प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयसंहिता(विस्वरः)/काण्डम् २/प्रपाठकः २

< तैत्तिरीयसंहिता(विस्वरः)‎ | काण्डम् २

2.2 प्रपाठक: 2
काम्येष्टिविधानम्
2.2.1 अनुवाक 1
काम्याः इष्टयः। प्रजाकामादीन्प्रति ऐन्द्राग्नादि काम्येष्टीनां विधिः।

VERSE: 1
प्रजापतिः प्रजा असृजत
ताः सृष्टा इन्द्राग्नी अपागूहताम् ।
सो ऽचायत् प्रजापतिः ।
इन्द्राग्नी वै मे प्रजा अपाघुक्षताम् इति
स एतम् ऐन्द्राग्नम् एकादशकपालम् अपश्यत्
तं निर् अवपत्
ताव् अस्मै प्रजाः प्रासाधयताम्
इन्द्राग्नी वा एतस्य प्रजाम् अप गूहतो यो ऽलम् प्रजायै सन् प्रजां न विन्दते ।
ऐन्द्राग्नम् एकादशकपालं निर् वपेत् प्रजाकामः ।
इन्द्राग्नी

VERSE: 2
एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै प्रजाम् प्र साधयतः ।
विन्दते प्रजाम्
ऐन्द्राग्नम् एकादशकपालं निर् वपेत् स्पर्धमानः क्षेत्रे वा सजातेषु वा ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताभ्याम् एवेन्द्रियं वीर्यम् भ्रातृव्यस्य वृङ्क्ते
वि पाप्मना भ्रातृव्येण जयते ।
अप वा एतस्माद् इन्द्रियं वीर्यं क्रामति यः संग्रामम् उपप्रयाति ।
ऐन्द्राग्नम् एकादशकपालं निः

VERSE: 3
वपेत् संग्रामम् उपप्रयास्यन् ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियं वीर्यं धत्तः
सहेन्द्रियेण वीर्येणोप प्र याति जयति तम्̇ संग्रामम् ।
वि वा एष इन्द्रियेण वीर्येणर्ध्यते यः संग्रामं जयति ।
ऐन्द्राग्नम् एकादशकपालं निर् वपेत् संग्रामं जित्वा ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियं वीर्यम्

VERSE: 4
धत्तो नेन्द्रियेण वीर्येण व्यृध्यते ।
अप वा एतस्माद् इन्द्रियं वीर्यं क्रामति य एति जनताम्
ऐन्द्राग्नम् एकादशकपालं निर् वपेज् जनताम् एष्यन् ।
इन्द्राग्नी एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियं वीर्यं धत्तः
सहेन्द्रियेण वीर्येण जनताम् एति
पौष्णं चरुम् अनु निर् वपेत्
पूषा वा इन्द्रियस्य वीर्यस्यानुप्रदाता
पूषणम् एव

VERSE: 5
स्वेन भागधेयेनोप धावति
स एवास्मा इन्द्रियं वीर्यम् अनु प्र यच्छति
क्षैत्रपत्यं चरुं निर् वपेज् जनताम् आगत्य ।
इयं वै क्षेत्रस्य पतिः ।
अस्याम् एव प्रति तिष्ठति ।
ऐन्द्राग्नम् एकादशकपालम् उपरिष्टान् निर् वपेत् ।
अस्याम् एव प्रतिष्ठायेन्द्रियं वीर्यम् उपरिष्टाद् आत्मन् धत्ते ॥

2.2.2 अनुवाक 2
काम्याः इष्टयः।दर्शाद्यदिक्रमनिमित्तक पाथिकृतादीष्टिविधिः।

VERSE: 1
अग्नये पथिकृते पुरोडाशम् अष्टाकपालं निर् वपेद् यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयेत्
पथो वा एषो ऽध्य् अपथेनैति यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयति ।
अग्निम् एव पथिकृतम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अपथात् पन्थाम् अपि नयति ।
अनड्वान् दक्षिणा वही ह्य् { एष ^ एषस् }
समृद्ध्यै ।
अग्नये व्रतपतये

VERSE: 2
पुरोडाशम् अष्टाकपालं निर् वपेद् य आहिताग्निः सन्न् अव्रत्यम् इव चरेत् ।
अग्निम् एव व्रतपतिम्̇ स्वेन भागधेयेनोप धावति
स एवैनं व्रतम् आ लम्भयति
व्रत्यो भवति ।
अग्नये रक्षोघ्ने पुरोडाशम् अष्टाकपालं निर् वपति यम्̇ रक्षाम्̇सि सचेरन् ।
अग्निम् एव रक्षोहणम्̇ स्वेन भागधेयेनोप धावति
स एवास्माद् रक्षाम्̇स्य् अप हन्ति ।
निशितायां निर् वपेत् ।

VERSE: 3
निशितायाम्̇ हि रक्षाम्̇सि प्रेरते ।
सम्प्रेर्णान्य् एवैनानि हन्ति ।
परिश्रिते याजयेद् रक्षसाम् अनन्ववचाराय
रक्षोघ्नी याज्यानुवाक्ये भवतो रक्षसाम्̇ स्तृत्यै ।
अग्नये रुद्रवते पुरोडाशम् अष्टाकपालं निर् वपेद् अभिचरन् ।
एषा वा अस्य घोरा तनूर् यद् रुद्रस्
तस्मा एवैनम् आ वृश्चति
ताजग् आर्तिम् आर्छति ।
अग्नये सुरभिमते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्य गावो वा पुरुषाः

VERSE: 4
वा प्रमीयेरन् यो वा बिभीयात् ।
एषा वा अस्य भेषज्या तनूर् यत् सुरभिमती
तयैवास्मै भेषजं करोति
सुरभिमते भवति पूतीगन्धस्यापहत्यै ।
अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् संग्रामे संयत्ते
भागधेयेनैवैनम्̇ शमयित्वा परान् अभि निर् दिशति
यम् अवरेषां विध्यन्ति जीवति स
यम् परेषाम् प्र स मीयते
जयति तम्̇ संग्रामम् ।

VERSE: 5
अभि वा एष एतान् उच्यति येषाम् पूर्वापरा अन्वञ्चः प्रमीयन्ते
पुरुषाहुतिर् ह्य् अस्य प्रियतमाग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् ।
भागधेयेनैवैनम्̇ शमयति
नैषाम् पुराऽऽयुषोऽपरः प्र मीयते ।
अभि वा एष एतस्य गृहान् उच्यति यस्य गृहान् दहति ।
अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् ।
भागधेयेनैवैनम्̇ शमयति
नास्यापरं गृहान् दहति ॥

2.2.3 अनुवाक 3
काम्याः इष्टयः। कामुकादीष्टिविधिः।

VERSE: 1
अग्नये कामाय पुरोडाशम् अष्टाकपालं निर् वपेद् यं कामो नोपनमेत् ।
अग्निम् एव कामम्̇ स्वेन भागधेयेनोप धावति
स एवैनं कामेन सम् अर्धयति ।
उपैनं कामो नमति ।
अग्नये यविष्ठाय पुरोडाशम् अष्टाकपालं निर् वपेत् स्पर्धमानः क्षेत्रे वा सजातेषु वा ।
अग्निम् एव यविष्ठम्̇ स्वेन भागधेयेनोप धावति
तेनैवेन्द्रियं वीर्यम् भ्रातृव्यस्य

VERSE: 2
युवते ।
वि पाप्मना भ्रातृव्येण जयते ।
अग्नये यविष्ठाय पुरोडाशम् अष्टाकपालं निर् वपेद् अभिचर्यमाणः ।
अग्निम् एव यविष्ठम्̇ स्वेन भागधेयेनोप धावति
स एवास्माद् रक्षाम्̇सि यवयति
नैनम् अभिचरन्त् स्तृणुते ।
अग्नय आयुष्मते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेत
सर्वम् आयुर् इयाम् इति ।
अग्निम् एवायुष्मन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्

VERSE: 3
आयुर् दधाति ।
सर्वम् आयुर् एति ।
अग्नये जातवेदसे पुरोडाशम् अष्टाकपालं निर् वपेद् भूतिकामः ।
अग्निम् एव जातवेदसम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् भूतिं गमयति
भवत्य् एव ।
अग्नये रुक्मते पुरोडाशम् अष्टाकपालं निर् वपेद् रुक्कामः ।
अग्निम् एव रुक्मन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् रुचं दधाति
रोचत एव ।
अग्नये तेजस्वते पुरोडाशम्

VERSE: 4
अष्टाकपालं निर् वपेत् तेजस्कामः ।
अग्निम् एव तेजस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् तेजो दधाति
तेजस्व्य् एव भवति ।
अग्नये साहन्त्याय पुरोडाशम् अष्टाकपालं निर् वपेत् सीक्षमाणः ।
अग्निम् एव साहन्त्यम्̇ स्वेन भागधेयेनोप धावति
तेनैव सहते यम्̇ सीक्षते ॥

2.2.4 अनुवाक 4
काम्याः इष्टयः। अन्नकामादीष्टिविधिः।

VERSE: 1
अग्नये ऽन्नवते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नवान्त् स्याम् इति ।
अग्निम् एवान्नवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अन्नवन्तं करोत्य् अन्नवान् एव भवति ।
अग्नये ऽन्नादाय पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नादः स्याम् इति ।
अग्निम् एवान्नादम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अन्नादं करोत्य् अन्नादः

VERSE: 2
एव भवति ।
अग्नये ऽन्नपतये पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नपतिः स्याम् इति ।
अग्निम् एवान्नपतिम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् अन्नपतिं करोत्य् अन्नपतिर् एव भवति ।
अग्नये पवमानाय पुरोडाशम् अष्टाकपालं निर् वपेद् अग्नये पावकायाग्नये शुचये ज्योगामयावी
यद् अग्नये पवमानाय निर्वपति
प्राणम् एवास्मिन् तेन दधाति
यद् अग्नये

VERSE: 3
पावकाय
वाचम् एवास्मिन् तेन दधाति
यद् अग्नये शुचये ।
आयुर् एवास्मिन् तेन दधात्य् उत यदीतासुर् भवति जीवत्य् एव ।
एताम् एव निर् वपेच् चक्षुष्कामो यद् अग्नये पवमानाय निर्वपति
प्राणम् एवास्मिन् तेन दधाति
यद् अग्नये पावकाय
वाचम् एवास्मिन् तेन दधाति
यद् अग्नये शुचये
चक्षुर् एवास्मिन् तेन दधाति ॥

VERSE: 4
उत यद्य् अन्धो भवति प्रैव पश्यति ।
अग्नये पुत्रवते पुरोडाशम् अष्टाकपालं निर् वपेत् ।
इन्द्राय पुत्रिणे पुरोडाशम् एकादशकपालम् प्रजाकामः ।
अग्निर् एवास्मै प्रजाम् प्रजनयति
वृद्धाम् इन्द्रः प्र यच्छति ।
अग्नये रसवते ऽजक्षीरे चरुं निर् वपेद् यः कामयेत रसवान्त् स्याम् इति ।
अग्निम् एव रसवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवैनम्̇ रसवन्तं करोति ॥

VERSE: 5
रसवान् एव भवत्य् अजक्षीरे भवति ।
आग्नेयी वा एषा यद् अजा
साक्षाद् एव रसम् अव रुन्द्धे ।
अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेत वसुमान्त् स्याम् इति ।
अग्निम् एव वसुमन्तम्̇ स्वेन भागधेयेनोप धावति
स एवैनं वसुमन्तं करोति वसुमान् एव भवति ।
अग्नये वाजसृते पुरोडाशम् अष्टाकपालं निर् वपेत् संग्रामे संयत्ते
वाजं

VERSE: 6
वा एष सिसीर्षति यः संग्रामं जिगीषति ।
अग्निः खलु वै देवानां वाजसृद् अग्निम् एव वाजसृतम्̇ स्वेन भागधेयेनोप धावति
धावति वाजम्̇ हन्ति वृत्रं जयति तम्̇ संग्रामम्
अथो अग्निर् इव न प्रतिधृषे भवति ।
अग्नये ऽग्निवते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्याग्नाव् अग्निम् अभ्युद्धरेयुः ।
निर्दिष्टभागो वा एतयोर् अन्यो ऽनिर्दिष्टभागो ऽन्यस् तौ सम्भवन्तौ यजमानम्

VERSE: 7
अभि सम् भवतः ।
स ईश्वर आर्तिम् आर्तोर् यद् अग्नये ऽग्निवते निर्वपति
भागधेयेनैवैनौ शमयति
नार्तिम् आर्छति यजमानः ।
अग्नये ज्योतिष्मते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्याग्निर् उद्धृतो ऽहुते ऽग्निहोत्र उद्वायेद् अपर आदीप्यानूद्धृत्य इत्य् आहुस् तत् तथा न कार्यं यद् भागधेयम् अभि पूर्व उद्ध्रियते किम् अपरो ऽभ्य् उत्

VERSE: 8
ह्रियेतेति तान्य् एवावक्षाणानि संनिधाय मन्थेत् ।
इतः प्रथमं जज्ञे अग्निः स्वाद् योनेर् अधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्न् इति
छन्दोभिर् एवैनम्̇ स्वाद् योनेः प्र जनयत्य् एष वाव सो ऽग्निर् इत्य् आहुर् ज्योतिस् त्वा अस्य परापतितम् इति यद् अग्नये ज्योतिष्मते निर्वपति यद् एवास्य ज्योतिः परापतितं तद् एवाव रुन्द्धे ॥

2.2.5 अनुवाक 5
काम्या इष्टयः। अभिशस्तादिकर्तव्येष्टिविधिः।

VERSE: 1
वैश्वानरं द्वादशकपालं निर् वपेद् वारुणं चरुं दधिक्राव्णे चरुम् अभिशस्यमानः ।
यद् वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरेणैवैनम्̇ स्वदयत्य् अप पापं वर्णम्̇ हते वारुणेनैवैनं वरुणपाशान् मुञ्चति दधिक्राव्णा पुनाति
हिरण्यं दक्षिणा पवित्रं वै हिरण्यम् पुनात्य् एवैनम् आद्यम् अस्यान्नम् भवति ।
एताम् एव निर् वपेत् प्रजाकामः
संवत्सरो

VERSE: 2
वा एतस्याशान्तो योनिम् प्रजायै पशूनां निर् दहति यो ऽलम् प्रजायै सन् प्रजां न विन्दते
यद् वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव भागधेयेन शमयति सो ऽस्मै शान्तः स्वाद् योनेः प्रजाम् प्र जनयति वारुणेनैवैनं वरुणपाशान् मुञ्चति दधिक्राव्णा पुनाति
हिरण्यं दक्षिणा पवित्रं वै हिरण्यम् पुनात्य् एवैनम् ।

VERSE: 3
विन्दते प्रजाम् ।
वैश्वानरं द्वादशकपालं निर् वपेत् पुत्रे जाते
यद् अष्टाकपालो भवति गायत्रियैवैनम् ब्रह्मवर्चसेन पुनाति यन् नवकपालस् त्रिवृतैवास्मिन् तेजो दधाति यद् दशकपालो विराजैवास्मिन्न् अन्नाद्यं दधाति यद् एकादशकपालस् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति यद् द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति
यस्मिञ् जात एताम् इष्टिम् निर्वपति पूतः

VERSE: 4
एव तेजस्व्य् अन्नाद इन्द्रियावी पशुमान् भवति ।
अव वा एष सुवर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयति सुवर्गाय हि लोकाय दर्शपूर्णमासाव् इज्येते
वैश्वानरं द्वादशकपालं निर् वपेद् अमावास्यां वा पौर्णमासीं वातिपाद्य
संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव प्रीणात्य् अथो संवत्सरम् एवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै ॥

VERSE: 5
अथो देवता एवान्वारभ्य सुवर्गं लोकम् एति
वीरहा वा एष देवानां यो ऽग्निम् उद्वासयते न वा एतस्य ब्राह्मणा ऋतायवः पुरान्नम् अक्षन् ।
आग्नेयम् अष्टाकपालं निर् वपेत् ।
वैश्वानरं द्वादशकपालम् अग्निम् उद्वासयिष्यन्
यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तस्मा आतिथ्यं करोति ।
अथो यथा जनं यते ऽवसं करोति तादृक्

VERSE: 6
एव तत् ।
द्वादशकपालो वैश्वानरो भवति
द्वादश मासाः संवत्सरः संवत्सरः खलु वा अग्नेर् योनिः स्वाम् एवैनं योनिं गमयति ।
आद्यम् अस्यान्नम् भवति
वैश्वानरं द्वादशकपालं निर् वपेन् मारुतम्̇ सप्तकपालं ग्रामकामः ।
आहवनीये वैश्वानरम् अधि श्रयति गार्हपत्ये मारुतम् पापवस्यसस्य विधृत्यै
द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरेणैवास्मै सजाताम्̇श् च्यावयति
मारुतो भवति ॥

VERSE: 7
मरुतो वै देवानां विशो देवविशेनैवास्मै मनुष्यविशम् अव रुन्द्धे
सप्तकपालो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातान् अव रुन्द्धे ।
अनूच्यमान आ सादयति
विशम् एवास्मा अनुवर्त्मानं करोति ॥

2.2.6 अनुवाक 6
काम्या इष्टयः। आदित्यचर्वादीष्टिविधिः।

VERSE: 1
आदित्यं चरुं निर् वपेत् संग्रामम् उपप्रयास्यन् ।
इयं वा अदितिः ।
अस्याम् एव पूर्वे प्रति तिष्ठन्ति
वैश्वानरं द्वादशकपालं निर् वपेद् आयतनं गत्वा
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरः खलु वै देवानाम् आयतनम्
एतस्माद् वा आयतनाद् देवा असुरान् अजयन्
यद् वैश्वानरं द्वादशकपालं निर्वपति
देवानाम् एवायतने यतते
जयति तम्̇ संग्रामम् ।
एतस्मिन् वा एतौ मृजाते

VERSE: 2
यो विद्विषाणयोर् अन्नम् अत्ति
वैश्वानरं द्वादशकपालं निर् वपेद् विद्विषाणयोर् अन्नं जग्ध्वा
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरस्वदितम् एवात्ति
नास्मिन् मृजाते
संवत्सराय वा एतौ सममाते यौ सममाते
तयोर् यः पूर्वो ऽभिद्रुह्यति तं वरुणो गृह्णाति
वैश्वानरं द्वादशकपालं निर् वपेत् सममानयोः पूर्वोऽभिद्रुह्य
संवत्सरो वा अग्निर् वैश्वानरः ।
सम्वत्सरम् एवाप्त्वा निर्वरुणम्

VERSE: 3
परस्ताद् अभि द्रुह्यति नैनं वरुणो गृह्णाति ।
आव्यं वा एष प्रति गृह्णाति यो ऽविम् प्रतिगृह्णाति
वैश्वानरं द्वादशकपालं निर् वपेद् अविम् प्रतिगृह्य
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरस्वदिताम् एव प्रतिगृह्णाति
नाव्यम् प्रति गृह्णाति ।
आत्मनो वा एष मात्राम् आप्नोति य उभयादत् प्रतिगृह्णात्य् अश्वं वा पुरुषं वा
वैश्वानरं द्वादशकपालं निर् वपेद् उभयादत्

VERSE: 4
प्रतिगृह्य ।
संवत्सरो वा अग्निर् वैश्वानरः
संवत्सरस्वदितम् एव प्रति गृह्णाति
नात्मनो मात्राम् आप्नोति
वैश्वानरं द्वादशकपालं निर् वपेत् सनिम् एष्यन् ।
संवत्सरो वा अग्निर् वैश्वानरः ।
यदा खलु वै संवत्सरं जनतायां चरत्य् अथ स धनार्घो भवति
यद् वैश्वानरं द्वादशकपालं निर्वपति संवत्सरसाताम् एव सनिम् अभि प्र च्यवते
दानकामा अस्मै प्रजा भवन्ति
यो वै संवत्सरम्

VERSE: 5
प्रयुज्य न विमुञ्चत्य् अप्रतिष्ठानो वै स भवति ।
एतम् एव वैश्वानरम् पुनर् आगत्य निर् वपेत् ।
यम् एव प्रयुङ्क्ते तम् भागधेयेन वि मुञ्चति प्रतिष्ठित्यै
यया रज्ज्वोत्तमां गाम् आजेत् ताम् भ्रातृव्याय प्र हिणुयात् ।
निर्ऋतिम् एवास्मै प्र हिणोति ॥

2.2.7 अनुवाक 7
काम्या इष्टयः।ऐन्द्रचर्वादीष्टिविधिः।

VERSE: 1
ऐन्द्रं चरुं निर् वपेत् पशुकामः ।
ऐन्द्रा वै पशवः ।
इन्द्रम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पशून् प्र यच्छति
पशुमान् एव भवति
चरुर् भवति
स्वाद् एवास्मै योनेः पशून् प्र जनयति ।
इन्द्रायेन्द्रियावते पुरोडाशम् एकादशकपालं निर् वपेत् पशुकामः ।
इन्द्रियं वै पशवः ।
इन्द्रम् एवेन्द्रियावन्तम्̇ स्वेन भागधेयेनोप धावति
सः

VERSE: 2
एवास्मा इन्द्रियम् पशून् प्र यच्छति।
पशुमान् एव भवति ।
इन्द्राय घर्मवते पुरोडाशम् एकादशकपालं निर् वपेद् ब्रह्मवर्चसकामः ।
ब्रह्मवर्चसं वै घर्मः ।
इन्द्रम् एव घर्मवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति ।
इन्द्रायार्कवते पुरोडाशम् एकादशकपालं निर् वपेद् अन्नकामः ।
अर्को वै देवानाम् अन्नम्
इन्द्रम् एवार्कवन्तम्̇ स्वेन भागधेयेन

VERSE: 3
उप धावति
स एवास्मा अन्नम् प्र यच्छति ।
अन्नाद एव भवति ।
इन्द्राय घर्मवते पुरोडाशम् एकादशकपालं निर् वपेद् इन्द्रायेन्द्रियावत इन्द्रायार्कवते भूतिकामः ।
यद् इन्द्राय घर्मवते निर्वपति शिर एवास्य तेन करोति
यद् इन्द्रायेन्द्रियावत आत्मानम् एवास्य तेन करोति
यद् इन्द्रायार्कवते भूत एवान्नाद्ये प्रति तिष्ठति भवत्य् एव ।
इन्द्राय

VERSE: 4
अ̇म्̇होमुचे पुरोडाशम् एकादशकपालं निर् वपेद् यः पाप्मना गृहीतः स्यात्
पाप्मा वा अम्̇हः ।
इन्द्रम् एवाम्̇होमुचम्̇ स्वेन भागधेयेनोप धावति
स एवैनम् पाप्मनो ऽम्̇हसो मुञ्चति ।
इन्द्राय वैमृधाय पुरोडाशम् एकादशकपालं निर् वपेद् यम् मृधो ऽभि प्रवेपेरन् राष्ट्राणि वाभि समीयुः ।
इन्द्रम् एव वैमृधम्̇ स्वेन भागधेयेनोप धावति
स एवास्मान् मृधः

VERSE: 5
अप हन्ति ।
इन्द्राय त्रात्रे पुरोडाशम् एकादशकपालं निर् वपेद् बद्धो वा परियत्तो वा ।
इन्द्रम् एव त्रातारम्̇ स्वेन भागधेयेनोप धावति
स एवैनं त्रायते ।
इन्द्रायार्काश्वमेधवते पुरोडाशम् एकादशकपालं निर् वपेद् यम् महायज्ञो नोपनमेत् ।
एते वै महायज्ञस्यान्त्ये तनू यद् अर्काश्वमेधौ ।
इन्द्रम् एवार्काश्वमेधवन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मा अन्ततो महायज्ञं च्यावयति ।
उपैनं महायज्ञो नमति ॥

2.2.8 अनुवाक 8
काम्या इष्टयः। अभिचारकर्त्रादीनामीष्टिविधिः।

VERSE: 1
इन्द्रायान्वृजवे पुरोडाशम् एकादशकपालं निर् वपेद् ग्रामकामः ।
इन्द्रम् एवान्वृजुम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै सजातान् अनुकान् करोति
ग्राम्य् एव भवति ।
इन्द्राण्यै चरुं निर् वपेद् यस्य सेनाऽसम्̇शितेव स्यात् ।
इन्द्राणी वै सेनायै देवता ।
इन्द्राणीं एव स्वेन भागधेयेनोप धावति
सैवास्य सेनाम्̇ सम्̇ श्यति
बल्बजान् अपि

VERSE: 2
इध्मे सं नह्येत् ।
गौर् यत्राधिष्कन्ना न्यमेहत् ततो बल्बजा उद् अतिष्ठन्
गवाम् एवैनं न्यायम् अपिनीय गा वेदयति ।
इन्द्राय मन्युमते मनस्वते पुरोडाशम् एकादशकपालं निर् वपेत् संग्रामे संयत्ते ।
इन्द्रियेण वै मन्युना मनसा संग्रामं जयति ।
इन्द्रम् एव मन्युमन्तम् मनस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति
जयति तम्

VERSE: 3
संग्रामम्
एताम् एव निर् वपेद् यो हतमनाः स्वयम्पाप इव स्यात् ।
एतानि हि वा एतस्माद् अपक्रान्तानि ।
अथैष हतमनाः स्वयम्पाप इन्द्रम् एव मन्युमन्तम् मनस्वन्तम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति
न हतमनाः स्वयम्पापो भवति ।
इन्द्राय दात्रे पुरोडाशम् एकादशकपालं निर् वपेद् यः कामयेत
दानकामा मे प्रजाः स्युः

VERSE: 4
इति ।
इन्द्रम् एव दातारम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै दानकामाः प्रजाः करोति
दानकामा अस्मै प्रजा भवन्ति ।
इन्द्राय प्रदात्रे पुरोडाशम् एकादशकपालं निर् वपेद् यस्मै प्रत्तम् इव सन् न प्रदीयेत ।
इन्द्रम् एव प्रदातारम्̇ स्वेन भागधेयेनोप धावति
स एवास्मै प्र दापयति ।
इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालं निर् वपेद् अपरुद्धो वा ॥

VERSE: 5
अपरुध्यमानो वा ।
इन्द्रम् एव सुत्रामाणम्̇ स्वेन भागधेयेनोप धावति
स एवैनं त्रायते ।
अनपरुध्यो भवति ।
इन्द्रो वै सदृङ् देवताभिर् आसीत्
स न व्यावृतम् अगच्छत्
स प्रजापतिम् उपाधावत्
तस्मा एतम् ऐन्द्रम् एकादशकपालं निर् अवपत्
तेनैवास्मिन्न् इन्द्रियम् अदधात् ।
शक्वरी याज्यानुवाक्ये अकरोत् ।
वज्रो वै शक्वरी
स एनं वज्रो भूत्या ऐन्द्ध ।

VERSE: 6
सो ऽभवत्
सो ऽबिभेद् भूतः
प्र मा धक्ष्यतीति
स प्रजापतिम् पुनर् उपाधावत्
स प्रजापतिः शक्वर्या अधि रेवतीं निर् अमिमीत शान्त्या अप्रदाहाय
यो ऽलम्̇ श्रियै सन्त् सदृङ्क् समानैः स्यात् तस्मा एतमैन्द्रम् एकादशकपालं निर् वपेत् ।
इन्द्रम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन्न् इन्द्रियं दधाति
रेवती पुरोऽनुवाक्या भवति शान्त्या अप्रदाहाय
0 शक्वरी याज्या
1 वज्रो वै शक्वरी
2 स एनं वज्रो भूत्या इन्द्धे
3 भवत्य् एव ॥

2.2.9 अनुवाक 9
काम्या इष्टयः।अभिचारकर्त्रादीनामीष्टिविधिः।

VERSE: 1
आग्नावैष्णवम् एकादशकपालं निर् वपेद् अभिचरन्त् सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् आग्नावैष्णव एकादशकपालो भवति ।
अग्निः सर्वा देवता विष्णुर् यज्ञो देवताभिश् चैवैनं यज्ञेन चाभि चरति
सरस्वत्य् आज्यभागा भवति वाग् वै सरस्वती वाचैवैनम् अभि चरति
बार्हस्पत्यश् चरुर् भवति ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैवैनम् अभि चरति ॥

VERSE: 2
प्रति वै परस्ताद् अभिचरन्तम् अभि चरन्ति
द्वेद्वे पुरोऽनुवाक्ये कुर्याद् अति प्रयुक्त्यै ।
एतयैव यजेताभिचर्यमाणो देवताभिर् एव देवताः प्रतिचरति यज्ञेन यज्ञं वाचा वाचम् ब्रह्मणा ब्रह्म स देवताश् चैव यज्ञं च मध्यतो व्यवसर्पति तस्य न कुतश् चनोपाव्याधो भवति
नैनम् अभिचरन्त् स्तृणुते ।
आग्नावैष्णवम् एकादशकपालं निर् वपेद् यं यज्ञो न

VERSE: 3
उपनमेत् ।
अग्निः सर्वा देवता विष्णुर् यज्ञो ऽग्निं चैव विष्णुं च स्वेन भागधेयेनोप धावति ताव् एवास्मै यज्ञम् प्र यच्छत उपैनं यज्ञो नमति ।
आग्नावैष्णवं घृते चरुं निर् वपेच् चक्षुष्कामः ।
अग्नेर् वै चक्षुषा मनुष्या वि पश्यन्ति यज्ञस्य देवा अग्निं चैव विष्णुं च स्वेन भागधेयेनोप धावति
ताव् एव

VERSE: 4
अस्मिञ् चक्षुर् धत्तश् चक्षुष्मान् एव भवति
धेन्वै वा एतद् रेतो यद् आज्यम् अनडुहस् तण्डुला मिथुनाद् एवास्मै चक्षुः प्र जनयति
घृते भवति तेजो वै घृतं तेजश् चक्षुस् तेजसैवास्मै तेजश् चक्षुर् अव रुन्द्धे ।
इन्द्रियं वै वीर्यं वृङ्क्ते भ्रातृव्यो यजमानो ऽयजमानस्याध्वरकल्पाम् प्रति निर् वपेद् भ्रातृव्ये यजमाने नास्येन्द्रियं

VERSE: 5
वीर्यं वृङ्क्ते
पुरा वाचः प्रवदितोर् निर् वपेद् यावत्य् एव वाक् ताम् अप्रोदिताम् भ्रातृव्यस्य वृङ्क्ते ताम् अस्य वाचम् प्रवदन्तीम् अन्या वाचो ऽनु प्र वदन्ति ता इन्द्रियं वीर्यं यजमाने दधति ।
आग्नावैष्णवम् अष्टाकपालं निर् वपेद् प्रातःसवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवनम् एव तेनाप्नोति ॥

VERSE: 6
आग्नावैष्णवम् एकादशकपालं निर् वपेन् माध्यंदिनस्य सवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् एकादशकपालो भवत्य् एकादशाक्षरा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनम्̇ सवनम् माध्यंदिनम् एव सवनं तेनाऽऽप्नोति ।
आग्नावैष्णवं द्वादशकपालं निर् वपेद् तृतीयसवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः ।
यद् द्वादशकपालो भवति द्वादशाक्षरा जगती जागतं तृतीयसवनं तृतीयसवनम् एव तेनाऽऽप्नोति
देवताभिर् एव देवताः

VERSE: 7
प्रतिचरति यज्ञेन यज्ञं वाचा वाचम् ब्रह्मणा ब्रह्म कपालैर् एव छन्दाम्̇स्य् आप्नोति पुरोडाशैः सवनानि
मैत्रावरुणम् एककपालं निर् वपेद् वशायै काले
यैवासौ भ्रातृव्यस्य वशानुबन्ध्या सो एवैषैतस्यैककपालो भवति न हि कपालैः पशुम् अर्हत्य् आप्तुम् ॥

2.2.10 अनुवाक 10
काम्या इष्टयः। ब्रह्मवर्चसकामादीनां सोमारौद्रचर्वादीष्टिविधिः।

VERSE: 1
असाव् आदित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिम् ऐच्छन् तस्मा एतम्̇ सोमारौद्रं चरुं निर् अवपन् तेनैवास्मिन् रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एतम्̇ सोमारौद्रं चरुं निर् वपेत्
सोमं चैव रुद्रं च स्वेन भागधेयेनोप धावति ताव् एवास्मिन् ब्रह्मवर्चसं धत्तो ब्रह्मवर्चस्य् एव भवति
तिष्यापूर्णमासे निर् वपेद् रुद्रो

VERSE: 2
वै तिष्यः सोमः पूर्णमासः साक्षाद् एव ब्रह्मवर्चसम् अव रुन्द्धे
परिश्रिते याजयति ब्रह्मवर्चसस्य परिगृहीत्यै
श्वेतायै श्वेतवत्सायै दुग्धम् मथितम् आज्यम् अभवत्य् आज्यम् प्रोक्षणम् आज्येन मार्जयन्ते यावद् एव ब्रह्मवर्चसं तत् सर्वं करोत्य् अति ब्रह्मवर्चसं क्रियत इत्य् आहुः ।
ईश्वरो दुश्चर्मा भवितोर् इति मानवी ऋचौ धाय्ये कुर्याद् यद् वै किं च मनुर् अवदत् तद् भेषजम् ।

VERSE: 3
भेषजम् एवास्मै करोति
यदि बिभीयाद् दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर् वपेत् सौम्यो वै देवतया पुरुषः पौष्णाः पशवः स्वयैवास्मै देवतया पशुभिस् त्वचं करोति न दुश्चर्मा भवति
सोमारौद्रं चरुं निर् वपेत् प्रजाकामः सोमो वै रेतोधा अग्निः प्रजानाम् प्रजनयिता सोम एवास्मै रेतो दधात्यग्निः प्रजाम् प्र जनयति विन्दते

VERSE: 4
प्रजाम् ।
सोमारौद्रं चरुं निर् वपेद् अभिचरन्त् सौम्यो वै देवतया पुरुष एष रुद्रो यद् अग्निः स्वाया एवैनं देवतायै निष्क्रीय रुद्रायापि दधाति ताजग् आर्तिम् आर्छति
सोमारौद्रं चरुं निर् वपेज् ज्योगामयावी सोमं वा एतस्य रसो गच्छत्य् अग्निम्̇ शरीरं यस्य ज्योग् आमयति सोमाद् एवास्य रसं निष्क्रीणात्य् अग्नेः शरीरम् उत यदि

VERSE: 5
इतासुर् भवति जीवत्य् एव सोमारुद्रयोर् वा एतं ग्रसितम्̇ होता निष् खिदति स ईश्वर आर्तिम् आर्तोर् अनड्वान् होत्रा देयो वह्निर् वा अनड्वान् वह्निर् होता वह्निनैव वह्निम् आत्मानम्̇ स्पृणोति
सोमारौद्रं चरुं निर् वपेद् यः कामयेत स्वे ऽस्मा आयतने भ्रातृव्यं जनयेयम् इति वेदिम् परिगृह्यार्धम् उद्धन्याद् अर्धं नार्धम् बर्हिष स्तृणीयाद् अर्धं नार्धम् इध्मस्याभ्यादध्याद् अर्धं न स्व एवास्मा आयतने भ्रातृव्यं जनयति ॥

2.2.11 अनुवाक 11
काम्या इष्टयः। ग्रामकामादीनामैन्द्रादीष्टिविधिः।

VERSE: 1
ऐन्द्रम् एकादशकपालं निर् वपेन् मारुतम्̇ सप्तकपालं ग्रामकामः ।
इन्द्रं चैव मरुतश् च स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति ।
आहवनीय ऐन्द्रम् अधि श्रयति गार्हपत्ये मारुतम्
पापवस्यसस्य विधृत्यै
सप्तकपालो मारुतो भवति
सप्तगणा वै मरुतः ।
गणश एवास्मै सजातान् अव रुन्द्धे ।
अनूच्यमान आ सादयति
विशम् एव

VERSE: 2
अस्मा अनुवर्त्मानं करोति ।
एताम् एव निर् वपेद् यः कामयेत
क्षत्राय च विशे च समदं दध्याम् इति ।
ऐन्द्रस्यावद्यन् ब्रूयात् ।
इन्द्रायानु ब्रूहीत्य् आश्राव्य ब्रूयात् ।
मरुतो यजेति
मारुतस्यावद्यन् ब्रूयात् ।
मरुद्भ्यो ऽनु ब्रूहीत्य् आश्राव्य ब्रूयात् ।
इन्द्रं यजेति
स्व एवैभ्यो भागधेये समदं दधाति
वितृम्̇हाणास् तिष्ठन्ति ।
एताम् एव

VERSE: 3
निर् वपेद् यः कामयेत
कल्पेरन्न् इति
यथादेवतम् अवदाय यथादेवतं यजेत् ।
भागधेयेनैवैनान् यथायथं कल्पयति
कल्पन्त एव ।
ऐन्द्रम् एकादशकपालं निर् वपेद् वैश्वदेवं द्वादशकपालं ग्रामकामः ।
इन्द्रं चैव विश्वाम्̇श् च देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति ।
ऐन्द्रस्यावदाय वैश्वदेवस्याव द्येद् अथैन्द्रस्य

VERSE: 4
उपरिष्टात् ।
इन्द्रियेणैवास्मा उभयतः सजातान् परि गृह्णाति ।
उपाधाय्यपूर्वयं वासो दक्षिणा सजातानाम् उपहित्यै
पृश्नियै दुग्धे प्रैयंगवं चरुं निर् वपेन् मरुद्भ्यो ग्रामकामः
पृश्नियै वै पयसो मरुतो जाताः पृश्नियै प्रियंगवः ।
मारुताः खलु वै देवतया सजाताः ।
मरुत एव स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति
प्रियवती याज्यानुवाक्ये

VERSE: 5
भवतः प्रियम् एवैनम्̇ समानानां करोति
द्विपदा पुरोऽनुवाक्या भवति द्विपद एवाव रुन्द्धे
चतुष्पदा याज्या चतुष्पद एव पशून् अव रुन्द्धे
देवासुराः संयत्ता आसन्
ते देवा मिथो विप्रिया आसन्
ते ऽन्योऽन्यस्मै ज्यैष्ठ्यायातिष्ठमानाश् चतुर्धा व्यक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैः
स इन्द्रः प्रजापतिम् उपाधावत्
तम्

VERSE: 6
एतया संज्ञान्याऽयाजयत् ।
अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् अवपत् सोमाय रुद्रवते चरुम् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वरुणायादित्यवते चरुम् ।
ततो वा इन्द्रं देवा ज्यैष्ठ्यायाभि सम् अजानत
यः समानैर् मिथो विप्रियः स्यात् तम् एतया संज्ञान्या याजयेत् ।
अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेत् सोमाय रुद्रवते चरुम् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वरुणायादित्यवते चरुम्
इन्द्रम् एवैनम् भूतं ज्यैष्ठ्याय समाना अभि सं जानते
वसिष्ठः समानानाम् भवति ॥

2.2.12 अनुवाक 12
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
हिरण्यगर्भः ।
आपो ह यत्
प्रजापते।
स वेद पुत्रः पितरम्̇ स मातरम्̇ स सूनुर् भुवत् स भुवत् पुनर्मघः । स द्याम् और्णोद् अन्तरिक्षम्̇ स सुवः स विश्वा भुवो अभवत् स आऽभवत् ॥
उद् उ त्यम् चित्रम् ।
स प्रत्नवन् नवीयसाऽग्ने द्युम्नेन संयता । बृहत् ततन्थ भानुना ॥
नि काव्या वेधसः शश्वतस्कर्हस्ते दधानः

VERSE: 2
नर्या पुरूणि । अग्निर् भुवद् रयिपती रयीणाम्̇ सत्रा चक्राणो अमृतानि विश्वा ॥
हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥
वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यम्̇ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥
बड् इत्था पर्वतानां खिद्रम् बिभर्षि पृथिवि । प्र या भूमि प्रवत्वति मह्ना जिनोषि

VERSE: 3
महिनि ।
स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः । प्र या वाजं न हेषन्तम् प्रेरुम् अस्यस्य् अर्जुनि ॥
ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः । अयं यः सोमो न्यधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् अच्छ ॥
आपान्तमन्युस् तृपलप्रभर्मा धुनिः शिमीवाञ् छरुमाम्̇ ऋजीषी । सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः ॥
प्र

VERSE: 4
सुवानः सोम ऋतयुश् चिकेतेन्द्राय ब्रह्म जमदग्निर् अर्चन् । वृषा यन्तासि शवसस् तुरस्यान्तर् यच्छ गृणते धर्त्रं दृम्̇ह ॥
सबाधस् ते मदं च शुष्मयं च ब्रह्म नरो ब्रह्मकृतः सपर्यन् । अर्को वा यत् तुरते सोमचक्षास् तत्रेद् इन्द्रो दधते पृत्सु तुर्याम् ॥
वषट् ते विष्णवास आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् ।

VERSE: 5
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥
प्र तत् ते अद्य शिपिविष्ट नामार्यः शम्̇सामि वयुनानि विद्वान् । तं त्वा गृणामि तवसम् अतवीयान् क्षयन्तम् अस्य रजसः पराके ॥
किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ ॥

VERSE: 6
अग्ने दा दाशुषे रयिं वीरवन्तम् परीणसम् । शिशीहि नः सूनुमतः ॥
दा नो अग्ने शतिनो दाः सहस्रिणो दुरो न वाजम्̇ श्रुत्या अपा वृधि । प्राची द्यावापृथिवी ब्रह्मणा कृधि सुवर् ण शुक्रम् उषसो वि दिद्युतुः ॥
अग्निर् दा द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा सनोति । अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ॥
मा

VERSE: 7
नो मर्धीः ।
आ तू भर
घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् । तत् ते रुक्मो न रोचत स्वधावः
उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषम्̇ स्तोतृभ्य आ भर ॥
वायो शतम्̇ हरीणां युवस्व पोष्याणाम् । उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥
प्र याभिः

VERSE: 8
यासि दाश्वाम्̇सम् अच्छा नियुद्भिर् वायव् इष्टये दुरोणे । नि नो रयिम्̇ सुभोजसं युवेह नि वीरवद् गव्यम् अश्वियं च राधः ॥
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥
रेवाम्̇ इद् रेवतः स्तोता स्यात् त्वावतो मघोनः । प्रेद् उ हरिवः श्रुतस्य ॥