प्रमुखा विकल्पसूचिः उद्घाट्यताम्

2.4 प्रपाठक: 4 काम्येष्टिविधानम्

2.4.1अनुवाक 1 काम्या इष्टयः। भ्रातृव्यवत इष्टिविधिः।
1 देवा मनुष्याः पितरस् ते ऽन्यत आसन्न् असुरा रक्षाꣳसि पिशाचास् ते ऽन्यतस् तेषां देवानाम् उत यद् अल्पं लोहितम् अकुर्वन् तद् रक्षाꣳसि रात्रीभिर् असुभ्नन् तान्त् सुब्धान् मृतान् अभि व्यौच्छत् ते देवा अविदुः । यो वै नो ऽयम् म्रियते रक्षाꣳसि वा इमं घ्नन्तीति ते रक्षाꣳस्य् उपामन्त्रयन्त तान्य् अब्रुवन् वरं वृणामहै यत्
2 असुराञ् जयाम तन् नः सहासद् इति ततो वै देवा असुरान् अजयन् ते ऽसुराञ् जित्वा रक्षाꣳस्य् अपानुदन्त तानि रक्षाꣳसि । अनृतम् अकर्तेति समन्तं देवान् पर्य् अविशन् ते देवा अग्नाव् अनाथन्त ते ऽग्नये प्रवते पुरोडाशम् अष्टाकपालं निर् अवपन्न् अग्नये विबाधवते ऽग्नये प्रतीकवते यद् अग्नये प्रवते निरवपन् यान्य् एव पुरस्ताद् रक्षाꣳसि
3 आसन् तानि तेन प्राणुदन्त यद् अग्नये विबाधवते यान्य् एवाभितो रक्षाꣳस्य् आसन् तानि तेन व्यबाधन्त यद् अग्नये प्रतीकवते यान्य् एव पश्चाद् रक्षाꣳस्य् आसन् तानि तेनापानुदन्त ततो देवा अभवन् परासुराः । यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेत । अग्नये प्रवते पुरोडाशम् अष्टाकपालं निर् वपेद् अग्नये विबाधवते
4 अग्नये प्रतीकवते यद् अग्नये प्रवते निर्वपति य एवास्माच् छ्रेयान् भ्रातृव्यस् तं तेन प्र णुदते यद् अग्नये विबाधवते य एवैनेन सदृङ् तं तेन वि बाधते यद् अग्नये प्रतीकवते य एवास्मात् पापीयान् तं तेनाप नुदते प्र श्रेयाꣳसम् भ्रातृव्यं नुदतेति सदृशं क्रामति नैनम् पापीयान् आप्नोति य एवं विद्वान् एतयेष्ट्या यजते ॥

2.4.2 अनुवाक 2 काम्या इष्टयः। विजयार्थेष्टिः
1 देवासुराः संयत्ता आसन् ते देवा अब्रुवन् यो नो वीर्यावत्तमस् तम् अनु समारभामहा इति त इन्द्रम् अब्रुवन् त्वं वै नो वीर्यावत्तमो ऽसि त्वाम् अनु समारभामहा इति सो ऽब्रवीत् तिस्रो म इमास् तनुवो वीर्यावतीस् ताः प्रीणीताथासुरान् अभि भविष्यथेति ता वै ब्रूहीत्य् अब्रुवन् इयम् अꣳहो मुग् इयं विमृधेयम् इन्द्रियावती
2 इत्य् अब्रवीत् त इन्द्रायाꣳहोमुचे पुरोडाशम् एकादशकपालं निर् अवपन्न् इन्द्राय वैमृधायेन्द्रायेन्द्रियावते यद् इन्द्रायाꣳहोमुचे निरवपन्न् अꣳहस एव तेनामुच्यन्त यद् इन्द्राय वैमृधाय मृध एव तेनापाघ्नत यद् इन्द्रायेन्द्रियावत इन्द्रियम् एव तेनात्मन्न् अदधत त्रयस्त्रिꣳशत्कपालम् पुरोडाशं निर् अवपन् त्रयस्त्रिꣳशद् वै देवतास् ता इन्द्र आत्मन्न् अनु समारम्भयत भूत्यै ।
3 तां वाव देवा विजितिम् उत्तमाम् असुरैर् व्यजयन्त यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेतेन्द्रायाꣳहोमुचे पुरोडाशम् एकादशकपालं निर् वपेद् इन्द्राय वैमृधायेन्द्रायेन्द्रियावते । अꣳहसा वा एष गृहीतो यस्माच् छ्रेयान् भ्रातृव्यः । यद् इन्द्रायाꣳहोमुचे निर्वपत्य् अꣳहस एव तेन मुच्यते मृधा वा एषो ऽभिषण्णो यस्मात् समानेष्व् अन्यः श्रेयान् उत
4 अभ्रातृव्यः । यद् इन्द्राय वैमृधाय मृध एव तेनाप हते यद् इन्द्रायेन्द्रियावत इन्द्रियम् एव तेनात्मन् धत्ते त्रयस्त्रिꣳशत्कपालम् पुरोडाशं निर् वपति त्रयस्त्रिꣳशद् वै देवतास् ता एव यजमान आत्मन्न् अनु समारम्भयते भूत्यै सा वा एषा विजितिर् नामेष्टिः । य एवं विद्वान् एतयेष्ट्या यजत उत्तमाम् एव विजितिम् भ्रातृव्येण वि जयते ॥

2.4.3 अनुवाक 3 काम्या इष्टयः। संवर्गेष्टिः।
1 देवासुराः संयत्ता आसन् तेषां गायत्र्य् ओजो बलम् इन्द्रियं वीर्यम् प्रजाम् पशून्त् संगृह्यादायापक्रम्यातिष्ठत् ते ऽमन्यन्त यतरान् वा इयं उपावर्त्स्यति त इदम् भविष्यन्तीति तां व्यह्वयन्त विश्वकर्मन्न् इति देवा दाभीत्य् असुराः सा नान्यतराꣳश् चनोपावर्तत ते देवा एतद् यजुर् अपश्यन् । ओजो ऽसि सहो ऽसि बलम् असि ।
2 भ्राजो ऽसि देवानां धाम नामासि विश्वम् असि विश्वायुः सर्वम् असि सर्वायुर् अभिभूः । इति वाव देवा असुराणाम् ओजो बलम् इन्द्रियं वीर्यम् प्रजाम् पशून् अवृञ्जत यद् गायत्र्य् अपक्रम्यातिष्ठत् तस्माद् एतां गायत्रीतीष्टिम् आहुः सम्वत्सरो वै गायत्री संवत्सरो वै तद् अपक्रम्यातिष्ठत् । यद् एतया देवा असुराणाम् ओजो बलम् इन्द्रियं वीर्यम्
3 प्रजाम् पशून् अवृञ्जत तस्माद् एताꣳ संवर्ग इतीष्टिम् आहुः । यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेत । अग्नये संवर्गाय पुरोडाशम् अष्टाकपालं निर् वपेत् तꣳ शृतम् आसन्नम् एतेन यजुषाभि मृशेत् । ओज एव बलम् इन्द्रियं वीर्यम् प्रजाम् पशून् भ्रातृव्यस्य वृङ्क्ते भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥

2.4.4 अनुवाक 4 काम्या इष्टयः। गार्मुतश्चरुः।
1 प्रजापतिः प्रजा असृजत ता अस्मात् सृष्टाः पराचीर् आयन् ता यत्रावसन् ततो गर्मुद् उद् अतिष्ठत् ता बृहस्पतिश् चान्ववैताम् । सो ऽब्रवीद् बृहस्पतिः । अनया त्वा प्र तिष्ठान्य् अथ त्वा प्रजा उपावर्त्स्यन्तीति तम् प्रातिष्ठत् ततो वै प्रजापतिम् प्रजा उपावर्तन्त यः प्रजाकामः स्यात् तस्मा एतम् प्राजापत्यं गार्मुतं चरुं निर् वपेत् प्रजापतिम्
2 एव स्वेन भागधेयेनोप धावति स एवास्मै प्रजाम् प्र जनयति प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टाः पराञ्च आयन् ते यत्रावसन् ततो गर्मुद् उद् अतिष्ठत् तान् पूषा चान्ववैताम् । सो ऽब्रवीत् पूषा । अनया मा प्र तिष्ठाथ त्वा पशव उपावर्त्स्यन्तीति माम् प्र तिष्ठेति सोमो ऽब्रवीन् मम वै
3 अकृष्टपच्यम् इति । उभौ वाम् प्र तिष्ठानीत्य् अब्रवीत् तौ प्रातिष्ठत् ततो वै प्रजापतिम् पशव उपावर्तन्त यः पशुकामः स्यात् तस्मा एतꣳ सोमापौष्णं गार्मुतं चरुं निर् वपेत् सोमापूषणाव् एव स्वेन भागधेयेनोप धावति ताव् एवास्मै पशून् प्र जनयतः सोमो वै रेतोधाः पूषा पशूनाम् प्रजनयिता सोम एवास्मै रेतो दधाति पूषा पशून् प्र जनयति ॥

2.4.5 अनुवाक 5 काम्या इष्टयः। चित्रायागः।
1 अग्ने गोभिर् न आ गहीन्दो पुष्ट्या जुषस्व नः । इन्द्रो धर्ता गृहेषु नः ॥ सविता यः सहस्रियः स नो गृहेषु रारणत् । आ पूषा एत्व् आ वसु ॥ धाता ददातु नो रयिम् ईशानो जगतस् पतिः । स नः पूर्णेन वावनत् ॥ त्वष्टा यो वृषभो वृषा स नो गृहेषु रारणत् । सहस्रेणायुतेन च ॥ येन देवा अमृतम्
2 दीर्घꣳ श्रवो दिव्य् ऐरयन्त । रायस् पोष त्वम् अस्मभ्यं गवां कुल्मिं जीवस आ युवस्व ॥ अग्निर् गृहपतिः सोमो विश्ववनिः सविता सुमेधाः स्वाहा । अग्ने गृहपते यस् ते घृत्यो भागस् तेन सह ओज आक्रममाणाय धेहि श्रेष्ठ्यात् पथो मा योषं मूर्धा भूयासꣳ स्वाहा ॥

2.4.6 अनुवाक 6 काम्या इष्टयः। चित्रायागः
1 चित्रया यजेत पशुकामः । इयं वै चित्रा यद् वा अस्यां विश्वम् भूतम् अधि प्रजायते तेनेयं चित्रा य एवं विद्वाꣳश् चित्रया पशुकामो यजते प्र प्रजया पशुभिर् मिथुनैर् जायते प्रैवाऽऽग्नेयेन वापयति रेतः सौम्येन दधाति रेत एव हितं त्वष्टा रूपाणि वि करोति सारस्वतौ भवत एतद् वै दैव्यम् मिथुनं दैव्यम् एवास्मै
2 मिथुनम् मध्यतो दधाति पुष्ट्यै प्रजननाय सिनीवाल्यै चरुर् भवति वाग् वै सिनीवाली पुष्टिः खलु वै वाक् पुष्टिम् एव वाचम् उपैति । ऐन्द्र उत्तमो भवति तेनैव तन् मिथुनम् । सप्तैतानि हवीꣳषि भवन्ति सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाꣳसि । उभयस्यावरुद्ध्यै । अथैता आहुतीर् जुहोति । एते वै देवाः पुष्टिपतयस् त एवास्मिन् पुष्टिं दधति पुष्यति प्रजया पशुभिः । त एवास्मिन् पुष्टिं दधति पुष्यति प्रजया पशुभिः । अथो यद् एता आहुतीर् जुहोति प्रतिष्ठित्यै ॥

2.4.7 अनुवाक 7 काम्या इष्टयः। कारीरीष्टिः।
1 मारुतम् असि मरुताम् ओजो ऽपां धाराम् भिन्द्धि रमयत मरुतः श्येनम् आयिनम् मनोजवसं वृषणꣳ सुवृक्तिम् । येन शर्ध उग्रम् अवसृष्टम् एति तद् अश्विना परि धत्तꣳ स्वस्ति । पुरोवातो वर्षञ् जिन्वरावृत् स्वाहा वातावद् वर्षन्न् उग्ररावृत् स्वाहा स्तनयन् वर्षन् भीमरावृत् स्वाहानशन्य् अवस्फूर्जन् दिद्युद् वर्षन् त्वेषरावृत् स्वाहातिरात्रं वर्षन् पूर्तिरावृत्
2 स्वाहा बहु हायम् अवृषाद् इति श्रुतरावृत् स्वाहाऽऽतपति वर्षन् विराड् आवृत् स्वाहावस्फूर्जन् दिद्युद् वर्षन् भूतरावृत् स्वाहा मान्दा वाशाः शुन्ध्यूर् अजिराः । ज्योतिष्मतीस् तमस्वरीर् उन्दतीः सुफेनाः । मित्रभृतः क्षत्रभृतः सुराष्ट्रा इह मावत वृष्णो अश्वस्य संदानम् असि वृष्ट्यै त्वोप नह्यामि ॥

2.4.8 अनुवाक 8 काम्या इष्टयः। कारीर्यां अवशिष्टमन्त्राः
1 देवा वसव्या अग्ने सोम सूर्य । देवाः शर्मण्या मित्रावरुणाऽर्यमन् । देवाः सपीतयो ऽपां नपाद् आशुहेमन् । उद्नो दत्तोदधिम् भिन्त्त दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याऽवत॥ दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । पृथिवीं यद् व्युन्दन्ति ॥ आ यं नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः । वि पर्जन्याः सृजन्ति रोदसी अनु धन्वना यन्ति
2 वृष्टयः ॥ उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा अवृत्सत ॥ सृजा वृष्टिं दिव आऽद्भिः समुद्रम् पृण । अब्जा असि प्रथमजा बलम् असि समुद्रियम् ॥ उन् नम्भय पृथिवीम् भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् ॥ ये देवा दिविभागा ये ऽन्तरिक्षभागा ये पृथिविभागाः । त इमं यज्ञम् अवन्तु त इदं क्षेत्रम् आ विशन्तु त इदं क्षेत्रम् अनु वि विशन्तु ॥

2.4.9 अनुवाक 9 काम्या इष्टयः। सप्तमानुवाकोक्त मन्त्राणां व्याख्यानम्
1 मारुतम् असि मरुताम् ओज इति कृष्णं वासः कृष्णतूषम् परि धत्ते । एतद् वै वृष्ट्यै रूपम् । सरूप एव भूत्वा पर्जन्यं वर्षयति रमयत मरुतः श्येनमायिनम् इति पश्चाद्वातम् प्रति मीवति पुरोवातम् एव जनयति वर्षस्यावरुद्ध्यै वातनामानि जुहोति वायुर् वै वृष्ट्या ईशे वायुम् एव स्वेन भागधेयेनोप धावति स एवास्मै पर्जन्यं वर्षयति । अष्टौ
2 जुहोति चतस्रो वै दिशश् चतस्रो ऽवान्तरदिशाः । दिग्भ्य एव वृष्टिꣳ सम् प्र च्यावयति कृष्णाजिने सं यौति हविर् एवाकर् अन्तर्वेदि सं यौति । अवरुद्ध्यै यतीनाम् अद्यमानानाꣳ शीर्षाणि परापतन् ते खर्जूरा अभवन् तेषाꣳ रस ऊर्ध्वो ऽपतत् तानि करीराण्य् अभवन् । सौम्यानि वै करीराणि सौम्या खलु वा आहुतिर् दिवो वृष्टिं च्यावयति यत् करीराणि भवन्ति ।
3 सौम्ययैवाहुत्या दिवो वृष्टिम् अव रुन्द्धे मधुषा सं यौति । अपां वा एष ओषधीनाꣳ रसो यन् मधु । अद्भ्य एवौषधीभ्यो वर्षति । अथो अद्भ्य एवौषधीभ्यो वृष्टिं नि नयति मान्दा वाशा इति सं यौति नामधेयैर् एवैना अच्छैति । अथो यथा ब्रूयात् । असाव् एहीत्य् एवम् एवैना नामधेयैर् आ
4 च्यावयति वृष्णो अश्वस्य संदानम् असि वृष्ट्यै त्वोप नह्यामीत्य् आह वृषा वा अश्वः । वृषा पर्जन्यः कृष्ण इव खलु वै भूत्वा वर्षति रूपेणैवैनꣳ सम् अर्धयति वर्षस्यावरुद्ध्यै ॥

2.4.10अनुवाक 10 काम्या इष्टयः। कारीर्यां उत्तरभागस्थ मन्त्राणां व्याख्यानम्
1 देवा वसव्याः । देवा शर्मण्याः । देवाः सपीतय इत्य् आ बध्नाति देवताभिर् एवान्वहं वृष्टिम् इच्छति यदि वर्षेत् तावत्य् एव होतव्यम् । यदि न वर्षेच् छ्वो भूते हविर् निर् वपेत् । अहोरात्रे वै मित्रावरुणौ । अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति नक्तं वा हि दिवा वा वर्षति मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति ताव् एवास्मै
2 अहोरात्राभ्याम् पर्जन्यं वर्षयतः । अग्नये धामच्छदे पुरोडाशम् अष्टाकपालं निर् वपेन् मारुतꣳ सप्तकपालꣳ सौर्यम् एककपालम् अग्निर् वा इतो वृष्टिम् उद् ईरयति मरुतः सृष्टां नयन्ति यदा खलु वा असाव् आदित्यो न्यङ् रश्मिभिः पर्यावर्तते ऽथ वर्षति धामच्छद् इव खलु वै भूत्वा वर्षति । एता वै देवता वृष्ट्या ईशते ता एव स्वेन भागधेयेनोप धावति ताः
3 एवास्मै पर्जन्यं वर्षयन्ति । उतावर्षिष्यन् वर्षत्य् एव सृजा वृष्टिं दिव आद्भिः समुद्रम् पृणेत्य् आह । इमाश् चैवामूश् चापः सम् अर्धयति । अथो आभिर् एवामूर् अच्छैति । अब्जा असि प्रथमजा बलम् असि समुद्रियम् इत्य् आह यथायजुर् एवैतत् । उन् नम्भय पृथिवीम् इति वर्षाह्वां जुहोति । एषा वा ओषधीनां वृष्टिवनिस् तयैव वृष्टिम् आ च्यावयति ये देवा दिविभागा इति कृष्णाजिनम् अव धूनोति । इम एवास्मै लोकाः प्रीता अभीष्टा भवन्ति ॥

2.4.11 अनुवाक 11 काम्या इष्टयः। त्रैधातवीयेष्टिः।
1 सर्वाणि छन्दाꣳस्य् एतस्याम् इष्ट्याम् अनूच्यानीत्य् आहुस् त्रिष्टुभो वा एतद् वीर्यं यत् ककुद् उष्णिहा जगत्यै यद् उष्णिहककुभाव् अन्वाह तेनैव सर्वाणि छन्दाꣳस्य् अव रुन्द्धे गायत्री वा एषा यद् उष्णिहा यानि चत्वार्य् अध्य् अक्षराणि चतुष्पाद एव ते पशवः । यथा पुरोडाशे पुरोडाशो ऽध्य् एवम् एव तद् यद् ऋच्य् अध्य् अक्षराणि यज् जगत्या
2 परिदध्याद् अन्तं यज्ञं गमयेत् त्रिष्टुभा परि दधाति । इन्द्रियं वै वीर्यं त्रिष्टुग् इन्द्रिय एव वीर्ये यज्ञम् प्रति ष्ठापयति नान्तं गमयति । अग्ने त्री ते वाजिना त्री षधस्थेति त्रिवत्या परि दधाति सरूपत्वाय सर्वो वा एष यज्ञो यत् त्रैधातवीयम् । कामायकामाय प्र युज्यते सर्वेभ्यो हि कामेभ्यो यज्ञः प्रयुज्यते त्रैधातवीयेन यजेताभिचरन् । सर्वो वै
3 एष यज्ञो यत् त्रैधातवीयम् । सर्वेणैवैनं यज्ञेनाभि चरति स्तृणुत एवैनम् एतयैव यजेताभिचर्यमाणः सर्वो वा एष यज्ञो यत् त्रैधातवीयम् । सर्वेणैव यज्ञेन यजते नैनम् अभिचरन्त् स्तृणुते । एतयैव यजेत सहस्रेण यक्ष्यमाणः प्रजातम् एवैनद् ददाति । एतयैव यजेत सहस्रेणेजानः । अन्तं वा एष पशूनां गच्छति
4 यः सहस्रेण यजते प्रजापतिः खलु वै पशून् असृजत ताꣳस् त्रैधातवीयेनैवासृजत य एवं विद्वाꣳस् त्रैधातवीयेन पशुकामो यजते यस्माद् एव योनेः प्रजापतिः पशून् असृजत तस्माद् एवैनान्त् सृजत उपैनम् उत्तरꣳ सहस्रं नमति देवताभ्यो वा एष आ वृश्च्यते यो यक्ष्य इत्य् उक्त्वा न यजते त्रैधातवीयेन यजेत सर्वो वा एष यज्ञः
5 यत् त्रैधातवीयम् । सर्वेणैव यज्ञेन यजते न देवताभ्य आ वृश्च्यते द्वादशकपालः पुरोडाशो भवति ते त्रयश् चतुष्कपालास् त्रिष्षमृद्धत्वाय त्रयः पुरोडाशा भवन्ति त्रय इमे लोकाः । एषां लोकानाम् आप्त्यै । उत्तरौत्तरो ज्यायान् भवति । एवम् इव हीमे लोकाः । यवमयो मध्यः । एतद् वा अन्तरिक्षस्य रूपम् । समृद्ध्यै सर्वेषाम् अभिगमयन्न् अव द्यति । अच्छम्बट्कारम् । हिरण्यं ददाति तेज एव
6 अव रुन्द्धे तार्प्यं ददाति पशून् एवाव रुन्द्धे धेनुं ददाति । आशिष एवाव रुन्द्धे साम्नो वा एष वर्णो यद् धिरण्यम् । यजुषां तार्प्यम् उक्थामदानां धेनुः । एतान् एव सर्वान् वर्णान् अव रुन्द्धे ॥

2.4.12 अनुवाक 12 काम्या इष्टयः। त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्रदक्षिणयोर्विधिः।
1 त्वष्टा हतपुत्रो वीन्द्रꣳ सोमम् आऽऽहरत् तस्मिन्न् इन्द्र उपहवम् ऐच्छत तं नोपाह्वयत पुत्रम् मे ऽवधीर् इति स यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत् तस्य यद् अत्यशिष्यत तत् त्वष्टाऽऽहवनीयम् उप प्रावर्तयत् स्वाहेन्द्रशत्रुर् वर्धस्वेति स यावद् ऊर्ध्वः पराविध्यति तावति स्वयम् एव व्यरमत यदि वा तावत् प्रवणम्
2 आसीत् यदि वा तावद् अध्य् अग्नेर् आसीत् स सम्भवन्न् अग्नीषोमाव् अभि सम् अभवत् स इषुमात्रं विष्वङ्ङ् अवर्धत स इमाँल्लोकान् अवृणोत् । यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम् । तस्माद् इन्द्रो ऽबिभेत् । अपि त्वष्टा तस्मै त्वष्टा वज्रम् असिञ्चत् तपो वै स वज्र आसीत् तम् उद्यन्तुं नाशक्नोत् । अथ वै तर्हि विष्णुः
3 अन्या देवतासीत् सो ऽब्रवीत् । विष्णव् एहीदम् आ हरिष्यावो येनायम् इदम् इति स विष्णुस् त्रेधात्मानं वि न्य् अधत्त पृथिव्यां तृतीयम् अन्तरिक्षे तृतीयं दिवि तृतीयम् अभिपर्यावर्ताद् ध्य् अबिभेत् । यत् पृथिव्यां तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः सो ऽब्रवीत् । मा मे प्र हार् अस्ति वा इदम्
4 मयि वीर्यं तत् ते प्र दास्यामीति तद् अस्मै प्रायच्छत् तत् प्रत्य् अगृह्णात् । अधा मेति तद् विष्णवेति प्रायच्छत् तद् विष्णुः प्रत्य् अगृह्णात् । अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति यद् अन्तरिक्षे तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः सो ऽब्रवीत् । मा मे प्र हार् अस्ति वा इदम्
5 मयि वीर्यं तत् ते प्र दास्यामीति तद् अस्मै प्रायच्छत् तत् प्रत्य् अगृह्णात् । द्विर् माऽधा इति तद् विष्णवेति प्रायच्छत् तद् विष्णुः प्रत्य् अगृह्णात् । अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति यद् दिवि तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः सो ऽब्रवीत् । मा मे प्र हार् येनाहम्
6 इदम् अस्मि तत् ते प्र दास्यामीति त्वी3 इत्य् अब्रवीत् संधां तु सं दधावहै त्वाम् एव प्र विशानीति यन् माम् प्रविशेः किम् मा भुञ्ज्या इत्य् अब्रवीत् त्वाम् एवेन्धीय तव भोगाय त्वाम् प्र विशेयम् इत्य् अब्रवीत् तम् वृत्रः प्राविशत् । उदरं वै वृत्रः क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः । य
7 एवं वेद हन्ति क्षुधम् भ्रातृव्यम् । तद् अस्मै प्रायच्छत् तत् प्रत्य् अगृह्णात् त्रिर् माऽधा इति तद् विष्णवेति प्रा यच्छत् तद् विष्णुः प्रत्य् अगृह्णाद् अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति यत् त्रिः प्रायच्छत् त्रिः प्रत्यगृह्णात् तत् त्रिधातोस् त्रिधातुत्वम् । यद् विष्णुर् अन्वतिष्ठत विष्णवेति प्रायच्छत् तस्माद् ऐन्द्रावैष्णवꣳ हविर् भवति
यद् वा इदं किं च तद् अस्मै तत् प्रायच्छद् ऋचः सामानि यजूꣳषि सहस्रं वा अस्मै तत् प्रायच्छत् तस्मात् सहस्रदक्षिणम् ॥

2.4.13 अनुवाक 13 काम्या इष्टयः। ऐन्द्राबार्हस्पत्यचरुविधिः।
1 देवा वै राजन्याज् जायमानाद् अबिभयुस् तम् अन्तर् एव सन्तं दाम्नापौम्भन् । स वा एषो ऽपोब्धो जायते यद् राजन्यः । यद् वा एषो ऽनपोब्धो जायेत वृत्रान् घ्नꣳश् चरेत् । यं कामयेत राजन्यम् अनपोब्धो जायेत वृत्रान् घ्नꣳश् चरेद् इति तस्मा एतम् ऐन्द्राबार्हस्पत्यं चरुं निर् वपेत् । ऐन्द्रो वै राजन्यो ब्रह्म बृहस्पतिः । ब्रह्मणैवैनं दाम्नो ऽपोम्भनान् मुञ्चति हिरण्मयं दाम दक्षिणा साक्षाद् एवैनं दाम्नो ऽपोम्भनान् मुञ्चति ॥

2.4.14 अनुवाक 14 काम्येष्टियाज्यापुरोनुवाक्याः
1 नवोनवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रे । भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरति दीर्घम् आयुः ॥ यम् आदित्या अꣳशुम् आप्याययन्ति यम् अक्षितम् अक्षितयः पिबन्ति । तेन नो राजा वरुणो बृहस्पतिर् आ प्याययन्तु भुवनस्य गोपाः ॥ प्राच्यां दिशि त्वम् इन्द्रासि राजोतोदीच्यां वृत्रहन् वृत्रहासि । यत्र यन्ति स्रोत्यास् तत्
2 जितं ते दक्षिणतो वृषभ एधि हव्यः । इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयाति । विश्वा हि भूयाः पृतना अभिष्टीर् उपसद्यो नमस्यो यथासत् ॥ अस्येद् एव प्र रिरिचे महित्वं दिवः पृथिव्याः पर्य् अन्तरिक्षात् । स्वराड् इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय । अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । ईशानम्
3 अस्य जगतः सुवर्दृशम् ईशानम् इन्द्र तस्थुषः ॥ त्वाम् इद् धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥ यद् द्याव इन्द्र ते शतꣳ शतम् भूमीर् उत स्युः । न त्वा वज्रिन्त् सहस्रꣳ सूर्या अनु न जातम् अष्ट रोदसी ॥ पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।
4 सोतुर् बाहुभ्याꣳ सुयतो नार्वा ॥ रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥ उद् अग्ने शुचयस् तव । वि ज्योतिषा । उद् उ त्यं जातवेदसम् । सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥ चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस् तस्थुषः
5 च ॥ विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः । जुषन्तां युज्यम् पयः ॥ विश्वे देवाः शृणुतेमꣳ हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥  


2.4.1अनुवाक 1
काम्या इष्टयः। भ्रातृव्यवत इष्टिविधिः।

1
देवा मनुष्याः पितरस् ते ऽन्यत आसन्न् असुरा रक्षाꣳसि पिशाचास् ते ऽन्यतस्
तेषां देवानाम् उत यद् अल्पं लोहितम् अकुर्वन् तद् रक्षाꣳसि रात्रीभिर् असुभ्नन्
तान्त् सुब्धान् मृतान् अभि व्यौच्छत्
ते देवा अविदुः ।
यो वै नो ऽयम् म्रियते रक्षाꣳसि वा इमं घ्नन्तीति
ते रक्षाꣳस्य् उपामन्त्रयन्त तान्य् अब्रुवन्
वरं वृणामहै यत्

2
असुराञ् जयाम तन् नः सहासद् इति
ततो वै देवा असुरान् अजयन्
ते ऽसुराञ् जित्वा रक्षाꣳस्य् अपानुदन्त
तानि रक्षाꣳसि ।
अनृतम् अकर्तेति समन्तं देवान् पर्य् अविशन्
ते देवा अग्नाव् अनाथन्त
ते ऽग्नये प्रवते पुरोडाशम् अष्टाकपालं निर् अवपन्न् अग्नये विबाधवते ऽग्नये प्रतीकवते
यद् अग्नये प्रवते निरवपन् यान्य् एव पुरस्ताद् रक्षाꣳसि

3
आसन् तानि तेन प्राणुदन्त
यद् अग्नये विबाधवते यान्य् एवाभितो रक्षाꣳस्य् आसन् तानि तेन व्यबाधन्त
यद् अग्नये प्रतीकवते यान्य् एव पश्चाद् रक्षाꣳस्य् आसन् तानि तेनापानुदन्त
ततो देवा अभवन् परासुराः ।
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेत ।
अग्नये प्रवते पुरोडाशम् अष्टाकपालं निर् वपेद् अग्नये विबाधवते

4
अग्नये प्रतीकवते
यद् अग्नये प्रवते निर्वपति य एवास्माच् छ्रेयान् भ्रातृव्यस् तं तेन प्र णुदते
यद् अग्नये विबाधवते य एवैनेन सदृङ् तं तेन वि बाधते
यद् अग्नये प्रतीकवते य एवास्मात् पापीयान् तं तेनाप नुदते
प्र श्रेयाꣳसम् भ्रातृव्यं नुदतेति सदृशं क्रामति नैनम् पापीयान् आप्नोति य एवं विद्वान् एतयेष्ट्या यजते ॥

2.4.2 अनुवाक 2
काम्या इष्टयः। विजयार्थेष्टिः

1
देवासुराः संयत्ता आसन्
ते देवा अब्रुवन्
यो नो वीर्यावत्तमस् तम् अनु समारभामहा इति
त इन्द्रम् अब्रुवन्
त्वं वै नो वीर्यावत्तमो ऽसि त्वाम् अनु समारभामहा इति
सो ऽब्रवीत्
तिस्रो म इमास् तनुवो वीर्यावतीस् ताः प्रीणीताथासुरान् अभि भविष्यथेति
ता वै ब्रूहीत्य् अब्रुवन्
इयम् अꣳहो मुग् इयं विमृधेयम् इन्द्रियावती

2
इत्य् अब्रवीत्
त इन्द्रायाꣳहोमुचे पुरोडाशम् एकादशकपालं निर् अवपन्न् इन्द्राय वैमृधायेन्द्रायेन्द्रियावते
यद् इन्द्रायाꣳहोमुचे निरवपन्न् अꣳहस एव तेनामुच्यन्त
यद् इन्द्राय वैमृधाय मृध एव तेनापाघ्नत
यद् इन्द्रायेन्द्रियावत इन्द्रियम् एव तेनात्मन्न् अदधत
त्रयस्त्रिꣳशत्कपालम् पुरोडाशं निर् अवपन्
त्रयस्त्रिꣳशद् वै देवतास् ता इन्द्र आत्मन्न् अनु समारम्भयत भूत्यै ।

3
तां वाव देवा विजितिम् उत्तमाम् असुरैर् व्यजयन्त
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेतेन्द्रायाꣳहोमुचे पुरोडाशम् एकादशकपालं निर् वपेद् इन्द्राय वैमृधायेन्द्रायेन्द्रियावते ।
अꣳहसा वा एष गृहीतो यस्माच् छ्रेयान् भ्रातृव्यः ।
यद् इन्द्रायाꣳहोमुचे निर्वपत्य् अꣳहस एव तेन मुच्यते
मृधा वा एषो ऽभिषण्णो यस्मात् समानेष्व् अन्यः श्रेयान् उत

4
अभ्रातृव्यः ।
यद् इन्द्राय वैमृधाय मृध एव तेनाप हते
यद् इन्द्रायेन्द्रियावत इन्द्रियम् एव तेनात्मन् धत्ते
त्रयस्त्रिꣳशत्कपालम् पुरोडाशं निर् वपति
त्रयस्त्रिꣳशद् वै देवतास्
ता एव यजमान आत्मन्न् अनु समारम्भयते भूत्यै
सा वा एषा विजितिर् नामेष्टिः ।
य एवं विद्वान् एतयेष्ट्या यजत उत्तमाम् एव विजितिम् भ्रातृव्येण वि जयते ॥

2.4.3 अनुवाक 3
काम्या इष्टयः। संवर्गेष्टिः।

1
देवासुराः संयत्ता आसन्
तेषां गायत्र्य् ओजो बलम् इन्द्रियं वीर्यम् प्रजाम् पशून्त् संगृह्यादायापक्रम्यातिष्ठत्
ते ऽमन्यन्त
यतरान् वा इयं उपावर्त्स्यति त इदम् भविष्यन्तीति
तां व्यह्वयन्त विश्वकर्मन्न् इति देवा दाभीत्य् असुराः
सा नान्यतराꣳश् चनोपावर्तत
ते देवा एतद् यजुर् अपश्यन् ।
ओजो ऽसि सहो ऽसि बलम् असि ।

2
भ्राजो ऽसि देवानां धाम नामासि विश्वम् असि विश्वायुः सर्वम् असि सर्वायुर् अभिभूः ।
इति वाव देवा असुराणाम् ओजो बलम् इन्द्रियं वीर्यम् प्रजाम् पशून् अवृञ्जत
यद् गायत्र्य् अपक्रम्यातिष्ठत् तस्माद् एतां गायत्रीतीष्टिम् आहुः
सम्वत्सरो वै गायत्री
संवत्सरो वै तद् अपक्रम्यातिष्ठत् ।
यद् एतया देवा असुराणाम् ओजो बलम् इन्द्रियं वीर्यम्

3
प्रजाम् पशून् अवृञ्जत तस्माद् एताꣳ संवर्ग इतीष्टिम् आहुः ।
यो भ्रातृव्यवान्त् स्यात् स स्पर्धमान एतयेष्ट्या यजेत ।
अग्नये संवर्गाय पुरोडाशम् अष्टाकपालं निर् वपेत्
तꣳ शृतम् आसन्नम् एतेन यजुषाभि मृशेत् ।
ओज एव बलम् इन्द्रियं वीर्यम् प्रजाम् पशून् भ्रातृव्यस्य वृङ्क्ते
भवत्य् आत्मना परास्य भ्रातृव्यो भवति ॥

2.4.4 अनुवाक 4
काम्या इष्टयः। गार्मुतश्चरुः।

1
प्रजापतिः प्रजा असृजत
ता अस्मात् सृष्टाः पराचीर् आयन्
ता यत्रावसन् ततो गर्मुद् उद् अतिष्ठत्
ता बृहस्पतिश् चान्ववैताम् ।
सो ऽब्रवीद् बृहस्पतिः ।
अनया त्वा प्र तिष्ठान्य् अथ त्वा प्रजा उपावर्त्स्यन्तीति
तम् प्रातिष्ठत्
ततो वै प्रजापतिम् प्रजा उपावर्तन्त
यः प्रजाकामः स्यात् तस्मा एतम् प्राजापत्यं गार्मुतं चरुं निर् वपेत्
प्रजापतिम्

2
एव स्वेन भागधेयेनोप धावति
स एवास्मै प्रजाम् प्र जनयति
प्रजापतिः पशून् असृजत ते ऽस्मात् सृष्टाः पराञ्च आयन्
ते यत्रावसन् ततो गर्मुद् उद् अतिष्ठत्
तान् पूषा चान्ववैताम् ।
सो ऽब्रवीत् पूषा ।
अनया मा प्र तिष्ठाथ त्वा पशव उपावर्त्स्यन्तीति
माम् प्र तिष्ठेति सोमो ऽब्रवीन् मम वै

3
अकृष्टपच्यम् इति ।
उभौ वाम् प्र तिष्ठानीत्य् अब्रवीत्
तौ प्रातिष्ठत्
ततो वै प्रजापतिम् पशव उपावर्तन्त
यः पशुकामः स्यात् तस्मा एतꣳ सोमापौष्णं गार्मुतं चरुं निर् वपेत्
सोमापूषणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै पशून् प्र जनयतः
सोमो वै रेतोधाः
पूषा पशूनाम् प्रजनयिता
सोम एवास्मै रेतो दधाति पूषा पशून् प्र जनयति ॥

2.4.5 अनुवाक 5
काम्या इष्टयः। चित्रायागः।

1
अग्ने गोभिर् न आ गहीन्दो पुष्ट्या जुषस्व नः । इन्द्रो धर्ता गृहेषु नः ॥
सविता यः सहस्रियः स नो गृहेषु रारणत् । आ पूषा एत्व् आ वसु ॥
धाता ददातु नो रयिम् ईशानो जगतस् पतिः । स नः पूर्णेन वावनत् ॥
त्वष्टा यो वृषभो वृषा स नो गृहेषु रारणत् । सहस्रेणायुतेन च ॥
येन देवा अमृतम्

2
दीर्घꣳ श्रवो दिव्य् ऐरयन्त । रायस् पोष त्वम् अस्मभ्यं गवां कुल्मिं जीवस आ युवस्व ॥
अग्निर् गृहपतिः सोमो विश्ववनिः सविता सुमेधाः स्वाहा ।
अग्ने गृहपते यस् ते घृत्यो भागस् तेन सह ओज आक्रममाणाय धेहि श्रेष्ठ्यात् पथो मा योषं मूर्धा भूयासꣳ स्वाहा ॥

2.4.6 अनुवाक 6
काम्या इष्टयः। चित्रायागः

1
चित्रया यजेत पशुकामः ।
इयं वै चित्रा
यद् वा अस्यां विश्वम् भूतम् अधि प्रजायते तेनेयं चित्रा
य एवं विद्वाꣳश् चित्रया पशुकामो यजते प्र प्रजया पशुभिर् मिथुनैर् जायते
प्रैवाऽऽग्नेयेन वापयति
रेतः सौम्येन दधाति
रेत एव हितं त्वष्टा रूपाणि वि करोति
सारस्वतौ भवत एतद् वै दैव्यम् मिथुनं दैव्यम् एवास्मै

2
मिथुनम् मध्यतो दधाति पुष्ट्यै प्रजननाय
सिनीवाल्यै चरुर् भवति वाग् वै सिनीवाली पुष्टिः खलु वै वाक् पुष्टिम् एव वाचम् उपैति ।
ऐन्द्र उत्तमो भवति तेनैव तन् मिथुनम् ।
सप्तैतानि हवीꣳषि भवन्ति
सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाꣳसि ।
उभयस्यावरुद्ध्यै ।
अथैता आहुतीर् जुहोति ।
एते वै देवाः पुष्टिपतयस्
त एवास्मिन् पुष्टिं दधति
पुष्यति प्रजया पशुभिः ।
त एवास्मिन् पुष्टिं दधति
पुष्यति प्रजया पशुभिः ।
अथो यद् एता आहुतीर् जुहोति प्रतिष्ठित्यै ॥

2.4.7 अनुवाक 7
काम्या इष्टयः। कारीरीष्टिः।

1
मारुतम् असि मरुताम् ओजो ऽपां धाराम् भिन्द्धि
रमयत मरुतः श्येनम् आयिनम् मनोजवसं वृषणꣳ सुवृक्तिम् । येन शर्ध उग्रम् अवसृष्टम् एति तद् अश्विना परि धत्तꣳ स्वस्ति ।
पुरोवातो वर्षञ् जिन्वरावृत् स्वाहा वातावद् वर्षन्न् उग्ररावृत् स्वाहा स्तनयन् वर्षन् भीमरावृत् स्वाहानशन्य् अवस्फूर्जन् दिद्युद् वर्षन् त्वेषरावृत् स्वाहातिरात्रं वर्षन् पूर्तिरावृत्

2
स्वाहा बहु हायम् अवृषाद् इति श्रुतरावृत् स्वाहाऽऽतपति वर्षन् विराड् आवृत् स्वाहावस्फूर्जन् दिद्युद् वर्षन् भूतरावृत् स्वाहा
मान्दा वाशाः शुन्ध्यूर् अजिराः । ज्योतिष्मतीस् तमस्वरीर् उन्दतीः सुफेनाः । मित्रभृतः क्षत्रभृतः सुराष्ट्रा इह मावत
वृष्णो अश्वस्य संदानम् असि वृष्ट्यै त्वोप नह्यामि ॥

2.4.8 अनुवाक 8
काम्या इष्टयः। कारीर्यां अवशिष्टमन्त्राः

1
देवा वसव्या अग्ने सोम सूर्य । देवाः शर्मण्या मित्रावरुणाऽर्यमन् । देवाः सपीतयो ऽपां नपाद् आशुहेमन् । उद्नो दत्तोदधिम् भिन्त्त दिवः पर्जन्याद् अन्तरिक्षात् पृथिव्यास् ततो नो वृष्ट्याऽवत॥
दिवा चित् तमः कृण्वन्ति पर्जन्येनोदवाहेन । पृथिवीं यद् व्युन्दन्ति ॥
आ यं नरः सुदानवो ददाशुषे दिवः कोशम् अचुच्यवुः । वि पर्जन्याः सृजन्ति रोदसी अनु धन्वना यन्ति

2
वृष्टयः ॥
उद् ईरयथा मरुतः समुद्रतो यूयं वृष्टिं वर्षयथा पुरीषिणः । न वो दस्रा उप दस्यन्ति धेनवः शुभं याताम् अनु रथा अवृत्सत ॥
सृजा वृष्टिं दिव आऽद्भिः समुद्रम् पृण । अब्जा असि प्रथमजा बलम् असि समुद्रियम् ॥
उन् नम्भय पृथिवीम् भिन्द्धीदं दिव्यं नभः । उद्नो दिव्यस्य नो देहीशानो वि सृजा दृतिम् ॥
ये देवा दिविभागा ये ऽन्तरिक्षभागा ये पृथिविभागाः । त इमं यज्ञम् अवन्तु त इदं क्षेत्रम् आ विशन्तु त इदं क्षेत्रम् अनु वि विशन्तु ॥

2.4.9 अनुवाक 9
काम्या इष्टयः। सप्तमानुवाकोक्त मन्त्राणां व्याख्यानम्

1
मारुतम् असि मरुताम् ओज इति कृष्णं वासः कृष्णतूषम् परि धत्ते ।
एतद् वै वृष्ट्यै रूपम् ।
सरूप एव भूत्वा पर्जन्यं वर्षयति
रमयत मरुतः श्येनमायिनम् इति पश्चाद्वातम् प्रति मीवति पुरोवातम् एव जनयति वर्षस्यावरुद्ध्यै
वातनामानि जुहोति
वायुर् वै वृष्ट्या ईशे
वायुम् एव स्वेन भागधेयेनोप धावति
स एवास्मै पर्जन्यं वर्षयति ।
अष्टौ

2
जुहोति
चतस्रो वै दिशश् चतस्रो ऽवान्तरदिशाः ।
दिग्भ्य एव वृष्टिꣳ सम् प्र च्यावयति
कृष्णाजिने सं यौति
हविर् एवाकर्
अन्तर्वेदि सं यौति ।
अवरुद्ध्यै
यतीनाम् अद्यमानानाꣳ शीर्षाणि परापतन्
ते खर्जूरा अभवन्
तेषाꣳ रस ऊर्ध्वो ऽपतत्
तानि करीराण्य् अभवन् ।
सौम्यानि वै करीराणि
सौम्या खलु वा आहुतिर् दिवो वृष्टिं च्यावयति
यत् करीराणि भवन्ति ।

3
सौम्ययैवाहुत्या दिवो वृष्टिम् अव रुन्द्धे
मधुषा सं यौति ।
अपां वा एष ओषधीनाꣳ रसो यन् मधु ।
अद्भ्य एवौषधीभ्यो वर्षति ।
अथो अद्भ्य एवौषधीभ्यो वृष्टिं नि नयति
मान्दा वाशा इति सं यौति
नामधेयैर् एवैना अच्छैति ।
अथो यथा ब्रूयात् ।
असाव् एहीत्य् एवम् एवैना नामधेयैर् आ

4
च्यावयति
वृष्णो अश्वस्य संदानम् असि वृष्ट्यै त्वोप नह्यामीत्य् आह
वृषा वा अश्वः ।
वृषा पर्जन्यः
कृष्ण इव खलु वै भूत्वा वर्षति
रूपेणैवैनꣳ सम् अर्धयति
वर्षस्यावरुद्ध्यै ॥

2.4.10अनुवाक 10
काम्या इष्टयः। कारीर्यां उत्तरभागस्थ मन्त्राणां व्याख्यानम्

1
देवा वसव्याः ।
देवा शर्मण्याः ।
देवाः सपीतय इत्य् आ बध्नाति देवताभिर् एवान्वहं वृष्टिम् इच्छति
यदि वर्षेत् तावत्य् एव होतव्यम् ।
यदि न वर्षेच् छ्वो भूते हविर् निर् वपेत् ।
अहोरात्रे वै मित्रावरुणौ ।
अहोरात्राभ्यां खलु वै पर्जन्यो वर्षति
नक्तं वा हि दिवा वा वर्षति
मित्रावरुणाव् एव स्वेन भागधेयेनोप धावति
ताव् एवास्मै

2
अहोरात्राभ्याम् पर्जन्यं वर्षयतः ।
अग्नये धामच्छदे पुरोडाशम् अष्टाकपालं निर् वपेन् मारुतꣳ सप्तकपालꣳ सौर्यम् एककपालम्
अग्निर् वा इतो वृष्टिम् उद् ईरयति
मरुतः सृष्टां नयन्ति
यदा खलु वा असाव् आदित्यो न्यङ् रश्मिभिः पर्यावर्तते ऽथ वर्षति धामच्छद् इव खलु वै भूत्वा वर्षति ।
एता वै देवता वृष्ट्या ईशते ता एव स्वेन भागधेयेनोप धावति
ताः

3
एवास्मै पर्जन्यं वर्षयन्ति ।
उतावर्षिष्यन् वर्षत्य् एव
सृजा वृष्टिं दिव आद्भिः समुद्रम् पृणेत्य् आह ।
इमाश् चैवामूश् चापः सम् अर्धयति ।
अथो आभिर् एवामूर् अच्छैति ।
अब्जा असि प्रथमजा बलम् असि समुद्रियम् इत्य् आह
यथायजुर् एवैतत् ।
उन् नम्भय पृथिवीम् इति वर्षाह्वां जुहोति ।
एषा वा ओषधीनां वृष्टिवनिस्
तयैव वृष्टिम् आ च्यावयति
ये देवा दिविभागा इति कृष्णाजिनम् अव धूनोति ।
इम एवास्मै लोकाः प्रीता अभीष्टा भवन्ति ॥

2.4.11 अनुवाक 11
काम्या इष्टयः। त्रैधातवीयेष्टिः।

1
सर्वाणि छन्दाꣳस्य् एतस्याम् इष्ट्याम् अनूच्यानीत्य् आहुस्
त्रिष्टुभो वा एतद् वीर्यं यत् ककुद् उष्णिहा जगत्यै
यद् उष्णिहककुभाव् अन्वाह तेनैव सर्वाणि छन्दाꣳस्य् अव रुन्द्धे
गायत्री वा एषा यद् उष्णिहा
यानि चत्वार्य् अध्य् अक्षराणि चतुष्पाद एव ते पशवः ।
यथा पुरोडाशे पुरोडाशो ऽध्य् एवम् एव तद् यद् ऋच्य् अध्य् अक्षराणि
यज् जगत्या

2
परिदध्याद् अन्तं यज्ञं गमयेत्
त्रिष्टुभा परि दधाति ।
इन्द्रियं वै वीर्यं त्रिष्टुग्
इन्द्रिय एव वीर्ये यज्ञम् प्रति ष्ठापयति नान्तं गमयति ।
अग्ने त्री ते वाजिना त्री षधस्थेति त्रिवत्या परि दधाति
सरूपत्वाय
सर्वो वा एष यज्ञो यत् त्रैधातवीयम् ।
कामायकामाय प्र युज्यते
सर्वेभ्यो हि कामेभ्यो यज्ञः प्रयुज्यते
त्रैधातवीयेन यजेताभिचरन् ।
सर्वो वै

3
एष यज्ञो यत् त्रैधातवीयम् ।
सर्वेणैवैनं यज्ञेनाभि चरति
स्तृणुत एवैनम्
एतयैव यजेताभिचर्यमाणः
सर्वो वा एष यज्ञो यत् त्रैधातवीयम् ।
सर्वेणैव यज्ञेन यजते
नैनम् अभिचरन्त् स्तृणुते ।
एतयैव यजेत सहस्रेण यक्ष्यमाणः
प्रजातम् एवैनद् ददाति ।
एतयैव यजेत सहस्रेणेजानः ।
अन्तं वा एष पशूनां गच्छति

4
यः सहस्रेण यजते
प्रजापतिः खलु वै पशून् असृजत
ताꣳस् त्रैधातवीयेनैवासृजत
य एवं विद्वाꣳस् त्रैधातवीयेन पशुकामो यजते यस्माद् एव योनेः प्रजापतिः पशून् असृजत तस्माद् एवैनान्त् सृजत उपैनम् उत्तरꣳ सहस्रं नमति
देवताभ्यो वा एष आ वृश्च्यते यो यक्ष्य इत्य् उक्त्वा न यजते
त्रैधातवीयेन यजेत
सर्वो वा एष यज्ञः

5
यत् त्रैधातवीयम् ।
सर्वेणैव यज्ञेन यजते
न देवताभ्य आ वृश्च्यते
द्वादशकपालः पुरोडाशो भवति
ते त्रयश् चतुष्कपालास्
त्रिष्षमृद्धत्वाय
त्रयः पुरोडाशा भवन्ति
त्रय इमे लोकाः ।
एषां लोकानाम् आप्त्यै ।
उत्तरौत्तरो ज्यायान् भवति ।
एवम् इव हीमे लोकाः ।
यवमयो मध्यः ।
एतद् वा अन्तरिक्षस्य रूपम् ।
समृद्ध्यै
सर्वेषाम् अभिगमयन्न् अव द्यति ।
अच्छम्बट्कारम् ।
हिरण्यं ददाति
तेज एव

6
अव रुन्द्धे
तार्प्यं ददाति
पशून् एवाव रुन्द्धे
धेनुं ददाति ।
आशिष एवाव रुन्द्धे
साम्नो वा एष वर्णो यद् धिरण्यम् ।
यजुषां तार्प्यम्
उक्थामदानां धेनुः ।
एतान् एव सर्वान् वर्णान् अव रुन्द्धे ॥

2.4.12 अनुवाक 12
काम्या इष्टयः। त्रैधातवीयद्रव्योद्देशेनेन्द्राविष्णुदेवताकत्वसहस्रदक्षिणयोर्विधिः।

1
त्वष्टा हतपुत्रो वीन्द्रꣳ सोमम् आऽऽहरत्
तस्मिन्न् इन्द्र उपहवम् ऐच्छत
तं नोपाह्वयत
पुत्रम् मे ऽवधीर् इति
स यज्ञवेशसं कृत्वा प्रासहा सोमम् अपिबत्
तस्य यद् अत्यशिष्यत तत् त्वष्टाऽऽहवनीयम् उप प्रावर्तयत्
स्वाहेन्द्रशत्रुर् वर्धस्वेति
स यावद् ऊर्ध्वः पराविध्यति तावति स्वयम् एव व्यरमत
यदि वा तावत् प्रवणम्

2
आसीत् यदि वा तावद् अध्य् अग्नेर् आसीत्
स सम्भवन्न् अग्नीषोमाव् अभि सम् अभवत्
स इषुमात्रं विष्वङ्ङ् अवर्धत
स इमाँल्लोकान् अवृणोत् ।
यद् इमाँल्लोकान् अवृणोत् तद् वृत्रस्य वृत्रत्वम् ।
तस्माद् इन्द्रो ऽबिभेत् ।
अपि त्वष्टा
तस्मै त्वष्टा वज्रम् असिञ्चत्
तपो वै स वज्र आसीत्
तम् उद्यन्तुं नाशक्नोत् ।
अथ वै तर्हि विष्णुः

3
अन्या देवतासीत्
सो ऽब्रवीत् ।
विष्णव् एहीदम् आ हरिष्यावो येनायम् इदम् इति
स विष्णुस् त्रेधात्मानं वि न्य् अधत्त पृथिव्यां तृतीयम् अन्तरिक्षे तृतीयं दिवि तृतीयम्
अभिपर्यावर्ताद् ध्य् अबिभेत् ।
यत् पृथिव्यां तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः
सो ऽब्रवीत् ।
मा मे प्र हार् अस्ति वा इदम्

4
मयि वीर्यं तत् ते प्र दास्यामीति
तद् अस्मै प्रायच्छत्
तत् प्रत्य् अगृह्णात् ।
अधा मेति तद् विष्णवेति प्रायच्छत्
तद् विष्णुः प्रत्य् अगृह्णात् ।
अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति
यद् अन्तरिक्षे तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः
सो ऽब्रवीत् ।
मा मे प्र हार् अस्ति वा इदम्

5
मयि वीर्यं तत् ते प्र दास्यामीति
तद् अस्मै प्रायच्छत्
तत् प्रत्य् अगृह्णात् ।
द्विर् माऽधा इति तद् विष्णवेति प्रायच्छत्
तद् विष्णुः प्रत्य् अगृह्णात् ।
अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति
यद् दिवि तृतीयम् आसीत् तेनेन्द्रो वज्रम् उद् अयच्छद् विष्ण्वनुस्थितः
सो ऽब्रवीत् ।
मा मे प्र हार् येनाहम्

6
इदम् अस्मि तत् ते प्र दास्यामीति
त्वी3 इत्य् अब्रवीत्
संधां तु सं दधावहै त्वाम् एव प्र विशानीति
यन् माम् प्रविशेः किम् मा भुञ्ज्या इत्य् अब्रवीत्
त्वाम् एवेन्धीय तव भोगाय त्वाम् प्र विशेयम् इत्य् अब्रवीत्
तम् वृत्रः प्राविशत् ।
उदरं वै वृत्रः
क्षुत् खलु वै मनुष्यस्य भ्रातृव्यः ।


7
एवं वेद हन्ति क्षुधम् भ्रातृव्यम् ।
तद् अस्मै प्रायच्छत्
तत् प्रत्य् अगृह्णात्
त्रिर् माऽधा इति तद् विष्णवेति प्रा यच्छत्
तद् विष्णुः प्रत्य् अगृह्णाद् अस्मास्व् इन्द्र इन्द्रियं दधात्व् इति
यत् त्रिः प्रायच्छत् त्रिः प्रत्यगृह्णात् तत् त्रिधातोस् त्रिधातुत्वम् ।
यद् विष्णुर् अन्वतिष्ठत विष्णवेति प्रायच्छत् तस्माद् ऐन्द्रावैष्णवꣳ हविर् भवति
यद् वा इदं किं च तद् अस्मै तत् प्रायच्छद् ऋचः सामानि यजूꣳषि
सहस्रं वा अस्मै तत् प्रायच्छत्
तस्मात् सहस्रदक्षिणम् ॥

2.4.13 अनुवाक 13
काम्या इष्टयः। ऐन्द्राबार्हस्पत्यचरुविधिः।

1
देवा वै राजन्याज् जायमानाद् अबिभयुस्
तम् अन्तर् एव सन्तं दाम्नापौम्भन् ।
स वा एषो ऽपोब्धो जायते यद् राजन्यः ।
यद् वा एषो ऽनपोब्धो जायेत वृत्रान् घ्नꣳश् चरेत् ।
यं कामयेत राजन्यम्
अनपोब्धो जायेत वृत्रान् घ्नꣳश् चरेद् इति तस्मा एतम् ऐन्द्राबार्हस्पत्यं चरुं निर् वपेत् ।
ऐन्द्रो वै राजन्यो ब्रह्म बृहस्पतिः ।
ब्रह्मणैवैनं दाम्नो ऽपोम्भनान् मुञ्चति
हिरण्मयं दाम दक्षिणा
साक्षाद् एवैनं दाम्नो ऽपोम्भनान् मुञ्चति ॥

2.4.14 अनुवाक 14
काम्येष्टियाज्यापुरोनुवाक्याः

1
नवोनवो भवति जायमानो ऽह्नां केतुर् उषसाम् एत्य् अग्रे । भागं देवेभ्यो वि दधात्य् आयन् प्र चन्द्रमास् तिरति दीर्घम् आयुः ॥
यम् आदित्या अꣳशुम् आप्याययन्ति यम् अक्षितम् अक्षितयः पिबन्ति । तेन नो राजा वरुणो बृहस्पतिर् आ प्याययन्तु भुवनस्य गोपाः ॥
प्राच्यां दिशि त्वम् इन्द्रासि राजोतोदीच्यां वृत्रहन् वृत्रहासि । यत्र यन्ति स्रोत्यास् तत्

2
जितं ते दक्षिणतो वृषभ एधि हव्यः ।
इन्द्रो जयाति न परा जयाता अधिराजो राजसु राजयाति । विश्वा हि भूयाः पृतना अभिष्टीर् उपसद्यो नमस्यो यथासत् ॥
अस्येद् एव प्र रिरिचे महित्वं दिवः पृथिव्याः पर्य् अन्तरिक्षात् । स्वराड् इन्द्रो दम आ विश्वगूर्तः स्वरिर् अमत्रो ववक्षे रणाय ।
अभि त्वा शूर नोनुमो ऽदुग्धा इव धेनवः । ईशानम्

3
अस्य जगतः सुवर्दृशम् ईशानम् इन्द्र तस्थुषः ॥
त्वाम् इद् धि हवामहे साता वाजस्य कारवः । त्वां वृत्रेष्व् इन्द्र सत्पतिं नरस् त्वां काष्ठास्व् अर्वतः ॥
यद् द्याव इन्द्र ते शतꣳ शतम् भूमीर् उत स्युः । न त्वा वज्रिन्त् सहस्रꣳ सूर्या अनु न जातम् अष्ट रोदसी ॥
पिबा सोमम् इन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।

4
सोतुर् बाहुभ्याꣳ सुयतो नार्वा ॥
रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥
उद् अग्ने शुचयस् तव ।
वि ज्योतिषा ।
उद् उ त्यं जातवेदसम् ।
सप्त त्वा हरितो रथे वहन्ति देव सूर्य । शोचिष्केशं विचक्षण ॥
चित्रं देवानाम् उद् अगाद् अनीकं चक्षुर् मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षꣳ सूर्य आत्मा जगतस् तस्थुषः

5
च ॥
विश्वे देवा ऋतावृध ऋतुभिर् हवनश्रुतः । जुषन्तां युज्यम् पयः ॥
विश्वे देवाः शृणुतेमꣳ हवम् मे ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्रा आसद्यास्मिन् बर्हिषि मादयध्वम् ॥