तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ५/प्रपाठकः १

तैत्तिरीय संहिता
काण्डम् 5
5.1 प्रपाठक: 1
5.1.1 अनुवाक 1 सावित्राहुत्यभ्रिस्वीकारयोरभिधानम्
1 सावित्राणि जुहोति प्रसूत्यै चतुर्गृहीतेन जुहोति चतुष्पादः पशवः पशून् एवाव रुन्द्धे चतस्रो दिशः । दिक्ष्व् एव प्रति तिष्ठति छन्दाꣳसि देवेभ्यो ऽपाक्रामन् न वो ऽभागानि हव्यं वक्ष्याम इति तेभ्य एतच् चतुर्गृहीतम् अधारयन् पुरोऽनुवाक्यायै याज्यायै देवतायै वषट्काराय यच् चतुर्गृहीतं जुहोति छन्दाꣳस्य् एव तत् प्रीणाति तान्य् अस्य प्रीतानि देवेभ्यो हव्यं वहन्ति यं कामयेत
2 पापीयान्त् स्याद् इत्य् एकैकं तस्य जुहुयात् । आहुतीभिर् एवैनम् अप गृह्णाति पापीयान् भवति यं कामयेत वसीयान्त् स्याद् इति सर्वाणि तस्यानुद्रुत्य जुहुयात् । आहुत्यैवैनम् अभि क्रमयति वसीयान् भवति । अथो यज्ञस्यैवैषाभिक्रान्तिः । एति वा एष यज्ञमुखाद् ऋद्ध्या यो ऽग्नेर् देवताया एति । अष्टाव् एतानि सावित्राणि भवन्ति । अष्टाक्षरा गायत्री गायत्रः
3 अग्निस् तेनैव यज्ञमुखाद् ऋद्ध्या अग्नेर् देवतायै नैति । अष्टौ सावित्राणि भवन्त्य् आहुतिर् नवमी त्रिवृतम् एव यज्ञमुखे वि यातयति यदि कामयेत छन्दाꣳसि यज्ञयशसेनार्पयेयम् इत्य् ऋचम् अन्तमां कुर्यात् । छन्दाꣳस्य् एव यज्ञयशसे्नार्पयति यदि कामयेत यजमानं यज्ञयशसेनार्पयेयम् इति यजुर् अन्तमं कुर्यात् । यजमानम् एव यज्ञयशसेनार्पयति । ऋचा स्तोमꣳ सम् अर्धयेति
4 आह समृद्ध्यै चतुर्भिर् अभ्रिम् आ दत्ते चत्वारि छन्दाꣳसि छन्दोभिर् एव देवस्य त्वा सवितुः प्रसव इत्य् आह प्रसूत्यै । अग्निर् देवेभ्यो निलायत स वेणुम् प्राविशत् स एतामूतिम् अनु सम् अचरद् यद् वेणोः सुषिरम् । सुषिराभ्रिर् भवति सयोनित्वाय स यत्रयत्रावसत् तत् कृष्णम् अभवत् कल्माषी भवति रूपसमृद्ध्यै । उभयतःक्ष्णूर् भवति । इतश् चामुतश् चार्कस्यावरुद्ध्यै व्याममात्री भवति । एतावद् वै पुरुषे वीर्यम् । वीर्यसम्मिता । अपरिमिता भवति । अपरिमितस्यावरुद्ध्यै यो वनस्पतीनाम् फलग्रहिः स एषां वीर्यावान् फलग्रहिर् वेणुः । वैणवी भवति वीर्यस्यावरुद्ध्यै ॥

5.1.2 अनुवाक 2 मृत्खननगमनपूर्वकमश्वेन भूम्याक्रमणम्
1 व्यृद्धं वा एतद् यज्ञस्य यद् अयजुष्केण क्रियते । इमाम् अगृभ्णन् रशनाम् ऋतस्येत्य् अश्वाभिधानीम् आ दत्ते यजुष्कृत्यै यज्ञस्य समृद्ध्यै प्रतूर्तं वाजिन्न् आ द्रवेत्य् अश्वम् अभि दधाति रूपम् एवास्यैतन् महिमानं व्याचष्टे युञ्जाथाꣳ रासभं युवम् इति गर्दभम् असत्य् एव गर्दभम् प्रति ष्ठापयति तस्माद् अश्वाद् गर्दभो ऽसत्तरः । योगेयोगे तवस्तरम् इत्य् आह ॥
2 योगे योग एवैनं युङ्क्ते वाजेवाजे हवामह इत्य् आह । अन्नं वै वाजः । अन्नम् एवाव रुन्द्धे सखाय इन्द्रमूतय इत्य् आह । इन्द्रियम् एवाव रुन्द्धे । अग्निर् देवेभ्यो निलायत तम् प्रजापतिर् अन्व् अविन्दत् प्राजापत्यो ऽश्वः । अश्वेन सम् भरत्य् अनुवित्त्यै पापवस्यसं वा एतत् क्रियते यच् छ्रेयसा च पापीयसा च समानं कर्म कुर्वन्ति पापीयान्
3 ह्य् अश्वाद् गर्दभः । अश्वम् पूर्वं नयन्ति पापवस्यसस्य व्यावृत्त्यै तस्माच् छ्रेयाꣳसम् पापीयान् पश्चाद् अन्व् एति बहुर् वै भवतो भ्रातृव्यः । भवतीव खलु वा एष यो ऽग्निम् चिनुते वज्र्य् अश्वः प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तीर् इत्य् आह वज्रेणैव पाप्मानम् भ्रातृव्यम् अव क्रामति रुद्रस्य गाणपत्याद् इत्य् आह रौद्रा वै पशवो रुद्राद् एव
4 पशून् निर्याच्यात्मने कर्म कुरुते पूष्णा सयुजा सहेत्य् आह पूषा वा अध्वनाꣳ संनेता समष्ट्यै पुरीषायतनो वा एष यद् अग्निः । अङ्गिरसो वा एतम् अग्रे देवतानाꣳ सम् अभरन् पृथिव्याः सधस्थाद् अग्निम् पुरीष्यम् अङ्गिरस्वद् अच्छेहीत्य् आह सायतनम् एवैनं देवताभिः सम् भरति । अग्निम् पुरीष्यम् अङ्गिरस्वद् अच्छेम इत्य् आह येन
5 संगच्छते वाजम् एवास्य वृङ्क्ते प्रजापतये प्रतिप्रोच्याग्निः सम्भृत्य इत्य् आहुः । इयं वै प्रजापतिः तस्या एतच् छ्रोत्रं यद् वल्मीकः । अग्निम् पुरीष्यम् अङ्गिरस्वद् भरिष्याम इति वल्मीकवपाम् उप तिष्ठते साक्षाद् एव प्रजापतये प्रतिप्रोच्याग्निꣳ सम् भरति । अग्निम् पुरीष्यम् अङ्गिरस्वद् भराम इत्य् आह येन संगच्छते वाजम् एवास्य वृङ्क्ते। अन्व् अग्निर् उषसाम् अग्रम्
6 अख्यद् इत्य् आह । अनुख्यात्यै । आगत्य वाज्य् अध्वन आक्रम्य वाजिन् पृथिवीम् इत्य् आह । इच्छत्य् एवैनम् पूर्वया विन्दत्य् उत्तरया द्वाभ्याम् आ क्रमयति प्रतिष्ठित्यै । अनुरूपाभ्याम् । तस्माद् अनुरूपाः पशवः प्र जायन्ते द्यौस् ते पृष्ठम् पृथिवी सधस्थम् इत्य् आह । एभ्यो वा एतं लोकेभ्यः प्रजापतिः सम् ऐरयत् । रूपम् एवास्यैतन् महिमानं व्याचष्टे वज्री वा एष यद् अश्वः । दद्भिर् अन्यतोदद्भ्यो भूयाम्̐ लोमभिर् उभयादद्भ्यः । यं द्विष्यात् तम् अधस्पदं ध्यायेत् । वज्रेणैवैनꣳ स्तृणुते ॥

5.1.3 अनुवाक 3 अश्वाक्रमणपूर्वक भूसंस्काराभिधानम्
1 उत् क्रामोद् अक्रमीद् इति द्वाभ्याम् उत् क्रमयति प्रतिष्ठित्यै । अनुरूपाभ्याम् । तस्माद् अनुरूपाः पशवः प्र जायन्ते । अप उप सृजति यत्र वा आप उपगच्छन्ति तद् ओषधयः प्रति तिष्ठन्ति । ओषधीः प्रतितिष्ठन्तीः पशवो ऽनु प्रति तिष्ठन्ति पशून् यज्ञः । यज्ञं यजमानः । यजमानम् प्रजाः तस्माद् अप उप सृजति प्रतिष्ठित्यै यद् अध्वर्युर् अनग्नाव् आहुतिं जुहुयाद् अन्धो ऽध्वर्युः
2 स्याद् रक्षाꣳसि यज्ञꣳ हन्युः । हिरण्यम् उपास्य जुहोति । अग्निवत्य् एव जुहोति नान्धो ऽध्वर्युर् भवति न यज्ञꣳ रक्षाꣳसि घ्नन्ति जिघर्म्य् अग्निम् मनसा घृतेनेत्य् आह मनसा हि पुरुषो यज्ञम् अभिगच्छति प्रतिक्ष्यन्तम् भुवनानि विश्वेत्य् आह सर्वꣳ ह्य् एष प्रत्यङ् क्षेति पृथुं तिरश्चा वयस बृहन्तम् इत्य् आह । अल्पो ह्य् एष जातो महान्
3 भवति व्यचिष्ठम् अन्नꣳ रभसं विदानम् इत्य् आह । अन्नम् एवास्मै स्वदयति सर्वम् अस्मै स्वदते य एवं वेद । आ त्वा जिघर्मि वचसा घृतेनेत्य् आह तस्माद् यत् पुरुषो मनसाभिगच्छति तद् वाचा वदति । अरक्षसेत्य् आह रक्षसाम् अपहत्यै मर्त्यश्री स्पृहयद्वर्णो अग्निर् इत्य् आह । अपचितिम् एवास्मिन् दधाति । अपचितिमान् भवति य एवं
4 वेद मनसा त्वै ताम् आप्तुम् अर्हति याम् अध्वर्युर् अनग्नाव् आहुतिं जुहोति मनस्वतीभ्यां जुहोति । आहुत्योर् आप्त्यै द्वाभ्याम् प्रतिष्ठित्यै यज्ञमुखेयज्ञमुखे वै क्रियमाणे यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति । एतर्हि खलु वा एतद् यज्ञमुखं यर्ह्य् एनद् आहुतिर् अश्नुते परि लिखति रक्षसाम् अपहत्यै तिसृभिः परि लिखति त्रिवृद् वा अग्निः । यावान् एवाग्निस् तस्माद् रक्षाꣳस्य् अप हन्ति ॥
5 गायत्रिया परि लिखति तेजो वै गायत्री तेजसैवैनम् परि गृह्णाति त्रिष्टुभा परि लिखति । इन्द्रियं वै { त्रिष्टुग् ^ त्रिष्तुभ् } इन्द्रियेणैवैनम् परि गृह्णाति । अनुष्टुभा परि लिखति । अनुष्टुप् सर्वाणि छन्दाꣳसि परिभूः पर्याप्त्यै मध्यतो ऽनुष्टुभा वाग् वा { अनुष्टुप् ^ अनुष्टुभ् } तस्मान् मध्यतो वाचा वदामः । गायत्रिया प्रथमया परि लिखत्य् अथानुष्टुभाथ त्रिष्टुभा तेजो वै गायत्री यज्ञो ऽनुष्टुग् इन्द्रियं { त्रिष्टुप् ^ त्रिष्टुभ् } तेजसा चैवेन्द्रियेण चोभयतो यज्ञम् परि गृह्णाति ॥
 
5.1.4 अनुवाक 4 मृदःखननपूर्वकं चर्मपत्रयोः संभरणम्
1 देवस्य त्वा सवितुः प्रसव इति खनति प्रसूत्या अथो धूमम् एवैतेन जनयति ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् इत्य् आह ज्योतिर् एवैतेन जनयति सो ऽग्निर् जातः प्रजाः शुचार्पयत् तं देवा अर्धर्चेनाशमयन् । शिवम् प्रजाभ्यो ऽहिꣳसन्तम् इत्य् आह प्रजाभ्य एवैनꣳ शमयति द्वाभ्यां खनति प्रतिष्ठित्यै । अपाम् पृष्ठम् असीति पुष्करपर्णम् आ
2 हरत्य् अपां वा एतत् पृष्ठं यत् पुष्करपर्णꣳ रूपेणैवैनद् आ हरति पुष्करपर्णेन सम् भरति योनिर् वा अग्नेः पुष्करपर्णꣳ सयोनिम् एवाग्निꣳ सम् भरति
कृष्णाजिनेन सम् भरति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञꣳ सम् भरति यद् ग्राम्याणाम् पशूनां चर्मणा सम्भरेद् ग्राम्यान् पशूञ् छुचार्पयेत् कृष्णाजिनेन सम् भरत्य् आरण्यान् एव पशून्
3 शुचार्पयति तस्मात् समावत् पशूनाम् प्रजायमानानाम् आरण्याः पशवः कनीयाꣳसः शुचा ह्य् ऋताः ।
लोमतः सम् भरत्य् अतो ह्य् अस्य मेध्यम् । कृष्णाजिनं च पुष्करपर्णं च सꣳ स्तृणातीयं वै कृष्णाजिनम् असौ पुष्करपर्णम् आभ्याम् एवैनम् उभयतः परि गृह्णाति । अग्निर् देवेभ्यो निलायत तम् अथर्वान्व् अपश्यत् । अथर्वा त्वा प्रथमो निर् अमन्थद् अग्न इति
4 आह य एवैनम् अन्वपश्यत् तेनैवैनꣳ सम् भरति त्वाम् अग्ने पुष्कराद् अधीत्य् आह पुष्करपर्णे ह्य् एनम् उपश्रितम् अविन्दत् तम् उ त्वा दध्यङ्ङ् ऋषिर् इत्य् आह दध्यङ् वा आथर्वणस् तेजस्व्य् आसीत् तेज एवास्मिन् दधाति तम् उ त्वा पाथ्यो वृषेत्य् आह पूर्वम् एवोदितम् उत्तरेणाभि गृणाति ॥
5 चतसृभिः सम् भरति चत्वारि छन्दाꣳसि छन्दोभिर् एव गायत्रीभिर् ब्राह्मणस्य गायत्रो हि ब्राह्मणस् त्रिष्टुग्भी राजन्यस्य त्रैष्टुभो हि राजन्यो यं कामयेत वसीयान्त् स्याद् इत्य् उभयीभिस् तस्य सम् भरेत् तेजश् चैवास्मा इन्द्रियं च समीची दधात्य् अष्टाभिः सम् भरत्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तꣳ सम् भरति सीद होतर् इत्य् आह देवता एवास्मै सꣳ सादयति नि होतेति मनुष्यान्त् सꣳ सीदस्वेति वयाꣳसि जनिष्वा हि जेन्यो अग्रे अह्नाम् इत्य् आह देवमनुष्यान् एवास्मै सꣳसन्नान् प्र जनयति ॥

5.1.5 अनुवाक 5 संभृतमृदो यज्ञभूमौ समाहरणम्
1 क्रूरम् इव वा अस्या एतत् करोति यत् खनति । अप उप सृजति । आपो वै शान्ताः शान्ताभिर् एवास्यै शुचꣳ शमयति सं ते वायुर् मातरिश्वा दधात्व् इत्य् आह प्राणो वै वायुः प्राणेनैवास्यै प्राणꣳ सं दधाति सं ते वायुर् इत्य् आह तस्माद् वायुप्रच्युता दिवो वृष्टिर् ईर्ते तस्मै च देवि वषड् अस्तु
2 तुभ्यम् इत्य् आह षड् वा ऋतवः । ऋतुष्व् एव वृष्टिं दधाति तस्मात् सर्वान् ऋतून् वर्षति यद् वषट्कुर्याद् रक्षाꣳसि यज्ञꣳ हन्युः । वड् इत्य् आह परोऽक्षम् एव वषट् करोति नास्य यातयामा वषट्कारो भवति न यज्ञꣳ रक्षाꣳसि घ्नन्ति सुजातो ज्योतिषा सहेत्य् []अनुष्टुभोप नह्यति । अनुष्टुप्
3 सर्वाणि छन्दाꣳसि छन्दाꣳसि खलु वा अग्नेः प्रिया तनूः प्रिययैवैनं तनुवा परि दधाति वेदुको वासो भवति य एवं वेद वारुणो वा अग्निर् उपनद्धः । उद् उ तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति सावित्रीभ्याम् उत् तिष्ठति सवितृप्रसूत एवास्योर्ध्वां वरुण मेनिम् उत् सृजति द्वाभ्याम् प्रतिष्ठित्यै स जातो गर्भो असि ॥
4 रोदस्योर् इत्य् आह । इमे वै रोदसी तयोर् एष गर्भो यद् अग्निः तस्माद् एवम् आह । अग्ने चारुर् विभृत ओषधीष्व् इत्य् आह यदा ह्य् एतं विभरन्त्य् अथ चारुतरो भवति प्र मातृभ्यो अधि कनिक्रदद् गा इत्य् आह । ओषधयो वा अस्य मातरः ताभ्य एवैनम् प्र च्यावयति स्थिरो भव वीड्वङ्ग इति गर्दभ आ सादयति ॥
5 सं नह्यत्य् एवैनम् एतया स्थेम्ने गर्दभेन सम् भरति तस्माद् गर्दभः पशूनाम् भारभारितमः । गर्दभेन सम् भरति तस्माद् गर्दभो ऽप्य् अनालेशेत्य् अन्यान् पशून् मेद्यति । अन्नꣳ ह्य् एनेनार्कꣳ सम्भरन्ति गर्दभेन सम् भरति तस्माद् गर्दभो द्विरेताः सन् कनिष्ठम् पशूनाम् प्र जायते । अग्निर् ह्य् अस्य योनिं निर्दहति प्रजासु वा एष एतर्ह्य् आरूढः ॥
6 स ईश्वरः प्रजाः शुचा प्रदहः शिवो भव प्रजाभ्य इत्य् आह प्रजाभ्य एवैनꣳ शमयति मानुषीभ्यस् त्वम् अङ्गिर इत्य् आह मानव्यो हि प्रजाः । मा द्यावापृथिवी अभि शूशुचो मान्तरिक्षम् मा वनस्पतीन् इत्य् आह । एभ्य एवैनं लोकेभ्यः शमयति प्रैतु वाजी कनिक्रदद् इत्य् आह वाजी ह्य् { एष ^ एषस् } नानदद् रासभः पत्वेति
7 आह रासभ इति ह्य् एतम् ऋषयो ऽवदन् भरन्न् अग्निम् पुरीष्यम् इत्य् आह । अग्निꣳ ह्य् एष भरति मा पाद्य् आयुषः पुरेत्य् आह । आयुर् एवास्मिन् दधाति तस्माद् गर्दभः सर्वम् आयुर् एति तस्माद् गर्दभे पुरायुषः प्रमीते बिभ्यति वृषाग्निं वृषणम् भरन्न् इत्य् आह वृषा ह्य् { एष ^ एषस् } वृषाग्निः अपां गर्भम्
8 समुद्रियम् इत्य् आह । अपाꣳ ह्य् एष गर्भो यद् अग्निः । अग्न आ याहि वीतय इति वा इमौ लोकौ व्यैताम् अग्न आ याहि वीतय इति यद् आह । अनयोर् लोकयोर् वीत्यै प्रच्युतो वा एष आयतनाद् अगतः प्रतिष्ठाम् । स एतर्ह्य् अध्वर्युं च यजमानं च ध्यायति । ऋतꣳ सत्यम् इत्य् आह । इयं वा ऋतम् असौ
9 सत्यम् अनयोर् एवैनम् प्रति ष्ठापयति नाऽऽर्तिम् आर्छत्य् अध्वर्युर् न यजमानः । वरुणो वा एष यजमानम् अभ्य् ऐति यद् अग्निर् उपनद्धः । ओषधयः प्रति गृह्णीताग्निम् एतम् इत्य् आह शान्त्यै व्यस्यन् विश्वा अमतीर् अरातीर् इत्य् आह रक्षसाम् अपहत्यै निषीदन् नो अप दुर्मतिꣳ हनद् इत्य् आह प्रतिष्ठित्यै । ओषधयः प्रति मोदध्वम् ॥
10 एनम् इत्य् आह । ओषधयो वा अग्नेर् भागधेयम् । ताभिर् एवैनꣳ सम् अर्धयति पुष्पावतीः सुपिप्पला इत्य् आह तस्माद् ओषधयः फलं गृह्णन्ति । अयं वो गर्भ ऋत्वियः प्रत्नꣳ सधस्थम् आसदद् इत्य् आह याभ्य एवैनम् प्रच्यावयति तास्व् एवैनम् प्रति ष्ठापयति द्वाभ्याम् उपावहरति प्रतिष्ठित्यै ॥

5.1.6 अनुवाक 6 उखानिर्माणम्
1 वारुणो वा अग्निर् उपनद्धः । वि पाजसेति वि स्रꣳसयति सवितृप्रसूत एवास्य विषूचीं वरुणमेनिं वि सृजति । अप उप सृजति । आपो वै शान्ताः शान्ताभिर् एवास्य शुचꣳ शमयति तिसृभिर् उप सृजति त्रिवृद् वा अग्निः । यावान् एवाग्निस् तस्य शुचꣳ शमयति मित्रः सꣳसृज्य पृथिवीम् इत्य् आह मित्रो वै शिवो देवानाम् । तेनैव
2 एनꣳ सꣳ सृजति शान्त्यै यद् ग्राम्याणाम् पात्राणां कपालैः सꣳसृजेद् ग्राम्याणि पात्राणि शुचार्पयेत् ।
अर्मकपालैः सꣳ सृजति । एतानि वा अनुपजीवनीयानि तान्य् एव शुचार्पयति शर्कराभिः सꣳ सृजति धृत्यै । अथो शंत्वाय । अजलोमैः सꣳ सृजति । एषा वा अग्नेः प्रिया तनूर् यद् अजा प्रिययैवैनं तनुवा सꣳ सृजत्य् अथो तेजसा कृष्णाजिनस्य लोमभिः सम्
3 सृजति यज्ञो वै कृष्णाजिनम् । यज्ञेनैव यज्ञꣳ सꣳ सृजति रुद्राः सम्भृत्य पृथिवीम् इत्य् आह । एता वा एतं देवता अग्रे सम् अभरन् ताभिर् एवैनꣳ सम् भरति मखस्य शिरो ऽसीत्य् आह यज्ञो वै मखः तस्यैतच् छिरो यद् उखा तस्माद् एवम् आह यज्ञस्य पदे स्थ इत्य् आह यज्ञस्य ह्य् एते
4 पदे अथो प्रतिष्ठित्यै प्रान्याभिर् यच्छत्य् अन्व् अन्यैर् मन्त्रयते मिथुनत्वाय त्र्युद्धिं करोति त्रय इमे लोका एषां लोकानाम् आप्त्यै छन्दोभिः करोति वीर्यं वै छन्दाꣳसि वीर्येणैवैनां करोति यजुषा बिलं करोति व्यावृत्त्यै । इयतीं करोति प्रजापतिना यज्ञमुखेन सम्मिताम् । द्विस्तनां करोति द्यावापृथिव्योर् दोहाय चतुस्तनां करोति पशूनां दोहाय । अष्टास्तनां करोति छन्दसां दोहाय नवाश्रिम् अभिचरतः कुर्यात् त्रिवृतम् एव वज्रꣳ सम्भृत्य भ्रातृव्याय प्र हरति स्तृत्यै कृत्वाय स महीम् उखाम् इति नि दधाति देवतास्व् एवैनाम् प्रति ष्ठापयति ॥

5.1.7 अनुवाक 7 उखासंस्कारः
1 सप्तभिर् धूपयति सप्त वै शीर्षण्याः प्राणाः शिर एतद् यज्ञस्य यद् उखा शीर्षन्न् एव यज्ञस्य प्राणान् दधाति तस्मात् सप्त शीर्षन् प्राणाः । अश्वशकेन धूपयति प्राजापत्यो वा अश्वः सयोनित्वाय । अदितिस् त्वेत्य् आह । इयं वा अदितिः । अदित्यैवादित्यां खनत्य् अस्या अक्रूरंकाराय न हि स्वः स्वꣳ हिनस्ति देवानां त्वा पत्नीर् इत्य् आह देवानाम्
2 वा एताम् पत्नयो ऽग्रे ऽकुर्वन् ताभिर् एवैनां दधाति धिषणास् त्वेत्य् आह विद्या वै धिषणाः । विद्याभिर् एवैनाम् अभीन्द्धे ग्नास् त्वेत्य् आह छन्दाꣳसि वै ग्नाः । छन्दोभिर् एवैनाꣳ श्रपयति वरूत्रयस् त्त्वेत्य् आह होत्रा वै वरूत्रयः । होत्राभिर् एवैनाम् पचति जनयस् त्वेत्य् आह देवानां वै पत्नीः 3 जनयस् ताभिर् एवैनाम् पचति षड्भिः पचति षड् वा ऋतवः । ऋतुभिर् एवैनाम् पचति द्विः पचन्त्व् इत्य् आह तस्माद् द्विः संवत्सरस्य सस्यम् पच्यते वारुण्य् उखाभीद्धा मैत्रियोपैति शान्त्यै देवस् त्वा सवितोद् वपत्व् इत्य् आह सवितृप्रसूत एवैनाम् ब्रह्मणा देवताभिर् उद् वपति । अपद्यमाना पृथिव्य् आशा दिश आ पृण ॥
4 इत्य् आह तस्माद् अग्निः सर्वा दिशो ऽनु वि भाति । उत् तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् इत्य् आह प्रतिष्ठित्यै । असुर्यम् पात्रम् अनाच्छृण्णम् आ छृणत्ति देवत्राकर् अजक्षीरेणा ऽऽच्छृणत्ति परमं वा एतत् पयो यद् अजक्षीरम् परमेणैवैनम् पयसा ऽऽच्छृणत्ति यजुषा व्यावृत्त्यै छन्दोभिर् आ छृणत्ति छन्दोभिर् वा एषा क्रियते छन्दोभिर् एव छन्दाꣳस्य् आ च्छृणत्ति ॥

5..1.8 अनुवाक 8 वह्निपशवः
1 एकविꣳशत्या माषैः पुरुषशीर्षम् अच्छैति । अमेध्या वै माषा अमेध्यम् पुरुषशीर्षम् अमेध्यैर् एवास्यामेध्यं निरवदाय मेध्यं कृत्वा हरति । एकविꣳशतिर् भवन्ति । एकविꣳशो वै पुरुषः पुरुषस्याप्त्यै व्यृद्धं वा एतत् प्राणैर् अमेध्यं यत् पुरुषशीर्षम् । सप्तधा वितृण्णां वल्मीकवपाम् प्रति नि दधाति सप्त वै शीर्षण्याः प्राणाः प्राणैर् एवैनत् सम् अर्धयति मेध्यत्वाय यावन्तः
2 वै मृत्युबन्धवस् तेषां यम आधिपत्यम् परीयाय यमगाथाभिः परि गायति यमाद् एवैनद् वृङ्क्ते तिसृभिः परि गायति त्रय इमे लोकाः । एभ्य एवैनल् लोकेभ्यो वृङ्क्ते तस्माद् गायते न देयम् । गाथा हि तद् वृङ्क्ते । अग्निभ्यः पशून् आ लभते कामा वा अग्नयः कामान् एवाव रुन्द्धे यत् पशून् नालभेतानवरुद्धा अस्य
3 पशवः स्युः । यत् पर्यग्निकृतान् उत्सृजेद् यज्ञवेशसं कुर्यात् । यत् सꣳस्थापयेद् यातयामानि शीर्षाणि स्युः । यत् पशून् आलभते तेनैव पशून् अव रुन्द्धे यत् पर्यग्निकृतान् उत्सृजति शीर्ष्णाम् अयातयामत्वाय प्राजापत्येन सꣳ स्थापयति यज्ञो वै प्रजापतिर् यज्ञ एव यज्ञम् प्रति ष्ठापयति प्रजापतिः प्रजा असृजत स रिरिचानो ऽमन्यत स एता आप्रीर् अपश्यत् ताभिर् वै स मुखतः
4 आत्मानम् आप्रीणीत यद् एता आप्रियो भवन्ति यज्ञो वै प्रजापतिः। यज्ञम् एवैताभिर् मुखत आ प्रीणाति । अपरिमितछन्दसो भवन्ति । अपरिमितः प्रजापतिः प्रजापतेर् आप्त्यै । ऊनातिरिक्ता मिथुनाः प्रजात्यै लोमशं वै नामैतच् छन्दः प्रजापतेः पशवो लोमशाः पशून् एवाव रुन्द्धे सर्वाणि वा एता रूपाणि सर्वाणि रूपाण्य् अग्नौ चित्ये क्रियन्ते तस्माद् एता अग्नेश् चित्यस्य
5 भवन्ति । एकविꣳशतिꣳ सामिधेनीर् अन्व् आह रुग् वा एकविꣳशो रुचम् एव गच्छति । अथो प्रतिष्ठाम् एव प्रतिष्ठा ह्य् एकविꣳशः । चतुर्विꣳशतिम् अन्व् आह चतुर्विꣳशतिर् अर्धमासाः संवत्सरः संवत्सरो ऽग्निर् वैश्वानरः साक्षाद् एव वैश्वानरम् अव रुन्द्धे पराचीर् अन्व् आह पराङ् इव हि सुवर्गो लोकः समास् त्वाग्न ऋतवो वर्धयन्त्व् इत्य् आह समाभिर् एवाग्निं वर्धयति ॥
6 ऋतुभिः संवत्सरम् । विश्वा आ भाहि प्रदिशः पृथिव्या इत्य् आह तस्माद् अग्निः सर्वा दिशो ऽनु वि भाति प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् इत्य् आह मृत्युम् एवास्माद् अप नुदति । उद् वयं तमसस् परीत्य् आह पाप्मा वै तमः पाप्मानम् एवास्माद् अप हन्ति । अगन्म ज्योतिर् उत्तमम् इत्य् आह । असौ वा आदित्यो ज्योतिर् उत्तमम् आदित्यस्यैव सायुज्यं गच्छति न संवत्सरस् तिष्ठति नास्य श्रीस् तिष्ठति यस्यैताः क्रियन्ते ज्योतिष्मतीम् उत्तमाम् अन्व् आह ज्योतिर् एवास्मा उपरिष्टाद् दधाति सुवर्गस्य लोकस्यानुख्यात्यै ॥

5.1.9 अनुवाक 9 उख्यस्य जननम्
1 षड्भिर् दीक्षयति षड् वा ऋतवः । ऋतुभिर् एवैनं दीक्षयति सप्तभिर् दीक्षयति सप्त छन्दाꣳसि छन्दोभिर् एवैनं दीक्षयति विश्वे देवस्य नेतुर् इत्य् अनुष्टुभोत्तमया जुहोति वाग् वा { अनुष्टुप् ^ अनुष्टुभ् } तस्मात् प्राणानां वाग् उत्तमा । एकस्माद् अक्षराद् अनाप्तम् प्रथमम् पदम् । तस्माद् यद् वाचो ऽनाप्तं तन् मनुष्या उप जीवन्ति पूर्णया जुहोति पूर्ण इव हि प्रजापतिः ॥
2 प्रजापतेर् आपत्यै न्यूनया जुहोति न्यूनाद् धि प्रजापतिः प्रजा असृजत प्रजानाꣳ सृष्ट्यै यद् अर्चिषि प्रवृञ्ज्याद् भूतम् अव रुन्धीत यद् अङ्गारेषु भविष्यत् । अङ्गारेषु प्र वृणक्ति भविष्यद् एवाव रुन्द्धे भविष्यद् धि भूयो भूतात् । द्वाभ्याम् प्र वृणक्ति द्विपाद् यजमानः प्रतिष्ठित्यै ब्रह्मणा वा एषा यजुषा सम्भृता यद् उखा सा यद् भिद्येताऽऽर्तिम् आर्छेत्
3 यजमानो हन्येतास्य यज्ञः । मित्रैताम् उखां तपेत्य् आह ब्रह्म वै मित्रः। ब्रह्मन्न् एवैनाम् प्रति ष्ठापयति नार्तिम् आर्छति यजमानो नास्य यज्ञो हन्यते यदि भिद्येत तैर् एव कपालैः सꣳ सृजेत् सैव ततः प्रायश्चित्तिः । यो गतश्रीः स्यान् मथित्वा तस्याव दध्यात् । भूतो वा { एष ^ एषस् } स स्वां
4 देवताम् उपैति यो भूतिकामः स्यात् । य उखायै सम्भवेत् स एव तस्य स्यात् । अतो ह्य् एष सम्भवति । एष वै स्वयम्भूर् नाम भवत्य् एव यं कामयेत भ्रातृव्यम् अस्मै जनयेयम् इत्य् अन्यतस् तस्याहृत्याव दध्यात् साक्षाद् एवास्मै भ्रातृव्यं जनयति । अम्बरीषाद् अन्नकामस्याव दध्यात् । अम्बरीषे वा अन्नम् भ्रियते सयोन्य् एवान्नम्
5 अव रुन्द्धे मुञ्जान् अव दधाति । ऊर्ग् वै मुञ्जाः । ऊर्जम् एवास्मा अपि दधाति । अग्निर् देवेभ्यो निलायत स क्रुमुकम् प्राविशत् क्रुमुकम् अव दधाति यद् एवास्य तत्र न्यक्तं तद् एवाव रुन्द्धे । आज्येन सं यौति । एतद् वा अग्नेः प्रियं धाम यद् आज्यम् प्रियेणैवैनं धाम्ना सम् अर्धयत्य् अथो तेजसा ॥
6 वैकंकतीम् आ दधाति भा एवाव रुन्द्धे शमीमयीम् आ दधाति शान्त्यै सीद त्वम् मातुर् अस्या उपस्थ इति तिसृभिर् जातम् उप तिष्ठते त्रय इमे लोकाः । एष्व् एव लोकेष्व् आविदं गच्छति । अथो प्राणान् एवाऽऽत्मन् धत्ते ॥

5.1.10 अनुवाक 10 उख्यधारणम्
1 न ह स्म वै पुराग्निर् अपरशुवृक्णं दहति तद् अस्मै प्रयोग एवर्षिर् अस्वदयत् । यद् अग्ने यानि कानि चेति समिधम् आ दधाति । अपरशुवृक्णम् एवास्मै स्वदयति सर्वम् अस्मै स्वदते य एवं वेद । औदुम्बरीम् आ दधाति । ऊर्ग् वा उदुम्बरः । ऊर्जम् एवास्मा अपि दधाति प्रजापतिर् अग्निम् असृजत तꣳ सृष्टꣳ रक्षाꣳसि
2 अजिघाꣳसन् । स एतद् राक्षोघ्नम् अपश्यत् तेन वै स रक्षाꣳस्य् अपाहत यद् राक्षोघ्नम् भवत्य् अग्नेर् एव तेन जाताद् रक्षाꣳस्य् अप हन्ति । आश्वत्थीम् आ दधाति । अश्वत्थो वै वनस्पतीनाꣳ सपत्नसाहो विजित्यै वैकङ्कतीम् आ दधाति भा एवाव रुन्द्धे शमीमयीम् आ दधाति शान्त्यै सꣳशितम् मे ब्रह्मोद् एषाम् बाहू अतिरम् इत्य् उत्तमे औदुम्बरी
3 वाचयति ब्रह्मणैव क्षत्रꣳ सꣳ शयति क्षत्रेण ब्रह्म तस्माद् ब्राह्मणो राजन्यवान् अत्य् अन्यम् ब्राह्मणं तस्माद् राजन्यो ब्राह्मणवान् अत्य् अन्यꣳ राजन्यम् मृत्युर् वा एष यद् अग्निः । अमृतꣳ हिरण्यम् । रुक्मम् अन्तरम् प्रति मुञ्चते । अमृतम् एव मृत्योर् अन्तर् धत्ते । एकविꣳशतिनिर्बाधो भवति । एकविꣳशतिर् वै देवलोका द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्यः
4 एकविꣳश एतावन्तो वै देवलोकाः तेभ्य एव भ्रातृव्यम् अन्तर् एति निर्बाधैर् वै देवा असुरान् निर्बाधे ऽकुर्वत तन् निर्बाधानां निर्बाधत्वम् । निर्बाधी भवति भ्रातृव्यान् एव निर्बाधे कुरुते सावित्रिया प्रति मुञ्चते प्रसूत्यै नक्तोषासेत्य् उत्तरया । अहोरात्राभ्याम् एवैनम् उद् यच्छते देवा अग्निं धारयन् द्रविणोदा इत्य् आह प्राणा वै देवा द्रविणोदाः । अहोरात्राभ्याम् एवैनम् उद्यत्य
5 प्राणैर् दाधार । आसीनः प्रति मुञ्चते तस्माद् आसीनाः प्रजाः प्र जायन्ते कृष्णाजिनम् उत्तरम् । तेजो वै हिरण्यम् ब्रह्म कृष्णाजिनम् । तेजसा चैवैनम् ब्रह्मणा चोभयतः परि गृह्णाति षड्उद्यामꣳ शिक्यम् भवति षड् वा ऋतवः । ऋतुभिर् एवैनम् उद् यच्छते यद् द्वादशोद्यामꣳ संवत्सरेणैव मौञ्जम् भवति । ऊर्ग् वै मुञ्जाः । ऊर्जैवैनꣳ सम् अर्धयति सुपर्णो ऽसि गरुत्मान् इत्य् अवेक्षते रूपम् एवास्यैतन् महिमानं व्याचष्टे दिवं गच्छ सुवः पतेत्य् आह सुवर्गम् एवैनं लोकं गमयति ॥

5.1.11 अनुवाक 11 अश्वमेधसम्बन्धि प्रयाजयाज्याभिधानम्
1 समिद्धो अञ्जन् कृदरम् मतीनां घृतम् अग्ने मधुमत् पिन्वमानः । वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधःस्थम् ॥ घृतेनाञ्जन्त् सम् पथो देवयानान् प्रजानन् वाज्य् अप्य् एतु देवान् । अनु त्वा सप्ते प्रदिशः सचन्ताꣳ स्वधाम् अस्मै यजमानाय धेहि ॥ ईड्यश् चासि वन्द्यश् च वाजिन्न् आशुश् चासि मेध्यश् च सप्ते । अग्निष् ट्वा
2 देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥ स्तीर्णम् बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानम् पृथिव्याम् । देवेभिर् युक्तम् अदितिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥ एता उ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणा उद् आतैः । ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥ अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने । उषासा वाम्
3 सुहिरण्ये सुशिल्पे ऋतस्य योनाव् इह सादयामि ॥ प्रथमा वाꣳ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा । अपिप्रयं चोदना वाम् मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥ आदित्यैर् नो भारती वष्टु यज्ञꣳ सरस्वती सह रुद्रैर् न आवीत् । इडोपहूता वसुभिः सजोषा यज्ञं नो देवीर् अमृतेषु धत्त ॥ त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत आशुर् अश्वः ।
4 त्वष्टेदं विश्वम् भुवनं जजान बहोः कर्तारम् इह यक्षि होतः ॥ अश्वो घृतेन त्मन्या समक्त उप देवाꣳ ऋतुशः पाथ एतु । वनस्पतिर् देवलोकम् प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥ प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने । स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः ॥  


5.1.1 अनुवाक 1 सावित्राहुत्यभ्रिस्वीकारयोरभिधानम्
1
    सावित्राणि जुहोति
    प्रसूत्यै
    चतुर्गृहीतेन जुहोति
    चतुष्पादः पशवः
    पशून् एवाव रुन्द्धे
    चतस्रो दिशः ।
    दिक्ष्व् एव प्रति तिष्ठति
    छन्दाꣳसि देवेभ्यो ऽपाक्रामन्
    न वो ऽभागानि हव्यं वक्ष्याम इति
    तेभ्य एतच् चतुर्गृहीतम् अधारयन्
    पुरोऽनुवाक्यायै याज्यायै देवतायै वषट्काराय
    यच् चतुर्गृहीतं जुहोति छन्दाꣳस्य् एव तत् प्रीणाति
    तान्य् अस्य प्रीतानि देवेभ्यो हव्यं वहन्ति
    यं कामयेत

2
    पापीयान्त् स्याद् इत्य् एकैकं तस्य जुहुयात् ।
    आहुतीभिर् एवैनम् अप गृह्णाति पापीयान् भवति
    यं कामयेत
    वसीयान्त् स्याद् इति सर्वाणि तस्यानुद्रुत्य जुहुयात् ।
    आहुत्यैवैनम् अभि क्रमयति वसीयान् भवति ।
    अथो यज्ञस्यैवैषाभिक्रान्तिः ।
    एति वा एष यज्ञमुखाद् ऋद्ध्या यो ऽग्नेर् देवताया एति ।
    अष्टाव् एतानि सावित्राणि भवन्ति ।
    अष्टाक्षरा गायत्री
   गायत्रः

3
    अग्निस्
    तेनैव यज्ञमुखाद् ऋद्ध्या अग्नेर् देवतायै नैति ।
    अष्टौ सावित्राणि भवन्त्य् आहुतिर् नवमी
    त्रिवृतम् एव यज्ञमुखे वि यातयति
    यदि कामयेत
    छन्दाꣳसि यज्ञयशसेनार्पयेयम् इत्य् ऋचम् अन्तमां कुर्यात् ।
    छन्दाꣳस्य् एव यज्ञयशसे्नार्पयति
    यदि कामयेत
    यजमानं यज्ञयशसेनार्पयेयम् इति यजुर् अन्तमं कुर्यात् ।
   यजमानम् एव यज्ञयशसेनार्पयति ।
    ऋचा स्तोमꣳ सम् अर्धयेति

4
       आह
    समृद्ध्यै
    चतुर्भिर् अभ्रिम् आ दत्ते
    चत्वारि छन्दाꣳसि
    छन्दोभिर् एव
    देवस्य त्वा सवितुः प्रसव इत्य् आह
    प्रसूत्यै ।
    अग्निर् देवेभ्यो निलायत
    स वेणुम् प्राविशत्
   स एतामूतिम् अनु सम् अचरद् यद् वेणोः सुषिरम् ।
    सुषिराभ्रिर् भवति सयोनित्वाय
    स यत्रयत्रावसत् तत् कृष्णम् अभवत्
   कल्माषी भवति रूपसमृद्ध्यै ।
    उभयतःक्ष्णूर् भवति ।
   इतश् चामुतश् चार्कस्यावरुद्ध्यै
    व्याममात्री भवति ।
    एतावद् वै पुरुषे वीर्यम् ।
    वीर्यसम्मिता ।
  अपरिमिता भवति ।
   अपरिमितस्यावरुद्ध्यै
   यो वनस्पतीनाम् फलग्रहिः स एषां वीर्यावान्
   फलग्रहिर् वेणुः ।
   वैणवी भवति वीर्यस्यावरुद्ध्यै ॥

5.1.2 अनुवाक 2 मृत्खननगमनपूर्वकमश्वेन भूम्याक्रमणम्
1
    व्यृद्धं वा एतद् यज्ञस्य यद् अयजुष्केण क्रियते ।
    इमाम् अगृभ्णन् रशनाम् ऋतस्येत्य् अश्वाभिधानीम् आ दत्ते
    यजुष्कृत्यै यज्ञस्य समृद्ध्यै
    प्रतूर्तं वाजिन्न् आ द्रवेत्य् अश्वम् अभि दधाति
    रूपम् एवास्यैतन् महिमानं व्याचष्टे
    युञ्जाथाꣳ रासभं युवम् इति गर्दभम्
    असत्य् एव गर्दभम् प्रति ष्ठापयति
    तस्माद् अश्वाद् गर्दभो ऽसत्तरः ।
    योगेयोगे तवस्तरम् इत्य् आह ॥

2
    योगे योग एवैनं युङ्क्ते
    वाजेवाजे हवामह इत्य् आह ।
    अन्नं वै वाजः ।
    अन्नम् एवाव रुन्द्धे
    सखाय इन्द्रमूतय इत्य् आह ।
    इन्द्रियम् एवाव रुन्द्धे ।
    अग्निर् देवेभ्यो निलायत
    तम् प्रजापतिर् अन्व् अविन्दत्
    प्राजापत्यो ऽश्वः ।
   अश्वेन सम् भरत्य् अनुवित्त्यै
  पापवस्यसं वा एतत् क्रियते यच् छ्रेयसा च पापीयसा च समानं कर्म कुर्वन्ति
 पापीयान्

3
    ह्य् अश्वाद् गर्दभः ।
    अश्वम् पूर्वं नयन्ति पापवस्यसस्य व्यावृत्त्यै
    तस्माच् छ्रेयाꣳसम् पापीयान् पश्चाद् अन्व् एति
    बहुर् वै भवतो भ्रातृव्यः ।
    भवतीव खलु वा एष यो ऽग्निम् चिनुते
    वज्र्य् अश्वः
    प्रतूर्वन्न् एह्य् अवक्रामन्न् अशस्तीर् इत्य् आह
    वज्रेणैव पाप्मानम् भ्रातृव्यम् अव क्रामति
    रुद्रस्य गाणपत्याद् इत्य् आह
    रौद्रा वै पशवो रुद्राद् एव

4
    पशून् निर्याच्यात्मने कर्म कुरुते
    पूष्णा सयुजा सहेत्य् आह
    पूषा वा अध्वनाꣳ संनेता
    समष्ट्यै
    पुरीषायतनो वा एष यद् अग्निः ।
    अङ्गिरसो वा एतम् अग्रे देवतानाꣳ सम् अभरन्
    पृथिव्याः सधस्थाद् अग्निम् पुरीष्यम् अङ्गिरस्वद् अच्छेहीत्य् आह
    सायतनम् एवैनं देवताभिः सम् भरति ।
    अग्निम् पुरीष्यम् अङ्गिरस्वद् अच्छेम इत्य् आह
    येन

5
    संगच्छते वाजम् एवास्य वृङ्क्ते
    प्रजापतये प्रतिप्रोच्याग्निः सम्भृत्य इत्य् आहुः ।
    इयं वै प्रजापतिः
    तस्या एतच् छ्रोत्रं यद् वल्मीकः ।
    अग्निम् पुरीष्यम् अङ्गिरस्वद् भरिष्याम इति वल्मीकवपाम् उप तिष्ठते
    साक्षाद् एव प्रजापतये प्रतिप्रोच्याग्निꣳ सम् भरति ।
    अग्निम् पुरीष्यम् अङ्गिरस्वद् भराम इत्य् आह
    येन संगच्छते वाजम् एवास्य वृङ्क्ते।
    अन्व् अग्निर् उषसाम् अग्रम्

6
    अख्यद् इत्य् आह ।
    अनुख्यात्यै ।
    आगत्य वाज्य् अध्वन आक्रम्य वाजिन् पृथिवीम् इत्य् आह ।
    इच्छत्य् एवैनम् पूर्वया विन्दत्य् उत्तरया
    द्वाभ्याम् आ क्रमयति
    प्रतिष्ठित्यै ।
    अनुरूपाभ्याम् ।
    तस्माद् अनुरूपाः पशवः प्र जायन्ते
    द्यौस् ते पृष्ठम् पृथिवी सधस्थम् इत्य् आह ।
    एभ्यो वा एतं लोकेभ्यः प्रजापतिः सम् ऐरयत् ।
    रूपम् एवास्यैतन् महिमानं व्याचष्टे
    वज्री वा एष यद् अश्वः ।
    दद्भिर् अन्यतोदद्भ्यो भूयाम्̐ लोमभिर् उभयादद्भ्यः ।
   यं द्विष्यात् तम् अधस्पदं ध्यायेत् ।
    वज्रेणैवैनꣳ स्तृणुते ॥

5.1.3 अनुवाक 3 अश्वाक्रमणपूर्वक भूसंस्काराभिधानम्
1
    उत् क्रामोद् अक्रमीद् इति द्वाभ्याम् उत् क्रमयति
    प्रतिष्ठित्यै ।
    अनुरूपाभ्याम् ।
    तस्माद् अनुरूपाः पशवः प्र जायन्ते ।
    अप उप सृजति
    यत्र वा आप उपगच्छन्ति तद् ओषधयः प्रति तिष्ठन्ति ।
    ओषधीः प्रतितिष्ठन्तीः पशवो ऽनु प्रति तिष्ठन्ति
    पशून् यज्ञः ।
    यज्ञं यजमानः ।
    यजमानम् प्रजाः
    तस्माद् अप उप सृजति
    प्रतिष्ठित्यै
    यद् अध्वर्युर् अनग्नाव् आहुतिं जुहुयाद् अन्धो ऽध्वर्युः

2
    स्याद् रक्षाꣳसि यज्ञꣳ हन्युः ।
    हिरण्यम् उपास्य जुहोति ।
    अग्निवत्य् एव जुहोति
    नान्धो ऽध्वर्युर् भवति न यज्ञꣳ रक्षाꣳसि घ्नन्ति
    जिघर्म्य् अग्निम् मनसा घृतेनेत्य् आह
    मनसा हि पुरुषो यज्ञम् अभिगच्छति
    प्रतिक्ष्यन्तम् भुवनानि विश्वेत्य् आह
    सर्वꣳ ह्य् एष प्रत्यङ् क्षेति
    पृथुं तिरश्चा वयस बृहन्तम् इत्य् आह ।
    अल्पो ह्य् एष जातो महान्

3
    भवति
    व्यचिष्ठम् अन्नꣳ रभसं विदानम् इत्य् आह ।
    अन्नम् एवास्मै स्वदयति
    सर्वम् अस्मै स्वदते य एवं वेद ।
    आ त्वा जिघर्मि वचसा घृतेनेत्य् आह
    तस्माद् यत् पुरुषो मनसाभिगच्छति तद् वाचा वदति ।
    अरक्षसेत्य् आह
    रक्षसाम् अपहत्यै
    मर्त्यश्री स्पृहयद्वर्णो अग्निर् इत्य् आह ।
  अपचितिम् एवास्मिन् दधाति ।
   अपचितिमान् भवति य एवं

4
    वेद
    मनसा त्वै ताम् आप्तुम् अर्हति याम् अध्वर्युर् अनग्नाव् आहुतिं जुहोति
    मनस्वतीभ्यां जुहोति ।
    आहुत्योर् आप्त्यै
    द्वाभ्याम्
    प्रतिष्ठित्यै
    यज्ञमुखेयज्ञमुखे वै क्रियमाणे यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति ।
    एतर्हि खलु वा एतद् यज्ञमुखं यर्ह्य् एनद् आहुतिर् अश्नुते
    परि लिखति
    रक्षसाम् अपहत्यै
    तिसृभिः परि लिखति
    त्रिवृद् वा अग्निः ।
    यावान् एवाग्निस् तस्माद् रक्षाꣳस्य् अप हन्ति ॥

5
    गायत्रिया परि लिखति
    तेजो वै गायत्री
    तेजसैवैनम् परि गृह्णाति
    त्रिष्टुभा परि लिखति ।
    इन्द्रियं वै { त्रिष्टुग् ^ त्रिष्तुभ् }
    इन्द्रियेणैवैनम् परि गृह्णाति ।
    अनुष्टुभा परि लिखति ।
    अनुष्टुप् सर्वाणि छन्दाꣳसि परिभूः पर्याप्त्यै
    मध्यतो ऽनुष्टुभा
    वाग् वा { अनुष्टुप् ^ अनुष्टुभ् }
    तस्मान् मध्यतो वाचा वदामः ।
    गायत्रिया प्रथमया परि लिखत्य् अथानुष्टुभाथ त्रिष्टुभा
    तेजो वै गायत्री यज्ञो ऽनुष्टुग् इन्द्रियं { त्रिष्टुप् ^ त्रिष्टुभ् }
   तेजसा चैवेन्द्रियेण चोभयतो यज्ञम् परि गृह्णाति ॥

5.1.4 अनुवाक 4 मृदःखननपूर्वकं चर्मपत्रयोः संभरणम्
1
    देवस्य त्वा सवितुः प्रसव इति खनति प्रसूत्या अथो धूमम् एवैतेन जनयति
    ज्योतिष्मन्तं त्वाग्ने सुप्रतीकम् इत्य् आह ज्योतिर् एवैतेन जनयति
    सो ऽग्निर् जातः प्रजाः शुचार्पयत् तं देवा अर्धर्चेनाशमयन् ।
    शिवम् प्रजाभ्यो ऽहिꣳसन्तम् इत्य् आह प्रजाभ्य एवैनꣳ शमयति
    द्वाभ्यां खनति प्रतिष्ठित्यै ।
    अपाम् पृष्ठम् असीति पुष्करपर्णम् आ

2
    हरत्य् अपां वा एतत् पृष्ठं यत् पुष्करपर्णꣳ रूपेणैवैनद् आ हरति
    पुष्करपर्णेन सम् भरति योनिर् वा अग्नेः पुष्करपर्णꣳ सयोनिम् एवाग्निꣳ सम् भरति
    कृष्णाजिनेन सम् भरति यज्ञो वै कृष्णाजिनं यज्ञेनैव यज्ञꣳ सम् भरति
    यद् ग्राम्याणाम् पशूनां चर्मणा सम्भरेद् ग्राम्यान् पशूञ् छुचार्पयेत् कृष्णाजिनेन सम् भरत्य् आरण्यान् एव पशून्

3
    शुचार्पयति
    तस्मात् समावत् पशूनाम् प्रजायमानानाम् आरण्याः पशवः कनीयाꣳसः शुचा ह्य् ऋताः ।
    लोमतः सम् भरत्य् अतो ह्य् अस्य मेध्यम् ।
    कृष्णाजिनं च पुष्करपर्णं च सꣳ स्तृणातीयं वै कृष्णाजिनम् असौ पुष्करपर्णम् आभ्याम् एवैनम् उभयतः परि गृह्णाति ।
    अग्निर् देवेभ्यो निलायत तम् अथर्वान्व् अपश्यत् ।
    अथर्वा त्वा प्रथमो निर् अमन्थद् अग्न इति

4
    आह य एवैनम् अन्वपश्यत् तेनैवैनꣳ सम् भरति
    त्वाम् अग्ने पुष्कराद् अधीत्य् आह पुष्करपर्णे ह्य् एनम् उपश्रितम् अविन्दत्
    तम् उ त्वा दध्यङ्ङ् ऋषिर् इत्य् आह दध्यङ् वा आथर्वणस् तेजस्व्य् आसीत् तेज एवास्मिन् दधाति
    तम् उ त्वा पाथ्यो वृषेत्य् आह पूर्वम् एवोदितम् उत्तरेणाभि गृणाति ॥

5
    चतसृभिः सम् भरति चत्वारि छन्दाꣳसि छन्दोभिर् एव
    गायत्रीभिर् ब्राह्मणस्य गायत्रो हि ब्राह्मणस्
    त्रिष्टुग्भी राजन्यस्य त्रैष्टुभो हि राजन्यो
    यं कामयेत वसीयान्त् स्याद् इत्य् उभयीभिस् तस्य सम् भरेत् तेजश् चैवास्मा इन्द्रियं च समीची दधात्य्
    अष्टाभिः सम् भरत्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तꣳ सम् भरति
    सीद होतर् इत्य् आह देवता एवास्मै सꣳ सादयति
    नि होतेति मनुष्यान्त् सꣳ सीदस्वेति वयाꣳसि
    जनिष्वा हि जेन्यो अग्रे अह्नाम् इत्य् आह देवमनुष्यान् एवास्मै सꣳसन्नान् प्र जनयति ॥

5.1.5 अनुवाक 5 संभृतमृदो यज्ञभूमौ समाहरणम्
1
    क्रूरम् इव वा अस्या एतत् करोति यत् खनति ।
    अप उप सृजति ।
    आपो वै शान्ताः
    शान्ताभिर् एवास्यै शुचꣳ शमयति
    सं ते वायुर् मातरिश्वा दधात्व् इत्य् आह
    प्राणो वै वायुः
    प्राणेनैवास्यै प्राणꣳ सं दधाति
    सं ते वायुर् इत्य् आह
    तस्माद् वायुप्रच्युता दिवो वृष्टिर् ईर्ते
    तस्मै च देवि वषड् अस्तु

2
    तुभ्यम् इत्य् आह
    षड् वा ऋतवः ।
    ऋतुष्व् एव वृष्टिं दधाति
    तस्मात् सर्वान् ऋतून् वर्षति
    यद् वषट्कुर्याद् रक्षाꣳसि यज्ञꣳ हन्युः ।
    वड् इत्य् आह
    परोऽक्षम् एव वषट् करोति
    नास्य यातयामा वषट्कारो भवति न यज्ञꣳ रक्षाꣳसि घ्नन्ति
    सुजातो ज्योतिषा सहेत्य् अनुष्टुभोप नह्यति ।
    अनुष्टुप्

3
    सर्वाणि छन्दाꣳसि
    छन्दाꣳसि खलु वा अग्नेः प्रिया तनूः
    प्रिययैवैनं तनुवा परि दधाति
    वेदुको वासो भवति य एवं वेद वारुणो वा अग्निर् उपनद्धः ।
    उद् उ तिष्ठ स्वध्वरोर्ध्व ऊ षु ण ऊतय इति सावित्रीभ्याम् उत् तिष्ठति
    सवितृप्रसूत एवास्योर्ध्वां वरुण मेनिम् उत् सृजति
    द्वाभ्याम्
    प्रतिष्ठित्यै
    स जातो गर्भो असि ॥

4
    रोदस्योर् इत्य् आह ।
    इमे वै रोदसी
    तयोर् एष गर्भो यद् अग्निः
    तस्माद् एवम् आह ।
    अग्ने चारुर् विभृत ओषधीष्व् इत्य् आह
    यदा ह्य् एतं विभरन्त्य् अथ चारुतरो भवति
    प्र मातृभ्यो अधि कनिक्रदद् गा इत्य् आह ।
    ओषधयो वा अस्य मातरः
    ताभ्य एवैनम् प्र च्यावयति
    स्थिरो भव वीड्वङ्ग इति गर्दभ आ सादयति ॥

5
    सं नह्यत्य् एवैनम् एतया स्थेम्ने
    गर्दभेन सम् भरति
    तस्माद् गर्दभः पशूनाम् भारभारितमः ।
    गर्दभेन सम् भरति
    तस्माद् गर्दभो ऽप्य् अनालेशेत्य् अन्यान् पशून् मेद्यति ।
    अन्नꣳ ह्य् एनेनार्कꣳ सम्भरन्ति
    गर्दभेन सम् भरति
    तस्माद् गर्दभो द्विरेताः सन् कनिष्ठम् पशूनाम् प्र जायते ।
    अग्निर् ह्य् अस्य योनिं निर्दहति
    प्रजासु वा एष एतर्ह्य् आरूढः ॥

6
    स ईश्वरः प्रजाः शुचा प्रदहः
    शिवो भव प्रजाभ्य इत्य् आह
    प्रजाभ्य एवैनꣳ शमयति
    मानुषीभ्यस् त्वम् अङ्गिर इत्य् आह
    मानव्यो हि प्रजाः ।
    मा द्यावापृथिवी अभि शूशुचो मान्तरिक्षम् मा वनस्पतीन् इत्य् आह ।
    एभ्य एवैनं लोकेभ्यः शमयति
    प्रैतु वाजी कनिक्रदद् इत्य् आह
    वाजी ह्य् { एष ^ एषस् }
    नानदद् रासभः पत्वेति

7
    आह
    रासभ इति ह्य् एतम् ऋषयो ऽवदन्
    भरन्न् अग्निम् पुरीष्यम् इत्य् आह ।
    अग्निꣳ ह्य् एष भरति
    मा पाद्य् आयुषः पुरेत्य् आह ।
    आयुर् एवास्मिन् दधाति
    तस्माद् गर्दभः सर्वम् आयुर् एति
    तस्माद् गर्दभे पुरायुषः प्रमीते बिभ्यति
    वृषाग्निं वृषणम् भरन्न् इत्य् आह
   वृषा ह्य् { एष ^ एषस् }
   वृषाग्निः
   अपां गर्भम्

8
    समुद्रियम् इत्य् आह ।
    अपाꣳ ह्य् एष गर्भो यद् अग्निः ।
    अग्न आ याहि वीतय इति वा इमौ लोकौ व्यैताम्
    अग्न आ याहि वीतय इति यद् आह ।
    अनयोर् लोकयोर् वीत्यै
    प्रच्युतो वा एष आयतनाद् अगतः प्रतिष्ठाम् ।
    स एतर्ह्य् अध्वर्युं च यजमानं च ध्यायति ।
    ऋतꣳ सत्यम् इत्य् आह ।
    इयं वा ऋतम् असौ

9
    सत्यम्
    अनयोर् एवैनम् प्रति ष्ठापयति नाऽऽर्तिम् आर्छत्य् अध्वर्युर् न यजमानः ।
    वरुणो वा एष यजमानम् अभ्य् ऐति यद् अग्निर् उपनद्धः ।
    ओषधयः प्रति गृह्णीताग्निम् एतम् इत्य् आह
    शान्त्यै
    व्यस्यन् विश्वा अमतीर् अरातीर् इत्य् आह
    रक्षसाम् अपहत्यै
    निषीदन् नो अप दुर्मतिꣳ हनद् इत्य् आह
    प्रतिष्ठित्यै ।
    ओषधयः प्रति मोदध्वम् ॥

10
    एनम् इत्य् आह ।
    ओषधयो वा अग्नेर् भागधेयम् ।
    ताभिर् एवैनꣳ सम् अर्धयति
    पुष्पावतीः सुपिप्पला इत्य् आह
    तस्माद् ओषधयः फलं गृह्णन्ति ।
    अयं वो गर्भ ऋत्वियः प्रत्नꣳ सधस्थम् आसदद् इत्य् आह
    याभ्य एवैनम् प्रच्यावयति तास्व् एवैनम् प्रति ष्ठापयति
    द्वाभ्याम् उपावहरति
    प्रतिष्ठित्यै ॥

5.1.6अनुवाक 6 उखानिर्माणम्
1
    वारुणो वा अग्निर् उपनद्धः ।
    वि पाजसेति वि स्रꣳसयति
    सवितृप्रसूत एवास्य विषूचीं वरुणमेनिं वि सृजति ।
    अप उप सृजति ।
    आपो वै शान्ताः
    शान्ताभिर् एवास्य शुचꣳ शमयति
    तिसृभिर् उप सृजति
    त्रिवृद् वा अग्निः ।
    यावान् एवाग्निस् तस्य शुचꣳ शमयति
    मित्रः सꣳसृज्य पृथिवीम् इत्य् आह
    मित्रो वै शिवो देवानाम् ।
    तेनैव

2
    एनꣳ सꣳ सृजति
    शान्त्यै
    यद् ग्राम्याणाम् पात्राणां कपालैः सꣳसृजेद् ग्राम्याणि पात्राणि शुचार्पयेत् ।
    अर्मकपालैः सꣳ सृजति ।
    एतानि वा अनुपजीवनीयानि
    तान्य् एव शुचार्पयति
    शर्कराभिः सꣳ सृजति
    धृत्यै ।
    अथो शंत्वाय ।
   अजलोमैः सꣳ सृजति ।
  एषा वा अग्नेः प्रिया तनूर् यद् अजा
   प्रिययैवैनं तनुवा सꣳ सृजत्य् अथो तेजसा
  कृष्णाजिनस्य लोमभिः सम्

3
    सृजति
    यज्ञो वै कृष्णाजिनम् ।
    यज्ञेनैव यज्ञꣳ सꣳ सृजति
    रुद्राः सम्भृत्य पृथिवीम् इत्य् आह ।
    एता वा एतं देवता अग्रे सम् अभरन्
    ताभिर् एवैनꣳ सम् भरति
    मखस्य शिरो ऽसीत्य् आह
    यज्ञो वै मखः
    तस्यैतच् छिरो यद् उखा
    तस्माद् एवम् आह
   यज्ञस्य पदे स्थ इत्य् आह
   यज्ञस्य ह्य् एते

4
    पदे
    अथो प्रतिष्ठित्यै
    प्रान्याभिर् यच्छत्य् अन्व् अन्यैर् मन्त्रयते
    मिथुनत्वाय
    त्र्युद्धिं करोति त्रय इमे लोका एषां लोकानाम् आप्त्यै
    छन्दोभिः करोति
    वीर्यं वै छन्दाꣳसि
    वीर्येणैवैनां करोति
    यजुषा बिलं करोति
   व्यावृत्त्यै ।
    इयतीं करोति
   प्रजापतिना यज्ञमुखेन सम्मिताम् ।
    द्विस्तनां करोति
   द्यावापृथिव्योर् दोहाय
    चतुस्तनां करोति
    पशूनां दोहाय ।
    अष्टास्तनां करोति
    छन्दसां दोहाय
    नवाश्रिम् अभिचरतः कुर्यात्
   त्रिवृतम् एव वज्रꣳ सम्भृत्य भ्रातृव्याय प्र हरति
    स्तृत्यै
    कृत्वाय स महीम् उखाम् इति नि दधाति
    देवतास्व् एवैनाम् प्रति ष्ठापयति ॥

5.1.7 अनुवाक 7 उखासंस्कारः
1
    सप्तभिर् धूपयति
    सप्त वै शीर्षण्याः प्राणाः
    शिर एतद् यज्ञस्य यद् उखा
    शीर्षन्न् एव यज्ञस्य प्राणान् दधाति
    तस्मात् सप्त शीर्षन् प्राणाः ।
    अश्वशकेन धूपयति
    प्राजापत्यो वा अश्वः
    सयोनित्वाय ।
    अदितिस् त्वेत्य् आह ।
    इयं वा अदितिः ।
    अदित्यैवादित्यां खनत्य् अस्या अक्रूरंकाराय
    न हि स्वः स्वꣳ हिनस्ति
    देवानां त्वा पत्नीर् इत्य् आह
    देवानाम्

2
    वा एताम् पत्नयो ऽग्रे ऽकुर्वन्
    ताभिर् एवैनां दधाति
    धिषणास् त्वेत्य् आह
    विद्या वै धिषणाः ।
    विद्याभिर् एवैनाम् अभीन्द्धे
    ग्नास् त्वेत्य् आह
    छन्दाꣳसि वै ग्नाः ।
    छन्दोभिर् एवैनाꣳ श्रपयति
    वरूत्रयस् त्त्वेत्य् आह
   होत्रा वै वरूत्रयः ।
   होत्राभिर् एवैनाम् पचति
   जनयस् त्वेत्य् आह
   देवानां वै पत्नीः
3
    जनयस्
    ताभिर् एवैनाम् पचति
    षड्भिः पचति
    षड् वा ऋतवः ।
    ऋतुभिर् एवैनाम् पचति
    द्विः पचन्त्व् इत्य् आह
    तस्माद् द्विः संवत्सरस्य सस्यम् पच्यते
    वारुण्य् उखाभीद्धा
    मैत्रियोपैति
   शान्त्यै
   देवस् त्वा सवितोद् वपत्व् इत्य् आह
   सवितृप्रसूत एवैनाम् ब्रह्मणा देवताभिर् उद् वपति ।
   अपद्यमाना पृथिव्य् आशा दिश आ पृण ॥

4
    इत्य् आह
    तस्माद् अग्निः सर्वा दिशो ऽनु वि भाति ।
    उत् तिष्ठ बृहती भवोर्ध्वा तिष्ठ ध्रुवा त्वम् इत्य् आह
    प्रतिष्ठित्यै ।
    असुर्यम् पात्रम् अनाच्छृण्णम्
    आ छृणत्ति देवत्राकर्
    अजक्षीरेणा ऽऽच्छृणत्ति
    परमं वा एतत् पयो यद् अजक्षीरम्
    परमेणैवैनम् पयसा ऽऽच्छृणत्ति
    यजुषा
    व्यावृत्त्यै
    छन्दोभिर् आ छृणत्ति
   छन्दोभिर् वा एषा क्रियते
   छन्दोभिर् एव छन्दाꣳस्य् आ च्छृणत्ति ॥

5..1.8 अनुवाक 8 वह्निपशवः
1
    एकविꣳशत्या माषैः पुरुषशीर्षम् अच्छैति ।
    अमेध्या वै माषा अमेध्यम् पुरुषशीर्षम्
    अमेध्यैर् एवास्यामेध्यं निरवदाय मेध्यं कृत्वा हरति ।
    एकविꣳशतिर् भवन्ति ।
    एकविꣳशो वै पुरुषः
    पुरुषस्याप्त्यै
    व्यृद्धं वा एतत् प्राणैर् अमेध्यं यत् पुरुषशीर्षम् ।
    सप्तधा वितृण्णां वल्मीकवपाम् प्रति नि दधाति
    सप्त वै शीर्षण्याः प्राणाः
    प्राणैर् एवैनत् सम् अर्धयति
    मेध्यत्वाय
    यावन्तः

2
    वै मृत्युबन्धवस् तेषां यम आधिपत्यम् परीयाय
    यमगाथाभिः परि गायति
    यमाद् एवैनद् वृङ्क्ते
    तिसृभिः परि गायति
    त्रय इमे लोकाः ।
    एभ्य एवैनल् लोकेभ्यो वृङ्क्ते
    तस्माद् गायते न देयम् ।
    गाथा हि तद् वृङ्क्ते ।
    अग्निभ्यः पशून् आ लभते
    कामा वा अग्नयः
    कामान् एवाव रुन्द्धे
    यत् पशून् नालभेतानवरुद्धा अस्य

3
    पशवः स्युः ।
    यत् पर्यग्निकृतान् उत्सृजेद् यज्ञवेशसं कुर्यात् ।
    यत् सꣳस्थापयेद् यातयामानि शीर्षाणि स्युः ।
    यत् पशून् आलभते तेनैव पशून् अव रुन्द्धे
    यत् पर्यग्निकृतान् उत्सृजति शीर्ष्णाम् अयातयामत्वाय
    प्राजापत्येन सꣳ स्थापयति यज्ञो वै प्रजापतिर् यज्ञ एव यज्ञम् प्रति ष्ठापयति
    प्रजापतिः प्रजा असृजत
    स रिरिचानो ऽमन्यत
    स एता आप्रीर् अपश्यत्
    ताभिर् वै स मुखतः

4
    आत्मानम् आप्रीणीत
    यद् एता आप्रियो भवन्ति
    यज्ञो वै प्रजापतिः।
    यज्ञम् एवैताभिर् मुखत आ प्रीणाति ।
    अपरिमितछन्दसो भवन्ति ।
    अपरिमितः प्रजापतिः
    प्रजापतेर् आप्त्यै ।
    ऊनातिरिक्ता मिथुनाः
    प्रजात्यै
   लोमशं वै नामैतच् छन्दः प्रजापतेः
   पशवो लोमशाः
   पशून् एवाव रुन्द्धे
  सर्वाणि वा एता रूपाणि
  सर्वाणि रूपाण्य् अग्नौ चित्ये क्रियन्ते
  तस्माद् एता अग्नेश् चित्यस्य

5
    भवन्ति ।
    एकविꣳशतिꣳ सामिधेनीर् अन्व् आह
    रुग् वा एकविꣳशो रुचम् एव गच्छति ।
    अथो प्रतिष्ठाम् एव प्रतिष्ठा ह्य् एकविꣳशः ।
    चतुर्विꣳशतिम् अन्व् आह
    चतुर्विꣳशतिर् अर्धमासाः संवत्सरः
    संवत्सरो ऽग्निर् वैश्वानरः
    साक्षाद् एव वैश्वानरम् अव रुन्द्धे
    पराचीर् अन्व् आह
    पराङ् इव हि सुवर्गो लोकः
    समास् त्वाग्न ऋतवो वर्धयन्त्व् इत्य् आह
   समाभिर् एवाग्निं वर्धयति ॥

6
    ऋतुभिः संवत्सरम् ।
    विश्वा आ भाहि प्रदिशः पृथिव्या इत्य् आह
    तस्माद् अग्निः सर्वा दिशो ऽनु वि भाति
    प्रत्य् औहताम् अश्विना मृत्युम् अस्माद् इत्य् आह
    मृत्युम् एवास्माद् अप नुदति ।
    उद् वयं तमसस् परीत्य् आह
    पाप्मा वै तमः
    पाप्मानम् एवास्माद् अप हन्ति ।
    अगन्म ज्योतिर् उत्तमम् इत्य् आह ।
    असौ वा आदित्यो ज्योतिर् उत्तमम्
  आदित्यस्यैव सायुज्यं गच्छति
   न संवत्सरस् तिष्ठति नास्य श्रीस् तिष्ठति यस्यैताः क्रियन्ते
   ज्योतिष्मतीम् उत्तमाम् अन्व् आह
    ज्योतिर् एवास्मा उपरिष्टाद् दधाति
    सुवर्गस्य लोकस्यानुख्यात्यै ॥

5.1.9 अनुवाक 9 उख्यस्य जननम्
1
    षड्भिर् दीक्षयति
    षड् वा ऋतवः ।
    ऋतुभिर् एवैनं दीक्षयति
    सप्तभिर् दीक्षयति
    सप्त छन्दाꣳसि
    छन्दोभिर् एवैनं दीक्षयति
    विश्वे देवस्य नेतुर् इत्य् अनुष्टुभोत्तमया जुहोति
    वाग् वा { अनुष्टुप् ^ अनुष्टुभ् }
    तस्मात् प्राणानां वाग् उत्तमा ।
   एकस्माद् अक्षराद् अनाप्तम् प्रथमम् पदम् ।
   तस्माद् यद् वाचो ऽनाप्तं तन् मनुष्या उप जीवन्ति
    पूर्णया जुहोति
   पूर्ण इव हि प्रजापतिः ॥

2
    प्रजापतेर् आपत्यै
    न्यूनया जुहोति
    न्यूनाद् धि प्रजापतिः प्रजा असृजत
    प्रजानाꣳ सृष्ट्यै
    यद् अर्चिषि प्रवृञ्ज्याद् भूतम् अव रुन्धीत
    यद् अङ्गारेषु भविष्यत् ।
    अङ्गारेषु प्र वृणक्ति
    भविष्यद् एवाव रुन्द्धे
    भविष्यद् धि भूयो भूतात् ।
    द्वाभ्याम् प्र वृणक्ति
   द्विपाद् यजमानः
    प्रतिष्ठित्यै
    ब्रह्मणा वा एषा यजुषा सम्भृता यद् उखा
   सा यद् भिद्येताऽऽर्तिम् आर्छेत्

3
    यजमानो हन्येतास्य यज्ञः ।
    मित्रैताम् उखां तपेत्य् आह
    ब्रह्म वै मित्रः।
    ब्रह्मन्न् एवैनाम् प्रति ष्ठापयति
    नार्तिम् आर्छति यजमानो नास्य यज्ञो हन्यते
    यदि भिद्येत तैर् एव कपालैः सꣳ सृजेत्
    सैव ततः प्रायश्चित्तिः ।
    यो गतश्रीः स्यान् मथित्वा तस्याव दध्यात् ।
    भूतो वा { एष ^ एषस् }
   स स्वां

4
    देवताम् उपैति यो भूतिकामः स्यात् ।
    य उखायै सम्भवेत् स एव तस्य स्यात् ।
    अतो ह्य् एष सम्भवति ।
    एष वै स्वयम्भूर् नाम
    भवत्य् एव
    यं कामयेत
    भ्रातृव्यम् अस्मै जनयेयम् इत्य् अन्यतस् तस्याहृत्याव दध्यात्
    साक्षाद् एवास्मै भ्रातृव्यं जनयति ।
    अम्बरीषाद् अन्नकामस्याव दध्यात् ।
   अम्बरीषे वा अन्नम् भ्रियते
   सयोन्य् एवान्नम्

5
    अव रुन्द्धे
   मुञ्जान् अव दधाति ।
    ऊर्ग् वै मुञ्जाः ।
    ऊर्जम् एवास्मा अपि दधाति ।
    अग्निर् देवेभ्यो निलायत
    स क्रुमुकम् प्राविशत्
    क्रुमुकम् अव दधाति
    यद् एवास्य तत्र न्यक्तं तद् एवाव रुन्द्धे ।
    आज्येन सं यौति ।
   एतद् वा अग्नेः प्रियं धाम यद् आज्यम्
   प्रियेणैवैनं धाम्ना सम् अर्धयत्य् अथो तेजसा ॥

6
    वैकंकतीम् आ दधाति
    भा एवाव रुन्द्धे
    शमीमयीम् आ दधाति
    शान्त्यै
    सीद त्वम् मातुर् अस्या उपस्थ इति तिसृभिर् जातम् उप तिष्ठते
    त्रय इमे लोकाः ।
    एष्व् एव लोकेष्व् आविदं गच्छति ।
    अथो प्राणान् एवाऽऽत्मन् धत्ते ॥

5.1.10 अनुवाक 10 उख्यधारणम्
1
    न ह स्म वै पुराग्निर् अपरशुवृक्णं दहति
    तद् अस्मै प्रयोग एवर्षिर् अस्वदयत् ।
    यद् अग्ने यानि कानि चेति समिधम् आ दधाति ।
    अपरशुवृक्णम् एवास्मै स्वदयति
    सर्वम् अस्मै स्वदते य एवं वेद ।
    औदुम्बरीम् आ दधाति ।
    ऊर्ग् वा उदुम्बरः ।
    ऊर्जम् एवास्मा अपि दधाति
    प्रजापतिर् अग्निम् असृजत
   तꣳ सृष्टꣳ रक्षाꣳसि

2
    अजिघाꣳसन् ।
    स एतद् राक्षोघ्नम् अपश्यत्
    तेन वै स रक्षाꣳस्य् अपाहत
    यद् राक्षोघ्नम् भवत्य् अग्नेर् एव तेन जाताद् रक्षाꣳस्य् अप हन्ति ।
    आश्वत्थीम् आ दधाति ।
    अश्वत्थो वै वनस्पतीनाꣳ सपत्नसाहो विजित्यै
    वैकङ्कतीम् आ दधाति
    भा एवाव रुन्द्धे
    शमीमयीम् आ दधाति
   शान्त्यै
   सꣳशितम् मे ब्रह्मोद् एषाम् बाहू अतिरम् इत्य् उत्तमे औदुम्बरी

3
    वाचयति
    ब्रह्मणैव क्षत्रꣳ सꣳ शयति क्षत्रेण ब्रह्म
    तस्माद् ब्राह्मणो राजन्यवान् अत्य् अन्यम् ब्राह्मणं तस्माद् राजन्यो ब्राह्मणवान् अत्य् अन्यꣳ राजन्यम्
    मृत्युर् वा एष यद् अग्निः ।
    अमृतꣳ हिरण्यम् ।
    रुक्मम् अन्तरम् प्रति मुञ्चते ।
    अमृतम् एव मृत्योर् अन्तर् धत्ते ।
    एकविꣳशतिनिर्बाधो भवति ।
    एकविꣳशतिर् वै देवलोका द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्यः

4
    एकविꣳश एतावन्तो वै देवलोकाः
    तेभ्य एव भ्रातृव्यम् अन्तर् एति
    निर्बाधैर् वै देवा असुरान् निर्बाधे ऽकुर्वत
    तन् निर्बाधानां निर्बाधत्वम् ।
    निर्बाधी भवति
    भ्रातृव्यान् एव निर्बाधे कुरुते
    सावित्रिया प्रति मुञ्चते
    प्रसूत्यै
    नक्तोषासेत्य् उत्तरया ।
   अहोरात्राभ्याम् एवैनम् उद् यच्छते
    देवा अग्निं धारयन् द्रविणोदा इत्य् आह
    प्राणा वै देवा द्रविणोदाः ।
    अहोरात्राभ्याम् एवैनम् उद्यत्य

5
    प्राणैर् दाधार ।
    आसीनः प्रति मुञ्चते
    तस्माद् आसीनाः प्रजाः प्र जायन्ते
    कृष्णाजिनम् उत्तरम् ।
    तेजो वै हिरण्यम् ब्रह्म कृष्णाजिनम् ।
    तेजसा चैवैनम् ब्रह्मणा चोभयतः परि गृह्णाति
    षड्उद्यामꣳ शिक्यम् भवति
    षड् वा ऋतवः ।
    ऋतुभिर् एवैनम् उद् यच्छते
    यद् द्वादशोद्यामꣳ संवत्सरेणैव
   मौञ्जम् भवति ।
   ऊर्ग् वै मुञ्जाः ।
   ऊर्जैवैनꣳ सम् अर्धयति
   सुपर्णो ऽसि गरुत्मान् इत्य् अवेक्षते
  रूपम् एवास्यैतन् महिमानं व्याचष्टे
   दिवं गच्छ सुवः पतेत्य् आह
   सुवर्गम् एवैनं लोकं गमयति ॥

5.1.11 अनुवाक 11 अश्वमेधसम्बन्धि प्रयाजयाज्याभिधानम्
1
समिद्धो अञ्जन् कृदरम् मतीनां घृतम् अग्ने मधुमत् पिन्वमानः । वाजी वहन् वाजिनं जातवेदो देवानां वक्षि प्रियम् आ सधःस्थम् ॥
घृतेनाञ्जन्त् सम् पथो देवयानान् प्रजानन् वाज्य् अप्य् एतु देवान् । अनु त्वा सप्ते प्रदिशः सचन्ताꣳ स्वधाम् अस्मै यजमानाय धेहि ॥
ईड्यश् चासि वन्द्यश् च वाजिन्न् आशुश् चासि मेध्यश् च सप्ते । अग्निष् ट्वा

2
    देवैर् वसुभिः सजोषाः प्रीतं वह्निं वहतु जातवेदाः ॥
स्तीर्णम् बर्हिः सुष्टरीमा जुषाणोरु पृथु प्रथमानम् पृथिव्याम् । देवेभिर् युक्तम् अदितिः सजोषाः स्योनं कृण्वाना सुविते दधातु ॥
एता उ वः सुभगा विश्वरूपा वि पक्षोभिः श्रयमाणा उद् आतैः । ऋष्वाः सतीः कवषः शुम्भमाना द्वारो देवीः सुप्रायणा भवन्तु ॥
अन्तरा मित्रावरुणा चरन्ती मुखं यज्ञानाम् अभि संविदाने । उषासा वाम्

3
    सुहिरण्ये सुशिल्पे ऋतस्य योनाव् इह सादयामि ॥
प्रथमा वाꣳ सरथिना सुवर्णा देवौ पश्यन्तौ भुवनानि विश्वा । अपिप्रयं चोदना वाम् मिमाना होतारा ज्योतिः प्रदिशा दिशन्ता ॥
आदित्यैर् नो भारती वष्टु यज्ञꣳ सरस्वती सह रुद्रैर् न आवीत् । इडोपहूता वसुभिः सजोषा यज्ञं नो देवीर् अमृतेषु धत्त ॥
त्वष्टा वीरं देवकामं जजान त्वष्टुर् अर्वा जायत आशुर् अश्वः ।

4
    त्वष्टेदं विश्वम् भुवनं जजान बहोः कर्तारम् इह यक्षि होतः ॥
अश्वो घृतेन त्मन्या समक्त उप देवाꣳ ऋतुशः पाथ एतु । वनस्पतिर् देवलोकम् प्रजानन्न् अग्निना हव्या स्वदितानि वक्षत् ॥
प्रजापतेस् तपसा वावृधानः सद्यो जातो दधिषे यज्ञम् अग्ने । स्वाहाकृतेन हविषा पुरोगा याहि साध्या हविर् अदन्तु देवाः ॥


  1. द्र अनु्ष्टुभोपरि टिप्पणी। भागवतपुराणे ३.१२.४५ कथनमस्ति यत् देहे स्नायूनां छन्दः अनुष्टुबस्ति। - त्रिष्टुम्मांसात्स्नुतोऽनुष्टुब् जगत्यस्थ्नः प्रजापतेः ॥