प्रमुखा विकल्पसूचिः उद्घाट्यताम्

4.6 प्रपाठक: 6

4.6.1 अनुवाक 1 परिषेचनादिमन्त्राः
1 अश्मन्न् ऊर्जम् पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे । अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृतां तां न इषमूर्जं धत्त मरुतः सम्̇रराणाः ॥ अश्मम्̇स् ते क्षुद् अमुं ते शुग् ऋच्छतु यं द्विष्मः समुद्रस्य त्वाऽवाकयाग्ने परि व्ययामसि । पावको अस्मभ्यम्̇ शिवो भव ॥ हिमस्य त्वा जरायुणाग्ने परि व्ययामसि । पावको अस्मभ्यम्̇ शिवो भव ॥ उप
2 ज्मन्न् उप वेतसे ऽवत्तरं नदीष्व् आ । अग्ने पित्तम् अपाम् असि ॥ मण्डूकि ताभिर् आ गहि सेमं नो यज्ञम् । पावकवर्णम्̇ शिवं कृधि ॥ पावक आ चितयन्त्या कृपा । क्षामन् रुरुच उषसो न भानुना ॥ तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे । न ततृषाणो अजरः ॥ अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्
3 वक्षि यक्षि च ॥ स नः पावक दीदिवो ऽग्ने देवाम्̇ इहा वह । उप यज्ञम्̇ हविश् च नः ॥ अपाम् इदं न्ययनम्̇ समुद्रस्य निवेशनम् । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥ नमस् ते हरसे शोचिषे नमस् ते अस्त्व् अर्चिषे । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥ नृषदे वड
4 प्सुषदे वड् वनसदे वड् बर्हिषदे वट् सुवर्विदे वट् ॥ ये देवा देवानां यज्ञिया यज्ञियानाम्̇ संवत्सरीणम् उप भागम् आसते । अहुतादो हविषो यज्ञे अस्मिन्त् स्वयं जुहुध्वम् मधुनो घृतस्य ॥ ये देवा देवेष्व् अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो अस्य । येभ्यो नर्ते पवते धाम किं चन न ते दिवो न पृथिव्या अधि स्नुषु ॥ प्राणदा
5 अपानदा व्यानदाश् चक्षुर्दा वर्चोदा वरिवोदाः । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥ अग्निस् तिग्मेन शोचिषा यम्̇सद् विश्वं न्य् अत्रिणम् । अग्निर् नो वम्̇सते रयिम् ॥ सैनानीकेन सुविदत्रो अस्मे यष्टा देवाम्̇ आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥

4.6.2 अनुवाक 2 वैश्वकर्मणहोमौ
1 य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता निषसादा पिता नः । स आशिषा द्रविणम् इच्छमानः परमच्छदो वर आ विवेश ॥ विश्वकर्मा मनसा यद् विहाया धाता विधाता परमोत संदृक् । तेषाम् इष्टानि सम् इषा मदन्ति यत्र सप्तर्षीन् पर एकम् आहुः ॥ यो नः पिता जनिता यो विधाता यो नः सतो अभ्य् आ सज् जजान ।
2 यो देवानां नामधा एक एव तम्̇ सम्प्रश्नम् भुवना यन्त्य् अन्या ॥ त आयजन्त द्रविणम्̇ सम् अस्मा ऋषयः पूर्वे जरितारो न भूना । असूर्ता सूर्ता रजसो विमाने ये भूतानि समकृण्वन्न् इमानि ॥ न तं विदाथ य इदं जजानान्यद् युष्माकम् अन्तरम् भवाति । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ॥ परो दिवा पर एना
3 पृथिव्या परो देवेभिर् असुरैर् गुहा यत् । कम्̇ स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ॥ तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभाव् अध्य् एकम् अर्पितम् यस्मिन्न् इदं विश्वम् भुवनम् अधि श्रितम् ॥ विश्वकर्मा ह्य् अजनिष्ट देव आद् इद् गन्धर्वो अभवद् द्वितीयः । तृतीयः पिता जनितौषधीना
4 मपां गर्भं व्यदधात् पुरुत्रा ॥ चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नंनमाने । यदेद् अन्ता अददृम्̇हन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम् ॥ विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सम् बाहुभ्यां नमति सम् पतत्रैर् द्यावापृथिवी जनयन् देव एकः ॥ किम्̇ स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् किम् आसीत् । यदी भूमिं जनयन्
5 विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥ किम्̇ स्विद् वनं क उ स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥ या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तनुवं जुषाणः ॥ वाचस् पतिं विश्वकर्माणमूतये
6 मनोयुजं वाजे अद्या हुवेम । स नो नेदिष्ठा हवनानि जोषते विश्वशम्भूर् अवसे साधुकर्मा ॥ विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व तनुवं जुषाणः । मुह्यन्त्व् अन्ये अभितः सपत्ना इहास्माकम् मघवा सूरिर् अस्तु ॥ विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् । तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ॥ समुद्राय वयुनाय सिन्धूनाम् पतये नमः । नदीनाम्̇ सर्वासाम् पित्रे जुहुता विश्वकर्मणे विश्वाऽहामर्त्यम्̇ हविः ॥

4.6.3 अनुवाक 3 अग्निप्रणयनम्
1 उद् एनम् उत्तरां नयाग्ने घृतेनाऽऽहुत । रायस् पोषेण सम्̇ सृज प्रजया च धनेन च ॥
इन्द्रेमम् प्रतरां कृधि सजातानाम् असद् वशी । सम् एनं वर्चसा सृज देवेभ्यो भागधा असत् ॥ यस्य कुर्मो हविर् गृहे तम् अग्ने वर्धया त्वम् । तस्मै देवा अधि ब्रवन्न् अयं च ब्रह्मणस् पतिः ॥ उद् उ त्वा विश्वे देवाः
2 अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥ पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिम् बाधमानाः । रायस् पोषे यज्ञपतिम् आभजन्तीः ॥ रायस् पोषे अधि यज्ञो अस्थात् समिद्धे अग्नाव् अधि मामहानः । उक्थपत्त्र ईड्यो गृभीतस् तप्तं घर्मम् परिगृह्यायजन्त ॥ ऊर्जा यद् यज्ञम् अशमन्त देवा दैव्याय धर्त्रे जोष्ट्रे । देवश्रीः श्रीमणाः शतपयाः
3 परिगृह्य देवा यज्ञम् आयन् ॥ सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाम्̇ अजस्रम् । तस्य पूषा प्रसवं याति देवः सम्पश्यन् विश्वा भुवनानि गोपाः ॥ देवा देवेभ्यो अध्वर्यन्तो अस्थुर् वीतम्̇ शमित्रे शमिता यजध्यै । तुरीयो यज्ञो यत्र हव्यम् एति ततः पावका आशिषो नो जुषन्ताम् ॥ विमान एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् । स विश्वाचीर् अभि
4 चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥ उक्षा समुद्रो अरुणः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश । मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसः पात्य् अन्तौ ॥ इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̇ रथीनां वाजानाम्̇ सत्पतिम् पतिम् ॥ सुम्नहूर् यज्ञो देवाम्̇ आ च वक्षद् यक्षद् अग्निर् देवो देवाम्̇ आ च वक्षत् । वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाम्̇ इन्द्रो मे निग्राभेणाधराम्̇ अकः ॥ उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥

4.6.4 अनुवाक 4 अप्रतिरथसूक्तम्
1 आशुः शिशानो वृषभो न युध्मो घनाघनः क्षोभणश् चर्षणीनाम् । संक्रन्दनो ऽनिमिष एकवीरः शतम्̇ सेना अजयत् साकम् इन्द्रः ॥ संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥ स इषुहस्तैः स निषङ्गिभिर् वशी सम्̇स्रष्टा स युध इन्द्रो गणेन । सम्̇सृष्टजित् सोमपा बाहुशर्ध्य् ऊर्ध्वधन्वा प्रतिहिताभिर् अस्ता ॥ बृहस्पते परि दीया
2 रथेन रक्षोहामित्राम्̇ अपबाधमानः । प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥ गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा । इमम्̇ सजाता अनु वीरयध्वम् इन्द्रम्̇ सखायो ऽनु सम्̇ रभध्वम् ॥ बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥ अभि गोत्राणि सहसा गाहमानो ऽदायः
3 वीरः शतमन्युर् इन्द्रः । दुश्च्यवनः पृतनाषाड् अयुध्यो ऽस्माकम्̇ सेना अवतु प्र युत्सु ॥ इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानाम् अभिभञ्जतीनां जयन्तीनाम् मरुतो यन्त्व् अग्रे ॥ इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुताम्̇ शर्ध उग्रम् । महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥ अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु ॥
4 अस्माकं वीरा उत्तरे भवन्त्व् अस्मान् उ देवा अवता हवेषु ॥ उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् महाम्̇सि । उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयताम् एतु घोषः ॥ उप प्रेत जयता नर स्थिरा वः सन्तु बाहवः । इन्द्रो वः शर्म यच्छत्व् अनाधृष्या यथासथ ॥ अवसृष्टा परा पत शरव्ये ब्रह्मसम्̇शिता । गच्छामित्रान् प्र
5 विश मैषां कं चनोच् छिषः ॥ मर्माणि ते वर्मभिश् छादयामि सोमस् त्वा राजामृतेनाभि वस्ताम् । उरोर् वरीयो वरिवस् ते अस्तु जयन्तं त्वाम् अनु मदन्तु देवाः ॥ यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । इन्द्रो नस् तत्र वृत्रहा विश्वाहा शर्म यच्छतु ॥

4.6.5 अनुवाक 5 अग्निस्थापनम्
1 प्राचीम् अनु प्रदिशम् प्रेहि विद्वान् अग्नेर् अग्ने पुरोअग्निर् भवेह । विश्वा आशा दीद्यानो वि भाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥ क्रमध्वम् अग्निना नाकम् उख्यम्̇ हस्तेषु बिभ्रतः । दिवः पृष्ठम्̇ सुवर् गत्वा मिश्रा देवेभिर् आद्ध्वम् ॥ पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् । दिवो नाकस्य पृष्ठात् सुवर् ज्योतिर् अगा
2 महम् ॥ सुवर् यन्तो नापेक्षन्त आ द्याम्̇ रोहन्ति रोदसी । यज्ञं ये विश्वतोधारम्̇ सुविद्वाम्̇सो वितेनिरे ॥ अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः सुवर् यन्तु यजमानाः स्वस्ति ॥ नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̇ समीची । द्यावा क्षामा रुक्मो अन्तर् विभाति देवा अग्निं धारयन् द्रविणोदाः ॥ अग्ने सहस्राक्ष
3 शतमूर्धञ् छतं ते प्राणाः सहस्रम् अपानाः । त्वम्̇ साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥ सुपर्णो ऽसि गरुत्मान् पृथिव्याम्̇ सीद पृष्ठे पृथिव्याः सीद भासान्तरिक्षम् आ पृण ज्योतिषा दिवम् उत् तभान तेजसा दिश उद् दृम्̇ह ॥ आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने स्वां योनिम् आ सीद साध्या । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवाः
4 यजमानश् च सीदत ॥ प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । त्वाम्̇ शश्वन्त उप यन्ति वाजाः ॥ विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवीम्̇षि जुहुरे समिद्धे ॥ ताम्̇ सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् । याम् अस्य कण्वो अदुहत् प्रपीनाम्̇ सहस्रधाराम्
5 पयसा महीं गाम् ॥ सप्त ते अग्ने समिधः सप्त जिह्वाः सप्तर्षयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्वा घृतेन ॥ ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः । शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माम्̇श् च सत्यश् चर्तपाश् चात्यम्̇हाः ॥
6 ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् चान्त्यमित्रश् च दूरेअमित्रश् च गणः । ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च धर्ता च विधर्ता च विधारयः । ईदृक्षास एतादृक्षास ऊ षु णः सदृक्षासः प्रतिसदृक्षास एतन । मितासश् च सम्मितासश् च न ऊतये सभरसो मरुतो यज्ञे अस्मिन् । इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मान एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु ॥

4.6.6 अनुवाक 6 अश्वमेधे कवचस्वीकारादि
1 जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । अनाविद्धया तनुवा जय त्वम्̇ स त्वा वर्मणो महिमा पिपर्तु ॥ धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥ वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियम्̇ सखायम् परिषस्वजाना । योषेव शिङ्क्तेवितताऽधि धन्वन्
2 ज्या इयम्̇ समने पारयन्ती ॥ ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे । अप शत्रून् विध्यताम्̇ संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥ बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनाऽवगत्य । इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥ रथे तिष्ठन् नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः । अभीशूनाम् महिमानम्
3 पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥ तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूम्̇र् अनपव्ययन्तः ॥ रथवाहनम्̇ हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । तत्रा रथम् उप शग्मम्̇ सदेम विश्वाहा वयम्̇ सुमनस्यमानाः ॥ स्वादुषम्̇सदः पितरो वयोधाः कृछ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥ ब्राह्मणासः
4 पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशम्̇स ईशत ॥ सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यम्̇सन् ॥ ऋजीते परि वृङ्ग्धि नो ऽश्मा भवतु नस् तनूः । सोमो अधि ब्रवीतु नो ऽदितिः
5 शर्म यच्छतु ॥ आ जङ्घन्ति सान्व् एषां जघनाम्̇ उप जिघ्नते । अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु चोदय ॥ अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाम्̇सम् परि पातु विश्वतः ॥ वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः संनद्धो असि वीडयस्वाऽऽस्थाता ते जयतु जेत्वानि ॥ दिवः पृथिव्याः परि
6 ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतम्̇ सहः । अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रम्̇ हविषा रथं यज ॥ इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः । सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥ उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुन्दुभे सजूर् इन्द्रेण देवैर् दूरात्
7 दवीयो अप सेध शत्रून् ॥ आ क्रन्दय बलम् ओजो न आ धा नि ष्टनिहि दुरिता बाधमानः । अप प्रोथ दुन्दुभे दुच्छुनाम्̇ इत इन्द्रस्य मुष्टिर् असि वीडयस्व ॥ आऽमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति । सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥

4.6.7 अनुवाक 7 अश्वस्तोमीया होमाः
1 यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ॥ यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् । गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥ असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन । असि सोमेन समया विपृक्तः
2 आहुस् ते त्रीणि दिवि बन्धनानि ॥ त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमं जनित्रम् ॥ इमा ते वाजिन्न् अवमार्जनानीमा शफानाम्̇ सनितुर् निधाना । अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः ॥ आत्मानं ते मनसाऽऽराद् अजानाम् अवो दिवा
3 पतयन्तम् पतंगम् । शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि ॥ अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः । यदा ते मर्तो अनु भोगम् आनड् आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ॥ अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यम्
4 ते ॥ हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ॥ ईर्मान्तासः सिलिकमध्यमासः सम्̇ शूरणासो दिव्यासो अत्याः । हम्̇सा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥ तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥ उप
5 प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥ उप प्रागात् परमं यत् सधस्थम् अर्वाम्̇ अच्छा पितरम् मातरं च । अद्या देवाञ् जुष्टतमो हि गम्या अथाऽऽ शास्ते दाशुषे वार्याणि ॥

4.6.8 अनुवाक 8 अश्वस्तोमीया होमाः
1 मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् । यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥ यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीताम् मुखतो नयन्ति । सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥ एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत् पुरोडाशम् अर्वता त्वष्टे
2 देनम्̇ सौश्रवसाय जिन्वति यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥ होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शम्̇स्ता सुविप्रः । तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥ यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति । ये चार्वते पचनम्̇ सम्भरन्त्य् उतो
3 तेषाम् अभिगूर्तिर् न इन्वतु ॥ उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः । अन्व् एनं विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा सुबन्धुम् ॥ यद् वाजिनो दाम संदानं अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । यद् वा घास्य प्रभृतम् आस्ये तृणम्̇ सर्वा ता ते अपि देवेष्व् अस्तु ॥ यद् अश्वस्य क्रविषः
4 मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ॥ यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । सुकृता तच् छमितारः कृण्वन्तूत मेधम्̇ शृतपाकम् पचन्तु ॥ यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥

4.6.9 अनुवाक 9 अश्वस्तोमीया होमाः
1 ये वाजिनम् परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर् हरेति । ये चार्वतो माम्̇सभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥ यन् नीक्षणम् माम्̇स्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥ निक्रमणं निषदनं विवर्तनं यच् च पड्बीशम् अर्वतः । यच् च पपौ यच् च घासिम्
2 जघास सर्वा ता ते अपि देवेष्व् अस्तु ॥ मा त्वाग्निर् ध्वनयिद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्य् अश्वम् ॥ यद् अश्वाय वास उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै । संदानम् अर्वन्तम् पड्बीशम् प्रिया देवेष्व् आ यामयन्ति ॥ यत् ते सादे महसा शूकृतस्य पार्ष्णिया वा कशया
3 वा तुतोद । स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥ चतुस्त्रिम्̇शद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । अछिद्रा गात्रा वयुना कृणोत परुष्परुर् अनुघुष्या वि शस्त ॥ एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथर्तुः । या ते गात्राणाम् ऋतुथा कृणोमि ताता पिण्डानाम् प्र जुहोम्य् अग्नौ ॥ मा त्वा तपत्
4 प्रिय आत्मापियन्तम् मा स्वधितिस् तनुव आ तिष्ठिपत् ते । मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥ न वा उवेतन् म्रियसे न रिष्यसि देवाम्̇ इद् एषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥ सुगव्यं नो वाजी स्वश्वियम् पुम्̇सः पुत्राम्̇ उत विश्वापुषम्̇ रयिम् । अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनताम्̇ हविष्मान् ॥



4.6.1 अनुवाक 1
परिषेचनादिमन्त्राः

1 अश्मन्न् ऊर्जम् पर्वते शिश्रियाणां वाते पर्जन्ये वरुणस्य शुष्मे । अद्भ्य ओषधीभ्यो वनस्पतिभ्यो ऽधि सम्भृतां तां न इषमूर्जं धत्त मरुतः सम्̇रराणाः ॥
अश्मम्̇स् ते क्षुद् अमुं ते शुग् ऋच्छतु यं द्विष्मः
समुद्रस्य त्वाऽवाकयाग्ने परि व्ययामसि । पावको अस्मभ्यम्̇ शिवो भव ॥
हिमस्य त्वा जरायुणाग्ने परि व्ययामसि । पावको अस्मभ्यम्̇ शिवो भव ॥
उप

2 ज्मन्न् उप वेतसे ऽवत्तरं नदीष्व् आ । अग्ने पित्तम् अपाम् असि ॥
मण्डूकि ताभिर् आ गहि सेमं नो यज्ञम् । पावकवर्णम्̇ शिवं कृधि ॥
पावक आ चितयन्त्या कृपा । क्षामन् रुरुच उषसो न भानुना ॥
तूर्वन् न यामन्न् एतशस्य नू रण आ यो घृणे । न ततृषाणो अजरः ॥
अग्ने पावक रोचिषा मन्द्रया देव जिह्वया । आ देवान्

3 वक्षि यक्षि च ॥
स नः पावक दीदिवो ऽग्ने देवाम्̇ इहा वह । उप यज्ञम्̇ हविश् च नः ॥
अपाम् इदं न्ययनम्̇ समुद्रस्य निवेशनम् । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥
नमस् ते हरसे शोचिषे नमस् ते अस्त्व् अर्चिषे । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥
नृषदे वड

4 प्सुषदे वड् वनसदे वड् बर्हिषदे वट् सुवर्विदे वट् ॥
ये देवा देवानां यज्ञिया यज्ञियानाम्̇ संवत्सरीणम् उप भागम् आसते । अहुतादो हविषो यज्ञे अस्मिन्त् स्वयं जुहुध्वम् मधुनो घृतस्य ॥
ये देवा देवेष्व् अधि देवत्वम् आयन् ये ब्रह्मणः पुरएतारो अस्य । येभ्यो नर्ते पवते धाम किं चन न ते दिवो न पृथिव्या अधि स्नुषु ॥
प्राणदा

5 अपानदा व्यानदाश् चक्षुर्दा वर्चोदा वरिवोदाः । अन्यं ते अस्मत् तपन्तु हेतयः पावको अस्मभ्यम्̇ शिवो भव ॥
अग्निस् तिग्मेन शोचिषा यम्̇सद् विश्वं न्य् अत्रिणम् । अग्निर् नो वम्̇सते रयिम् ॥
सैनानीकेन सुविदत्रो अस्मे यष्टा देवाम्̇ आयजिष्ठः स्वस्ति । अदब्धो गोपा उत नः परस्पा अग्ने द्युमद् उत रेवद् दिदीहि ॥

4.6.2 अनुवाक 2
वैश्वकर्मणहोमौ

1 य इमा विश्वा भुवनानि जुह्वद् ऋषिर् होता निषसादा पिता नः । स आशिषा द्रविणम् इच्छमानः परमच्छदो वर आ विवेश ॥
विश्वकर्मा मनसा यद् विहाया धाता विधाता परमोत संदृक् । तेषाम् इष्टानि सम् इषा मदन्ति यत्र सप्तर्षीन् पर एकम् आहुः ॥
यो नः पिता जनिता यो विधाता यो नः सतो अभ्य् आ सज् जजान ।

2 यो देवानां नामधा एक एव तम्̇ सम्प्रश्नम् भुवना यन्त्य् अन्या ॥
त आयजन्त द्रविणम्̇ सम् अस्मा ऋषयः पूर्वे जरितारो न भूना । असूर्ता सूर्ता रजसो विमाने ये भूतानि समकृण्वन्न् इमानि ॥
न तं विदाथ य इदं जजानान्यद् युष्माकम् अन्तरम् भवाति । नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश् चरन्ति ॥
परो दिवा पर एना

3 पृथिव्या परो देवेभिर् असुरैर् गुहा यत् । कम्̇ स्विद् गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे ॥
तम् इद् गर्भम् प्रथमं दध्र आपो यत्र देवाः समगच्छन्त विश्वे । अजस्य नाभाव् अध्य् एकम् अर्पितम् यस्मिन्न् इदं विश्वम् भुवनम् अधि श्रितम् ॥
विश्वकर्मा ह्य् अजनिष्ट देव आद् इद् गन्धर्वो अभवद् द्वितीयः । तृतीयः पिता जनितौषधीना

4 मपां गर्भं व्यदधात् पुरुत्रा ॥
चक्षुषः पिता मनसा हि धीरो घृतम् एने अजनन् नंनमाने । यदेद् अन्ता अददृम्̇हन्त पूर्व आद् इद् द्यावापृथिवी अप्रथेताम् ॥
विश्वतश्चक्षुर् उत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सम् बाहुभ्यां नमति सम् पतत्रैर् द्यावापृथिवी जनयन् देव एकः ॥
किम्̇ स्विद् आसीद् अधिष्ठानम् आरम्भणं कतमत् स्वित् किम् आसीत् । यदी भूमिं जनयन्

5 विश्वकर्मा वि द्याम् और्णोन् महिना विश्वचक्षाः ॥
किम्̇ स्विद् वनं क उ स वृक्ष आसीद् यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेद् उ तद् यद् अध्यतिष्ठद् भुवनानि धारयन् ॥
या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्न् उतेमा । शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तनुवं जुषाणः ॥
वाचस् पतिं विश्वकर्माणमूतये

6 मनोयुजं वाजे अद्या हुवेम । स नो नेदिष्ठा हवनानि जोषते विश्वशम्भूर् अवसे साधुकर्मा ॥
विश्वकर्मन् हविषा वावृधानः स्वयं यजस्व तनुवं जुषाणः । मुह्यन्त्व् अन्ये अभितः सपत्ना इहास्माकम् मघवा सूरिर् अस्तु ॥
विश्वकर्मन् हविषा वर्धनेन त्रातारम् इन्द्रम् अकृणोर् अवध्यम् । तस्मै विशः समनमन्त पूर्वीर् अयम् उग्रो विहव्यो यथासत् ॥
समुद्राय वयुनाय सिन्धूनाम् पतये नमः । नदीनाम्̇ सर्वासाम् पित्रे जुहुता विश्वकर्मणे विश्वाऽहामर्त्यम्̇ हविः ॥

4.6.3 अनुवाक 3
अग्निप्रणयनम्

1 उद् एनम् उत्तरां नयाग्ने घृतेनाऽऽहुत । रायस् पोषेण सम्̇ सृज प्रजया च धनेन च ॥
इन्द्रेमम् प्रतरां कृधि सजातानाम् असद् वशी । सम् एनं वर्चसा सृज देवेभ्यो भागधा असत् ॥
यस्य कुर्मो हविर् गृहे तम् अग्ने वर्धया त्वम् । तस्मै देवा अधि ब्रवन्न् अयं च ब्रह्मणस् पतिः ॥
उद् उ त्वा विश्वे देवाः

2 अग्ने भरन्तु चित्तिभिः । स नो भव शिवतमः सुप्रतीको विभावसुः ॥
पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् अपामतिं दुर्मतिम् बाधमानाः । रायस् पोषे यज्ञपतिम् आभजन्तीः ॥
रायस् पोषे अधि यज्ञो अस्थात् समिद्धे अग्नाव् अधि मामहानः । उक्थपत्त्र ईड्यो गृभीतस् तप्तं घर्मम् परिगृह्यायजन्त ॥
ऊर्जा यद् यज्ञम् अशमन्त देवा दैव्याय धर्त्रे जोष्ट्रे । देवश्रीः श्रीमणाः शतपयाः

3 परिगृह्य देवा यज्ञम् आयन् ॥
सूर्यरश्मिर् हरिकेशः पुरस्तात् सविता ज्योतिर् उद् अयाम्̇ अजस्रम् । तस्य पूषा प्रसवं याति देवः सम्पश्यन् विश्वा भुवनानि गोपाः ॥
देवा देवेभ्यो अध्वर्यन्तो अस्थुर् वीतम्̇ शमित्रे शमिता यजध्यै । तुरीयो यज्ञो यत्र हव्यम् एति ततः पावका आशिषो नो जुषन्ताम् ॥
विमान एष दिवो मध्य आस्त आपप्रिवान् रोदसी अन्तरिक्षम् । स विश्वाचीर् अभि

4 चष्टे घृताचीर् अन्तरा पूर्वम् अपरं च केतुम् ॥
उक्षा समुद्रो अरुणः सुपर्णः पूर्वस्य योनिम् पितुर् आ विवेश । मध्ये दिवो निहितः पृश्निर् अश्मा वि चक्रमे रजसः पात्य् अन्तौ ॥
इन्द्रं विश्वा अवीवृधन्त् समुद्रव्यचसं गिरः । रथीतमम्̇ रथीनां वाजानाम्̇ सत्पतिम् पतिम् ॥
सुम्नहूर् यज्ञो देवाम्̇ आ च वक्षद् यक्षद् अग्निर् देवो देवाम्̇ आ च वक्षत् ।
वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीत् । अथा सपत्नाम्̇ इन्द्रो मे निग्राभेणाधराम्̇ अकः ॥
उद्ग्राभं च निग्राभं च ब्रह्म देवा अवीवृधन् । अथा सपत्नान् इन्द्राग्नी मे विषूचीनान् व्यस्यताम् ॥

4.6.4 अनुवाक 4
अप्रतिरथसूक्तम्

1 आशुः शिशानो वृषभो न युध्मो घनाघनः क्षोभणश् चर्षणीनाम् । संक्रन्दनो ऽनिमिष एकवीरः शतम्̇ सेना अजयत् साकम् इन्द्रः ॥
संक्रन्दनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना । तद् इन्द्रेण जयत तत् सहध्वं युधो नर इषुहस्तेन वृष्णा ॥
स इषुहस्तैः स निषङ्गिभिर् वशी सम्̇स्रष्टा स युध इन्द्रो गणेन । सम्̇सृष्टजित् सोमपा बाहुशर्ध्य् ऊर्ध्वधन्वा प्रतिहिताभिर् अस्ता ॥
बृहस्पते परि दीया

2 रथेन रक्षोहामित्राम्̇ अपबाधमानः । प्रभञ्जन्त् सेनाः प्रमृणो युधा जयन्न् अस्माकम् एध्य् अविता रथानाम् ॥
गोत्रभिदं गोविदं वज्रबाहुं जयन्तम् अज्म प्रमृणन्तम् ओजसा । इमम्̇ सजाता अनु वीरयध्वम् इन्द्रम्̇ सखायो ऽनु सम्̇ रभध्वम् ॥
बलविज्ञाय स्थविरः प्रवीरः सहस्वान् वाजी सहमान उग्रः । अभिवीरो अभिसत्वा सहोजा जैत्रम् इन्द्र रथम् आ तिष्ठ गोवित् ॥
अभि गोत्राणि सहसा गाहमानो ऽदायः

3 वीरः शतमन्युर् इन्द्रः । दुश्च्यवनः पृतनाषाड् अयुध्यो ऽस्माकम्̇ सेना अवतु प्र युत्सु ॥
इन्द्र आसां नेता बृहस्पतिर् दक्षिणा यज्ञः पुर एतु सोमः । देवसेनानाम् अभिभञ्जतीनां जयन्तीनाम् मरुतो यन्त्व् अग्रे ॥
इन्द्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानाम् मरुताम्̇ शर्ध उग्रम् । महामनसाम् भुवनच्यवानां घोषो देवानां जयताम् उद् अस्थात् ॥
अस्माकम् इन्द्रः समृतेषु ध्वजेष्व् अस्माकं या इषवस् ता जयन्तु ॥

4 अस्माकं वीरा उत्तरे भवन्त्व् अस्मान् उ देवा अवता हवेषु ॥
उद् धर्षय मघवन्न् आयुधान्य् उत् सत्वनाम् मामकानाम् महाम्̇सि । उद् वृत्रहन् वाजिनां वाजिनान्य् उद् रथानां जयताम् एतु घोषः ॥
उप प्रेत जयता नर स्थिरा वः सन्तु बाहवः । इन्द्रो वः शर्म यच्छत्व् अनाधृष्या यथासथ ॥
अवसृष्टा परा पत शरव्ये ब्रह्मसम्̇शिता । गच्छामित्रान् प्र

5 विश मैषां कं चनोच् छिषः ॥
मर्माणि ते वर्मभिश् छादयामि सोमस् त्वा राजामृतेनाभि वस्ताम् । उरोर् वरीयो वरिवस् ते अस्तु जयन्तं त्वाम् अनु मदन्तु देवाः ॥
यत्र बाणाः सम्पतन्ति कुमारा विशिखा इव । इन्द्रो नस् तत्र वृत्रहा विश्वाहा शर्म यच्छतु ॥

4.6.5 अनुवाक 5
अग्निस्थापनम्

1 प्राचीम् अनु प्रदिशम् प्रेहि विद्वान् अग्नेर् अग्ने पुरोअग्निर् भवेह । विश्वा आशा दीद्यानो वि भाह्य् ऊर्जं नो धेहि द्विपदे चतुष्पदे ॥
क्रमध्वम् अग्निना नाकम् उख्यम्̇ हस्तेषु बिभ्रतः । दिवः पृष्ठम्̇ सुवर् गत्वा मिश्रा देवेभिर् आद्ध्वम् ॥
पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् अन्तरिक्षाद् दिवम् आरुहम् । दिवो नाकस्य पृष्ठात् सुवर् ज्योतिर् अगा

2 महम् ॥
सुवर् यन्तो नापेक्षन्त आ द्याम्̇ रोहन्ति रोदसी । यज्ञं ये विश्वतोधारम्̇ सुविद्वाम्̇सो वितेनिरे ॥
अग्ने प्रेहि प्रथमो देवयतां चक्षुर् देवानाम् उत मर्त्यानाम् । इयक्षमाणा भृगुभिः सजोषाः सुवर् यन्तु यजमानाः स्वस्ति ॥
नक्तोषासा समनसा विरूपे धापयेते शिशुम् एकम्̇ समीची । द्यावा क्षामा रुक्मो अन्तर् विभाति देवा अग्निं धारयन् द्रविणोदाः ॥
अग्ने सहस्राक्ष

3 शतमूर्धञ् छतं ते प्राणाः सहस्रम् अपानाः । त्वम्̇ साहस्रस्य राय ईशिषे तस्मै ते विधेम वाजाय स्वाहा ॥
सुपर्णो ऽसि गरुत्मान् पृथिव्याम्̇ सीद पृष्ठे पृथिव्याः सीद भासान्तरिक्षम् आ पृण ज्योतिषा दिवम् उत् तभान तेजसा दिश उद् दृम्̇ह ॥
आजुह्वानः सुप्रतीकः पुरस्ताद् अग्ने स्वां योनिम् आ सीद साध्या । अस्मिन्त् सधस्थे अध्य् उत्तरस्मिन् विश्वे देवाः

4 यजमानश् च सीदत ॥
प्रेद्धो अग्ने दीदिहि पुरो नो ऽजस्रया सूर्म्या यविष्ठ । त्वाम्̇ शश्वन्त उप यन्ति वाजाः ॥
विधेम ते परमे जन्मन्न् अग्ने विधेम स्तोमैर् अवरे सधस्थे । यस्माद् योनेर् उदारिथा यजे तम् प्र त्वे हवीम्̇षि जुहुरे समिद्धे ॥
ताम्̇ सवितुर् वरेण्यस्य चित्राम् आहं वृणे सुमतिं विश्वजन्याम् । याम् अस्य कण्वो अदुहत् प्रपीनाम्̇ सहस्रधाराम्

5 पयसा महीं गाम् ॥
सप्त ते अग्ने समिधः सप्त जिह्वाः सप्तर्षयः सप्त धाम प्रियाणि । सप्त होत्राः सप्तधा त्वा यजन्ति सप्त योनीर् आ पृणस्वा घृतेन ॥
ईदृङ् चान्यादृङ् चैतादृङ् च प्रतिदृङ् च मितश् च सम्मितश् च सभराः ।
शुक्रज्योतिश् च चित्रज्योतिश् च सत्यज्योतिश् च ज्योतिष्माम्̇श् च सत्यश् चर्तपाश् चात्यम्̇हाः ॥

6 ऋतजिच् च सत्यजिच् च सेनजिच् च सुषेणश् चान्त्यमित्रश् च दूरेअमित्रश् च गणः ।
ऋतश् च सत्यश् च ध्रुवश् च धरुणश् च धर्ता च विधर्ता च विधारयः ।
ईदृक्षास एतादृक्षास ऊ षु णः सदृक्षासः प्रतिसदृक्षास एतन ।
मितासश् च सम्मितासश् च न ऊतये सभरसो मरुतो यज्ञे अस्मिन् ।
इन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मानो यथेन्द्रं दैवीर् विशो मरुतो ऽनुवर्त्मान एवम् इमं यजमानं दैवीश् च विशो मानुषीश् चानुवर्त्मानो भवन्तु ॥

4.6.6 अनुवाक 6
अश्वमेधे कवचस्वीकारादि

1 जीमूतस्येव भवति प्रतीकं यद् वर्मी याति समदाम् उपस्थे । अनाविद्धया तनुवा जय त्वम्̇ स त्वा वर्मणो महिमा पिपर्तु ॥
धन्वना गा धन्वनाजिं जयेम धन्वना तीव्राः समदो जयेम । धनुः शत्रोर् अपकामं कृणोति धन्वना सर्वाः प्रदिशो जयेम ॥
वक्ष्यन्तीवेद् आ गनीगन्ति कर्णम् प्रियम्̇ सखायम् परिषस्वजाना । योषेव शिङ्क्तेवितताऽधि धन्वन्

2 ज्या इयम्̇ समने पारयन्ती ॥
ते आचरन्ती समनेव योषा मातेव पुत्रम् बिभृताम् उपस्थे । अप शत्रून् विध्यताम्̇ संविदाने आर्त्नी इमे विष्फुरन्ती अमित्रान् ॥
बह्वीनाम् पिता बहुर् अस्य पुत्रश् चिश्चा कृणोति समनाऽवगत्य । इषुधिः सङ्काः पृतनाश् च सर्वाः पृष्ठे निनद्धो जयति प्रसूतः ॥
रथे तिष्ठन् नयति वाजिनः पुरो यत्रयत्र कामयते सुषारथिः । अभीशूनाम् महिमानम्

3 पनायत मनः पश्चाद् अनु यच्छन्ति रश्मयः ॥
तीव्रान् घोषान् कृण्वते वृषपाणयो ऽश्वा रथेभिः सह वाजयन्तः । अवक्रामन्तः प्रपदैर् अमित्रान् क्षिणन्ति शत्रूम्̇र् अनपव्ययन्तः ॥
रथवाहनम्̇ हविर् अस्य नाम यत्रायुधं निहितम् अस्य वर्म । तत्रा रथम् उप शग्मम्̇ सदेम विश्वाहा वयम्̇ सुमनस्यमानाः ॥
स्वादुषम्̇सदः पितरो वयोधाः कृछ्रेश्रितः शक्तीवन्तो गभीराः । चित्रसेना इषुबला अमृध्राः सतोवीरा उरवो व्रातसाहाः ॥
ब्राह्मणासः

4 पितरः सोम्यासः शिवे नो द्यावापृथिवी अनेहसा । पूषा नः पातु दुरिताद् ऋतावृधो रक्षा माकिर् नो अघशम्̇स ईशत ॥
सुपर्णं वस्ते मृगो अस्या दन्तो गोभिः संनद्धा पतति प्रसूता । यत्रा नरः सं च वि च द्रवन्ति तत्रास्मभ्यम् इषवः शर्म यम्̇सन् ॥
ऋजीते परि वृङ्ग्धि नो ऽश्मा भवतु नस् तनूः । सोमो अधि ब्रवीतु नो ऽदितिः

5 शर्म यच्छतु ॥
आ जङ्घन्ति सान्व् एषां जघनाम्̇ उप जिघ्नते । अश्वाजनि प्रचेतसो ऽश्वान्त् समत्सु चोदय ॥
अहिर् इव भोगैः पर्य् एति बाहुं ज्याया हेतिम् परिबाधमानः । हस्तघ्नो विश्वा वयुनानि विद्वान् पुमान् पुमाम्̇सम् परि पातु विश्वतः ॥
वनस्पते वीड्वङ्गो हि भूया अस्मत्सखा प्रतरणः सुवीरः । गोभिः संनद्धो असि वीडयस्वाऽऽस्थाता ते जयतु जेत्वानि ॥
दिवः पृथिव्याः परि

6 ओज उद्भृतं वनस्पतिभ्यः पर्य् आभृतम्̇ सहः । अपाम् ओज्मानम् परि गोभिर् आवृतम् इन्द्रस्य वज्रम्̇ हविषा रथं यज ॥
इन्द्रस्य वज्रो मरुताम् अनीकम् मित्रस्य गर्भो वरुणस्य नाभिः । सेमां नो हव्यदातिं जुषाणो देव रथ प्रति हव्या गृभाय ॥
उप श्वासय पृथिवीम् उत द्याम् पुरुत्रा ते मनुतां विष्ठितं जगत् । स दुन्दुभे सजूर् इन्द्रेण देवैर् दूरात्

7 दवीयो अप सेध शत्रून् ॥
आ क्रन्दय बलम् ओजो न आ धा नि ष्टनिहि दुरिता बाधमानः । अप प्रोथ दुन्दुभे दुच्छुनाम्̇ इत इन्द्रस्य मुष्टिर् असि वीडयस्व ॥
आऽमूर् अज प्रत्यावर्तयेमाः केतुमद् दुन्दुभिर् वावदीति । सम् अश्वपर्णाश् चरन्ति नो नरो ऽस्माकम् इन्द्र रथिनो जयन्तु ॥

4.6.7 अनुवाक 7
अश्वस्तोमीया होमाः

1 यद् अक्रन्दः प्रथमं जायमान उद्यन्त् समुद्राद् उत वा पुरीषात् । श्येनस्य पक्षा हरिणस्य बाहू उपस्तुत्यम् महि जातं ते अर्वन् ॥
यमेन दत्तं त्रित एनम् आयुनग् इन्द्र एणम् प्रथमो अध्य् अतिष्ठत् । गन्धर्वो अस्य रशनाम् अगृभ्णात् सूराद् अश्वं वसवो निर् अतष्ट ॥
असि यमो अस्य् आदित्यो अर्वन्न् असि त्रितो गुह्येन व्रतेन । असि सोमेन समया विपृक्तः

2 आहुस् ते त्रीणि दिवि बन्धनानि ॥
त्रीणि त आहुर् दिवि बन्धनानि त्रीण्य् अप्सु त्रीण्य् अन्तः समुद्रे । उतेव मे वरुणश् छन्त्स्य् अर्वन् यत्रा त आहुः परमं जनित्रम् ॥
इमा ते वाजिन्न् अवमार्जनानीमा शफानाम्̇ सनितुर् निधाना । अत्रा ते भद्रा रशना अपश्यम् ऋतस्य या अभिरक्षन्ति गोपाः ॥
आत्मानं ते मनसाऽऽराद् अजानाम् अवो दिवा

3 पतयन्तम् पतंगम् । शिरो अपश्यम् पथिभिः सुगेभिर् अरेणुभिर् जेहमानम् पतत्रि ॥
अत्रा ते रूपम् उत्तमम् अपश्यं जिगीषमाणम् इष आ पदे गोः । यदा ते मर्तो अनु भोगम् आनड् आद् इद् ग्रसिष्ठ ओषधीर् अजीगः ॥
अनु त्वा रथो अनु मर्यो अर्वन्न् अनु गावो ऽनु भगः कनीनाम् । अनु व्रातासस् तव सख्यम् ईयुर् अनु देवा ममिरे वीर्यम्

4 ते ॥
हिरण्यशृङ्गो ऽयो अस्य पादा मनोजवा अवर इन्द्र आसीत् । देवा इद् अस्य हविरद्यम् आयन् यो अर्वन्तम् प्रथमो अध्यतिष्ठत् ॥
ईर्मान्तासः सिलिकमध्यमासः सम्̇ शूरणासो दिव्यासो अत्याः । हम्̇सा इव श्रेणिशो यतन्ते यद् आक्षिषुर् दिव्यम् अज्मम् अश्वाः ॥
तव शरीरम् पतयिष्ण्व् अर्वन् तव चित्तं वात इव ध्रजीमान् । तव शृङ्गाणि विष्ठिता पुरुत्रारण्येषु जर्भुराणा चरन्ति ॥
उप

5 प्रागाच् छसनं वाज्य् अर्वा देवद्रीचा मनसा दीध्यानः । अजः पुरो नीयते नाभिर् अस्यानु पश्चात् कवयो यन्ति रेभाः ॥
उप प्रागात् परमं यत् सधस्थम् अर्वाम्̇ अच्छा पितरम् मातरं च । अद्या देवाञ् जुष्टतमो हि गम्या अथाऽऽ शास्ते दाशुषे वार्याणि ॥

4.6.8 अनुवाक 8
अश्वस्तोमीया होमाः

1 मा नो मित्रो वरुणो अर्यमायुर् इन्द्र ऋभुक्षा मरुतः परि ख्यन् । यद् वाजिनो देवजातस्य सप्तेः प्रवक्ष्यामो विदथे वीर्याणि ॥
यन् निर्णिजा रेक्णसा प्रावृतस्य रातिं गृभीताम् मुखतो नयन्ति । सुप्राङ् अजो मेम्यद् विश्वरूप इन्द्रापूष्णोः प्रियम् अप्य् एति पाथः ॥
एष छागः पुरो अश्वेन वाजिना पूष्णो भागो नीयते विश्वदेव्यः । अभिप्रियं यत् पुरोडाशम् अर्वता त्वष्टे

2 देनम्̇ सौश्रवसाय जिन्वति
यद् धविष्यम् ऋतुशो देवयानं त्रिर् मानुषाः पर्य् अश्वं नयन्ति । अत्रा पूष्णः प्रथमो भाग एति यज्ञं देवेभ्यः प्रतिवेदयन्न् अजः ॥
होताध्वर्युर् आवया अग्निमिन्धो ग्रावग्राभ उत शम्̇स्ता सुविप्रः । तेन यज्ञेन स्वरंकृतेन स्विष्टेन वक्षणा आ पृणध्वम् ॥
यूपव्रस्का उत ये यूपवाहाश् चषालं ये अश्वयूपाय तक्षति । ये चार्वते पचनम्̇ सम्भरन्त्य् उतो

3 तेषाम् अभिगूर्तिर् न इन्वतु ॥
उप प्रागात् सुमन् मे ऽधायि मन्म देवानाम् आशा उप वीतपृष्ठः । अन्व् एनं विप्रा ऋषयो मदन्ति देवानाम् पुष्टे चकृमा सुबन्धुम् ॥
यद् वाजिनो दाम संदानं अर्वतो या शीर्षण्या रशना रज्जुर् अस्य । यद् वा घास्य प्रभृतम् आस्ये तृणम्̇ सर्वा ता ते अपि देवेष्व् अस्तु ॥
यद् अश्वस्य क्रविषः

4 मक्षिकाश यद् वा स्वरौ स्वधितौ रिप्तम् अस्ति । यद् धस्तयोः शमितुर् यन् नखेषु सर्वा ता ते अपि देवेष्व् अस्तु ॥
यद् ऊवध्यम् उदरस्यापवाति य आमस्य क्रविषो गन्धो अस्ति । सुकृता तच् छमितारः कृण्वन्तूत मेधम्̇ शृतपाकम् पचन्तु ॥
यत् ते गात्राद् अग्निना पच्यमानाद् अभि शूलं निहतस्यावधावति । मा तद् भूम्याम् आ श्रिषन् मा तृणेषु देवेभ्यस् तद् उशद्भ्यो रातम् अस्तु ॥

4.6.9 अनुवाक 9
अश्वस्तोमीया होमाः

1 ये वाजिनम् परिपश्यन्ति पक्वं य ईम् आहुः सुरभिर् निर् हरेति । ये चार्वतो माम्̇सभिक्षाम् उपासत उतो तेषाम् अभिगूर्तिर् न इन्वतु ॥
यन् नीक्षणम् माम्̇स्पचन्या उखाया या पात्राणि यूष्ण आसेचनानि । ऊष्मण्यापिधाना चरूणाम् अङ्काः सूनाः परि भूषन्त्य् अश्वम् ॥
निक्रमणं निषदनं विवर्तनं यच् च पड्बीशम् अर्वतः । यच् च पपौ यच् च घासिम्

2 जघास सर्वा ता ते अपि देवेष्व् अस्तु ॥
मा त्वाग्निर् ध्वनयिद् धूमगन्धिर् मोखा भ्राजन्त्य् अभि विक्त जघ्रिः । इष्टं वीतम् अभिगूर्तं वषट्कृतं तं देवासः प्रति गृभ्णन्त्य् अश्वम् ॥
यद् अश्वाय वास उपस्तृणन्त्य् अधीवासं या हिरण्यान्य् अस्मै । संदानम् अर्वन्तम् पड्बीशम् प्रिया देवेष्व् आ यामयन्ति ॥
यत् ते सादे महसा शूकृतस्य पार्ष्णिया वा कशया

3 वा तुतोद । स्रुचेव ता हविषो अध्वरेषु सर्वा ता ते ब्रह्मणा सूदयामि ॥
चतुस्त्रिम्̇शद् वाजिनो देवबन्धोर् वङ्क्रीर् अश्वस्य स्वधितिः सम् एति । अछिद्रा गात्रा वयुना कृणोत परुष्परुर् अनुघुष्या वि शस्त ॥
एकस् त्वष्टुर् अश्वस्या विशस्ता द्वा यन्तारा भवतस् तथर्तुः । या ते गात्राणाम् ऋतुथा कृणोमि ताता पिण्डानाम् प्र जुहोम्य् अग्नौ ॥
मा त्वा तपत्

4 प्रिय आत्मापियन्तम् मा स्वधितिस् तनुव आ तिष्ठिपत् ते । मा ते गृध्नुर् अविशस्तातिहाय छिद्रा गात्राण्य् असिना मिथू कः ॥
न वा उवेतन् म्रियसे न रिष्यसि देवाम्̇ इद् एषि पथिभिः सुगेभिः । हरी ते युञ्जा पृषती अभूताम् उपास्थाद् वाजी धुरि रासभस्य ॥
सुगव्यं नो वाजी स्वश्वियम् पुम्̇सः पुत्राम्̇ उत विश्वापुषम्̇ रयिम् । अनागास्त्वं नो अदितिः कृणोतु क्षत्रं नो अश्वो वनताम्̇ हविष्मान् ॥