प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तैत्तिरीयसंहिता(विस्वरः)/काण्डम् २/प्रपाठकः ३

< तैत्तिरीयसंहिता(विस्वरः)‎ | काण्डम् २

2.3 प्रपाठक: 3 काम्येष्टिविधानम्
2.3.1 अनुवाक 1
काम्या इष्टयः। भूतिकामादीनामादित्यचर्वादीष्टिविधिः।

VERSE: 1
आदित्येभ्यो भुवद्वद्भ्यश् चरुं निर् वपेद् भूतिकामः ।
आदित्या वा एतम् भूत्यै प्रति नुदन्ते यो ऽलम् भूत्यै सन् भूतिं न प्राप्नोति ।
आदित्यान् एव भुवद्वतः स्वेन भागधेयेनोप धावति
त एवैनम् भूतिं गमयन्ति
भवत्य् एव ।
आदित्येभ्यो धारयद्वद्भ्यश् चरुं निर् वपेद् अपरुद्धो वाऽपरुध्यमानो वा ।
आदित्या वा अपरोद्धार आदित्या अवगमयितारः ।
आदित्यान् एव धारयद्वतः

VERSE: 2
स्वेन भागधेयेनोप धावति
त एवैनं विशि दाध्रति ।
अनपरुध्यो भवति ।
अदिते ऽनु मन्यस्वेत्य् अपरुध्यमानो ऽस्य पदम् आ ददीत ।
इयं वा अदितिः ।
इयम् एवास्मै राज्यम् अनु मन्यते
सत्याशीर् इत्य् आह
सत्याम् एवाशिषं कुरुते ।
इह मन इत्य् आह
प्रजा एवास्मै समनसः करोति ।
उप प्रेत मरुतः

VERSE: 3
सुदानव एना विश्पतिनाऽभ्य् अमुम्̇ राजानम् इत्य् आह
मारुती वै विड्
ज्येष्ठो विश्पतिः ।
विशैवैनम्̇ राष्ट्रेन सम् अर्धयति
यः परस्ताद् ग्राम्यवादी स्यात् तस्य गृहाद् व्रीहीन् आ हरेत् ।
शुक्लाम्̇श् च कृष्णाम्̇श् च वि चिनुयात् ।
ये शुक्लाः स्युस् तम् आदित्यं चरुं निर् वपेत् ।
आदित्या वै देवतया विड्
विशम् एवाव गच्छति ॥

VERSE: 4
अवगताऽस्य विड् अनवगतम्̇ राष्ट्रम् इत्य् आहुः ।
ये कृष्णाः स्युस् तम् वारुणं चरुं निर् वपेत् ।
वारुणं वै राष्ट्रम्
उभे एव विशं च राष्ट्रं चाव गच्छति
यदि नावगच्छेद् इमम् अहम् आदित्येभ्यो भागं निर् वपाम्य् ऽआमुष्माद् अमुष्यै विशो ऽवगन्तोर् इति निर् वपेत् ।
आदित्या एवैनम् भागधेयम् प्रेप्सन्तो विशम् अव

VERSE: 5
गमयन्ति
यदि नावगच्छेद् आश्वत्थान् मयूखान्त् सप्त मध्यमेषायाम् उप हन्यात् ।
इदम् अहम् आदित्यान् बध्नाम्य् आमुष्माद् अमुष्यै विशो ऽवगन्तोर् इति ।
आदित्या एवैनम् बद्धवीरा विशम् अव गमयन्ति
यदि नावगच्छेद् एतम् एवादित्यं चरुं निर् वपेत् ।
इध्मे ऽपि मयूखान्त् सं नह्येत् ।
अनपरुध्यम् एवाव गच्छति ।
आश्वत्था भवन्ति
मरुतां वा एतद् ओजो यद् अश्वत्थः ।
ओजसैव विशम् अव गच्छति
सप्त भवन्ति
सप्तगणा वै मरुतः ।
गणश एव विशम् अव गच्छति ॥

2.3.2 अनुवाक 2
काम्या इष्टयः। मृत्युभीतादीनां शतकृष्णलादीष्टिविधिः।

VERSE: 1
देवा वै मृत्योर् अबिभयुस्
ते प्रजापतिम् उपाधावन्
तेभ्य एताम् प्राजापत्याम्̇ शतकृष्णलां निर् अवपत्
तयैवैष्व् अमृतम् अदधात् ।
यो मृत्योर् बिभीयात् तस्मा एताम् प्राजापत्याम्̇ शतकृष्णलां निर् वपेत्
प्रजापतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मिन्न् आयुर् दधाति
सर्वम् आयुर् एति
शतकृष्णला भवति
शतायुः पुरुषः शतेन्द्रियः ।
आयुष्य् एवेन्द्रिये

VERSE: 2
प्रति तिष्ठति
घृते भवति ।
आयुर् वै घृतम्
अमृतम्̇ हिरण्यम्
आयुश् चैवास्मा अमृतं च समीची दधाति
चत्वारिचत्वारि कृष्णलान्य् अव द्यति चतुरवत्तस्याप्त्यै ।
एकधा ब्रह्मण उप हरति ।
एकधैव यजमान आयुर् दधाति ।
असाव् आदित्यो न व्यरोचत
तस्मै देवाः प्रायश्चित्तिम् ऐच्छन्
तस्मा एतम्̇ सौर्यं चरुं निर् अवपन्
तेनैवास्मिन्

VERSE: 3
रुचम् अदधुः ।
यो ब्रह्मवर्चसकामः स्यात् तस्मा एतम्̇ सौर्यं चरुं निर् वपेत् ।
अमुम् एवाऽऽदित्यम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् ब्रह्मवर्चसं दधाति
ब्रह्मवर्चस्य् एव भवति ।
उभयतो रुक्मौ भवतः ।
उभयत एवास्मिन् रुचं दधाति
प्रयाजेप्रयाजे कृष्णलं जुहोति
दिग्भ्य एवास्मै ब्रह्मवर्चसम् अव रुन्द्धे ।
आग्नेयम् अष्टाकपालं निर् वपेत् सावित्रं द्वादशकपालम् भूम्यै

VERSE: 4
चरुं यः कामयेत
हिरण्यं विन्देय हिरण्यम् मोप नमेद् इति
यद् आग्नेयो भवत्य् आग्नेयं वै हिरण्यं यस्यैव हिरण्यं तेनैवैनद् विन्दते
सावित्रो भवति सवितृप्रसूत एवैनद् विन्दते
भूम्यै चरुर् भवत्य् अस्याम् एवैनद् विन्दते ।
उपैनम्̇ हिरण्यं नमति
वि वा एष इन्द्रियेण वीर्येणर्ध्यते यो हिरण्यं विन्दते ।
एताम्

VERSE: 5
एव निर् वपेद् धिरण्यं वित्त्वा
नेन्द्रियेण वीर्येण व्यृध्यते ।
एताम् एव निर् वपेद् यस्य हिरण्यं नश्येत् ।
यद् आग्नेयो भवत्य् आग्नेयं वै हिरण्यं यस्यैव हिरण्यं तेनैवैनद् विन्दति
सावित्रो भवति सवितृप्रसूत एवैनद् विन्दति
भूम्यै चरुर् भवत्य् अस्यां वा एतन् नश्यति यन् नश्यत्य् अस्याम् एवैनद् विन्दति ।
इन्द्रः

VERSE: 6
त्वष्टुः सोमम् अभीषहापिबत्
स विष्वङ् व्य् आर्छत्
स इन्द्रियेण सोमपीथेन व्य् आर्ध्यत
स यद् ऊर्ध्वम् उदवमीत् ते श्यामाका अभवन् ।
स प्रजापतिम् उपाधावत्
तस्मा एतम्̇ सोमेन्द्रम्̇ श्यामाकं चरुम् निर् अवपत् तेनैवास्मिन्न् इन्द्रियम्̇ सोमपीथम् अदधात् ।
वि वा एष इन्द्रियेण सोमपीथेनर्ध्यते यः सोमं वमिति
यः सोमवामी स्यात् तस्मै

VERSE: 7
एतम्̇ सोमेन्द्रम्̇ श्यामाकं चरुं निर् वपेत्
सोमं चैवेन्द्रं च स्वेन भागधेयेनोप धावति
ताव् एवास्मिन्न् इन्द्रियम्̇ सोमपीथं धत्तः ।
नेन्द्रियेण सोमपीथेन व्यृध्यते
यत् सौम्यो भवति सोमपीथम् एवाव रुन्द्धे
यद् ऐन्द्रो भवतीन्द्रियं वै सोमपीथ इन्द्रियम् एव सोमपीथम् अव रुन्द्धे
श्यामाको भवति ।
एष वाव स सोमः ।

VERSE: 8
साक्षाद् एव सोमपीथम् अव रुन्द्धे ।
अग्नये दात्रे पुरोडाशम् अष्टाकपालं निर् वपेद् इन्द्राय प्रदात्रे पुरोडाशम् एकादशकपालम् पशुकामः ।
अग्निर् एवास्मै पशून् प्रजनयति वृद्धान् इन्द्रः प्र यच्छति
दधि मधु घृतम् आपो धाना भवन्ति ।
एतद् वै पशूनाम्̇ रूपम् ।
रूपेणैव पशून् अव रुन्द्धे
पञ्चगृहीतम् भवति
पाङ्क्ता हि पशवः ।
बहुरूपम् भवति
बहुरूपा हि पशवः ।

VERSE: 9
समृद्ध्यै ।
प्राजापत्यम् भवति
प्राजापत्या वै पशवः
प्रजापतिर् एवास्मै पशून् प्र जनयति ।
आत्मा वै पुरुषस्य मधु
यन् मध्व् अग्नौ जुहोत्य् आत्मानम् एव तद् यजमानो ऽग्नौ प्र दधाति
पङ्क्त्यौ याज्यानुवाक्ये भवतः
पाङ्क्तः पुरुषः पाङ्क्ताः पशवः ।
आत्मानम् एव मृत्योर् निष्क्रीय पशून् अव रुन्द्धे ॥

2.3.3 अनुवाक 3
काम्या इष्टयः। यज्ञविभ्रष्टादीनामीष्टिविधिः।

VERSE: 1
देवा वै सत्त्रम् आसत ऋद्धिपरिमितं यशस्कामास्
तेषाम्̇ सोमम्̇ राजानं यश आर्छत्
स गिरिम् उद् ऐत्
तम् अग्निर् अनूद् ऐत्
ताव् अग्नीषोमौ सम् अभवताम् ।
ताव् इन्द्रो यज्ञविभ्रष्टो ऽनु परैत्
ताव् अब्रवीत् ।
याजयतम् मेति
तस्मा एताम् इष्टिं निर् अवपताम्
आग्नेयम् अष्टाकपालम् ऐन्द्रम् एकादशकपालम्̇ सौम्यं चरुम् ।
तयैवास्मिन् तेजः

VERSE: 2
इन्द्रियम् ब्रह्मवर्चसम् अधत्त्ताम् ।
यो यज्ञविभ्रष्टः स्यात् तस्मा एताम् इष्टिं निर् वपेत् ।
आग्नेयम् अष्टाकपालम् ऐन्द्रम् एकादशकपालम्̇ सौम्यं चरुम् ।
यद् आग्नेयो भवति तेज एवास्मिन् तेन दधाति
यद् ऐन्द्रो भवतीन्द्रियम् एवास्मिन् तेन दधाति
यत् सौम्यो ब्रह्मवर्चसं तेन ।
आग्नेयस्य च सौम्यस्य चैन्द्रे समाश्लेषयेत्
तेजश् चैवास्मिन् ब्रह्मवर्चसं च समीची

VERSE: 3
दधाति ।
अग्नीषोमीयम् एकादशकपालं निर् वपेद् यं कामो नोपनमेत् ।
आग्नेयो वै ब्राह्मणः
स सोमम् पिबति
स्वाम् एव देवताम्̇ स्वेन भागधेयेनोप धावति
सैवैनं कामेन सम् अर्धयति ।
उपैनं कामो नमति ।
अग्नीषोमीयम् अष्टाकपालं निर् वपेद् ब्रह्मवर्चसकामः ।
अग्नीषोमाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मिन् ब्रह्मवर्चसं धत्तः ।
ब्रह्मवर्चस्य् एव

VERSE: 4
भवति
यद् अष्टाकपालस् तेनाग्नेयश् ।
यच् छ्यामाकस् तेन सौम्यः
समृद्ध्यै
सोमाय वाजिने श्यामाकं चरुं निर् वपेद् यः क्लैब्याद् बिभीयात् ।
रेतो हि वा एतस्माद् वाजिनम् अपक्रामत्य् अथैष क्लैब्याद् बिभाय
सोमम् एव वाजिनम्̇ स्वेन भागधेयेनोप धावति
स एवास्मिन् रेतो वाजिनं दधाति
न क्लीबो भवति
ब्राह्मणस्पत्यम् एकादशकपालं निर् वपेद् ग्रामकामः

VERSE: 5
ब्रह्मणस् पतिम् एव स्वेन भागधेयेनोप धावति
स एवास्मै सजातान् प्र यच्छति
ग्राम्य् एव भवति
गणवती याज्यानुवाक्ये भवतः
सजातैर् एवैनं गणवन्तं करोति ।
एताम् एव निर् वपेद् यः कामयेत
ब्रह्मन् विशं वि नाशयेयम् इति
मारुती याज्यानुवाक्ये कुर्यात् ।
ब्रह्मन्न् एव विशं वि नाशयति ॥

2.3.4 अनुवाक 4
काम्या इष्टयः। स्वर्गकामादीष्टिविधिः।

VERSE: 1
अर्यम्णे चरुं निर् वपेत् सुवर्गकामः ।
असौ वा आदित्यो ऽर्यमा ।
अर्यमणम् एव स्वेन भागधेयेनोप धावति
स एवैनम्̇ सुवर्गं लोकं गमयति ।
अर्यम्णे चरुं निर् वपेद् यः कामयेत
दानकामा मे प्रजाः स्युर् इति ।
असौ वा आदित्यो ऽर्यमा
यः खलु वै ददाति सो ऽर्यमा ।
अर्यमणम् एव स्वेन भागधेयेनोप धावति
स एव

VERSE: 2
अस्मै दानकामाः प्रजाः करोति
दानकामा अस्मै प्रजा भवन्ति ।
अर्यम्णे चरुं निर् वपेद् यः कामयेत
स्वस्ति जनताम् इयाम् इति ।
असौ वा आदित्यो ऽर्यमा ।
अर्यमणम् एव स्वेन भागधेयेनोप धावति
स एवैनं तद् गमयति यत्र जिगमिषति ।
इन्द्रो वै देवानाम् आनुजावर आसीत्
स प्रजापतिम् उपाधावत्
तस्मा एतम् ऐन्द्रम् आनुषूकम् एकादशकपालं निः

VERSE: 3
अवपत् तेनैवैनम् अग्रं देवतानाम् पर्यणयत् ।
बुध्नवती अग्रवती याज्यानुवाक्ये अकरोद् बुध्नाद् एवैनम् अग्रम् पर्यणयत् ।
यो राजन्य आनुजावरः स्यात् तस्मा एतम् ऐन्द्रम् आनुषूकम् एकादशकपालं निर् वपेत् ।
इन्द्रम् एव स्वेन भागधेयेनोप धावति स एवैनम् अग्रम्̇ समानानाम् परि णयति
बुध्नवती अग्रवती याज्यानुवाक्ये भवतो बुध्नाद् एवैनम् अग्रम्

VERSE: 4
परि णयति ।
आनुषूको भवत्य् एषा ह्य् एतस्य देवता य आनुजावरः
समृद्ध्यै
यो ब्राह्मण आनुजावरः स्यात् तस्मा एतम् बार्हस्पत्यम् आनुषूकं चरुं निर् वपेत् ।
बृहस्पतिम् एव स्वेन भागधेयेनोप धावति स एवैनम् अग्रम्̇ समानानाम् परि णयति
बुध्नवती अग्रवती याज्यानुवाक्ये भवतो बुध्नाद् एवैनम् अग्रम् परि णयति ।
आनुषूको भवत्य् एषा ह्य् एतस्य देवता य आनुजावरः
समृद्ध्यै ॥

2.3.5 अनुवाक 5
काम्या इष्टयः। राजयक्ष्मगृहीतस्येष्टिविधिः।

VERSE: 1
प्रजापतेस् त्रयस्त्रिम्̇शद् दुहितर आसन्
ताः सोमाय राज्ञे ऽददात्
तासाम्̇ रोहिणीम् उपैत्
ता ईर्ष्यन्तीः पुनर् अगच्छन्
ता अन्व् ऐत्
ताः पुनर् अयाचत
ता अस्मै न पुनर् अददात्
सो ऽब्रवीत् ।
ऋतम् अमीष्व यथा समावच्छ उपैष्याम्य् अथ ते पुनर् दास्यामीति
स ऋतम् आमीत्
ता अस्मै पुनर् अददात्
तासाम्̇ रोहिणीम् एवोपै

VERSE: 2
त्
तं यक्ष्म आर्छत् ।
राजानं यक्ष्म आरद् इति तद् राजयक्ष्मस्य जन्म यत् पापीयान् अभवत् तत् पापयक्ष्मस्य यज् जायाभ्यो ऽविन्दत् तज् जायेन्यस्य
य एवम् एतेषां यक्ष्माणां जन्म वेद नैनम् एते यक्ष्मा विन्दन्ति
स एता एव नमस्यन्न् उपाधावत्
ता अब्रुवन्
वरं वृणामहै समावच्छ एव न उपाय इति
तस्मा एतम्

VERSE: 3
आदित्यं चरुं निर् अवपन्
तेनैवैनम् पापात् स्रामाद् अमुञ्चन्
यः पापयक्ष्मगृहीतः स्यात् तस्मा एतम् आदित्यं चरुं निर् वपेत् ।
अमुम् एवैनम् आप्यायमानम् अन्व् आ प्याययति
नवोनवो भवति जायमान इति पुरोऽनुवाक्या भवत्य् आयुर् एवास्मिन् तया दधाति
यम् आदित्या अम्̇शुम् आप्याययन्तीति याज्यैवैनम् एतया प्याययति ॥

2.3.6 अनुवाक 6
काम्या इष्टयः। अन्नादनशक्तिकामस्येष्टिविधिः।

VERSE: 1
प्रजापतिर् देवेभ्यो ऽन्नाद्यं व्यादिशत्
सो ऽब्रवीत् ।
यद् इमाँल्लोकान् अभ्य् अतिरिच्यातै ।
तन् ममासद् इति
तद् इमाँल्लोकान् अभ्य् अत्य् अरिच्यतेन्द्रम्̇ राजानम् इन्द्रम् अभिराजम् इन्द्रम्̇ स्वराजानम् ।
ततो वै स इमाँल्लोकाम्̇स् त्रेधाऽदुहत्
तत् त्रिधातोस् त्रिधातुत्वम् ।
यं कामयेत ।
अन्नादः स्याद् इति तस्मा एतं त्रिधातुं निर् वपेद् इन्द्राय राज्ञे पुरोडाशम्

VERSE: 2
एकादशकपालम् इन्द्रायाधिराजायेन्द्राय स्वराज्ञे ।
अयं वा इन्द्रो राजाऽयम् इन्द्रो ऽधिराजो ऽसाव् इन्द्रः स्वराड्
इमान् एव लोकान्त् स्वेन भागधेयेनोप धावति
त एवास्मा अन्नम् प्र यच्छन्ति ।
अन्नाद एव भवति
यथा वत्सेन प्रत्तां गां दुह एवं एवेमाँल्लोकान् प्रत्तान् कामम् अन्नाद्यं दुहे ।
उत्तानेषु कपालेष्व् अधि श्रयति ।
अयातयामत्वाय
त्रयः पुरोडाशा भवन्ति
त्रय इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
उत्तरौत्तरो ज्यायान् भवति ।
एवम् इव हीमे लोकाः
समृद्ध्यै
सर्वेषाम् अभिगमयन्न् अव द्यति ।
अच्छम्बट्कारम् ।
व्यत्यासं अन्व् आह ।
अनिर्दाहाय ॥

2.3.7 अनुवाक 7
काम्या इष्टयः। इन्द्रियसामर्थ्यशरीरसामर्थ्यकामस्येष्टिविधिः।

VERSE: 1
देवासुराः संयत्ता आसन्
तान् देवान् असुरा अजयन्
ते देवाः पराजिग्याना असुराणां वैश्यम् उपायन्
तेभ्य इन्द्रियं वीर्यम् अपाक्रामत्
तद् इन्द्रो ऽचायत्
तद् अन्व् अपाक्रामत्
तद् अवरुधं नाशक्नोत्
तद् अस्माद् अभ्यर्धो ऽचरत्
स प्रजापतिम् उपाधावत्
तम् एतया सर्वपृष्ठयायाजयत्
तयैवास्मिन्न् इन्द्रियं वीर्यम् अदधात् ।
य इन्द्रियकामः

VERSE: 2
वीर्यकामः स्यात् तम् एतया सर्वपृष्ठया याजयेत् ।
एता एव देवताः स्वेन भागधेयेनोप धावति
ता एवास्मिन्न् इन्द्रियं वीर्यं दधति
यद् इन्द्राय राथंतराय निर्वपति यद् एवाग्नेस् तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय बार्हताय यद् एवेन्द्रस्य तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय वैरूपाय यद् एव सवितुस् तेजस् तत्

VERSE: 3
एवाव रुन्द्धे
यद् इन्द्राय वैराजाय यद् एव धातुस् तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय शाक्वराय यद् एव मरुतां तेजस् तद् एवाव रुन्द्धे
यद् इन्द्राय रैवताय यद् एव बृहस्पतेस् तेजस् तद् एवाव रुन्द्धे ।
उत्तानेषु कपालेष्व् अधि श्रयति ।
अयातयामत्वाय
द्वादशकपालः पुरोडाशः

VERSE: 4
भवति
वैश्वदेवत्वाय
समन्तम् पर्यवद्यति
समन्तम् एवेन्द्रियं वीर्यं यजमाने दधाति
व्यत्यासम् अन्व् आह ।
अनिर्दाहाय ।
अश्व ऋषभो वृष्णिर्वस्तः सा दक्षिणा वृषत्वाय।
एतयैव यजेताभिशस्यमानः ।
एताश् चेद् वा अस्य देवता अन्नम् अदन्त्य् अदन्त्य् उवेवास्य मनुष्याः ॥

2.3.8 अनुवाक 8
काम्या इष्टयः। चक्षुष्कामस्येष्टिविधिः।

VERSE: 1
रजनो वै कौणेयः क्रतुजितं जानकिं चक्षुर्वन्यम् अयात्
तस्मा एताम् इष्टिं निर् अवपत् ।
अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम्̇ सौर्यं चरुम् अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम् ।
तयैवास्मिञ् चक्षुर् अदधात् ।
यश् चक्षुकामः स्यात् तस्मा एताम् इष्टिं निर् वपेत् ।
अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम्̇ सौर्यं चरुम् अग्नये भ्राजस्वते पुरोडाशम् अष्टाकपालम्
अग्नेर् वै चक्षुषा मनुष्या वि

VERSE: 2
पश्यन्ति सूर्यस्य देवाः ।
अग्निं चैव सूर्यं च स्वेन भागधेयेनोप धावति
ताव् एवास्मिञ् चक्षुर् धत्तश् चक्षुष्मान् एव भवति
यद् आग्नेयौ भवतश् चक्षुषी एवास्मिन् तत् प्रति दधाति
यत् सौर्यो नासिकां तेन ।
अभितः सौर्यम् आग्नेयौ भवतस्
तस्माद् अभितो नासिकां चक्षुषी
तस्मान् नासिकया चक्षुषी विधृते
समानी याज्यानुवाक्ये भवतः
0 समानम्̇ हि चक्षुः समृद्ध्यै ।
उद् उ त्यं जातवेदसम् ।
सप्त त्वा हरितो रथे
चित्रं देवानाम् उद् अगाद् अनीकम् इति पिण्डान् प्र यच्छति
चक्षुर् एवास्मै प्र यच्छति
यद् एव तस्य तत् ॥

2.3.9अनुवाक 9
काम्या इष्टयः। सांग्रहणीष्टिविधिः।

VERSE: 1
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासं धीरश् चेत्ता वसुविद्
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् उग्रश् चेत्ता वसुविद्
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् अभिभूश् चेत्ता वसुविद्
आमनम् अस्य् आमनस्य देवा ये सजाताः कुमाराः समनसस् तान् अहं कामये हृदा ते मां कामयन्ताम्̇ हृदा तान् म आमनसः कृधि स्वाहा ।
ऽऽआमनम् असि

VERSE: 2
आमनस्य देवा याः स्त्रियः समनसस् ता अहं कामये हृदा ता मां कामयन्ताम्̇ हृदा ता म आमनसः कृधि स्वाहा
वैश्वदेवीम्̇ सांग्रहणीं निर् वपेद् ग्रामकामः ।
वैश्वदेवा वै सजाताः ।
विश्वान् एव देवान्त् स्वेन भागधेयेनोप धावति
त एवास्मै सजातान् प्र यच्छन्ति
ग्राम्य् एव भवति
सांग्रहणी भवति
मनोग्रहणं वै संग्रहणम्
मन एव सजातानाम्

VERSE: 3
गृह्णाति
ध्रुवो ऽसि ध्रुवो ऽहम्̇ सजातेषु भूयासम् इति परिधीन् परि दधाति ।
आशिषम् एवैताम् आ शास्ते ।
अथो एतद् एव सर्वम्̇ सजातेष्व् अधि भवति यस्यैवं विदुष एते परिधयः परिधीयन्ते ।
आमनम् अस्य् आमनस्य देवा इति तिस्र आहुतीर् जुहोति ।
एतावन्तो वै सजाता ये महान्तो ये क्षुल्लका याः स्त्रियः
तान् एवाव रुन्द्धे
त एनम् अवरुद्धा उप तिष्ठन्ते ॥

2.3.10 अनुवाक 10
काम्या इष्टयः। आयुष्कामेष्टिमन्त्राः।

VERSE: 1
यन् नवमैत् तन् नवनीतम् अभवद् यद् असर्पत् तत् सर्पिर् अभवद् यद् अध्रियत तद् घृतम् अभवत् ।
अश्विनोः प्राणो ऽसि तस्य ते दत्तां ययोः प्राणो ऽसि स्वाहेन्द्रस्य प्राणो ऽसि तस्य ते ददातु यस्य प्राणो ऽसि स्वाहा मित्रावरुणयोः प्राणो ऽसि तस्य ते दत्तां यस्य प्राणो ऽसि स्वाहा विश्वेषां देवानाम् प्राणो ऽसि ॥

VERSE: 2
तस्य ते ददतु येषाम् प्राणो ऽसि स्वाहा
घृतस्य धाराम् अमृतस्य पन्थाम् इन्द्रेण दत्ताम् प्रयताम् मरुद्भिः । तत् त्वा विष्णुः पर्य् अपश्यत् तत् त्वेडा गव्यैरयत्
पावमानेन त्वा स्तोमेन गायत्रस्य वर्तन्योपाम्̇शोर् वीर्येण देवस् त्वा सवितोत् सृजतु जीवातवे जीवनस्यायै बृहद्रथन्तरयोस् त्वा स्तोमेन त्रिष्टुभो वर्तन्या शुक्रस्य वीर्येण देवस् त्वा सवितोत्

VERSE: 3
सृजतु जीवातवे जीवनस्याया अग्नेस् त्वा मात्रया जगत्यै वर्तन्याग्रयणस्य वीर्येण देवस् त्वा सवितोत् सृजतु जीवातवे जीवनस्यायै ।
इमम् अग्न आयुषे वर्चसे कृधि प्रियम्̇ रेतो वरुण सोम राजन् । मातेवास्मा अदिते शर्म यच्छ विश्वे देवा जरदष्टिर् यथासत् ॥
अग्निर् आयुष्मान्त् स वनस्पतिभिर् आयुष्मान् तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि सोम आयुष्मान्त् स ओषधीभिर् यज्ञ आयुष्मान्त् स दक्षिणाभिर् ब्रह्माऽऽयुष्मत् तद् ब्राह्मणैर् आयुष्मद् देवा आयुष्मन्तस् ते ऽमृतेन पितर आयुष्मन्तस् ते स्वधयाऽऽयुष्मन्तस् तेन त्वाऽऽयुषायुष्मन्तं करोमि ॥

2.3.11 अनुवाक 11
काम्या इष्टयः। आयुष्कामेष्टिविधिः।

VERSE: 1
अग्निं वा एतस्य शरीरं गच्छति सोमम्̇ रसो वरुण एनं वरुणपाशेन गृह्णाति सरस्वतीं वाग् अग्नाविष्णू आत्मा यस्य ज्योग् आमयति । यो ज्योगामयावी स्याद् यो वा कामयेत
सर्वम् आयुर् इयाम् इति तस्मा एताम् इष्टिं निर् वपेद्
आग्नेयम् अष्टाकपालम्̇ सौम्यं चरुं वारुणं दशकपालम्̇ सारस्वतं चरुम् आग्नावैष्णवम् एकादशकपालम्
अग्नेर् एवास्य शरीरं निष्क्रीणाति सोमाद् रसम् ।

VERSE: 2
वरुणेनैवैनं वरुणपाशान् मुञ्चति सारस्वतेन वाचं दधाति ।
अग्निः सर्वा देवता विष्णुर् यज्ञो देवताभिश् चैवैनं यज्ञेन च भिषज्यत्य् उत यदीतासुर् भवति जीवत्य् एव । यन् नवमैत् तन् नवनीतम् अभवद् इत्य् आज्यम् अवेक्षते
रूपम् एवास्यैतन् महिमानं व्याचष्टे ।
अश्विनोः प्राणो ऽसीत्य् आहाश्विनौ वै देवानाम्

VERSE: 3
भिषजौ ताभ्याम् एवास्मै भेषजं करोति ।
इन्द्रस्य प्राणो ऽसीत्य् आह ।
इन्द्रियम् एवास्मिन्न् एतेन दधाति
मित्रावरुणयोः प्राणो ऽसीत्य् आह
प्राणापानाव् एवास्मिन्न् एतेन दधाति
विश्वेषां देवानाम् प्राणो ऽसीत्य् आह वीर्यम् एवास्मिन्न् एतेन दधाति
घृतस्य धाराम् अमृतस्य पन्थाम् इत्य् आह
यथायजुर् एवैतत्
पावमानेन त्वा स्तोमेनेति

VERSE: 4
आह
प्राणम् एवास्मिन्न् एतेन दधाति
बृहद्रथन्तरयोस् त्वा स्तोमेनेत्य् आह ।
ओज एवास्मिन्न् एतेन दधात्य् अग्नेस् त्वा मात्रयेत्य् आहाऽऽत्मानम् एवास्मिन्न् एतेन दधाति ।
ऋत्विजः पर्य् आहुर् यावन्त एवर्त्विजस् त एनम् भिषज्यन्ति
ब्रह्मणो हस्तम् अन्वारभ्य पर्य् आहुर् एकधैव यजमान आयुर् दधति
यद् एव तस्य तत् ।
हिरण्याद्

VERSE: 5
घृतं निष् पिबत्य् आयुर् वै घृतम् अमृतम्̇ हिरण्यम् अमृताद् एवायुर् निष् पिबति
शतमानम् भवति शतायुः पुरुषः शतेन्द्रिय आयुष्य् एवेन्द्रिये प्रति तिष्ठति ।
अथो खलु यावतीः समा एष्यन् मन्येत तावन्मानम्̇ स्यात् समृद्ध्यै ।
इमम् अग्न आयुषे वर्चसे कृधीत्य् आहायुर् एवास्मिन् वर्चो दधाति । विश्वे देवा जरदष्टिर् यथासद् इत्य् आह
जरदष्टिम् एवैनं करोति ।
अग्निर् आयुष्मान् इति हस्तं गृह्णाति ।
एते वै देवा आयुष्मन्तस् त एवास्मिन्न् आयुर् दधति सर्वम् आयुर् एति ॥

2.3.12 अनुवाक 12
काम्या इष्टयः। अश्वदानवत इष्टिविधिः।

VERSE: 1
प्रजापतिर् वरुणायाश्वम् अनयत्
स स्वां देवताम् आर्छत्
स पर्य् अदीर्यत
स एतं वारुणं चतुष्कपालम् अपश्यत्
तं निर् अवपत्
ततो वै स वरुणपाशाद् अमुच्यत
वरुणो वा एतं गृह्णाति यो ऽश्वम् प्रतिगृह्णाति
यावतो ऽश्वान् प्रतिगृह्णीयात् तावतो वारुणाञ् चतुष्कपालान् निर् वपेत् ।
वरुणम् एव स्वेन भागधेयेनोप धावति
स एवैनं वरुणपाशान् मुञ्चति ।

VERSE: 2
चतुष्कपाला भवन्ति
चतुष्पाद् ध्य् अश्वः
समृद्ध्यै ।
एकम् अतिरिक्तं निर् वपेद् यम् एव प्रतिग्राही भवति यं वा नाध्येति
तस्माद् एव वरुणपाशान् मुच्यते
यद्य् अपरम् प्रतिग्राही स्यात् सौर्यम् एककपालम् अनु निर् वपेत् ।
अमुम् एवाऽऽदित्यम् उच्चारं कुरुते ।
अपो ऽवभृथम् अवैति ।
अप्सु वै वरुणः
साक्षाद् एव वरुणम् अव यजते ।
1 अपोनप्त्रीयं चरुम् पुनर् एत्य निर् वपेत् ।
2 अप्सुयोनिर् वा अश्वः
3 स्वाम् एवैनं योनिं गमयति
4 स एनम्̇ शान्त उप तिष्ठते ॥

2.3.13अनुवाक 13
काम्या इष्टयः। पाप्मना गृहीतस्येष्टिविधिः।

VERSE: 1
या वाम् इन्द्रावरुणा यतव्या तनूस् तयेमम् अम्̇हसो मुञ्चतम् ।
या वाम् इन्द्रावरुणा सहस्या रक्षस्या तेजस्या तनूस् तयेमम् अम्̇हसो मुञ्चतम् ।
यो वाम् इन्द्रावरुणाव् अग्नौ स्रामस् तं वाम् एतेनाव यजे
यो वाम् इन्द्रावरुणा द्विपात्सु पशुषु चतुष्पात्सु गोष्ठे गृहेष्व् अप्स्व् ओषधीषु वनस्पतिषु स्रामस् तं वाम् एतेनाव यजे ।
इन्द्रो वा एतस्य

VERSE: 2
इन्द्रियेणप क्रामति वरुण एनं वरुणपाशेन गृह्णाति यः पाप्मना गृहीतो भवति
यः पाप्मना गृहीतः स्यात् तस्मा एताम् ऐन्द्रावरुणीम् पयस्यां निर् वपेद् इन्द्र एवास्मिन्न् इन्द्रियं दधाति वरुण एनं वरुणपाशान् मुञ्चति
पयस्या भवति पयो हि वा एतस्माद् अपक्रामत्य् अथैष पाप्मना गृहीतो यत् पयस्या भवति पय एवास्मिन् तया दधाति
पयस्यायाम्

VERSE: 3
पुरोडाशम् अव दधात्य् आत्मन्वन्तम् एवैनं करोत्य् अथो आयतनवन्तम् एव
चतुर्धा व्यूहति दिक्ष्व् एव प्रति तिष्ठति
पुनः समूहति दिग्भ्य एवास्मै भेषजं करोति
समूह्याव द्यति यथाऽऽविद्धं निष्कृन्तति तादृग् एव तत् ।
यो वाम् इन्द्रावरुणाव् अग्नौ स्रामस् तं वाम् एतेनाव यज इत्याह दुरिष्ट्या एवैनम् पाति
यो वाम् इन्द्रावरुणा द्विपात्सु पशुषु स्रामस् तं वाम् एतेनाव यज इत्य् आहैतावतीर् वा आप ओषधयो वनस्पतयः प्रजाः पशव उपजीवनीयास् ता एवास्मै वरुणपाशान् मुञ्चति ॥

2.3.14 अनुवाक 14
काम्येष्टियाज्यापुरोनुवाक्याः

VERSE: 1
स प्रत्नवत् ।
नि काव्या ।
इन्द्रं वो विश्वतस् परि ।
इन्द्रं नरः ।
त्वं नः सोम विश्वतो रक्षा राजन्न् अघायतः । न रिष्येत् त्वावतः सखा ॥
या ते धामानि दिवि या पृथिव्यां या पर्वतेष्व् ओषधीष्व् अप्सु । तेभिर् नो विश्वैः सुमना अहेडन् राजन्त् सोम प्रति हव्या गृभाय ॥
अग्नीषोमा सवेदसा सहूती वनतं गिरः । सं देवत्रा बभूवथुः ॥
युवम्

VERSE: 2
एतानि दिवि रोचनान्य् अग्निश् च सोम सक्रतू अधत्तम् । युवम्̇ सिन्धूम्̇र् अभिशस्तेर् अवद्याद् अग्नी षोमाव् अमुञ्चतं गृभीतान् ॥
अग्नीषोमाव् इमम्̇ सु मे शृणुतं वृषणा हवम् । प्रति सूक्तानि हर्यतम् भवतं दाशुषे मयः ॥
आऽन्यं दिवो मातरिश्वा जभाराऽमथ्नाद् अन्यम् परि श्येनो अद्रेः । अग्नीषोमा ब्रह्मणा वावृधानोरुं यज्ञाय चक्रथुर् उ लोकम् ॥
अग्नीषोमा हविषः प्रस्थितस्य वीतम्

VERSE: 3
हर्यतं वृषणा जुषेथाम् । सुशर्माणा स्ववसा हि भूतम् अथा धत्तं यजमानाय शं योः ॥
आ प्यायस्व
सं ते ॥
गणानां त्वा गणपतिम्̇ हवामहे कविं कवीनाम् उपमश्रवस्तमम् । ज्येष्ठराजम् ब्रह्मणाम् ब्रह्मणस् पत आ नः शृण्वन्न् ऊतिभिः सीद सादनम् ॥
स इज् जनेन स विशा स स जन्मना स पुत्रैर् वाजम् भरते धना नृभिः । देवानां यः पितरम् आविवासति ॥

VERSE: 4
श्रद्धामना हविषा ब्रह्मणस् पतिम् ॥
स सुष्टुभा स ऋक्वता गणेन वलम्̇ रुरोज फलिगम्̇ रवेण । बृहस्पतिर् उस्रिया हव्यसूदः कनिक्रदद् वावशतीर् उद् आजत् ॥
मरुतो यद् ध वो दिवः ।
या वः शर्म ॥
अर्यमाऽऽ याति वृषभस् तुविष्मान् दाता वसूनाम् पुरुहूतो अर्हन् । सहस्राक्षो गोत्रभिद् वज्रबाहुर् अस्मासु देवो द्रविणं दधातु ॥
ये ते ऽर्यमन् बहवो देवयानाः पन्थानः

VERSE: 5
राजन् दिव आचरन्ति । तेभिर् नो देव महि शर्म यच्छ शं न एधि द्विपदे शं चतुष्पदे ॥
बुध्नाद् अग्रम् अङ्गिरोभिर् गृणानो वि पर्वतस्य दृम्̇हितान्य् ऐरत् । रुजद् रोधाम्̇सि कृत्रिमाण्य् एषाम्̇ सोमस्य ता मद इन्द्रश् चकार ॥
बुध्नाद् अग्रेण वि मिमाय मानैर् वज्रेण खान्य् अतृणन् नदीनाम् । वृथासृजत् पथिभिर् दीर्घयाथैः सोमस्य ता मद इन्द्रश् चकार ॥

VERSE: 6
प्र यो जज्ञे विद्वाम्̇ अस्य बन्धुं विश्वानि देवो जनिमा विवक्ति । ब्रह्म ब्रह्मण उज् जभार मध्यन् नीचाद् उच्चा स्वधयाऽभि प्र तस्थौ ॥
महान् मही अस्तभायद् वि जातो द्याम्̇ सद्म पार्थिवं च रजः । स बुध्नाद् आष्ट जनुषाभ्य् अग्रम् बृहस्पतिर् देवता यस्य सम्राट् ॥
बुध्नाद् यो अग्रम् अभ्यर्त्योजसा बृहस्पतिम् आ विवासन्ति देवाः । भिनद् वलं वि पुरो दर्दरीति कनिक्रदत् सुवर् अपो जिगाय ॥