प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयसंहिता(विस्वरः)/काण्डम् २/प्रपाठकः ६

< तैत्तिरीयसंहिता(विस्वरः)‎ | काण्डम् २

2.6 प्रपाठक: 6 प्रकृतेष्टौ शेषविधीनामनुब्राह्मणम्
2.6.1 अनुवाक 1
प्रयाजविधिः

VERSE: 1
समिधो यजति वसन्तम् एवर्तूनाम् अव रुन्द्धे
तनूनपातं यजति ग्रीष्मम् एवाव रुन्द्धे ।
इडो यजति वर्षा एवाव रुन्द्धे
बर्हिर् यजति शरदम् एवाव रुन्द्धे
स्वाहाकारं यजति हेमन्तम् एवाव रुन्द्धे तस्मात् स्वाहाकृता हेमन् पशवो ऽव सीदन्ति
समिधो यजत्य् उषस एव देवतानाम् अव रुन्द्धे
तनूनपातं यजति यज्ञम् एवाव रुन्द्धे

VERSE: 2
इडो यजति पशून् एवाव रुन्द्धे
बर्हिर् यजति प्रजाम् एवाव रुन्द्धे
समानयत उपभृतस्
तेजो वा आज्यम् प्रजा बर्हिः
प्रजास्व् एव तेजो दधाति
स्वाहाकारं यजति
वाचम् एवाव रुन्द्धे
दश सम् पद्यन्ते
दशाक्षरा विराड्
विराजैवान्नाद्यम् अव रुन्द्धे
समिधो यजत्य् अस्मिन्न् एव लोके प्रति तिष्ठति
तनूनपातं यजति

VERSE: 3
यज्ञ एवान्तरिक्षे प्रति तिष्ठति ।
इडो यजति पशुष्व् एव प्रति तिष्ठति
बर्हिर् यजति य एव देवयानाः पन्थानस् तेष्व् एव प्रति तिष्ठति
स्वाहाकारं यजति सुवर्ग एव लोके प्रति तिष्ठति ।
एतावन्तो वै देवलोकास् तेष्व् एव यथापूर्वम् प्रति तिष्ठति
देवासुरा एषु लोकेष्व् अस्पर्धन्त
ते देवाः प्रयाजैर् एभ्यो लोकेभ्यो ऽसुरान् प्राणुदन्त
तत् प्रयाजानाम्

VERSE: 4
प्रयाजत्वम् ।
यस्यैवं विदुषः प्रयाजा इज्यन्ते प्रैभ्यो लोकेभ्यो भ्रातृव्यान् नुदते ।
अभिक्रामं जुहोति ।
अभिजित्यै
यो वै प्रयाजानाम् मिथुनं वेद प्र प्रजया पशुभिर् मिथुनैर् जायते
समिधो बह्वीर् इव यजति
तनूनपातम् एकम् इव
मिथुनं तत् ।
इडो बह्वीर् इव यजति बर्हिर् एकम् इव
मिथुनं तत् ।
एतद् वै प्रयाजानाम् मिथुनम् ।
य एवं वेद प्र

VERSE: 5
प्रजया पशुभिर् मिथुनैर् जायते
देवानां वा अनिष्टा देवता आसन् ।
अथासुरा यज्ञम् अजिघाम्̇सन्
ते देवा गायत्रीं व्यौहन्
पञ्चाक्षराणि प्राचीनानि त्रीणि प्रतीचीनानि
ततो वर्म यज्ञायाभवद् वर्म यजमानाय
यत् प्रयाजानूयाजा इज्यन्ते वर्मैव तद् यज्ञाय क्रियते वर्म यजमानाय भ्रातृव्याभिभूत्यै
तस्माद् वरूथम् पुरस्ताद् वर्षीयः पश्चाद् ध्रसीयः ।
देवा वै पुरा रक्षोभ्यः

VERSE: 6
इति स्वाहाकारेण प्रयाजेषु यज्ञम्̇ सम्̇स्थाप्यम् अपश्यन्
तम्̇ स्वाहाकारेण प्रयाजेषु सम् अस्थापयन्
वि वा एतद् यज्ञं छिन्दन्ति यत् स्वाहाकारेण प्रयाजेषु सम्̇स्थापयन्ति
प्रयाजान् इष्ट्वा हवीम्̇ष्य् अभि घारयति यज्ञस्य संतत्यै ।
अथो हविर् एवाकर्
अथो यथापूर्वम् उपैति
पिता वै प्रयाजाः प्रजानूयाजाः ।
यत् प्रयाजान् इष्ट्वा हवीम्̇ष्य् अभिघारयति पितैव तत् पुत्रेण साधारणम्

VERSE: 7
कुरुते
तस्माद् आहुर् यश् चैवं वेद यश् च न
कथा पुत्रस्य केवलं कथा साधारणम् पितुर् इति ।
अस्कन्नम् एव तद् यत् प्रयाजेष्व् इष्टेषु स्कन्दति
गायत्र्य् एव तेन गर्भं धत्ते
सा प्रजाम् पशून् यजमानाय प्र जनयति ॥

2.6.2 अनुवाक 2
आज्यभागौ

VERSE: 1
चक्षुषी वा एते यज्ञस्य यद् आज्यभागौ
यद् आज्यभागौ यजति चक्षुषी एव तद् यज्ञस्य प्रति दधाति
पूर्वार्धे जुहोति
तस्मात् पूर्वार्धे चक्षुषी
प्रबाहुग् जुहोति
तस्मात् प्रबाहुक् चक्षुषी
देवलोकं वा अग्निना यजमानो ऽनु पश्यति पितृलोकम्̇ सोमेन ।
उत्तरार्धे ऽग्नये जुहोति दक्षिणार्धे सोमाय ।
एवम् इव हीमौ लोकाव् अनयोर् लोकयोर् अनुख्यात्यै
राजानौ वा एतौ देवतानाम् ॥

VERSE: 2
यद् अग्नीषोमौ ।
अन्तरा देवता इज्येते देवतानां विधृत्यै
तस्माद् राज्ञा मनुष्या विधृताः ।
ब्रह्मवादिनो वदन्ति
किं तद् यज्ञे यजमानः कुरुते येनान्यतोदतश् च पशून्
दाधारोभयतोदतश् चेति ।
ऋचम् अनूच्याज्यभागस्य जुषाणेन यजति तेनान्यतोदतो दाधार ।
ऋचम् अनूच्य हविष ऋचा यजति तेनोभयतोदतो दाधार
मूर्धन्वती पुरोऽनुवाक्या भवति मूर्धानम् एवैनम्̇ समानानां करोति ।

VERSE: 3
नियुत्वत्या यजति भ्रातृव्यस्यैव पशून् नि युवते
केशिनम्̇ ह दार्भ्यं केशी सात्यकामिर् उवाच
सप्तपदां ते शक्वरीम्̇ श्वो यज्ञे प्रयोक्तासे यस्यै वीर्येण प्र जातान् भ्रातृव्यान् नुदते प्रति जनिष्यमाणान् यस्यै वीर्येणोभयोर् लोकयोर् ज्योतिर् धत्ते यस्यै वीर्येण पूर्वार्धेनानड्वान् भुनक्ति जघनार्धेन धेनुर् इति
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवति जातान् एव भ्रातृव्यान् प्र णुदते ।
उपरिष्टाल्लक्ष्मा

VERSE: 4
याज्या जनिष्यमाणान् एव प्रति नुदते
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवत्य् अस्मिन्न् एव लोके ज्योतिर् धत्ते ।
उपरिष्टाल्लक्ष्मा याज्यामुष्मिन्न् एव लोके ज्योतिर् धत्ते
ज्योतिष्मन्ताव् अस्मा इमौ लोकौ भवतो य एवं वेद
पुरस्ताल्लक्ष्मा पुरोऽनुवाक्या भवति तस्मात् पूर्वर्धेनानड्वान् भुनक्ति ।
उपरिष्टाल्लक्ष्मा याज्या तस्माज् जघनार्धेन धेनुः ।
य एवं वेद भुङ्क्त एनम् एतौ
वज्र आज्यं वज्र आज्यभागौ ।

VERSE: 5
वज्रो वषट्कारस्
त्रिवृतम् एव वज्रम्̇ सम्भृत्य भ्रातृव्याय प्र हरत्य् अच्छम्बट्कारम्
अपगुर्य वषट् करोति स्तृत्यै
गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग् याज्या
ब्रह्मन्न् एव क्षत्रम् अन्वारम्भयति
तस्माद् ब्राह्मणो मुख्यः ।
मुख्यो भवति य एवं वेद
प्रैवैनम् पुरोऽनुवाक्ययाऽऽह
प्र णयति याज्यया
गमयति वषट्कारेण ।
ऐवैनम् पुरोऽनुवाक्यया दत्ते
प्र यच्छति याज्यया
प्रति

VERSE: 6
वषट्कारेण स्थापयति
त्रिपदा पुरोऽनुवाक्या भवति
त्रय इमे लोकाः ।
एष्व् एव लोकेषु प्रति तिष्ठति
चतुष्पदा याज्या
चतुष्पद एव पशून् अव रुन्द्धे
द्व्यक्षरो वषट्कारो द्विपाद् यजमानः पशुष्व् एवोपरिष्टात् प्रति तिष्ठति
गायत्री पुरोऽनुवाक्या भवति त्रिष्टुग् याज्या ।
एषा वै सप्तपदा शक्वरी
यद् वा एतया देवा अशिक्षन् तद् अशक्नुवन्
य एवं वेद शक्नोत्य् एव यच् छिक्षति ॥

2.6.3 अनुवाक 3
आग्नेयपुरोडाशः

VERSE: 1
प्रजापतिर् देवेभ्यो यज्ञान् व्यादिशत् स आत्मन्न् आज्यम् अधत्त तं देवा अब्रुवन्न् एष वाव यज्ञो यद् आज्यम् अप्य् एव नोऽत्रास्त्व् इति सो ऽब्रवीद् यजान् व आज्य भागाव् उप स्तृणान् अभि घारयान् इति तस्माद् यजन्त्य् आज्यभागाव् उप स्तृणन्त्य् अभि घारयन्ति
ब्रह्मवादिनो वदन्ति कस्मात् सत्याद् यातयामान्य् अन्यानि हवीम्̇ष्य् अयातयामम् आज्यम् इति प्राजापत्यम् इति ब्रूयाद् अयातयामा हि देवानाम् प्रजापतिर् इति
छन्दाम्̇सि देवेभ्यो ऽपाक्रामन् न वो ऽभागानि हव्यं वक्ष्याम इति तेभ्य एतच् चतुरवत्तम् अधारयन् पुरोऽनुवाक्यायै याज्यायै देवतायै वषट्काराय यच् चतुरवत्तं जुहोति छन्दाम्̇स्य् एव तत् प्रीणाति तान्य् अस्य प्रीतानि देवेभ्यो हव्यं वहन्ति ।
अङ्गिरसो वा इत उत्तमाः सुवर्गं लोकम् आयन् तद् ऋषयो यज्ञवास्त्व् अभ्यवायन् ते

VERSE: 2
अपश्यन् पुरोडाशं कूर्मम् भूतम्̇ सर्पन्तं तम् अब्रुवन्न् इन्द्राय ध्रियस्व बृहस्पतये ध्रियस्व विश्वेभ्यो देवेभ्यो ध्रियस्वेति स नाध्रियत तम् अब्रुवन्न् अग्नये ध्रियस्वेति सो ऽग्नये ऽध्रियत यद् आग्नेयो ऽष्टाकपालो ऽमावास्यायां च पौर्णमास्यां चाच्युतो भवति सुवर्गस्य लोकस्याभिजित्यै
तम् अब्रुवन् कथाऽहास्था इत्य् अनुपाक्तो ऽभूवम् इत्य् अब्रवीद् यथाक्षो ऽनुपाक्तः

VERSE: 4
अवार्छत्य् एवम् अवाऽऽरम् इत्य् उपरिष्टाद् अभ्यज्याधस्ताद् उपानक्ति सुवर्गस्य लोकस्य समष्ट्यै
सर्वाणि कपालान्य् अभि प्रथयति तावतः पुरोडाशान् अमुष्मिम्̐ लोके ऽभि जयति
यो विदग्धः स नैर्ऋतो यो ऽशृतः स रौद्रो यः शृतः स सदेवस् तस्माद् अविदहता शृतंकृत्यः सदेवत्वाय
भस्मनाभि वासयति तस्मान् माम्̇सेनास्थि छन्नं वेदेनाभि वासयति तस्मात्

VERSE: 5
केशैः शिरश् छन्नम्
प्रच्युतं वा एतद् अस्माल् लोकाद् अगतं देवलोकं यच् छृतम्̇ हविर् अनभिघारितम् अभिघार्योद् वासयति देवत्रैवैनद् गमयति
यद्य् एकं कपालं नश्येद् एको मासः संवत्सरस्यानवेतः स्याद् अथ यजमानः प्र मीयेत यद् द्वे नश्येतां द्वौ मासौ संवत्सरस्यानवेतौ स्याताम् अथ यजमानः प्र मीयेत संख्यायोद् वासयति यजमानस्य

VERSE: 6
गोपीथाय
यदि नश्येद् आश्विनं द्विकपालं निर् वपेद् द्यावापृथिव्याम् एककपालम् अश्विनौ वै देवानाम् भिषजौ ताभ्याम् एवास्मै भेषजं करोति
द्यावापृथिव्य एककपालो भवत्य् अनयोर् वा एतन् नश्यति यन् नश्यत्य् अनयोर् एवैनद् विन्दति प्रतिष्ठित्यै ॥

2.6.4 अनुवाक 4
वेदिः

VERSE: 1
देवस्य त्वा सवितुः प्रसव इति स्फ्यम् आ दत्ते प्रसूत्यै ।
अश्विनोर् बाहुभ्याम् इत्य् आहाश्विनौ हि देवानाम् अध्वर्यू आस्ताम्
पूष्णो हस्ताभ्याम् इत्य् आह यत्यै ।
शतभृष्टिर् असि वानस्पत्यो द्विषतो वध इत्य् आह वज्रम् एव तत् सम्̇ श्यति
भ्रातृव्याय प्रहरिष्यन्त् ।
स्तम्बयजुर् हरत्य् एतावती वै पृथिवी यावती वेदिस् तस्या एतावत एव भ्रातृव्यं निर् भजति

VERSE: 2
तस्मान् नाभागं निर् भजन्ति ।
त्रिर् हरति त्रय इमे लोका एभ्य एवैनं लोकेभ्यो निर् भजति
तूष्णीं चतुर्थम्̇ हरत्य् अपरिमिताद् एवैनं निर्भजति ।
उद् धन्ति यद् एवास्या अमेध्यं तद् अप हन्ति ।
उद् धन्ति तस्माद् ओषधयः परा भवन्ति
मूलं च्छिनत्ति भ्रातृव्यस्यैव मूलं च्छिनत्ति
पितृदेवत्याऽतिखातेयतीं खनति प्रजापतिना

VERSE: 3
यज्ञमुखेन सम्मिताम्
आ प्रतिष्ठायै खनति यजमानम् एव प्रतिष्ठां गमयति
दक्षिणतो वर्षीयसीं करोति देवयजनस्यैव रूपम् अकः
पुरीषवतीं करोति प्रजा वै पशवः पुरीषम् प्रजयैवैनम् पशुभिः पुरीषवन्तं करोति ।
उत्तरम् परिग्राहम् परि गृह्णात्य् एतावती वै पृथिवी यावती वेदिस् तस्या एतावत एव भ्रातृव्यं निर्भज्यात्मन उत्तरम् परिग्राहम् परि गृह्णाति
क्रूरम् इव वै

VERSE: 4
एतत् करोति यद् वेदिं करोति
धा असि स्वधा असीति योयुप्यते शान्त्यै
प्रोक्षणीर् आ सादयत्य् आपो वै रक्षोघ्नी रक्षसाम् अपहत्यै
स्फ्यस्य वर्त्मन्त् सादयति यज्ञस्य संतत्यै
यं द्विष्यात् तं ध्यायेच् छुचैवैनम् अर्पयति ॥

2.6.5 अनुवाक 5
बर्हिः प्रयोगः

VERSE: 1
ब्रह्मवादिनो वदन्ति ।
अद्भिर् हवीम्̇षि प्रौक्षीः केनाप इति
ब्रह्मणेति ब्रूयात् ।
अद्भिर् ह्य् एव हवीम्̇षि प्रोक्षति ब्रह्मणापः ।
इध्माबर्हिः प्रोक्षति
मेध्यम् एवैनत् करोति
वेदिम् प्रोक्षति ।
ऋक्षा वा एषाऽलोमकाऽमेध्या यद् वेदिः ।
मेध्याम् एवैनां करोति
दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति बर्हिर् आसाद्य प्र

VERSE: 2
उक्षति ।
एभ्य एवैनल् लोकेभ्यः प्रोक्षति
क्रूरम् इव वा एतत् करोति यत् खनति ।
अपो नि नयति शान्त्यै
पुरस्तात् प्रस्तरं गृह्णाति मुख्यम् एवैनं करोति ।
इयन्तं गृह्णाति प्रजापतिना यज्ञमुखेन सम्मितम्
बर्हिः स्तृणाति
प्रजा वै बर्हिः पृथिवी वेदिः
प्रजा एव पृथिव्याम् प्रति ष्ठापयति ।
0 अनतिदृश्नम्̇ स्तृणाति
1 प्रजयैवैनम् पशुभिर् अनतिदृश्नं करोति

VERSE: 3
उत्तरम् बर्हिषः प्रस्तरम्̇ सादयति
प्रजावै बर्हिर् यजमानः प्रस्तरः ।
यजमानम् एवायजमानाद् उत्तरं करोति
तस्माद् यजमानो ऽयजमानाद् उत्तरः ।
अन्तर् दधाति
व्यावृत्त्यै ।
अनक्ति
हविष्कृतम् एवैनम्̇ सुवर्गं लोकं गमयति
त्रेधाऽनक्ति
त्रय इमे लोकाः ।
एभ्य एवैनं लोकेभ्यो ऽनक्ति
न प्रति शृणाति
यत् प्रतिशृणीयाद् अनूर्ध्वम्भावुकं यजमानस्य स्यात् ।
उपरीव प्र हरति

VERSE: 4
उपरीव हि सुवर्गो लोकः ।
नि यच्छति
वृष्टिम् एवास्मै नि यच्छति
नात्यग्रम् प्र हरेत् ।
यद् अत्यग्रम् प्रहरेद् अत्यासारिण्य् अध्वर्योर् नाशुका स्यात् ।
न पुरस्तात् प्रत्य् अस्येत् ।
यत् पुरस्तात् प्रत्यस्यात् सुवर्गाल् लोकाद् यजमानम् प्रति नुदेत्
प्राञ्चम् प्र हरति
यजमानम् एव सुवर्गं लोकं गमयति
न विष्वञ्चं वि युयात् ।
यद् विष्वञ्चं वियुयात् ॥

VERSE: 5
स्त्र्य् अस्य जायेत ।
ऊर्ध्वम् उद् यौति ।
ऊर्ध्वम् इव हि पुम्̇सः पुमान् एवास्य जायते
यत् स्फ्येन वोपवेषेण वा योयुप्येत स्तृतिर् एवास्य सा
हस्तेन योयुप्यते यजमानस्य गोपीथाय
ब्रह्मवादिनो वदन्ति
किं यज्ञस्य यजमान इति
प्रस्तर इति
तस्य क्व सुवर्गो लोक इति ।
आहवनीय इति ब्रूयात् ।
यत् प्रस्तरम् आहवनीये प्रहरति यजमानम् एव

VERSE: 6
सुवर्गं लोकं गमयति
वि वा एतद् यजमानो लिशते यत् प्रस्तरं योयुप्यन्ते
बर्हिर् अनु प्रहरति शान्त्यै ।
अनारम्भण इव वा एतर्ह्य् अध्वर्युः
स ईश्वरो वेपनो भवितोः ।
ध्रुवाऽसीतीमाम् अभि मृशति ।
इयं वै ध्रुवा ।
अस्याम् एव प्रति तिष्ठति
न वेपनो भवति ।
अगा3न् अग्नीद् इत्य् आह
यद् ब्रूयात् ।
अगन्न् अग्निर् इत्य् अग्नाव् अग्निं गमयेन् निर् यजमानम्̇ सुवर्गाल् लोकाद् भजेत् ।
अगन्न् इत्य् एव ब्रूयाद् यजमानम् एव सुवर्गं लोकं गमयति ॥

2.6.6 अनुवाक 6
उपांशुयाज स्विष्टकृतौ

VERSE: 1
अग्नेस् त्रयो ज्यायाम्̇सो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयन्त
सो ऽग्निर् अबिभेद् इत्थं वाव स्य आर्तिमाऽरिष्यतीति स निलायत सो ऽपः प्राविशत् तं देवताः प्रैषम् ऐच्छन्
तम् मत्स्यः प्राब्रवीत् तम् अशपद् धियाधिया त्वा वध्यासुर् यो मा प्रावोच इति
तस्मान् मत्स्यं धियाधिया घ्नन्ति शप्तः

VERSE: 2
हि
तम् अन्व् अविन्दन् तम् अब्रुवन्न् उप न आ वर्तस्व हव्यं नो वहेति
सो ऽब्रवीद् वरं वृणै यद् एव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात् तन् मे भ्रातृणाम् भागधेयम् असद् इति तस्माद् यद् गृहीतस्याहुतस्य बहिःपरिधि स्कन्दति तेषां तद् भागधेयं तान् एव तेन प्रीणाति
परिधीन् परि दधाति रक्षसाम् अपहत्यै
सम्̇ स्पर्शयति

VERSE: 3
रक्षसाम् अनन्ववचाराय
न पुरस्तात् परि दधात्य् आदित्यो ह्य् एवोद्यन् पुरस्ताद् रक्षाम्̇स्य् अपहन्ति ।
ऊर्ध्वे समिधाव् आ दधात्य् उपरिष्टाद् एव रक्षाम्̇स्य् अप हन्ति
यजुषान्यां तूष्णीम् अन्याम् मिथुनत्वाय
द्वे आ दधाति द्विपाद् यजमानः प्रतिष्ठित्यै
ब्रह्मवादिनो वदन्ति
स त्वै यजेत यो यज्ञस्याऽऽर्त्या वसीयन्त् स्याद् इति
भूपतये स्वाहा भुवनपतये स्वाहा भूतानाम्

VERSE: 4
पतये स्वाहेति स्कन्नम् अनु मन्त्रयेत
यज्ञस्यैव तद् आर्त्या यजमानो वसीयान् भवति भूयसीर् हि देवताः प्रीणाति
जामि वा एतद् यज्ञस्य क्रियते यद् अन्वञ्चौ पुरोडाशौ ।
उपाम्̇शुयाजम् अन्तरा यजत्य् अजामित्वायाथो मिथुनत्वाय ।
अग्निर् अमुष्मिम्̐ लोक आसीद् यमो ऽस्मिन्
ते देवा अब्रुवन्न् एतेमौ वि पर्य् ऊहामेति ।
अन्नाद्येन देवा अग्निम् ॥

VERSE: 5
उपामन्त्रयन्त राज्येन पितरो यमं तस्माद् अग्निर् देवानाम् अन्नादो यमः पितृणाम्̇ राजा
य एवं वेद प्र राज्यम् अन्नाद्यम् आप्नोति
तस्मा एतद् भागधेयम् प्रायच्छन् यद् अग्नये स्विष्टकृते ऽवद्यन्ति
यद् अग्नये स्विष्टकृते ऽवद्यति भागधेयेनैव तद् रुद्रम्̇ सम् अर्धयति
सकृत्सकृद् अव द्यति सकृद् इव हि रुद्रः ।
उत्तरार्धाद् अव द्यत्य् एषा वै रुद्रस्य

VERSE: 6
दिक् स्वायाम् एव दिशि रुद्रं निरवदयते
द्विर् अभि घारयति चतुरवत्तस्याप्त्यै
पशवो वै पूर्वा आहुतयः ।
एष रुद्रो यद् अग्निः ।
यत् पूर्वा आहुतीर् अभि जुहुयाद् रुद्राय पशून् अपि दध्यात् ।
अपशुर् यजमानः स्यात् ।
अतिहाय पूर्वा आहुतीर् जुहोति पशूनां गोपीथाय ॥

2.6.7 अनुवाक 7
इडोपाह्वानम्

VERSE: 1
मनुः पृथिव्या यज्ञियम् ऐच्छत्
स घृतं निषिक्तम् अविन्दत्
सो ऽब्रवीत्
को ऽस्येश्वरो यज्ञे ऽपि कर्तोर् इति
ताव् अब्रूताम् मित्रावरुणौ
गोर् एवाऽऽवम् ईश्वरौ कर्तोः स्व इति
तौ ततो गाम्̇ सम् ऐरयताम् ।
सा यत्रयत्र न्यक्रामत् ततो घृतम् अपीड्यत
तस्माद् घृतपद्य् उच्यते
तद् अस्यै जन्म ।
उपहूतम्̇ रथंतरम्̇ सह पृथिव्येत्य् आह

VERSE: 2
इयं वै रथंतरम्
इमाम् एव सहान्नाद्येनोप ह्वयते ।
उपहूतं वामदेव्यम्̇ सहान्तरिक्षेणेत्य् आह
पशवो वै वामदेव्यम्
पशून् एव सहान्तरिक्षेणोप ह्वयते ।
उपहूतम् बृहत् सह दिवेत्य् आह ।
ऐरं वै बृहत् ।
इराम् एव सह दिवोप ह्वयते ।
उपहूताः सप्त होत्रा इत्याह होत्रा एवोप ह्वयते।
उपहूता धेनुः

VERSE: 3
सहर्षभेत्य् आह
मिथुनम् एवोप ह्वयते ।
उपहूतो भक्षः सखेत्य् आह
सोमपीथम् एवोप ह्वयते ।
उपहूता3म्̇ हो इत्य् आह ।
आत्मानम् एवोप ह्वयते ।
आत्मा ह्य् उपहूतानां वसिष्ठः ।
इडाम् उप ह्वयते
पशवो वा इडा
पशून् एवोप ह्वयते
चतुर् उप ह्वयते
चतुष्पादो हि पशवः ।
मानवीत्य् आह मनुर् ह्य् एताम्

VERSE: 4
अग्रे ऽपश्यत् ।
घृतपदीत्य् आह यद् एवास्यै पदाद् घृतम् अपीड्यत तस्माद् एवम् आह
मैत्रावरुणीत्य् आह मित्रावरुणौ ह्य् एनाम्̇ समैरयताम्
ब्रह्म देवकृतम् उपहूतम् इत्य् आह
ब्रह्मैवोप ह्वयते
दैव्या अध्वर्यव उपहूता उपहूता मनुष्या इत्य् आह
देवमनुष्यान् एवोप ह्वयते
य इमं यज्ञम् अवान् ये यज्ञपतिं वर्धान् इत्य् आह ।

VERSE: 5
यज्ञाय चैव यजमानाय चाशिषम् आ शास्ते ।
उपहूते द्यावापृथिवी इत्य् आह
द्यावापृथिवी एवोप ह्वयते
पूर्वजे ऋतावरी इत्य् आह पूर्वजे ह्य् एते ऋतावरी
देवा देवपुत्रे इत्य् आह देवी ह्य् एते देवपुत्रे
उपहूतो ऽयं यजमान इत्य् आह
यजमानम् एवोप ह्वयते ।
उत्तरस्यां देवयज्यायाम् उपहूतो भूयसि हविष्करण उपहूतो दिव्ये धामन्न् उपहूतः

VERSE: 6
इत्य् आह
प्रजा वा उत्तरा देवयज्या पशवो भूयो हविष्करणम् सुवर्गो लोको दिव्यं धाम ।
इदम् असीदम् असीत्य् एव यज्ञस्य प्रियं धामोप ह्वयते
विश्वम् अस्य प्रियम् उपहूतम् इत्य् आह ।
अच्छम्बट्कारम् एवोप ह्वयते ॥

2.6.8 अनुवाक 8
इडाप्राशित्रभक्षौ

VERSE: 1
पशवो वा इडा स्वयम् आ दत्ते कामम् एवात्मना पशूनाम् आ दत्ते न ह्य् अन्यः कामम् पशूनाम् प्रयच्छति
वाचस् पतये त्वा हुतम् प्राश्नामीत्य् आह वाचम् एव भागधेयेन प्रीणाति सदसस् पतये त्वा हुतम् प्राश्नामीत्य् आह स्वगाकृत्यै
चतुरवत्तम् भवति हविर् वै चतुरवत्तम् पशवश् चतुरवत्तम् ।
यद् होता प्राश्नीयाद् होता

VERSE: 2
आर्तिम् आर्छेद् यद् अग्नौ जुहुयाद् रुद्राय पशून् अपि दध्याद् अपशुर् यजमानः स्यात् ।
वाचस् पतये त्वा हुतम् प्राश्नामीत्य् आह परोऽक्षम् एवैनज् जुहोति सदसस् पतये त्वा हुतम् प्राश्नामीत्य् आह स्वगाकृत्यै
प्राश्नन्ति तीर्थ एव प्राश्नन्ति दक्षिणां ददाति तीर्थ एव दक्षिणां ददाति
वि वा एतद् यज्ञम्

VERSE: 3
छिन्दन्ति यन् मध्यतः प्राश्नन्त्य् अद्भिर् मार्जयन्त आपो वै सर्वा देवता देवताभिर् एव यज्ञम्̇ सं तन्वन्ति
देवा वै यज्ञाद् रुद्रम् अन्तर् आयन्त् स यज्ञम् अविध्यत् तं देवा अभि सम् अगच्छन्त
कल्पतां न इदम् इति ते ऽब्रुवन्त् स्विष्टं वै न इदम् भविष्यति यद् इमम्̇ राधयिष्याम इति तत् स्विष्टकृतः स्विष्टकृत्त्वम् ।
तस्याविद्धं निः

VERSE: 4
अकृन्तन् यवेन सम्मितं तस्माद् यवमात्रम् अव द्येद् यज् ज्यायो ऽवद्येद् रोपयेत् तद् यज्ञस्य यद् उप च स्तृणीयाद् अभि च घारयेद् उभयतःसम्̇श्वायि कुर्यात् ।
अवदायाभि घारयति द्विः सम् पद्यते द्विपाद् यजमानः प्रतिष्ठित्यै
यत् तिरश्चीनम् अतिहरेद् अनभिविद्धं यज्ञस्याभि विध्येत् ।
अग्रेण परि हरति तीर्थेनैव परि हरति तत् पूष्णे पर्य् अहरन्
तत्

VERSE: 5
पूषा प्राश्य दतो ऽरुणत् तस्मात् पूषा प्रपिष्टभागो ऽदन्तको हि
तं देवा अब्रुवन्
वि वा अयम् आर्ध्य् अप्राशित्रियो वा अयम् अभूद् इति
तद् बृहस्पतये पर्य् अहरन्त् सो ऽबिभेद् बृहस्पतिर् इत्थं वाव स्य आर्तिम् आरिष्यतीति
स एतम् मन्त्रम् अपश्यत् सूर्यस्य त्वा चक्षुषा प्रति पश्यामीत्य् अब्रवीन् न हि सूर्यस्य चक्षुः

VERSE: 6
किं चन हिनस्ति
सो ऽबिभेत् प्रतिगृह्णन्तम् मा हिम्̇सिष्यतीति देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् प्रति गृह्णामीत्य् अब्रवीत् सवितृप्रसूत एवैनद् ब्रह्मणा देवताभिः प्रत्य् अगृह्णात्
सो ऽबिभेत् प्राश्नन्तम् मा हिम्̇सिष्यतीत्य् अग्नेस् त्वास्येन प्राश्नामीत्य् अब्रवीन् न ह्य् अग्नेर् आस्यं किं चन हिनस्ति
सो ऽबिभेत्

VERSE: 7
प्राशितम् मा हिम्̇सिष्यतीति ब्राह्मणस्योदरेणेत्य् अब्रवीन् न हि ब्राह्मणस्योदरं किं चन हिनस्ति बृहस्पतेर् ब्रह्मणेति स हि ब्रह्मिष्ठः ।
अप वा एतस्मात् प्राणाः क्रामन्ति यः प्राशित्रम् प्राश्नाति ।
अद्भिर् मार्जयित्वा प्राणान्त् सम् मृशते ।
अमृतं वै प्राणा अमृतम् आपः प्राणान् एव यथास्थानम् उप ह्वयते ॥

2.6.9 अनुवाक 9
अनूयाजाः सूक्तवाकश्च

VERSE: 1
अग्नीध आ दधात्य् अग्निमुखान् एवर्तून् प्रीणाति
समिधम् आ दधात्य् उत्तरासाम् आहुतीनाम् प्रतिष्ठित्या अथो समिद्वत्य् एव जुहोति
परिधीन्त् सम् मार्ष्टि पुनात्य् एवैनान्त् सकृत्सकृत् सम् मार्ष्टि पराङ् इव ह्य् एतर्हि यज्ञः ।
चतुः सम् पद्यते चतुष्पादः पशवः पशून् एवाव रुन्द्धे
ब्रह्मन् प्र स्थास्याम इत्य् आहात्र वा एतर्हि यज्ञः श्रितः

VERSE: 2
यत्र ब्रह्मा यत्रैव यज्ञः श्रितस् तत एवैनम् आ रभते
यद् धस्तेन प्रमीवेद् वेपनः स्याद् यच् छीर्ष्णा शीर्षक्तिवान्त् स्याद् यत् तूष्णीम् आसीतासम्प्रत्तो यज्ञः स्यात्
प्र तिष्ठेत्य् एव ब्रूयाद्
वाचि वै यज्ञः श्रितो यत्रैव यज्ञः श्रितस् तत एवैनम्̇ सम् प्र यच्छति
देव सवितर् एतत् ते प्र ॥

VERSE: 3
आहेत्य् आह प्रसूत्यै
बृहस्पतिर् ब्रह्मेत्य् आह स हि ब्रह्मिष्ठः
स यज्ञम् पाहि स यज्ञपतिम् पाहि स माम् पाहीत्य् आह
यज्ञाय यजमानायात्मने तेभ्य एवाशिषम् आ शास्ते ऽनार्त्या
आश्राव्याह
देवान् यजेति
ब्रह्मवादिनो वदन्तीष्टा देवता अथ कतम एते देवा इति छन्दाम्̇सीति ब्रूयाद् गायत्रीं त्रिष्टुभम्

VERSE: 4
जगतीम् इत्य्
अथो खल्व् आहुर्
ब्राह्मणा वै छन्दाम्̇सीति
तान् एव तद् यजति
देवानां वा इष्टा देवता आसन्न् अथाग्निर् नोद् अज्वलत् तं देवा आहुतीभिर् अनूयाजेष्व् अन्व् अविन्दन्
यद् अनूयाजान् यजति ।
अग्निम् एव तत् सम् इन्द्धे ।
एतदुर् वै नामासुर आसीत्
स एतर्हि यज्ञस्याशिषम् अवृङ्क्त
यद् ब्रूयाद् एतत्

VERSE: 5
उ द्यावापृथिवी भद्रम् अभूद् इत्य् एतदुम् एवासुरं यज्ञस्याशिषं गमयेद्
इदं द्यावापृथिवी भद्रम् अभूद् इत्य् एव ब्रूयाद् यजमानम् एव यज्ञस्याशिषम् गमयत्य्
आर्ध्म सूक्तवाकम् उत नमोवाकम् इत्य् आहेदम् अरात्स्मेति वावैतद् आह ।
उपश्रितो दिवः पृथिव्योर् इत्य् आह द्यावापृथिव्योर् हि यज्ञ उपश्रितः ।
ओमन्वती ते ऽस्मिन् यज्ञे यजमान द्यावापृथिवी

VERSE: 6
स्ताम् इत्य् आहाऽऽशिषम् एवैताम् आ शास्ते
यद् ब्रूयात् सूपावसाना च स्वध्यवसाना चेति प्रमायुको यजमानः स्याद् यदा हि प्रमीयते ।
अथेमाम् उपावस्यति
सूपचरणा च स्वधिचरणा चेत्य् एव ब्रूयाद् वरीयसीम् एवास्मै गव्यूतिम् आ शास्ते न प्रमायुको भवति
तयो आविद्य् अग्निर् इदम्̇ हविर् अजुषतेत्य् आह या अयाक्ष्म

VERSE: 7
देवतास् ता अरीरधामेति वावैतद् आह
यन् न निर्दिशेत् प्रतिवेशं यज्ञस्याशीर् गच्छेद्
आ शास्ते ऽयं यजमानो ऽसाव् इत्य् आह निर्दिश्यैवैनम्̇ सुवर्गं लोकं गमयति ।
आयुर् आ शास्ते सुप्रजास्त्वम् आ शास्त इत्य् आहाशिषम् एवैताम् आ शास्ते
सजातवनस्याम् आ शास्त इत्य् आह प्राणा वै सजाताः प्राणान् एव

VERSE: 8
नान्तर् एति
तद् अग्निर् देवो देवेभ्यो वनते वयम् अग्नेर् मानुषा इत्य् आहाग्निर् देवेभ्यो वनुते वयम् मनुष्येभ्य इति वावैतद् आह ।
इह गतिर् वामस्येदं च नमो देवेभ्य इत्य् आह याश् चैव देवता यजति याश् च न ताभ्य एवोभयीभ्यो नमस् करोत्य् आत्मनो ऽनार्त्यै ॥

2.6.10 अनुवाक 10
शंयुवाकः पत्नीसंयाजाश्च

VERSE: 1
देवा वै यज्ञस्य स्वगाकर्तारं नाविन्दन्
ते शम्युम् बार्हस्पत्यम् अब्रुवन् ।
इमं नो यज्ञम्̇ स्वगा कुर्व् इति
सो ऽब्रवीत् ।
वरं वृणै यद् एवाब्राह्मणोक्तो ऽश्रद्दधानो यजातै सा मे यज्ञस्याशीर् असद् इति
तस्माद् यद् अब्राह्मणोक्तो ऽश्रद्दधानो यजते शम्युम् एव तस्य बार्हस्पत्यं यज्ञस्याशीर् गच्छति ।
एतन् ममेत्य् अब्रवीत् किम् मे प्रजायाः

VERSE: 2
इति
यो ऽपगुरातै शतेन यातयात् ।
यो निहनत् सहस्रेण यातयात् ।
यो लोहितं करवद् यावतः प्रस्कद्य पाम्̇सून्त् संगृह्णात् तावतः संवत्सरान् पितृलोकं न प्र जानाद् इति
तस्माद् ब्राह्मणाय नाप गुरेत न नि हन्यान् न लोहितं कुर्यात् ।
एतावता हैनसा भवति
तच् छम्योर् आ वृणीमह इत्य् आह
यज्ञम् एव तत् स्वगा करोति
तत्

VERSE: 3
शम्योर् आ वृणीमह इत्य् आह
शम्युम् एव बार्हस्पत्यम् भागधेयेन सम् अर्धयति
गातुं यज्ञाय गातुं यज्ञपतय इत्य् आह ।
आशिषम् एवैताम् आ शास्ते
सोमं यजति रेत एव तद् दधाति
त्वष्टारं यजति रेत एव हितं त्वष्टा रूपाणि वि करोति
देवानाम् पत्नीर् यजति मिथुनत्वाय ।
अग्निं गृहपतिं यजति प्रतिष्ठित्यै
जामि वा एतद् यज्ञस्य क्रियते

VERSE: 4
यद् आज्येन प्रयाजा इज्यन्त आज्येन पत्नीसंयाजाः ।
ऋचम् अनूच्य पत्नीसंयाजानाम् ऋचा यजति ।
अजामित्वायाथो मिथुनत्वाय
पङ्क्तिप्रायणो वै यज्ञः पङ्क्त्युदयनः
पञ्च प्रयाजा इज्यन्ते
चत्वारः पत्नीसंयाजाः समिष्टयजुः पञ्चमम्
पङ्क्तिम् एवानु प्रयन्ति पङ्क्तिम् अनूद्यन्ति ॥

2.6.11 अनुवाक 11
संवर्गेष्टिहौत्रम्

VERSE: 1
युक्ष्वा हि देवहूतमाम्̇ अश्वाम्̇ अग्ने रथीर् इव । नि होता पूर्व्यः सदः ॥
उत नो देव देवाम्̇ अच्छा वोचो विदुष्टरः । श्रद् विश्वा वार्या कृधि ॥
त्वम्̇ ह यद् यविष्ठ्य सहसः सूनवाहुत । ऋतावा यज्ञियो भुवः ॥
अयम् अग्निः सहस्रिणो वाजस्य शतिनस् पतिः । मूर्धा कवी रयीणाम् ॥
तं नेमिम् ऋभवो यथा नमस्व सहूतिभिः । नेदीयो यज्ञम्

VERSE: 2
अङ्गिरः ॥
तस्मै नूनम् अभिद्यवे वाचा विरूप नित्यया । वृष्णे चोदस्व सुष्टुतिम् ॥
कम् उ ष्विद् अस्य सेनयाग्नेर् अपाकचक्षसः । पणिं गोषु स्तरामहे ॥
मा नो देवानां विशः प्रस्नातीर् इवोस्राः । कृशं न हासुर् अघ्नियाः ॥
मा नः समस्य दूढ्यः परिद्वेषसो अम्̇हतिः ऊर्मिर् न नावम् आ वधीत् ॥
नमस् ते अग्न ओजसे गृणन्ति देव कृष्टयः । अमैः

VERSE: 3
अमित्रम् अर्दय ॥
कुवित् सु नो गविष्टये ऽग्ने संवेषिषो रयिम् । उरुकृद् उरु णस् कृधि ॥
मा नो अस्मिन् महाधने परा वर्ग् भारभृद् यथा । संवर्गम्̇ सम्̇ रयिम्̇ जय ॥
अन्यम् अस्मद् भिया इयम् अग्ने सिषक्तु दुच्छुना । वर्धा नो अमवच् छवः ॥
यस्याजुषन् नमस्विनः शमीम् अदुर्मखस्य वा । तं घेद् अग्निर् वृधावति ॥
परस्या अधि

VERSE: 4
संवतो ऽवराम्̇ अभ्य् आ तर । यत्राहम् अस्मि ताम्̇ अव ॥
विद्मा हि ते पुरा वयम् अग्ने पितुर् यथावसः । अधा ते सुम्नम् ईमहे ।
य उग्र इव शर्यहा तिग्मशृङ्गो न वम्̇सगः । अग्ने पुरो रुरोजिथ ॥
सखायः सं वः सम्यञ्चम् इषम्̇ स्तोमं चाग्नये । वर्षिष्ठाय क्षितीनामूर्जो नप्त्रे सहस्वते ॥
सम्̇सम् इद् युवसे वृषन्न् अग्ने विश्वान्य् अर्य आ । इडस् पदे सम् इध्यसे स नो वसून्य् आ भर ॥
प्रजापते
स वेद
सोमापूषणा ।
इमौ देवौ ॥

2.6.12 अनुवाक 12
पितृयज्ञस्य हौत्रम्

VERSE: 1
उशन्तस् त्वा हवामह उशन्तः सम् इधीमहि । उशन्न् उशत आ वह पितॄन् हविषे अत्तवे ॥
त्वम्̇ सोम प्रचिकितो मनीषा त्वम्̇ रजिष्ठम् अनु नेषि पन्थाम् । तव प्रणीती पितरो न इन्दो देवेषु रत्नम् अभजन्त धीराः ॥
त्वया हि नः पितरः सोम पूर्वे कर्माणि चक्रुः पवमान धीराः । वन्वन्न् अवातः परिधीम्̇र् अपोर्णु वीरेभिर् अश्वैर् मघवा भव

VERSE: 2
नः ॥
त्वम्̇ सोम पितृभिः संविदानो ऽनु द्यावापृथिवी आ ततन्थ । तस्मै त इन्दो हविषा विधेम वयम्̇ स्याम पतयो रयीणाम् ॥
अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । अत्ता हवीम्̇षि प्रयतानि बर्हिष्य् अथा रयिम्̇ सर्ववीरं दधातन ॥
बर्हिषदः पितर ऊत्य् अर्वाग् इमा वो हव्या चकृमा जुषध्वम् । त आ गतावसा शंतमेनाथास्मभ्यम्

VERSE: 3
शं योर् अरपो दधात ॥
आहम् पितॄन्त् सुविदत्राम्̇ अवित्सि नपातं च विक्रमणं च विष्णोः । बर्हिषदो ये स्वधया सुतस्य भजन्त पित्वस् त इहागमिष्ठाः ॥
उपहूताः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्व् अधि ब्रुवन्तु ते अवन्त्व् अस्मान् ॥
उद् ईरताम् अवर उत् परास उन् मध्यमाः पितरः सोम्यासः । असुम्

VERSE: 4
य ईयुर् अवृका ऋतज्ञास् ते नो ऽवन्तु पितरो हवेषु ॥
इदम् पितृभ्यो नमो अस्त्व् अद्य ये पूर्वासो य उपरास् ईयुः । ये पार्थिवे रजस्य् आ निषत्ता ये वा नूनम्̇ सुवृजनासु विक्षु ॥
अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतम् आशुषाणाः । शुचीद् अयन् दीधितिम् उक्थशासः क्षामा भिन्दन्तो अरुणीर् अप व्रन् ॥
यद् अग्ने

VERSE: 5
कव्यवाहन पितॄन् यक्ष्य् ऋतावृधः । प्र च हव्यानि वक्ष्यसि देवेभ्यश् च पितृभ्य आ ॥
त्वम् अग्न ईडितो जातवेदो ऽवाड्ढव्यानि सुरभीणि कृत्वा । प्रादाः पितृभ्यः स्वधया ते अक्षन्न् अद्धि त्वं देव प्रयता हवीम्̇षि ॥
मातली कव्यैर् यमो अङ्गिरोभिर् बृहस्पतिर् ऋक्वभिर् वावृधानः । याम्̇श् च देवा वावृधुर् ये च देवान्त् स्वाहान्ये स्वधयान्ये मदन्ति ॥

VERSE: 6
इमं यम प्रस्तरम् आ हि सीदाङ्गिरोभिः पितृभिः संविदानः । आ त्वा मन्त्राः कविशस्ता वहन्त्व् एना राजन् हविषा मादयस्व ॥
अङ्गिरोभिर् आ गहि यज्ञियेभिर् यम वैरूपैर् इह मादयस्व । विवस्वन्तम्̇ हुवे यः पिता ते ऽस्मिन् यज्ञे बर्हिष्य् आ निषद्य ॥
अङ्गिरसो नः पितरो नवग्वा अथर्वाणो भृगवः सोम्यासः । तेषां वयम्̇ सुमतौ यज्ञियानाम् अपि भद्रे सौमनसे स्याम ॥