृत्रो हतः षोडशभिर् भोगैर् असिनात्
तस्य वृत्रस्य शीर्षतो गाव उद् आयन्
ता वैदेह्यो ऽभवन्
तासाम् ऋषभो जघने ऽनूदैत्
तम् इन्द्रः

VERSE: 6
अचायत्
सो ऽमन्यत
यो वा इमम् आलभेत मुच्येतास्मात् पाप्मन इति
स आग्नेयं कृष्णग्रीवम् आलभतैन्द्रम् ऋषभम् ।
तस्याग्निर् एव स्वेन भागधेयेनोपसृतः षोडशधा वृत्रस्य भोगान् अप्य् अदहद् ऐन्द्रेणेन्द्रियम् आत्मन्न् अधत्त
यः पाप्मना गृहीतः स्यात् स आग्नेयं कृष्णग्रीवम् आ लभेतैन्द्रम् ऋषभम्
अग्निर् एवास्य स्वेन भागधेयेनोपसृतः

VERSE: 7
पाप्मानम् अपि दहत्य् ऐन्द्रेणेन्द्रियम् आत्मन् धत्ते
मुच्यते पाप्मनः ।
भवत्य् एव
द्यावापृथिव्यां धेनुम् आ लभेत ज्योगपरुद्धः ।
अनयोर् हि वा एषो ऽप्रतिष्ठितः ।
अथैष ज्योग् अपरुद्धो द्यावापृथिवी एव स्वेन भागधेयेनोप धावति
ते एवैनम् प्रतिष्ठां गमयतः
प्रत्य् एव तिष्ठति
पर्यारिणी भवति
पर्यारीव ह्य् एतस्य राष्ट्रं यो ज्योगपरुद्धः
समृद्धयै
वायव्यम्

VERSE: 8
वत्सम् आ लभेत ।
वायुर् वा अनयोर् वत्सः ।
इमे वा एतस्मै लोका अपशुष्का विड् अपशुष्का ।
अथैष ज्योग् अपरुद्धो वायुम् एव स्वेन भागधेयेनोप धावति
स एवास्मा इमाँल्लोकान् विशम् प्र दापयति
प्रास्मा इमे लोकाः स्नुवन्ति
भुञ्जत्य् एनं विड् उप तिष्ठते ॥

2.1.5 अनुवाक 5
काम्याः पशवः। पशुकामादीनां पशुविधिः।
VERSE: 1
इन्द्रो वलस्य बिलम् अपौर्णोत्
स य उत्तमः पशुर् आसीत् तम् पृष्ठम् प्रति संगृह्योद् अक्खिदत्
तम्̇ सहस्रम् पशवो ऽनूदायन् ।
स उन्नतो ऽभवत् ।
यः पशुकामः स्यात् स एतम् ऐन्द्रम् उन्नतम् आ लभेत ।
इन्द्रम् एव स्वेन भागधेयोनोप धावति
स एवास्मै पशून् प्र यच्छति
पशुमान् एव भवति ।
उन्नतः

VERSE: 2
भवति
साहस्री वा एषा लक्ष्मी यद् उन्नतः ।
लक्ष्मियैव पशून् अव रुन्द्धे
यदा सहस्रम् पशून् प्राप्नुयात् अथ वैष्णवं वामनम् आ लभेत ।
एतस्मिन् वै तत् सहस्रम् अध्य् अतिष्ठत्
तस्माद् एष वामनः समीषितः पशुभ्य एव प्रजातेभ्यः प्रतिष्ठां दधाति
को ऽर्हति सहस्रम् पशून् प्राप्तुम् इत्य् आहुः ।
अहोरात्राण्य् एव सहस्रम्̇ सम्पाद्याऽऽ लभेत
पशवः

VERSE: 3
वा अहोरात्राणि
पशून् एव प्रजातान् प्रतिष्ठां गमयति ।
ओषधीभ्यो वेहतम् आ लभेत प्रजाकामः ।
ओषधयो वा एतम् प्रजायै परि बाधन्ते यो ऽलम् प्रजायै सन् प्रजां न विन्दते ।
ओषधयः खलु वा एतस्यै सूतुम् अपि घ्नन्ति या वेहद् भवति ।
ओषधीर् एव स्वेन भागधेयेनोप धावति
ता एवास्मै स्वाद् योनेः प्रजाम् प्र जनयन्ति
विन्दते

VERSE: 4
प्रजाम्
आपो वा ओषधयो ऽसत् पुरुषः ।
आप एवास्मा असतः सद् ददति
तस्माद् आहुर् यश् चैवं वेद यश् च न ।
आपस् त्वावासतः सद् ददतीति ।
ऐन्द्रीम्̇ सूतवशाम् आ लभेत भूतिकामः ।
अजातो वा एष यो ऽलम् भूत्यै सन् भूतिं न प्राप्नोति ।
इन्द्रम् खलु वा एषा सूत्वा वशाभवत् ॥

VERSE: 5
इन्द्रम् एव स्वेन भागधेयेनोप धावति
स एवैनम् भूतिं गमयति
भवत्य् एव
यम्̇ सूत्वा वशा स्यात् तम् ऐन्द्रम् एवाऽऽ लभेत ।
एतद् वाव तद् इन्द्रियम् ।
साक्षाद् एवेन्द्रियम् अव रुन्द्धे ।
ऐन्द्राग्नम् पुनरुत्सृष्टम् आ लभेत य आ तृतीयात् पुरुषात् सोमं न पिबेत् ।
विच्छिन्नो वा एतस्य सोमपीथो यो ब्राह्मणः सन्न् आ

VERSE: 6
तृतीयात् पुरुषात् सोमं न पिबति ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै सोमपीथम् प्र यच्छतः ।
उपैनम्̇ सोमपीथो नमति
यद् ऐन्द्रो भवतीन्द्रियं वै सोमपीथ इन्द्रियम् एव सोमपीथम् अव रुन्द्धे
यद् आग्नेयो भवत्य् आग्नेयो वै ब्राह्मणः स्वाम् एव देवताम् अनु सं तनोति
पुनरुत्सृष्टो भवति
पुनरुत्सृष्ट इव ह्य् एतस्य

VERSE: 7
सोमपीथः ।
समृद्ध्यै।
ब्राह्मणस्पत्यं तूपरम् आ लभेताभिचरन्
ब्रह्मणस् पतिम् एव स्वेन भागधेयेनोप धावति
तस्मा एवैनम् आ वृश्चति
ताजग् आर्तिम् आर्छति
तूपरो भवति
क्षुरपविर् वा एषा लक्ष्मी यत् तूपरः ।
समृद्ध्यै।
स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति
शरमयम् बर्हिः शृणात्य् एवैनम् ।
वैभीदक इध्मो भिनत्त्य् एवैनम् ॥

2.1.6 अनुवाक 6
काम्याः पशवः। ग्रामकामादीनां पशुविधिः।
VERSE: 1
बार्हस्पत्यम्̇ शितिपृष्ठम् आ लभेत ग्रामकामो यः कामयेत
पृष्ठम्̇ समानानाम्̇ स्याम् इति
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति
स एवैनम् पृष्ठम्̇ समानानां करोति
ग्राम्य् एव भवति
शितिपृष्ठो भवति
बार्हस्पत्यो ह्य् एष देवतया
समृद्धयै
पौष्णम्̇ श्यामम् आ लभेतान्नकामः ।
अन्नं वै पूषा
पूषणम् एव स्वेन भागधेयेनोप धावति
स एवास्मै

VERSE: 2
अन्नम् प्र यच्छति ।
अन्नाद एव भवति
श्यामो भवति ।
एतद् वा अन्नस्य रूपम् ।
समृद्ध्यै
मारुतम् पृश्निम् आ लभेतान्नकामः ।
अन्नं वै मरुतः ।
मरुत एव स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
पृश्निर् भवति ।
एतद् वा अन्नस्य रूपम् ।
समृद्ध्यै ।
ऐन्द्रम् अरुणम् आ लभेतेन्द्रियकामः ।
इन्द्रम् एव

VERSE: 3
स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियं दधाति ।
इन्द्रियाव्य् एव भवति ।
अरुणो भ्रूमान् भवति ।
एतद् वा इन्द्रस्य रूपम् ।
समृद्ध्यै
सावित्रम् उपध्वस्तम् आ लभेत सनिकामः
सविता वै प्रसवानाम् ईशे
सवितारम् एव स्वेन भागधेयेनोप धावति
स एवास्मै सनिम् प्र सुवति
दानकामा अस्मै प्रजा भवन्ति ।
उपध्वस्तो भवति
सावित्रो ह्य् एषः

VERSE: 4
देवतया ।
समृद्ध्यै।
वैश्वदेवम् बहुरूपम् आ लभेतान्नकामः ।
वैश्वदेवं वा अन्नम् ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
बहुरूपो भवति
बहुरूपम्̇ ह्य् अन्नम् ।
समृद्ध्यै ।
वैश्वदेवम् बहुरूपम् आ लभेत ग्रामकामः ।
वैश्वदेवा वै सजाताः ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै

VERSE: 5
सजातान् प्र यच्छन्ति।
ग्राम्य् एव भवति
बहुरूपो भवति
बहुदेवत्यो ह्य् एषः ।
समृद्ध्यै
प्रजापत्यं तूपरम् आ लभेत यस्यानाज्ञातम् एव ज्योग् आमयेत्
प्राजापत्यो वै पुरुषः
प्रजापतिः खलु वै तस्य वेद यस्यानाज्ञातम् इव ज्योग् आमयति
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवैनं तस्मात् स्रामान् मुञ्चति
तूपरो भवति
प्राजापत्यो ह्य् एष देवतया
समृद्ध्यै ॥

2.1.7 अनुवाक 7
काम्याः पशवः।ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1
वषट्कारो वै गायत्रियै शिरो ऽच्छिनत्
तस्यै रसः परापतत् तम् बृहस्पतिर् उपागृह्णात् सा शितिपृष्ठा वशाभवत् ।
यो द्वितीयः परापतत् तम् मित्रावरुणाव् उपागृह्णीताम्̇ सा द्विरूपा वशाभवत् ।
यस् तृतीयः परापतत् तं विश्वे देवा उपागृह्णन्त् सा बहुरूपा वशाभवत् ।
यश् चतुर्थः परापतत् स पृथिवीम् प्राविशत् तम् बृहस्पतिर् अभि

VERSE: 2
अगृह्णात् ।
अस्त्व् एवायम् भोगायेति स उक्षवशः सम् अभवत् ।
यल् लोहितम् परापतत् तद् रुद्र उपागृह्णात् सा रौद्री रोहिणी वशाभवत् ।
बार्हस्पत्याम्̇ शितिपृष्ठाम् आ लभेत ब्रह्मवर्चसकामः ।
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति
छन्दसां वा एष रसो यद् वशा
रस इव खलु

VERSE: 3
वै ब्रह्मवर्चसम् ।
छन्दसाम् एव रसेन रसम् ब्रह्मवर्चसम् अव रुन्द्धे
मैत्रावरुणीं द्विरूपाम् आ लभेत वृष्टिकामः ।
मैत्रं वा अहर् वारुणी रात्रिः ।
अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मा अहोरात्राभ्याम् पर्जन्यं वर्षयतः ।
छन्दसां वा एष रसो यद् वशा
रस इव खलु वै वृष्टिः ।
छन्दसाम् एव रसेन

VERSE: 4
रसं वृष्टिम् अव रुन्द्धे
मैत्रावरुणीं द्विरूपाम् आ लभेत प्रजाकामः ।
मैत्रं वा अहर् वारुणी रात्रिः ।
अहोरात्राभ्यां खलु वै प्रजाः प्र जायन्ते
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मा अहोरात्राभ्याम् प्रजाम् प्र जनयतः ।
छन्दसां वा एष रसो यद् वशा
रस इव खलु वै प्रजा
छन्दसाम् एव रसेन रसम् प्रजाम् अव

VERSE: 5
रुन्द्धे ।
वैश्वदेवीम् बहुरूपाम् आ लभेतान्नकामः ।
वैश्वदेवं वा अन्नम् ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
छन्दसां वा एष रसो यद् वशा
रस इव खलु वा अन्नम् ।
छन्दसाम् एव रसेन रसम् अन्नम् अव रुन्द्धे
वैश्वदेवीम् बहुरूपाम् आ लभेत ग्रामकामः ।
वैश्वदेवा वै

VERSE: 6
सजाताः ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति
छन्दसां वा एष रसो यद् वशा
रस इव खलु वै सजाताः ।
छन्दसाम् एव रसेन रसम्̇ सजातान् अव रुन्द्धे
बार्हस्पत्यम् उक्षवशम् आ लभेत ब्रह्मवर्चसकामः ।
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसम्

VERSE: 7
दधाति
ब्रह्मवर्चस्य् एव भवति
वशं वा एष चरति यद् उक्षा
वश इव खलु वै ब्रह्मवर्चसम् ।
वशेनैव वशम् ब्रह्मवर्चसम् अव रुन्द्धे
रौद्रीम्̇ रोहिणीम् आ लभेताभिचरन्
रुद्रम् एव स्वेन भागधेयेनोप धावति
तस्मा एवैनम् आ वृश्चति
ताजग् आर्तिम् आर्छति
रोहिणी भवति रौद्री ह्य् एषा देवतया समृद्ध्यै
स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति
शरमयम् बर्हिः शृणात्य् एवैनम् ।
वैभीदक इध्मो भिनत्त्य् एवैनम् ॥

2.1.8 अनुवाक 8
काम्याः पशवः। ब्रह्मवर्चसकामादीनां पशुविधिः।
VERSE: 1
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तयैवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एताम्̇ सौरीम्̇ श्वेतां वशाम् आ लभेत ।
अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति
बैल्वो यूपो भवति ।
असौ

VERSE: 2
वा आदित्यो यतो ऽजायत ततो बिल्व उद् अतिष्ठत्
सयोन्य् एव ब्रह्मवर्चसम् अव रुन्द्धे
ब्राह्मणस्पत्याम् बभ्रुकर्णीम् आ लभेताभिचरन्
वारुणं दशकपालम् पुरस्तान् निर् वपेत् ।
वरुणेनैव भ्रातृव्यं ग्राहयित्वा ब्रह्मणा स्तृणुते
बभ्रुकर्णी भवति ।
एतद् वै ब्रह्मणो रूपम् ।
समृद्ध्यै
स्फ्यो यूपो भवति वज्रो वै स्फ्यो वज्रम् एवास्मै प्र हरति
0 शरमयम् बर्हिः शृणाति

VERSE: 3
एवैनम् ।
वैभीदक इध्मो भिनत्त्य् एवैनम् । वैष्णवं वामनम् आ लभेत यं यज्ञो नोपनमेत् ।
विष्णुर् वै यज्ञः ।
विष्णुम् एव स्वेन भागधेयेनोप धावति
स एवास्मै यज्ञम् प्र यच्छति ।
उपैनं यज्ञो नमति
वामनो भवति
वैष्णवो ह्य् एष देवतया
समृद्ध्यै
त्वाष्ट्रं वडबम् आ लभेत पशुकामस्
त्वष्टा वै पशूनाम् मिथुनानाम्

VERSE: 4
प्रजनयिता ।
त्वष्टारम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पशून् मिथुनान् प्र जनयति
प्रजा हि वा एतस्मिन् पशवः प्रविष्टाः ।
अथैष पुमान्त् सन् वडबः साक्षाद् एव प्रजाम् पशून् अव रुन्द्धे
मैत्रम्̇ श्वेतम् आ लभेत संग्रामे संयत्ते समयकामः ।
मित्रम् एव स्वेन भागधेयेनोप धावति
स एवैनम् मित्रेण सं नयति ॥

VERSE: 5
विशालो भवति
व्यवसाययत्य् एवैनम्
प्राजापत्यं कृष्णम् आ लभेत वृष्टिकामः
प्रजापतिर् वै वृष्ट्या ईषे
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पर्जन्यं वर्षयति
कृष्णो भवति ।
एतद् वै वृष्ट्यै रूपम् ।
रूपेणैव वृष्टिम् अव रुन्द्धे
शबलो भवति
विद्युतम् एवास्मै जनयित्वा वर्षयति ।
अवाशृङ्गो भवति
वृष्टिम् एवास्मै नि यच्छति ॥

2.1.9 अनुवाक 9
काम्याः पशवः। अन्नाद्यकामादीनां पशुविधिः।
VERSE: 1
वरुणम्̇ सुषुवाणम् अन्नाद्यं नोपानमत्
स एतां वारुणीं कृष्णां वशाम् अपश्यत्
ताम्̇ स्वायै देवताया आलभत ततो वै तम् अन्नाद्यम् उपानमत् ।
यम् अलम् अन्नाद्याय सन्तम् अन्नाद्यं नोपनमेत् स एतां वारुणीं कृष्णां वशाम् आ लभेत
वरुणम् एव स्वेन भागधेयेनोप धावति स एवास्मा अन्नम् प्र यच्छत्य् अन्नादः

VERSE: 2
एव भवति।
कृष्णा भवति
वारुणी ह्य् एषा देवतया
समृद्ध्यै
मैत्रम्̇ श्वेतम् आ लभेत वारुणं कृष्णम् अपां चौषधीनां च संधाव् अन्नकामः ।
मैत्रीर् वा ओषधयो वारुणीर् आपः ।
अपां च खलु वा ओषधीनां च रसम् उप जीवामः ।
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मा अन्नम् प्र यच्छतो ऽन्नाद एव भवति ॥

VERSE: 3
अपां चौषधीनां च संधाव् आ लभत उभयस्यावरुद्ध्यै
मैत्रम्̇ श्वेतम् आ लभेत वारुणं कृष्णं ज्योगामयावी
यन् मैत्रो भवति मित्रेणैवास्मै वरुणम्̇ शमयति
यद् वारुणः साक्षाद् एवैनं वरुणपाशान् मुञ्चति ।
उत यदीतासुर् भवति जीवत्य् एव
देवा वै पुष्टिं नाविन्दन् ।

VERSE: 4
ताम् मिथुने ऽपश्यन्
तस्याम् न सम् अराधयन्
ताव् अश्विनाव् अब्रूताम्
आवयोर् वा एषा मैतस्यां वदध्वम् इति
साश्विनोर् एवाभवत् ।
यः पुष्टिकामः स्यात् स एताम् आश्विनीं यमीं वशाम् आ लभेत ।
अश्विनाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन् पुष्टिं धत्तः
पुष्यति प्रजया पशुभिः ॥

2.1.10 अनुवाक 10
काम्याः पशवः। नैमित्तिकपशुविधिः।
VERSE: 1
आश्विनं धूम्रललामम् आ लभेत यो दुर्ब्राह्मणः सोमम् पिपासेत् ।
अश्विनौ वै देवानाम् असोमपाव् आस्ताम् ।
तौ पश्चा सोमपीथम् प्राप्नुताम्
अश्विनाव् एतस्य देवता यो दुर्ब्राह्मणः सोमम् पिपासति ।
अश्विनाव् एव स्वेन भागधेयेनोप धावति
तव् एवास्मै सोमपीथम् प्र यच्छत उपैनम्̇ सोमपीथो नमति
यद् धूम्रो भवति धूम्रिमाणम् एवास्माद् अप हन्ति
ललामः

VERSE: 2
भवति मुखत एवास्मिन् तेजो दधाति।
वायव्यं गोमृगम् आ लभेत यम् अजघ्निवाम्̇सम् अभिशम्̇सेयुः ।
अपूता वा एतं वाग् ऋच्छति यम् अजघ्निवाम्̇सम् अभिशम्̇सन्ति
नैष ग्राम्यः पशुर् नारण्यो यद् गोमृगः ।
नेवैष ग्रामे नारण्ये यम् अजघ्निवाम्̇सम् अभिशम्̇सन्ति
वायुर् वै देवानाम् पवित्रम् ।
वायुम् एव स्वेन भागधेयेनोप धावति
स एव

VERSE: 3
एनम् पवयति
पराची वा एतस्मै व्युच्छन्ती व्य् उच्छति तमः पाप्मानम् प्र विशति यस्याश्विने शस्यमाने सूर्यो नाविर् भवति
सौर्यम् बहुरूपम् आ लभेत ।
अमुम् एवादित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मात् तमः पाप्मानम् अप हन्ति
प्रतीच्य् अस्मै व्युच्छन्ती व्य् उच्छत्य् अप तमः पाप्मानम्̇ हते ॥

2.1.11 अनुवाक 11
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ।
मरुतो यद् ध वो दिवः ।
या वः शर्म
भरेष्व् इन्द्रम्̇ सुहवम्̇ हवामहेऽम्̇होमुचम्̇ सुकृतं दैव्यं जनम् । अग्निम् मित्रं वरुणम्̇ सातये भगं द्यावापृथिवी मरुतः स्वस्तये ॥
ममत्तु नः परिज्मा वसर्हा ममत्तु वातो अपां वृषण्वान् । शिशीतम् इन्द्रापर्वता युवं नस् तन् नो विश्वे वरिवस्यन्तु देवाः
प्रिया वो नाम ।

VERSE: 2
हुवे तुराणाम् । आ यत् तृपन् मरुतो वावशानाः ॥
श्रियसे कम् भानुभिः सम् मिमिक्षिरे ते रश्मिभिस् त ऋक्वभिः सुखादयः । ते वाशीमन्त इष्मिणो अभीरवो विद्रे प्रियस्य मारुतस्य धाम्नः ॥
अग्निः प्रथमो वसुभिर् नो अव्यात् सोमो रुद्रेभिर् अभि रक्षतु त्मना । इन्द्रो मरुद्भिर् ऋतुधा कृणोत्व् आदित्यैर् नो वरुणः सम्̇ शिशातु ॥
सं नो देवो वसुभिर् अग्निः सम्

VERSE: 3
सोमस् तनूभी रुद्रियाभिः । सम् इन्द्रो मरुद्भिर् यज्ञियैः सम् आदित्यैर् नो वरुणो अजिज्ञिपत् ॥
यथादित्या वसुभिः सम्बभूवुर् मरुद्भी रुद्राः समजानताभि । एवा त्रिणामन्न् अहृणीयमाना विश्वे देवाः समनसो भवन्तु
कुत्रा चिद् यस्य समृतौ रण्वा नरो नृषदने । अर्हन्तश् चिद् यम् इन्धते संजनयन्ति जन्तवः ॥
सं यद् इषो वनामहे सम्̇ हव्या मानुषाणाम् । उत द्युम्नस्य शवसः ॥

VERSE: 4
ऋतस्य रश्मिम् आ ददे ॥
यज्ञो देवानाम् प्रत्य् एति सुम्नम् आदित्यासो भवता मृडयन्तः । आ वो ऽर्वाची सुमतिर् ववृत्याद् अम्̇होश् चिद् या वरिवोवित्तरासत् ॥
शुचिर् अपः सूयवसा अदब्ध उप क्षेति वृद्धवयाः सुवीरः । नकिष् टं घ्नन्त्य् अन्तितो न दूराद् य आदित्यानाम् भवति प्रणीतौ ॥
धारयन्त आदित्यासो जगत् स्था देवा विश्वस्य भुवनस्य गोपाः । दीर्घाधियो रक्षमाणाः

VERSE: 5
असुर्यम् ऋतावानश् चयमाना ऋणानि ॥
तिस्रो भूमीर् धारयन् त्रीम्̇र् उत द्यून् त्रीणि व्रता विदथे अन्तर् एषाम् । ऋतेनादित्या महि वो महित्वं तद् अर्यमन् वरुण मित्र चारु ॥
त्यान् नु क्षत्रियाम्̇ अव आदित्यान् याचिषामहे सुमृडीकाम्̇ अभिष्टये ॥
न दक्षिणा वि चिकिते न सव्या न प्राचीनम् आदित्या नोत पश्चा । पाक्या चिद् वसवो धीर्या चित् ॥

VERSE: 6
युष्मानीतो अभयं ज्योतिर् अश्याम् ॥
आदित्यानाम् अवसा नूतनेन सक्षीमहि शर्मणा शंतमेन । अनागास्त्वे अदितित्वे तुरास इमं यज्ञं दधतु श्रोषमाणाः ॥
इमम् मे वरुण श्रुधी हवम् अद्या च मृडय । त्वाम् अवस्युर् आ चके ॥
तत् त्वा यामि ब्रह्मणा वन्दमानस् तद् आ शास्ते यजमानो हविर्भिः । अहेडमानो वरुणेह बोध्य् उरुशम्̇स मा न आयुः प्र मोषीः ॥