प्रमुखा विकल्पसूचिः उद्घाट्यताम्

5.4 प्रपाठक: 4
5.4.1 अनुवाक 1
1 देवासुराः संयत्ता आसन् ते न व्यजयन्त स एता इन्द्रस् तनूर् अपश्यत् ता उपाधत्त ताभिर् वै स तनुवम् इन्द्रियं वीर्यम् आत्मन्न् अधत्त ततो देवा अभवन् परासुराः । यद् इन्द्रतनूर् उपदधाति तनुवम् एव ताभिर् इन्द्रियं वीर्यं यजमान आत्मन् धत्ते । अथो सेन्द्रम् एवाग्निम्̇ सतनुं चिनुते भवत्य् आत्मना परास्य भ्रातृव्यः
2 भवति। यज्ञो देवेभ्यो ऽपाक्रामत् तम् अवरुधं नाशक्नुवन् त एता यज्ञतनूर् अपश्यन् ता उपादधत ताभिर् वै ते यज्ञम् अवारुन्धत यद् यज्ञतनूर् उपदधाति यज्ञम् एव ताभिर् यजमानो ऽव रुन्द्धे त्रयस्त्रिम्̇शतम् उप दधाति त्रयस्त्रिम्̇शद् वै देवता देवता एवाव रुन्द्धे । अथो सात्मानम् एवाग्निम्̇ सतनुं चिनुते सात्मामुष्मिम्̐ लोके
3 भवति य एवं वेद ॥ ज्योतिष्मतीर् उप दधाति ज्योतिर् एवास्मिन् दधाति । एताभिर् वा अग्निश् चितो ज्वलति ताभिर् एवैनम्̇ सम् इन्द्धे । उभयोर् अस्मै लोकयोर् ज्योतिर् भवति ॥ नक्षत्रेष्टका उप दधाति । एतानि वै दिवो ज्योतीम्̇षि तान्य् एवाव रुन्द्धे सुकृतां वा एतानि ज्योतीम्̇षि यन् नक्षत्राणि तान्य् एवाप्नोति । अथो अनूकाशम् एवैतानि
4 ज्योतीम्̇षि कुरुते सुवर्गस्य लोकस्यानुख्यात्यै यत् सम्̇स्पृष्टा उपदध्याद् वृष्ट्यै लोकम् अपि दध्याद् अवर्षुकः पर्जन्यः स्यात् । असम्̇स्पृष्टा उप दधाति वृष्ट्या एव लोकं करोति वर्षुकः पर्जन्यो भवति पुरस्ताद् अन्याः प्रतीचीर् उप दधाति पश्चाद् अन्याः प्राचीस् तस्मात् प्राचीनानि च प्रतीचीनानि च नक्षत्राण्य् आ वर्तन्ते ॥

5.4.2 अनुवाक 2 ऋतव्यादीष्टकात्रयप्रोक्षणयोरभिधानम्
1 ऋतव्या उप दधाति । ऋतूनां क्लृप्त्यै द्वंद्वम् उप दधाति तस्माद् द्वंद्वम् ऋतवः । अधृतेव वा एषा यन् मध्यमा चितिः । अन्तरिक्षम् इव वा एषा द्वंद्वम् अन्यासु चितीषूप दधाति चतस्रो मध्ये धृत्यै । अन्तःश्लेषणं वा एताश् चितीनां यद् ऋतव्याः । यद् ऋतव्या उपदधाति चितीनां विधृत्यै । अवकाम् अनूप दधाति । एषा वा अग्नेर् योनिः सयोनिम्
2 एवाग्निं चिनुते । उवाच ह विश्वामित्रः । अदद् इत् स ब्रह्मणाऽन्नं यस्यैता उपधीयान्तै य उ चैना एवं वेदद् इति संवत्सरो वा एतम् प्रतिष्ठायै नुदते यो ऽग्निं चित्वा न प्रतितिष्ठति पञ्च पूर्वाश् चितयो भवन्त्य् अथ षष्ठीं चितिं चिनुते षड् वा ऋतवः संवत्सरः। ऋतुष्व् एव संवत्सरे प्रति तिष्ठति । एता वै
3 अधिपत्नीर् नामेष्टकाः । यस्यैता उपधीयन्ते ऽधिपतिर् एव समानानाम् भवति यं द्विष्यात् तम् उपदधद् ध्यायेत् । एताभ्य एवैनं देवताभ्य आ वृश्चति ताजग् आर्तिम् आर्छति । अङ्गिरसः सुवर्गं लोकं यन्तो या यज्ञस्य निष्कृतिर् आसीत् ताम् ऋषिभ्यः प्रत्य् औहन् तद्धिरण्यम् अभवत् । यद्धिरण्यशल्कैः प्रोक्षति यज्ञस्य निष्कृत्यै । अथो भेषजम् एवास्मै करोति ।
4 अथो रूपेणैवैनम्̇ सम् अर्धयति । अथो हिरण्यज्योतिषैव सुवर्गं लोकम् एति साहस्रवता प्रोक्षति साहस्रः प्रजापतिः प्रजापतेर् आप्त्यै । इमा मे अग्न इष्टका धेनवः सन्त्व् इत्य् आह । धेनूर् एवैनाः कुरुते ता एनं कामदुघा अमुत्रामुष्मिम्̐ लोक उप तिष्ठन्ते ॥

5.4.3 अनुवाक 3 शतरुद्रीयहोमाभिधानम्
1 रुद्रो वा एष यद् अग्निः स एतर्हि जातो यर्हि सर्वश् चितः स यथा वत्सो जात स्तनम् प्रेप्सत्य् एवं वा एष एतर्हि भागधेयम् प्रेप्सति तस्मै यद् आहुतिं न जुहुयाद् अध्वर्युं च यजमानं च ध्यायेत् । शतरुद्रीयं जुहोति भागधेयेनैवैनम्̇ शमयति नाऽऽर्तिम् आर्छत्य् अध्वर्युर् न यजमानः । यद् ग्राम्याणाम् पशूनाम्
2 पयसा जुहुयाद् ग्राम्यान् पशूञ् छुचार्पयेत् । यद् आरण्यानाम् आरण्यान् । जर्तिलयवाग्वा वा जुहुयाद् गवीधुकयवाग्वा वा न ग्राम्यान् पशून् हिनस्ति नारण्यान् अथो खल्व् आहुः । अनाहुतिर् वै जर्तिलाश् च गवीधुकाश् चेति । अजक्षीरेण जुहोति । आग्नेयी वा एषा यद् अजा । आहुत्यैव जुहोति न ग्राम्यान् पशून् हिनस्ति नारण्यान् ॥ अङ्गिरसः सुवर्गं लोकं यन्तः
3 अजायां घर्मम् प्रासिञ्चन् । सा शोचन्ती पर्णम् पराऽजिहीत सो ऽर्को ऽभवत् तद् अर्कस्यार्कत्वम् अर्कपर्णेन जुहोति सयोनित्वाय । उदङ् तिष्ठञ् जुहोति । एषा वै रुद्रस्य { दिक् ^ दिश् } स्वायाम् एव दिशि रुद्रं निरवदयते चरमायाम् इष्टकायां जुहोति । अन्तत एव रुद्रं निरवदयते त्रेधाविभक्तं जुहोति त्रय इमे लोकाः इमान् एव लोकान्त् समावद्वीर्यान् करोति । इयत्य् अग्रे जुहोति ।
4 अथेयत्य् अथेयति त्रय इमे लोका एभ्य एवैनं लोकेभ्यः शमयति तिस्र उत्तरा आहुतीर् जुहोति षट् सम् पद्यन्ते षड् वा ऋतव ऋतुभिर् एवैनम्̇ शमयति यद् अनुपरिक्रामं जुहुयाद् अन्तरवचारिणम्̇ रुद्रं कुर्यात् । अथो खल्व् आहुः कस्यां वाऽह दिशि रुद्रः कस्यां वेति । अनुपरिक्रामम् एव होतव्यम् अपरिवर्गम् एवैनम्̇ शमयति ॥
5 एता वै देवताः सुवर्ग्या या उत्तमास् ता यजमानं वाचयति ताभिर् एवैनम्̇ सुवर्गं लोकं गमयति यं द्विष्यात् तस्य संचरे पशूनां न्य् अस्येत् । यः प्रथमः पशुर् अभितिष्ठति स आर्तिम् आर्छति ॥

5.4.4 अनुवाक 4 परिषेचनाद्यभिधानम्
1 अश्मन्न् ऊर्जम् इति परि षिञ्चति मार्जयत्य् एवैनम् अथो तर्पयत्य् एव स एनं तृप्तो ऽक्षुध्यन्न् अशोचन्न् अमुष्मिम्̐ लोक उप तिष्ठते तृप्यति प्रजया पशुभिर् य एवं वेद तां न इषमूर्जं धत्त मरुतः सम्̇रराणा इत्य् आह । अन्नं वा ऊर्ज् अन्नम् मरुतः । अन्नम् एवाव रुन्द्धे । अश्मम्̇स् ते क्षुध् । अमुं ते शुक्
2 ऋच्छतु यं द्विष्म इत्य् आह यम् एव द्वेष्टि तम् अस्य क्षुधा च शुचा चार्पयति त्रिः परिषिञ्चन् पर्य् एति त्रिवृद् वा अग्निः । यावान् एवाग्निस् तस्य शुचम्̇ शमयति त्रिः पुनः पर्य् एति षट् सम् पद्यन्ते षड् वा ऋतवः । ऋतुभिर् एवास्य शुचम्̇ शमयति । अपां वा एतत् पुष्पं यद् वेतसः । अपाम्
3 शरो ऽवकाः । वेतसशाखया चावकाभिश् च वि कर्षति । आपो वै शान्ताः शान्ताभिर् एवास्य शुचम्̇ शमयति यो वा अग्निं चितम् प्रथमः पशुर् अधिक्रामतीश्वरो वै तम्̇ शुचा प्रदहः । मण्डूकेन वि कर्षति । एष वै पशूनाम् अनुपजीवनीयः। न वा एष ग्राम्येषु पशुषु हितो नारण्येषु तम् एव शुचार्पयति । अष्टाभिर् वि कर्षति
4 अष्टाक्षरा गायत्री गायत्रो ऽग्निः । यावान् एवाग्निर् तस्य शुचम्̇ शमयति पावकवतीभिः । अन्नं वै पावको अन्नेनैवास्य शुचम्̇ शमयति मृत्युर् वा एष यद् अग्निः ब्रह्मण एतद् रूपं यत् कृष्णाजिनम् । कार्ष्णी उपानहाव् उप मुञ्चते ब्रह्मणैव मृत्योर् अन्तर् धत्ते अन्तर् मृत्योर् धत्ते । अन्तर् अन्नाद्याद् इत्य् आहुः। अन्याम् उपमुञ्चते ऽन्यां नान्तः
5 एव मृत्योर् धत्ते ऽवान्नाद्यम्̇ रुन्द्धे नमस् ते हरसे शोचिष इत्य् आह नमस्कृत्य हि वसीयाम्̇सम् उपचरन्ति । अन्यं ते अस्मत् तपन्तु हेतय इत्य् आह यम् एव द्वेष्टि तम् अस्य शुचार्पयति पावको अस्मभ्यम्̇ शिवो भवेत्य् आह । अन्नं वै पावको अन्नम् एवाव रुन्द्धे द्वाभ्याम् अधि क्रामति प्रतिष्ठित्यै । अपस्यवतीभ्याम्̇ शान्त्यै ॥

5.4.5 अनुवाक 5 व्याघारणाद्यभिधानम्
1 नृषदे वड् इति व्याघारयति पङ्क्त्याहुत्या यज्ञमुखम् आ रभते । अक्ष्णया व्याघारयति तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै यद् वषट्कुर्याद् यातयामाऽस्य वषट्कारः स्यात् । यन् न वषट्कुर्याद् रक्षाम्̇सि यज्ञम्̇ हन्युः । वड् इत्य् आह परोऽक्षम् एव वषट् करोति नास्य यातयामा वषट्कारो भवति न यज्ञम्̇ रक्षाम्̇सि घ्नन्ति हुतादो वा अन्ये देवाः
2 अहुतादो ऽन्ये । तान् अग्निचिद् एवोभयान् प्रीणाति ये देवा देवानाम् इति दध्ना मधुमिश्रेणावोक्षति हुतादश् चैव देवान् अहुतादश् च यजमानः प्रीणाति ते यजमानम् प्रीणन्ति दध्नैव हुतादः प्रीणाति मधुषाऽहुतादः । ग्राम्यं वा एतद् अन्नं यद् दध्य् आरण्यम् मधु यद् दध्ना मधुमिश्रेणावोक्षत्य् उभयस्यावरुद्ध्यै ग्रुमुष्टिनाऽवोक्षति प्राजापत्यः
3 वै ग्रुमुष्टिः सयोनित्वाय द्वाभ्याम् प्रतिष्ठित्यै । अनुपरिचारम् अवोक्षति । अपरिवर्गम् एवैनान् प्रीणाति वि वा एष प्राणैः प्रजया पशुभिर् ऋध्यते यो ऽग्निं चिन्वन्न् अधिक्रामति प्राणदा अपानदा इत्य् आह प्राणान् एवात्मन् धत्ते वर्चोदा वरिवोदा इत्य् आह प्रजा वै वर्चः पशवो वरिवः प्रजाम् एव पशून् आत्मन् धत्ते । इन्द्रो वृत्रम् अहन् तं वृत्रः
4 हतः षोडशभिर् भोगैर् असिनात् स एताम् अग्नये ऽनीकवत आहुतिम् अपश्यत् ताम् अजुहोत् तस्याग्निर् अनीकवान्त् स्वेन भागधेयेन प्रीतः षोडशधा वृत्रस्य भोगान् अप्य् अदहत् । वैश्वकर्मणेन पाप्मनो निर् अमुच्यत यद् अग्नये ऽनीकवत आहुतिं जुहोत्य् अग्निर् एवास्यानीकवान्त् स्वेन भागधेयेन प्रीतः पाप्मानम् अपि दहति वैश्वकर्मणेन पाप्मनो निर् मुच्यते यं कामयेत चिरम् पाप्मनः
5 निर् मुच्येतेत्य् एकैकं तस्य जुहुयात् । चिरम् एव पाप्मनो निर् मुच्यते यं कामयेत ताजक् पाप्मनो निर् मुच्येतेति सर्वाणि तस्यानुद्रुत्य जुह्यात् ताजग् एव पाप्मनो निर् मुच्यते । अथो खलु नानैव सूक्ताभ्यां जुहोति नानैव सूक्तयोर् वीर्यं दधाति । अथो प्रतिष्ठित्यै ॥

5.4.6 अनुवाक 6 समित् आधानादिविधिः
1 उद् एनम् उत्तरां नयेति समिध आ दधाति यथा जनं यते ऽवसं करोति तादृग् एव तत् तिस्र आ दधाति त्रिवृद् वा अग्निः । यावान् एवाग्निस् तस्मै भागधेयं करोति । औदुम्बरीर् भवन्ति । ऊर्ग् वा उदुम्बरः । ऊर्जम् एवास्मा अपि दधाति । उद् उ त्वा विश्वे देवा इत्य् आह प्राणा वै विश्वे देवाः प्राणैः
2 एवैनम् उद् यच्छते । अग्ने भरन्तु चित्तिभिर् इत्य् आह यस्मा एवैनं चित्तायोद्यच्छते तेनैवैनम्̇ सम् अर्धयति पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् इत्य् आह दिशो ह्य् एषो ऽनु प्रच्यवते । अपामतिं दुर्मतिम् बाधमाना इत्य् आह रक्षसाम् अपहत्यै रायस् पोषे यज्ञपतिम् आभजन्तीर् इत्य् आह पशवो वै रायस् पोषः ।
3 पशून् एवाव रुन्द्धे षड्भिर् हरति षड् वा ऋतवः । ऋतुभिर् एवैनम्̇ हरति। द्वे परिगृह्यवती भवतो रक्षसाम् अपहत्यै। सूर्यरश्मिर् हरिकेशः पुरस्ताद् इत्य् आह प्रसूत्यै । ततः पावका आशिषो नो जुषन्ताम् इत्य् आह । अन्नं वै पावकः । अन्नम् एवाव रुन्द्धे । देवासुराः संयत्ता आसन् ते देवा एतद् अप्रतिरथम् अपश्यन् तेनैव ते ऽप्रति
4 असुरान् अजयन् । तद् अप्रतिरथस्याप्रतिरथत्वम् । यद् अप्रतिरथं द्वितीयो होताऽन्वाहाप्रत्य् एव तेन यजमानो भ्रातृव्याञ् जयति । अथो अनभिजितम् एवाभि जयति दशर्चम् भवति दशाक्षरा { विराड् ^ विराज् } विराजेमौ लोकौ विधृतौ । अनयोर् लोकयोर् विधृत्यै । अथो दशाक्षरा { विराड् ^ विराज् } अन्नं { विराड् ^ विराज् } विराज्य् एवान्नाद्ये प्रति तिष्ठति । असद् इव वा अन्तरिक्षम् । अन्तरिक्षम् इवाग्नीध्रम्। आग्नीध्रे
5 अश्मानं नि दधाति सत्त्वाय । द्वाभ्याम् प्रतिष्ठित्यै विमान एष दिवो मध्य आस्त इत्य् आह व्य् एवैतया मिमीते मध्ये दिवो निहितः पृश्निर् अश्मेत्य् आह । अन्नं वै पृश्नि । अन्नम् एवाव रुन्द्धे चतसृभिर् आ पुच्छाद् एति चत्वारि छन्दाम्̇सि छन्दोभिर् एव । इन्द्रं विश्वा अवीवृधन्न् इत्य् आह वृद्धिम् एवोपावर्तते वाजानाम्̇ सत्पतिम् पतिम्
6 इत्य् आह । अन्नं वै वाजः । अन्नम् एवाव रुन्द्धे सुम्नहूर् यज्ञो देवाम्̇ आ च वक्षद् इत्य् आह प्रजा वै पशवः सुम्नम् प्रजाम् एव पशून् आत्मन् धत्ते यक्षद् अग्निर् देवो देवाम्̇ आ च वक्षद् इत्य् आह स्वगाकृत्यै वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीद् इत्य् आह । असौ वा आदित्य उद्यन्न् उद्ग्राभ एष निम्रोचन् निग्राभः । ब्रह्मणैवात्मानम् उद्ग्रृह्णाति ब्रह्मणा भ्रातृव्यं नि गृह्णाति ॥

5.4.7 अनुवाक 7 चितौ वह्निक्षेपविधिः
1 प्राचीम् अनु प्रदिशम् प्रेहि विद्वान् इत्य् आह देवलोकम् एवैतयोपावर्तते क्रमध्वम् अग्निना नाकम् इत्य् आह । इमान् एवैतया लोकान् क्रमते पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् इत्य् आह । इमान् एवैतया लोकान्त् समारोहति सुवर् यन्तो नापेक्षन्त इत्य् आह सुवर्गम् एवैतया लोकम् एति । अग्ने प्रेहि
2 प्रथमो देवयताम् इत्य् आह । उभयेष्व् एवैतया देवमनुष्येषु चक्षुर् दधाति पञ्चभिर् अधि क्रामति पाङ्क्तो यज्ञः । यावान् एव यज्ञस् तेन सह सुवर्गं लोकम् एति नक्तोषासेति पुरोऽनुवाक्याम् अन्व् आह प्रत्त्यै । अग्ने सहस्राक्षेत्य् आह साहस्रः प्रजापतिः प्रजापतेर् आप्त्यै तस्मै ते विधेम वाजाय स्वाहेत्य् आह । अन्नं वै वाजः । अन्नम् एवाव
3 रुन्द्धे । दध्नः पूर्णाम् औदुम्बरीम्̇ स्वयमातृण्णायां जुहोति । ऊर्ग् वै दधि । ऊर्ग् उदुम्बरः । असौ स्वयमातृण्णा । अमुष्याम् एवोर्जं दधाति तस्माद् अमुतो ऽर्वाचीमूर्जम् उप जीवामस् तिसृभिः सादयति त्रिवृद् वा अग्निः । यावान् एवाग्निस् तम् प्रतिष्ठां गमयति प्रेद्धो अग्ने दीदिहि पुरो न इत्य् औदुम्बरीम् आ दधाति । एष वै सूर्मी कर्णकावती । एतया ह स्म
4 वै देवा असुराणाम्̇ शततर्हाम्̇स् तृम्̇हन्ति यद् एतया समिधम् आदधाति वज्रम् एवैतच् छतघ्नीं यजमानो भ्रातृव्याय प्र हरति स्तृत्यै । अच्छम्बट्कारम् । विधेम ते परमे जन्मन्न् अग्न इति वैकङ्कतीम् आ दधाति भा एवाव रुन्द्धे ताम्̇ सवितुर् वरेण्यस्य चित्राम् इति शमीमयीम्̇ शान्त्यै । अग्निर् वा ह वा अग्निचितं दुहे ऽग्निचिद् वाग्निं दुहे ताम्
5 सवितुर् वरेण्यस्य चित्राम् इत्य् आह । एष वा अग्नेर् दोहस् तम् अस्य कण्व एव श्रायसो ऽवेत् तेन ह समैनम्̇ स दुहे यद् एतया समिधम् आदधात्य् अग्निचिद् एव तद् अग्निं दुहे सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् आह सप्तैवास्य साप्तानि प्रीणाति पूर्णया जुहोति पूर्ण इव हि प्रजापतिः प्रजापतेः
6 आप्त्यै न्यूनया जुहोति न्यूनाद् धि प्रजापतिः प्रजा असृजत प्रजानाम्̇ सृष्ट्यै । अग्निर् देवेभ्यो निलायत स दिशो ऽनु प्राविशत् । जुह्वन् मनसा दिशो ध्यायेत् । दिग्भ्य एवैनम् अव रुन्द्धे दध्ना पुरस्ताज् जुहोत्य् आज्येनोपरिष्टात् तेजश् चैवास्मा इन्द्रियं च समीची दधाति द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरो ऽग्निर् वैश्वानरः साक्षात्
7 एव वैश्वानरम् अव रुन्द्धे यत् प्रयाजानूयाजान् कुर्याद् विकस्तिः सा यज्ञस्य दर्विहोमं करोति यज्ञस्य प्रतिष्ठित्यै राष्ट्रं वै वैश्वानरो विण् मरुतः । वैश्वानरम्̇ हुत्वा मारुताञ् जुहोति राष्ट्र एव विशम् अनु बध्नाति । उच्चैर् वैश्वानरस्या श्रावयत्य् उपाम्̇शु मारुताञ् जुहोति तस्माद् राष्ट्रं विशम् अति वदति मारुता भवन्ति मरुतो वै देवानां विशः । देवविशेनैवास्मै मनुष्य विशम् अव रुन्द्धे सप्त भवन्ति सप्तगणा वै मरुतः । गणश एव विशम् अव रुन्द्धे गणेन गणम् अनुद्रुत्य जुहोति विशम् एवास्मा अनु वर्त्मानं करोति ॥

5.4.8 अनुवाक 8 वसोर्धाराभिधानम्
1 वसोर् धारां जुहोति वसोर् मे धारासद् इति वा एषा हूयते घृतस्य वा एनम् एषा धारामुष्मिम्̐ लोके पिन्वमानोप तिष्ठते । आज्येन जुहोति तेजो वा आज्यं तेजो वसोर् धारा तेजसैवास्मै तेजो ऽव रुन्द्धे । अथो कामा वै वसोर् धारा कामान् एवाव रुन्द्धे यं कामयेत प्राणान् अस्यान्नाद्यं वि
2 छिन्द्याम् इति विग्राहं तस्य जुहुयात् प्राणान् एवास्यान्नाद्यं वि च्छिनत्ति यं कामयेत प्राणान् अस्यान्नाद्यम्̇ सं तनुयाम् इति संततां तस्य जुहुयात् प्राणान् एवास्यान्नाद्यम्̇ सं तनोति द्वादश द्वादशानि जुहोति द्वादश मासाः संवत्सरः संवत्सरेणैवास्मा अन्नम् अव रुन्द्धे । अन्नं च मे ऽक्षुच् च म इत्य् आह । एतद् वै
3 अन्नस्य रूपम् । रूपेणैवान्नम् अव रुन्द्धे । अग्निश् च म आपश् च म इत्य् आह । एषा वा अन्नस्य योनिः सयोन्य् एवान्नम् अव रुन्द्धे । अर्धेन्द्राणि जुहोति देवता एवाव रुन्द्धे यत् सर्वेषाम् अर्धम् इन्द्रः प्रति तस्माद् इन्द्रो देवतानाम् भूयिष्ठभाक्तमः । इन्द्रम् उत्तरम् आह । इन्द्रियम् एवास्मिन्न् उपरिष्टाद् दधाति यज्ञायुधानि जुहोति यज्ञः
4 वै यज्ञायुधानि यज्ञम् एवाव रुन्द्धे । अथो एतद् वै यज्ञस्य रूपम् । रूपेणैव यज्ञम् अव रुन्द्धे । अवभृथश् च मे स्वगाकारश् च म इत्य् आह स्वगाकृत्यै । अग्निश् च मे घर्मश् च म इत्य् आह । एतद् वै ब्रह्मवर्चसस्य रूपम् । रूपेणैव ब्रह्मवर्चसम् अव रुन्द्धे । ऋक् च मे साम च म इत्य् आह ।
5 एतद् वै छन्दसाम्̇ रूपम् । रूपेणैव छन्दाम्̇स्य् अव रुन्द्धे गर्भाश् च मे वत्साश् च म इत्य् आह । एतद् वै पशूनाम्̇ रूपम् । रूपेणैव पशून् अव रुन्द्धे कल्पाञ् जुहोति । अक्लृप्तस्य क्लृप्त्यै युग्मदयुजे जुहोति मिथुनत्वाय । उत्तरावती भवतः । अभिक्रान्त्यै । एका च मे तिस्रश् च म इत्य् आह देवछन्दसं वा एका च तिस्रश् च ॥ 6 मनुष्यछन्दसं चतस्रश् चाष्टौ च देवछन्दसं चैव मनुष्यछन्दसं चाव रुन्द्धे । आ त्रयस्त्रिम्̇शतो जुहोति त्रयस्त्रिम्̇शद् वै देवताः । देवता एवाव रुन्द्धे । आष्टाचत्वारिम्̇शतो जुहोति । अष्टाचत्वारिम्̇शदक्षरा जगती जागताः पशवः । जगत्यैवास्मै पशून् अव रुन्द्धे वाजश् च प्रसवश् चेति द्वादशं जुहोति द्वादश मासाः संवत्सरः संवत्सर एव प्रति तिष्ठति ॥

5.4.9 अनुवाक 9 वाजप्रसवीयाभिधानम्
1 अग्निर् देवेभ्यो ऽपाक्रामद् भागधेयम् इच्छमानस् तं देवा अब्रुवन् । उप न आ वर्तस्व हव्यं नो वहेति सो ऽब्रवीत् । वरं वृणै मह्यम् एव वाजप्रसवीयं जुहवन्न् इति तस्माद् अग्नये वाजप्रसवीयं जुह्वति यद् वाजप्रसवीयं जुहोत्य् अग्निम् एव तद् भागधेयेन सम् अर्धयति । अथो अभिषेक एवास्य { स ^ सस् } चतुर्दशभिर् जुहोति सप्त ग्राम्या ओषधयः सप्त
2 आरण्या। उभयीषाम् अवरुद्ध्यै । अन्नस्यान्नस्य जुहोति । अन्नस्यान्नस्यावरुद्ध्यै । औदुम्बरेण स्रुवेण जुहोति । ऊर्ग् वा उदुम्बर ऊर्ग् अन्नम् ऊर्जैवास्मा ऊर्जम् अन्नम् अव रुन्द्धे । अग्निर् वै देवानाम् अभिषिक्तो ऽग्निचिन् मनुष्याणाम् । तस्माद् अग्निचिद् वर्षति न धावेत् । अवरुद्धम्̇ ह्य् अस्यान्नम् अन्नम् इव खलु वै वर्षम् । यद् धावेद् अन्नाद्याद् धावेत् । उपावर्तेत । अन्नाद्यम् एवाभि
3 उपावर्तते । नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा जुहोति । अह्नैवास्मै रात्रिम् प्र दापयति रात्रियाऽहर् अहोरात्रे एवास्मै प्रत्ते कामम् अन्नाद्यं दुहाते । राष्ट्रभृतो जुहोति राष्ट्रम् एवाव रुन्द्धे षड्भिर् जुहोति षड् वा ऋतवः । ऋतुष्व् एव प्रति तिष्ठति भुवनस्य पत इति रथमुखे पञ्चाहुतीर् जुहोति वज्रो वै रथः । वज्रेणैव दिशः
4 अभि जयति । अग्निचितम्̇ ह वा अमुष्मिम्̐ लोके वातो ऽभि पवते वातनामानि जुहोति । अभ्य् एवैनम् अमुष्मिम्̐ लोके वातः पवते त्रीणि जुहोति त्रय इमे लोकाः । एभ्य एव लोकेभ्यो वातम् अव रुन्द्धे समुद्रो ऽसि नभस्वान् इत्य् आह । एतद् वै वातस्य रूपम् । रूपेणैव वातम् अव रुन्द्धे । अञ्जलिना जुहोति न ह्य् एतेषाम् अन्यथाहुतिर् अवकल्पते ॥

5.4.10 अनुवाक 10 अग्निसंयोजनाभिधानम्
1 सुवर्गाय वै लोकाय देवरथो युज्यते यत्राकूताय मनुष्यरथ एष खलु वै देवरथो यद् अग्निर् अग्निं युनज्मि शवसा घृतेनेत्य् आह युनक्त्य् एवैनम्̇ स एनं युक्तः सुवर्गं लोकम् अभि वहति यत् सर्वाभिः पञ्चभिर् युञ्ज्याद् युक्तो ऽस्याग्निः प्रच्युतः स्याद् अप्रतिष्ठिता आहुतयः स्युर् अप्रतिष्ठिता स्तोमा अप्रतिष्ठितान्य् उक्थानि तिसृभिः प्रातःसवने ऽभि मृशति त्रिवृत्
2 वा अग्निर् यावान् एवाग्निस् तं युनक्ति यथानसि युक्त आधीयत एवम् एव तत् प्रत्य् आहुतयस् तिष्ठन्ति प्रति स्तोमाः प्रत्य् उक्थानि। यज्ञायज्ञियस्य स्तोत्रे द्वाभ्याम् अभि मृशत्य् एतावान् वै यज्ञो यावान् अग्निष्टोमो भूमा त्वा अस्यात ऊर्ध्वः क्रियते यावान् एव यज्ञस् तम् अन्ततो ऽन्वारोहति द्वाभ्याम् प्रतिष्ठित्या एकयाऽप्रस्तुतम् भवत्य् अथ
3 अभि मृशत्य् उपैनम् उत्तरो यज्ञो नमत्य् अथो संतत्यै प्र वा एषो ऽस्माल् लोकाच् च्यवते यो ऽग्निं चिनुते न वा एतस्यानिष्टक आहुतिर् अव कल्पते यां वा एषो ऽनिष्टक आहुतिं जुहोति स्रवति वै सा ताम्̇ स्रवन्तीं यज्ञो ऽनु परा भवति यज्ञं यजमानो यत् पुनश्चितिं चिनुत आहुतीनाम् प्रतिष्ठित्यै प्रत्य् आहुतयस् तिष्ठन्ति
4 न यज्ञः पराभवति न यजमानः । अष्टाव् उप दधात्य् अष्टाक्षरा गायत्री गायत्रेणैवैनं छन्दसा चिनुते यद् एकादश त्रैष्टुभेन यद् द्वादश जागतेन छन्दोभिर् एवैनं चिनुते नपात्को वै नामैषो ऽग्निर् यत् पुनश्चितिर् य एवं विद्वान् पुनश्चितिं चिनुत आ तृतीयात् पुरुषाद् अन्नम् अत्ति यथा वै पुनराधेय एवम् पुनश्चितिर् यो ऽग्न्याधेयेन न
5 ऋध्नोति स पुनराधेयम् आ धत्ते यो ऽग्निं चित्वा नर्ध्नोति स पुनश्चितिं चिनुते यत् पुनश्चितिं चिनुत ऋद्ध्यै । अथो खल्व् आहुर् न चेतव्येति रुद्रो वा एष यद् अग्निर् यथा व्याघ्रम्̇ सुप्तम् बोधयति तादृग् एव तत् । अथो खल्व् आहुश् चेतव्येति यथा वसीयाम्̇सम् भागधेयेन बोधयति तादृग् एव तत् । मनुर् अग्निम् अचिनुत तेन नार्ध्नोत् स एताम् पुनश्चितिम् अपश्यत् ताम् अचिनुत तया वै स आर्ध्नोद् यत् पुनश्चितिं चिनुत ऋद्ध्यै ॥

5.4.11 अनुवाक 11 काम्यचितीनामभिधानम्
1 छन्दश्चितं चिन्वीत पशुकामः पशवो वै छन्दाम्̇सि पशुमान् एव भवति श्येनचितं चिन्वीत सुवर्गकामः श्येनो वै वयसाम् पतिष्ठः श्येन एव भूत्वा सुवर्गं लोकम् पतति कङ्कचितं चिन्वीत यः कामयेत शीर्षण्वान् अमुष्मिम्̐ लोके स्याम् इति शीर्षण्वान् एवामुष्मिम्̐ लोके भवति । अलजचितं चिन्वीत चतुःसीतम् प्रतिष्ठाकामश् चतस्रो दिशो दिक्ष्व् एव प्रति तिष्ठति प्रउगचितं चिन्वीत भ्रातृव्यवान् प्र
2 एव भ्रातृव्यान् नुदते । उभयतःप्रउगं चिन्वीत यः कामयेत प्र जातान् भ्रातृव्यान् नुदेय प्रतिजनिष्यमाणान् इति प्रैव जातान् भ्रातृव्यान् नुदते प्रति जनिष्यमाणान् रथचक्रचितं चिन्वीत भ्रातृव्यवान् वज्रो वै रथो वज्रम् एव भ्रातृव्येभ्यः प्र हरति द्रोणचितं चिन्वीतान्नकामो द्रोणे वा अन्नम् भ्रियते सयोन्य् एवान्नम् अव रुन्द्धे समूह्यं चिन्वीत पशुकामः पशुमान् एव भवति ॥
3 परिचाय्यं चिन्वीत ग्रामकामो ग्राम्य् एव भवति श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयाम् इति पितृलोक एवर्ध्नोति विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताम्̇ स एता जमदग्निर् विहव्या अपश्यत् ता उपाधत्त ताभिर् वै स वसिष्ठस्येन्द्रियं वीर्यम् अवृङ्क्त यद् विहव्या उपदधातीन्द्रियम् एव ताभिर् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते होतुर् धिष्णिय उप दधाति यजमानायतनं वै ॥
4 होता स्व एवास्मा आयतन इन्द्रियं वीर्यम् अव रुन्द्धे द्वादशोप दधाति द्वादशाक्षरा जगती जागताः पशवो जगत्यैवास्मै पशून् अव रुन्द्धे । अष्टावष्टाव् अन्येषु धिष्णियेषूप दधात्य् अष्टाशफाः पशवः पशून् एवाव रुन्द्धे षण् मार्जालीये षड् वा ऋतव ऋतवः खलु वै देवाः पितर ऋतून् एव देवान् पितॄन् प्रीणाति ॥

5.4.12 अनुवाक 12 अश्वमेधीयस्तोत्रसम्बन्धि ऋगाद्यभिधानम्
1 पवस्व वाजसातय इत्य् अनुष्टुक् प्रतिपद् भवति तिस्रो ऽनुष्टुभश् चतस्रो गायत्रियः । यत् तिस्रो ऽनुष्टुभस् तस्माद् अश्वस् त्रिभिस् तिष्ठम्̇स् तिष्ठति यच् चतस्रो गायत्रियस् तस्मात् सर्वाम्̇श् चतुरः पदः प्रतिदधत् पलायते परमा वा एषा छन्दसां यद् { अनुष्टुक् ^ अनुष्टुभ् } परमश् चतुष्टोम स्तोमानाम् परमस् त्रिरात्रो यज्ञानाम् परमो ऽश्वः पशूनाम् परमेणैवैनम् परमतां गमयति । एकविम्̇शम् अहर् भवति ॥
2 यस्मिन्न् अश्व आलभ्यते द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविम्̇श एष प्रजापतिः प्राजापत्यो ऽश्वस् तम् एव साक्षाद् ऋध्नोति शक्वरयः पृष्ठम् भवन्ति । अन्यदन्यच् छन्दः । अन्येऽन्ये वा एते पशव आ लभ्यन्त उतेव ग्राम्या उतेवाऽऽरण्याः । यच् छक्वरयः पृष्ठम् भवन्त्य् अश्वस्य सर्वत्वाय पार्थुरश्मम् ब्रह्मसामम् भवति रश्मिना वा अश्वः
3 यतः। ईश्वरो वा अश्वो ऽयतो ऽप्रतिष्ठितः पराम् परावतं गन्तोः । यत् पार्थुरश्मम् ब्रह्मसामम् भवत्य् अश्वस्य यत्यै धृत्यै ॥ संकृत्य् अच्छावाकसामम् भवति । उत्सन्नयज्ञो वा एष यद् अश्वमेधः कस् तद् वेदेत्य् आहुर् यदि सर्वो वा क्रियते न वा सर्व इति यत् संकृत्य् अच्छावाकसामम् भवत्य् अश्वस्य सर्वत्वाय पर्याप्त्या अनन्तरायाय सर्वस्तोमो ऽतिरात्र उत्तमम् अहर् भवति सर्वस्याप्त्यै सर्वस्य जित्यै सर्वम् एव तेनाप्नोति सर्वं जयति ॥  


5.4.1 अनुवाक 1
 1
    देवासुराः संयत्ता आसन्
    ते न व्यजयन्त
    स एता इन्द्रस् तनूर् अपश्यत्
    ता उपाधत्त
    ताभिर् वै स तनुवम् इन्द्रियं वीर्यम् आत्मन्न् अधत्त
    ततो देवा अभवन् परासुराः ।
    यद् इन्द्रतनूर् उपदधाति तनुवम् एव ताभिर् इन्द्रियं वीर्यं यजमान आत्मन् धत्ते ।
    अथो सेन्द्रम् एवाग्निम्̇ सतनुं चिनुते
    भवत्य् आत्मना परास्य भ्रातृव्यः

 2
    भवति।
    यज्ञो देवेभ्यो ऽपाक्रामत्
    तम् अवरुधं नाशक्नुवन्
    त एता यज्ञतनूर् अपश्यन्
    ता उपादधत
    ताभिर् वै ते यज्ञम् अवारुन्धत
    यद् यज्ञतनूर् उपदधाति यज्ञम् एव ताभिर् यजमानो ऽव रुन्द्धे
    त्रयस्त्रिम्̇शतम् उप दधाति
    त्रयस्त्रिम्̇शद् वै देवता
   देवता एवाव रुन्द्धे ।
 अथो सात्मानम् एवाग्निम्̇ सतनुं चिनुते
   सात्मामुष्मिम्̐ लोके

 3
    भवति य एवं वेद ॥
    ज्योतिष्मतीर् उप दधाति
    ज्योतिर् एवास्मिन् दधाति ।
    एताभिर् वा अग्निश् चितो ज्वलति
    ताभिर् एवैनम्̇ सम् इन्द्धे ।
    उभयोर् अस्मै लोकयोर् ज्योतिर् भवति ॥
    नक्षत्रेष्टका उप दधाति ।
    एतानि वै दिवो ज्योतीम्̇षि
    तान्य् एवाव रुन्द्धे
   सुकृतां वा एतानि ज्योतीम्̇षि यन् नक्षत्राणि
   तान्य् एवाप्नोति ।
   अथो अनूकाशम् एवैतानि

 4
    ज्योतीम्̇षि कुरुते सुवर्गस्य लोकस्यानुख्यात्यै
    यत् सम्̇स्पृष्टा उपदध्याद् वृष्ट्यै लोकम् अपि दध्याद् अवर्षुकः पर्जन्यः स्यात् ।
    असम्̇स्पृष्टा उप दधाति वृष्ट्या एव लोकं करोति वर्षुकः पर्जन्यो भवति
    पुरस्ताद् अन्याः प्रतीचीर् उप दधाति पश्चाद् अन्याः प्राचीस्
    तस्मात् प्राचीनानि च प्रतीचीनानि च नक्षत्राण्य् आ वर्तन्ते ॥

5.4.2 अनुवाक 2
ऋतव्यादीष्टकात्रयप्रोक्षणयोरभिधानम्
 1
    ऋतव्या उप दधाति ।
    ऋतूनां क्लृप्त्यै
    द्वंद्वम् उप दधाति
    तस्माद् द्वंद्वम् ऋतवः ।
    अधृतेव वा एषा यन् मध्यमा चितिः ।
    अन्तरिक्षम् इव वा एषा
    द्वंद्वम् अन्यासु चितीषूप दधाति चतस्रो मध्ये धृत्यै ।
    अन्तःश्लेषणं वा एताश् चितीनां यद् ऋतव्याः ।
    यद् ऋतव्या उपदधाति चितीनां विधृत्यै ।
 अवकाम् अनूप दधाति ।
   एषा वा अग्नेर् योनिः
   सयोनिम्

 2
    एवाग्निं चिनुते ।
    उवाच ह विश्वामित्रः ।
    अदद् इत् स ब्रह्मणाऽन्नं यस्यैता उपधीयान्तै य उ चैना एवं वेदद् इति
    संवत्सरो वा एतम् प्रतिष्ठायै नुदते यो ऽग्निं चित्वा न प्रतितिष्ठति
    पञ्च पूर्वाश् चितयो भवन्त्य् अथ षष्ठीं चितिं चिनुते
    षड् वा ऋतवः संवत्सरः।
    ऋतुष्व् एव संवत्सरे प्रति तिष्ठति ।
    एता वै

 3
    अधिपत्नीर् नामेष्टकाः ।
    यस्यैता उपधीयन्ते ऽधिपतिर् एव समानानाम् भवति
    यं द्विष्यात् तम् उपदधद् ध्यायेत् ।
    एताभ्य एवैनं देवताभ्य आ वृश्चति
    ताजग् आर्तिम् आर्छति ।
    अङ्गिरसः सुवर्गं लोकं यन्तो या यज्ञस्य निष्कृतिर् आसीत् ताम् ऋषिभ्यः प्रत्य् औहन्
    तद्धिरण्यम् अभवत् ।
    यद्धिरण्यशल्कैः प्रोक्षति यज्ञस्य निष्कृत्यै ।
    अथो भेषजम् एवास्मै करोति ।

 4
    अथो रूपेणैवैनम्̇ सम् अर्धयति ।
    अथो हिरण्यज्योतिषैव सुवर्गं लोकम् एति
    साहस्रवता प्रोक्षति
    साहस्रः प्रजापतिः
    प्रजापतेर् आप्त्यै ।
    इमा मे अग्न इष्टका धेनवः सन्त्व् इत्य् आह ।
    धेनूर् एवैनाः कुरुते
    ता एनं कामदुघा अमुत्रामुष्मिम्̐ लोक उप तिष्ठन्ते ॥

5.4.3 अनुवाक 3
शतरुद्रीयहोमाभिधानम्
 1
    रुद्रो वा एष यद् अग्निः
    स एतर्हि जातो यर्हि सर्वश् चितः
    स यथा वत्सो जात स्तनम् प्रेप्सत्य् एवं वा एष एतर्हि भागधेयम् प्रेप्सति
    तस्मै यद् आहुतिं न जुहुयाद् अध्वर्युं च यजमानं च ध्यायेत् ।
    शतरुद्रीयं जुहोति
    भागधेयेनैवैनम्̇ शमयति
    नाऽऽर्तिम् आर्छत्य् अध्वर्युर् न यजमानः ।
    यद् ग्राम्याणाम् पशूनाम्

 2
    पयसा जुहुयाद् ग्राम्यान् पशूञ् छुचार्पयेत् ।
    यद् आरण्यानाम् आरण्यान् ।
    जर्तिलयवाग्वा वा जुहुयाद् गवीधुकयवाग्वा वा
    न ग्राम्यान् पशून् हिनस्ति नारण्यान्
    अथो खल्व् आहुः ।
    अनाहुतिर् वै जर्तिलाश् च गवीधुकाश् चेति ।
    अजक्षीरेण जुहोति ।
    आग्नेयी वा एषा यद् अजा ।
    आहुत्यैव जुहोति
   न ग्राम्यान् पशून् हिनस्ति नारण्यान् ॥
   अङ्गिरसः सुवर्गं लोकं यन्तः

 3
    अजायां घर्मम् प्रासिञ्चन् ।
    सा शोचन्ती पर्णम् पराऽजिहीत
    सो ऽर्को ऽभवत्
    तद् अर्कस्यार्कत्वम्
    अर्कपर्णेन जुहोति सयोनित्वाय ।
    उदङ् तिष्ठञ् जुहोति ।
    एषा वै रुद्रस्य { दिक् ^ दिश् }
    स्वायाम् एव दिशि रुद्रं निरवदयते
    चरमायाम् इष्टकायां जुहोति ।
    अन्तत एव रुद्रं निरवदयते
   त्रेधाविभक्तं जुहोति
   त्रय इमे लोकाः
   इमान् एव लोकान्त् समावद्वीर्यान् करोति ।
    इयत्य् अग्रे जुहोति ।

 4
    अथेयत्य् अथेयति
    त्रय इमे लोका
    एभ्य एवैनं लोकेभ्यः शमयति
    तिस्र उत्तरा आहुतीर् जुहोति
    षट् सम् पद्यन्ते
    षड् वा ऋतव
    ऋतुभिर् एवैनम्̇ शमयति
    यद् अनुपरिक्रामं जुहुयाद् अन्तरवचारिणम्̇ रुद्रं कुर्यात् ।
    अथो खल्व् आहुः
  कस्यां वाऽह दिशि रुद्रः कस्यां वेति ।
   अनुपरिक्रामम् एव होतव्यम्
   अपरिवर्गम् एवैनम्̇ शमयति ॥

 5
    एता वै देवताः सुवर्ग्या या उत्तमास्
    ता यजमानं वाचयति
    ताभिर् एवैनम्̇ सुवर्गं लोकं गमयति
    यं द्विष्यात् तस्य संचरे पशूनां न्य् अस्येत् ।
    यः प्रथमः पशुर् अभितिष्ठति स आर्तिम् आर्छति ॥

5.4.4 अनुवाक 4
परिषेचनाद्यभिधानम्
 1
    अश्मन्न् ऊर्जम् इति परि षिञ्चति
    मार्जयत्य् एवैनम्
    अथो तर्पयत्य् एव
    स एनं तृप्तो ऽक्षुध्यन्न् अशोचन्न् अमुष्मिम्̐ लोक उप तिष्ठते
    तृप्यति प्रजया पशुभिर् य एवं वेद
    तां न इषमूर्जं धत्त मरुतः सम्̇रराणा इत्य् आह ।
    अन्नं वा ऊर्ज्
    अन्नम् मरुतः ।
    अन्नम् एवाव रुन्द्धे ।
  अश्मम्̇स् ते क्षुध् ।
  अमुं ते शुक्

 2
    ऋच्छतु यं द्विष्म इत्य् आह
    यम् एव द्वेष्टि तम् अस्य क्षुधा च शुचा चार्पयति
    त्रिः परिषिञ्चन् पर्य् एति
    त्रिवृद् वा अग्निः ।
    यावान् एवाग्निस् तस्य शुचम्̇ शमयति
    त्रिः पुनः पर्य् एति
    षट् सम् पद्यन्ते
    षड् वा ऋतवः ।
    ऋतुभिर् एवास्य शुचम्̇ शमयति ।
    अपां वा एतत् पुष्पं यद् वेतसः ।
   अपाम्

 3
    शरो ऽवकाः ।
    वेतसशाखया चावकाभिश् च वि कर्षति ।
    आपो वै शान्ताः
    शान्ताभिर् एवास्य शुचम्̇ शमयति
    यो वा अग्निं चितम् प्रथमः पशुर् अधिक्रामतीश्वरो वै तम्̇ शुचा प्रदहः ।
    मण्डूकेन वि कर्षति ।
    एष वै पशूनाम् अनुपजीवनीयः।
    न वा एष ग्राम्येषु पशुषु हितो नारण्येषु
    तम् एव शुचार्पयति ।
    अष्टाभिर् वि कर्षति

 4
    अष्टाक्षरा गायत्री
    गायत्रो ऽग्निः ।
    यावान् एवाग्निर् तस्य शुचम्̇ शमयति
    पावकवतीभिः ।
    अन्नं वै पावको
    अन्नेनैवास्य शुचम्̇ शमयति
    मृत्युर् वा एष यद् अग्निः
    ब्रह्मण एतद् रूपं यत् कृष्णाजिनम् ।
    कार्ष्णी उपानहाव् उप मुञ्चते
    ब्रह्मणैव मृत्योर् अन्तर् धत्ते
    अन्तर् मृत्योर् धत्ते ।
   अन्तर् अन्नाद्याद् इत्य् आहुः।
    अन्याम् उपमुञ्चते ऽन्यां नान्तः

 5
    एव मृत्योर् धत्ते ऽवान्नाद्यम्̇ रुन्द्धे
    नमस् ते हरसे शोचिष इत्य् आह
    नमस्कृत्य हि वसीयाम्̇सम् उपचरन्ति ।
    अन्यं ते अस्मत् तपन्तु हेतय इत्य् आह
    यम् एव द्वेष्टि तम् अस्य शुचार्पयति
    पावको अस्मभ्यम्̇ शिवो भवेत्य् आह ।
    अन्नं वै पावको
    अन्नम् एवाव रुन्द्धे
    द्वाभ्याम् अधि क्रामति प्रतिष्ठित्यै ।
   अपस्यवतीभ्याम्̇ शान्त्यै ॥

5.4.5 अनुवाक 5
 व्याघारणाद्यभिधानम्
 1
    नृषदे वड् इति व्याघारयति
    पङ्क्त्याहुत्या यज्ञमुखम् आ रभते ।
    अक्ष्णया व्याघारयति
    तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै
    यद् वषट्कुर्याद् यातयामाऽस्य वषट्कारः स्यात् ।
    यन् न वषट्कुर्याद् रक्षाम्̇सि यज्ञम्̇ हन्युः ।
    वड् इत्य् आह परोऽक्षम् एव वषट् करोति
    नास्य यातयामा वषट्कारो भवति न यज्ञम्̇ रक्षाम्̇सि घ्नन्ति
    हुतादो वा अन्ये देवाः

 2
    अहुतादो ऽन्ये ।
    तान् अग्निचिद् एवोभयान् प्रीणाति
    ये देवा देवानाम् इति दध्ना मधुमिश्रेणावोक्षति
    हुतादश् चैव देवान् अहुतादश् च यजमानः प्रीणाति
    ते यजमानम् प्रीणन्ति
    दध्नैव हुतादः प्रीणाति मधुषाऽहुतादः ।
    ग्राम्यं वा एतद् अन्नं यद् दध्य् आरण्यम् मधु
    यद् दध्ना मधुमिश्रेणावोक्षत्य् उभयस्यावरुद्ध्यै
    ग्रुमुष्टिनाऽवोक्षति
    प्राजापत्यः

 3
    वै ग्रुमुष्टिः सयोनित्वाय
    द्वाभ्याम् प्रतिष्ठित्यै ।
    अनुपरिचारम् अवोक्षति ।
    अपरिवर्गम् एवैनान् प्रीणाति
    वि वा एष प्राणैः प्रजया पशुभिर् ऋध्यते यो ऽग्निं चिन्वन्न् अधिक्रामति
    प्राणदा अपानदा इत्य् आह
    प्राणान् एवात्मन् धत्ते
    वर्चोदा वरिवोदा इत्य् आह
    प्रजा वै वर्चः पशवो वरिवः
    प्रजाम् एव पशून् आत्मन् धत्ते ।
    इन्द्रो वृत्रम् अहन्
    तं वृत्रः

 4
    हतः षोडशभिर् भोगैर् असिनात्
    स एताम् अग्नये ऽनीकवत आहुतिम् अपश्यत्
    ताम् अजुहोत्
    तस्याग्निर् अनीकवान्त् स्वेन भागधेयेन प्रीतः षोडशधा वृत्रस्य भोगान् अप्य् अदहत् ।
    वैश्वकर्मणेन पाप्मनो निर् अमुच्यत
    यद् अग्नये ऽनीकवत आहुतिं जुहोत्य् अग्निर् एवास्यानीकवान्त् स्वेन भागधेयेन प्रीतः पाप्मानम् अपि दहति
    वैश्वकर्मणेन पाप्मनो निर् मुच्यते
    यं कामयेत
    चिरम् पाप्मनः

 5
    निर् मुच्येतेत्य् एकैकं तस्य जुहुयात् ।
    चिरम् एव पाप्मनो निर् मुच्यते
    यं कामयेत
    ताजक् पाप्मनो निर् मुच्येतेति सर्वाणि तस्यानुद्रुत्य जुह्यात्
    ताजग् एव पाप्मनो निर् मुच्यते ।
    अथो खलु नानैव सूक्ताभ्यां जुहोति
    नानैव सूक्तयोर् वीर्यं दधाति ।
    अथो प्रतिष्ठित्यै ॥

5.4.6 अनुवाक 6
 समित् आधानादिविधिः
 1
    उद् एनम् उत्तरां नयेति समिध आ दधाति
    यथा जनं यते ऽवसं करोति तादृग् एव तत्
    तिस्र आ दधाति
    त्रिवृद् वा अग्निः ।
    यावान् एवाग्निस् तस्मै भागधेयं करोति ।
    औदुम्बरीर् भवन्ति ।
    ऊर्ग् वा उदुम्बरः ।
    ऊर्जम् एवास्मा अपि दधाति ।
    उद् उ त्वा विश्वे देवा इत्य् आह
    प्राणा वै विश्वे देवाः
    प्राणैः

 2
    एवैनम् उद् यच्छते ।
    अग्ने भरन्तु चित्तिभिर् इत्य् आह
    यस्मा एवैनं चित्तायोद्यच्छते तेनैवैनम्̇ सम् अर्धयति
    पञ्च दिशो दैवीर् यज्ञम् अवन्तु देवीर् इत्य् आह
    दिशो ह्य् एषो ऽनु प्रच्यवते ।
    अपामतिं दुर्मतिम् बाधमाना इत्य् आह रक्षसाम् अपहत्यै
    रायस् पोषे यज्ञपतिम् आभजन्तीर् इत्य् आह
    पशवो वै रायस् पोषः ।

 3
    पशून् एवाव रुन्द्धे
    षड्भिर् हरति
    षड् वा ऋतवः ।
    ऋतुभिर् एवैनम्̇ हरति।
    द्वे परिगृह्यवती भवतो रक्षसाम् अपहत्यै।
    सूर्यरश्मिर् हरिकेशः पुरस्ताद् इत्य् आह
    प्रसूत्यै ।
    ततः पावका आशिषो नो जुषन्ताम् इत्य् आह ।
    अन्नं वै पावकः ।
   अन्नम् एवाव रुन्द्धे ।
    देवासुराः संयत्ता आसन्
    ते देवा एतद् अप्रतिरथम् अपश्यन्
    तेनैव ते ऽप्रति

 4
    असुरान् अजयन् ।
    तद् अप्रतिरथस्याप्रतिरथत्वम् ।
    यद् अप्रतिरथं द्वितीयो होताऽन्वाहाप्रत्य् एव तेन यजमानो भ्रातृव्याञ् जयति ।
    अथो अनभिजितम् एवाभि जयति
    दशर्चम् भवति
    दशाक्षरा { विराड् ^ विराज् }
    विराजेमौ लोकौ विधृतौ ।
    अनयोर् लोकयोर् विधृत्यै ।
    अथो दशाक्षरा { विराड् ^ विराज् }
    अन्नं { विराड् ^ विराज् }
   विराज्य् एवान्नाद्ये प्रति तिष्ठति ।
   असद् इव वा अन्तरिक्षम् ।
    अन्तरिक्षम् इवाग्नीध्रम्।
  आग्नीध्रे

 5
    अश्मानं नि दधाति
    सत्त्वाय ।
    द्वाभ्याम्
    प्रतिष्ठित्यै
    विमान एष दिवो मध्य आस्त इत्य् आह
    व्य् एवैतया मिमीते
    मध्ये दिवो निहितः पृश्निर् अश्मेत्य् आह ।
    अन्नं वै पृश्नि ।
    अन्नम् एवाव रुन्द्धे
    चतसृभिर् आ पुच्छाद् एति
    चत्वारि छन्दाम्̇सि
    छन्दोभिर् एव ।
   इन्द्रं विश्वा अवीवृधन्न् इत्य् आह
   वृद्धिम् एवोपावर्तते
   वाजानाम्̇ सत्पतिम् पतिम्

 6
    इत्य् आह ।
    अन्नं वै वाजः ।
    अन्नम् एवाव रुन्द्धे
    सुम्नहूर् यज्ञो देवाम्̇ आ च वक्षद् इत्य् आह
    प्रजा वै पशवः सुम्नम्
    प्रजाम् एव पशून् आत्मन् धत्ते
    यक्षद् अग्निर् देवो देवाम्̇ आ च वक्षद् इत्य् आह
    स्वगाकृत्यै
    वाजस्य मा प्रसवेनोद्ग्राभेणोद् अग्रभीद् इत्य् आह ।
   असौ वा आदित्य उद्यन्न् उद्ग्राभ एष निम्रोचन् निग्राभः ।
    ब्रह्मणैवात्मानम् उद्ग्रृह्णाति ब्रह्मणा भ्रातृव्यं नि गृह्णाति ॥

5.4.7 अनुवाक 7
 चितौ वह्निक्षेपविधिः
 1
    प्राचीम् अनु प्रदिशम् प्रेहि विद्वान् इत्य् आह
    देवलोकम् एवैतयोपावर्तते
    क्रमध्वम् अग्निना नाकम् इत्य् आह ।
    इमान् एवैतया लोकान् क्रमते
    पृथिव्या अहम् उद् अन्तरिक्षम् आरुहम् इत्य् आह ।
    इमान् एवैतया लोकान्त् समारोहति
    सुवर् यन्तो नापेक्षन्त इत्य् आह
    सुवर्गम् एवैतया लोकम् एति ।
    अग्ने प्रेहि

 2
    प्रथमो देवयताम् इत्य् आह ।
    उभयेष्व् एवैतया देवमनुष्येषु चक्षुर् दधाति
    पञ्चभिर् अधि क्रामति
    पाङ्क्तो यज्ञः ।
    यावान् एव यज्ञस् तेन सह सुवर्गं लोकम् एति
    नक्तोषासेति पुरोऽनुवाक्याम् अन्व् आह
    प्रत्त्यै ।
    अग्ने सहस्राक्षेत्य् आह
    साहस्रः प्रजापतिः
    प्रजापतेर् आप्त्यै
   तस्मै ते विधेम वाजाय स्वाहेत्य् आह ।
    अन्नं वै वाजः ।
   अन्नम् एवाव

 3
    रुन्द्धे ।
    दध्नः पूर्णाम् औदुम्बरीम्̇ स्वयमातृण्णायां जुहोति ।
    ऊर्ग् वै दधि ।
    ऊर्ग् उदुम्बरः ।
    असौ स्वयमातृण्णा ।
    अमुष्याम् एवोर्जं दधाति
    तस्माद् अमुतो ऽर्वाचीमूर्जम् उप जीवामस्
    तिसृभिः सादयति
    त्रिवृद् वा अग्निः ।
    यावान् एवाग्निस् तम् प्रतिष्ठां गमयति
   प्रेद्धो अग्ने दीदिहि पुरो न इत्य् औदुम्बरीम् आ दधाति ।
    एष वै सूर्मी कर्णकावती ।
    एतया ह स्म

 4
    वै देवा असुराणाम्̇ शततर्हाम्̇स् तृम्̇हन्ति
    यद् एतया समिधम् आदधाति वज्रम् एवैतच् छतघ्नीं यजमानो भ्रातृव्याय प्र हरति स्तृत्यै ।
    अच्छम्बट्कारम् ।
    विधेम ते परमे जन्मन्न् अग्न इति वैकङ्कतीम् आ दधाति
    भा एवाव रुन्द्धे
    ताम्̇ सवितुर् वरेण्यस्य चित्राम् इति शमीमयीम्̇ शान्त्यै ।
    अग्निर् वा ह वा अग्निचितं दुहे ऽग्निचिद् वाग्निं दुहे
    ताम्

 5
    सवितुर् वरेण्यस्य चित्राम् इत्य् आह ।
    एष वा अग्नेर् दोहस्
    तम् अस्य कण्व एव श्रायसो ऽवेत्
    तेन ह समैनम्̇ स दुहे
    यद् एतया समिधम् आदधात्य् अग्निचिद् एव तद् अग्निं दुहे
    सप्त ते अग्ने समिधः सप्त जिह्वा इत्य् आह
    सप्तैवास्य साप्तानि प्रीणाति
    पूर्णया जुहोति
    पूर्ण इव हि प्रजापतिः
   प्रजापतेः

 6
    आप्त्यै
    न्यूनया जुहोति
    न्यूनाद् धि प्रजापतिः प्रजा असृजत
    प्रजानाम्̇ सृष्ट्यै ।
    अग्निर् देवेभ्यो निलायत
    स दिशो ऽनु प्राविशत् ।
    जुह्वन् मनसा दिशो ध्यायेत् ।
    दिग्भ्य एवैनम् अव रुन्द्धे
    दध्ना पुरस्ताज् जुहोत्य् आज्येनोपरिष्टात्
    तेजश् चैवास्मा इन्द्रियं च समीची दधाति
    द्वादशकपालो वैश्वानरो भवति
    द्वादश मासाः संवत्सरः
    संवत्सरो ऽग्निर् वैश्वानरः
    साक्षात्

 7
    एव वैश्वानरम् अव रुन्द्धे
    यत् प्रयाजानूयाजान् कुर्याद् विकस्तिः सा यज्ञस्य
    दर्विहोमं करोति यज्ञस्य प्रतिष्ठित्यै
    राष्ट्रं वै वैश्वानरो विण् मरुतः ।
    वैश्वानरम्̇ हुत्वा मारुताञ् जुहोति
    राष्ट्र एव विशम् अनु बध्नाति ।
    उच्चैर् वैश्वानरस्या श्रावयत्य् उपाम्̇शु मारुताञ् जुहोति
    तस्माद् राष्ट्रं विशम् अति वदति
    मारुता भवन्ति
    मरुतो वै देवानां विशः ।
    देवविशेनैवास्मै मनुष्य विशम् अव रुन्द्धे
    सप्त भवन्ति
    सप्तगणा वै मरुतः ।
    गणश एव विशम् अव रुन्द्धे
    गणेन गणम् अनुद्रुत्य जुहोति
    विशम् एवास्मा अनु वर्त्मानं करोति ॥

5.4.8 अनुवाक 8
वसोर्धाराभिधानम्
 1
    वसोर् धारां जुहोति
    वसोर् मे धारासद् इति वा एषा हूयते
    घृतस्य वा एनम् एषा धारामुष्मिम्̐ लोके पिन्वमानोप तिष्ठते ।
    आज्येन जुहोति
    तेजो वा आज्यं तेजो वसोर् धारा
    तेजसैवास्मै तेजो ऽव रुन्द्धे ।
    अथो कामा वै वसोर् धारा
    कामान् एवाव रुन्द्धे
    यं कामयेत
    प्राणान् अस्यान्नाद्यं वि

 2
    छिन्द्याम् इति विग्राहं तस्य जुहुयात्
    प्राणान् एवास्यान्नाद्यं वि च्छिनत्ति
    यं कामयेत
    प्राणान् अस्यान्नाद्यम्̇ सं तनुयाम् इति संततां तस्य जुहुयात्
    प्राणान् एवास्यान्नाद्यम्̇ सं तनोति
    द्वादश द्वादशानि जुहोति द्वादश मासाः संवत्सरः
    संवत्सरेणैवास्मा अन्नम् अव रुन्द्धे ।
    अन्नं च मे ऽक्षुच् च म इत्य् आह ।
    एतद् वै

 3
    अन्नस्य रूपम् ।
    रूपेणैवान्नम् अव रुन्द्धे ।
    अग्निश् च म आपश् च म इत्य् आह ।
    एषा वा अन्नस्य योनिः
    सयोन्य् एवान्नम् अव रुन्द्धे ।
    अर्धेन्द्राणि जुहोति
    देवता एवाव रुन्द्धे
    यत् सर्वेषाम् अर्धम् इन्द्रः प्रति तस्माद् इन्द्रो देवतानाम् भूयिष्ठभाक्तमः ।
    इन्द्रम् उत्तरम् आह ।
    इन्द्रियम् एवास्मिन्न् उपरिष्टाद् दधाति
    यज्ञायुधानि जुहोति
    यज्ञः

 4
    वै यज्ञायुधानि
    यज्ञम् एवाव रुन्द्धे ।
    अथो एतद् वै यज्ञस्य रूपम् ।
    रूपेणैव यज्ञम् अव रुन्द्धे ।
    अवभृथश् च मे स्वगाकारश् च म इत्य् आह
    स्वगाकृत्यै ।
    अग्निश् च मे घर्मश् च म इत्य् आह ।
    एतद् वै ब्रह्मवर्चसस्य रूपम् ।
    रूपेणैव ब्रह्मवर्चसम् अव रुन्द्धे ।
   ऋक् च मे साम च म इत्य् आह ।

 5
    एतद् वै छन्दसाम्̇ रूपम् ।
    रूपेणैव छन्दाम्̇स्य् अव रुन्द्धे
    गर्भाश् च मे वत्साश् च म इत्य् आह ।
    एतद् वै पशूनाम्̇ रूपम् ।
    रूपेणैव पशून् अव रुन्द्धे
    कल्पाञ् जुहोति ।
    अक्लृप्तस्य क्लृप्त्यै
    युग्मदयुजे जुहोति
    मिथुनत्वाय ।
    उत्तरावती भवतः ।
   अभिक्रान्त्यै ।
   एका च मे तिस्रश् च म इत्य् आह
   देवछन्दसं वा एका च तिस्रश् च ॥

 6
    मनुष्यछन्दसं चतस्रश् चाष्टौ च
    देवछन्दसं चैव मनुष्यछन्दसं चाव रुन्द्धे ।
    आ त्रयस्त्रिम्̇शतो जुहोति
    त्रयस्त्रिम्̇शद् वै देवताः ।
    देवता एवाव रुन्द्धे ।
    आष्टाचत्वारिम्̇शतो जुहोति ।
    अष्टाचत्वारिम्̇शदक्षरा जगती
    जागताः पशवः ।
    जगत्यैवास्मै पशून् अव रुन्द्धे
    वाजश् च प्रसवश् चेति द्वादशं जुहोति
    द्वादश मासाः संवत्सरः
    संवत्सर एव प्रति तिष्ठति ॥

5.4.9 अनुवाक 9
 वाजप्रसवीयाभिधानम्
 1
    अग्निर् देवेभ्यो ऽपाक्रामद् भागधेयम् इच्छमानस्
    तं देवा अब्रुवन् ।
    उप न आ वर्तस्व हव्यं नो वहेति
    सो ऽब्रवीत् ।
    वरं वृणै मह्यम् एव वाजप्रसवीयं जुहवन्न् इति
    तस्माद् अग्नये वाजप्रसवीयं जुह्वति
    यद् वाजप्रसवीयं जुहोत्य् अग्निम् एव तद् भागधेयेन सम् अर्धयति ।
    अथो अभिषेक एवास्य { स ^ सस् }
    चतुर्दशभिर् जुहोति
    सप्त ग्राम्या ओषधयः सप्त

 2
    आरण्या।
    उभयीषाम् अवरुद्ध्यै ।
    अन्नस्यान्नस्य जुहोति ।
    अन्नस्यान्नस्यावरुद्ध्यै ।
    औदुम्बरेण स्रुवेण जुहोति ।
    ऊर्ग् वा उदुम्बर ऊर्ग् अन्नम्
    ऊर्जैवास्मा ऊर्जम् अन्नम् अव रुन्द्धे ।
    अग्निर् वै देवानाम् अभिषिक्तो ऽग्निचिन् मनुष्याणाम् ।
    तस्माद् अग्निचिद् वर्षति न धावेत् ।
    अवरुद्धम्̇ ह्य् अस्यान्नम्
   अन्नम् इव खलु वै वर्षम् ।
   यद् धावेद् अन्नाद्याद् धावेत् ।
    उपावर्तेत ।
    अन्नाद्यम् एवाभि

 3
    उपावर्तते ।
    नक्तोषासेति कृष्णायै श्वेतवत्सायै पयसा जुहोति ।
    अह्नैवास्मै रात्रिम् प्र दापयति रात्रियाऽहर्
    अहोरात्रे एवास्मै प्रत्ते कामम् अन्नाद्यं दुहाते ।
    राष्ट्रभृतो जुहोति
    राष्ट्रम् एवाव रुन्द्धे
    षड्भिर् जुहोति
    षड् वा ऋतवः ।
    ऋतुष्व् एव प्रति तिष्ठति
    भुवनस्य पत इति रथमुखे पञ्चाहुतीर् जुहोति
    वज्रो वै रथः ।
    वज्रेणैव दिशः

 4
    अभि जयति ।
    अग्निचितम्̇ ह वा अमुष्मिम्̐ लोके वातो ऽभि पवते
    वातनामानि जुहोति ।
    अभ्य् एवैनम् अमुष्मिम्̐ लोके वातः पवते
    त्रीणि जुहोति
    त्रय इमे लोकाः ।
    एभ्य एव लोकेभ्यो वातम् अव रुन्द्धे
    समुद्रो ऽसि नभस्वान् इत्य् आह ।
    एतद् वै वातस्य रूपम् ।
    रूपेणैव वातम् अव रुन्द्धे ।
    अञ्जलिना जुहोति
    न ह्य् एतेषाम् अन्यथाहुतिर् अवकल्पते ॥

5.4.10 अनुवाक 10
अग्निसंयोजनाभिधानम्
 1
    सुवर्गाय वै लोकाय देवरथो युज्यते यत्राकूताय मनुष्यरथ एष खलु वै देवरथो यद् अग्निर् अग्निं युनज्मि शवसा घृतेनेत्य् आह युनक्त्य् एवैनम्̇ स एनं युक्तः सुवर्गं लोकम् अभि वहति
    यत् सर्वाभिः पञ्चभिर् युञ्ज्याद् युक्तो ऽस्याग्निः प्रच्युतः स्याद् अप्रतिष्ठिता आहुतयः स्युर् अप्रतिष्ठिता स्तोमा अप्रतिष्ठितान्य् उक्थानि तिसृभिः प्रातःसवने ऽभि मृशति त्रिवृत्

 2
    वा अग्निर् यावान् एवाग्निस् तं युनक्ति यथानसि युक्त आधीयत एवम् एव तत् प्रत्य् आहुतयस् तिष्ठन्ति प्रति स्तोमाः प्रत्य् उक्थानि।
    यज्ञायज्ञियस्य स्तोत्रे द्वाभ्याम् अभि मृशत्य् एतावान् वै यज्ञो यावान् अग्निष्टोमो भूमा त्वा अस्यात ऊर्ध्वः क्रियते यावान् एव यज्ञस् तम् अन्ततो ऽन्वारोहति द्वाभ्याम् प्रतिष्ठित्या एकयाऽप्रस्तुतम् भवत्य् अथ

 3
    अभि मृशत्य् उपैनम् उत्तरो यज्ञो नमत्य् अथो संतत्यै
    प्र वा एषो ऽस्माल् लोकाच् च्यवते यो ऽग्निं चिनुते न वा एतस्यानिष्टक आहुतिर् अव कल्पते यां वा एषो ऽनिष्टक आहुतिं जुहोति
    स्रवति वै सा ताम्̇ स्रवन्तीं यज्ञो ऽनु परा भवति यज्ञं यजमानो यत् पुनश्चितिं चिनुत आहुतीनाम् प्रतिष्ठित्यै प्रत्य् आहुतयस् तिष्ठन्ति

 4
    न यज्ञः पराभवति न यजमानः ।
    अष्टाव् उप दधात्य् अष्टाक्षरा गायत्री गायत्रेणैवैनं छन्दसा चिनुते यद् एकादश त्रैष्टुभेन यद् द्वादश जागतेन छन्दोभिर् एवैनं चिनुते
    नपात्को वै नामैषो ऽग्निर् यत् पुनश्चितिर् य एवं विद्वान् पुनश्चितिं चिनुत आ तृतीयात् पुरुषाद् अन्नम् अत्ति
    यथा वै पुनराधेय एवम् पुनश्चितिर् यो ऽग्न्याधेयेन न

 5
    ऋध्नोति स पुनराधेयम् आ धत्ते यो ऽग्निं चित्वा नर्ध्नोति स पुनश्चितिं चिनुते यत् पुनश्चितिं चिनुत ऋद्ध्यै ।
    अथो खल्व् आहुर् न चेतव्येति रुद्रो वा एष यद् अग्निर् यथा व्याघ्रम्̇ सुप्तम् बोधयति तादृग् एव तत् ।
    अथो खल्व् आहुश् चेतव्येति यथा वसीयाम्̇सम् भागधेयेन बोधयति तादृग् एव तत् ।
    मनुर् अग्निम् अचिनुत तेन नार्ध्नोत् स एताम् पुनश्चितिम् अपश्यत् ताम् अचिनुत तया वै स आर्ध्नोद् यत् पुनश्चितिं चिनुत ऋद्ध्यै ॥

5.4.11 अनुवाक 11
 काम्यचितीनामभिधानम्
 1
    छन्दश्चितं चिन्वीत पशुकामः पशवो वै छन्दाम्̇सि पशुमान् एव भवति
    श्येनचितं चिन्वीत सुवर्गकामः श्येनो वै वयसाम् पतिष्ठः श्येन एव भूत्वा सुवर्गं लोकम् पतति
    कङ्कचितं चिन्वीत यः कामयेत शीर्षण्वान् अमुष्मिम्̐ लोके स्याम् इति शीर्षण्वान् एवामुष्मिम्̐ लोके भवति ।
    अलजचितं चिन्वीत चतुःसीतम् प्रतिष्ठाकामश् चतस्रो दिशो दिक्ष्व् एव प्रति तिष्ठति
    प्रउगचितं चिन्वीत भ्रातृव्यवान् प्र

 2
    एव भ्रातृव्यान् नुदते ।
    उभयतःप्रउगं चिन्वीत यः कामयेत प्र जातान् भ्रातृव्यान् नुदेय प्रतिजनिष्यमाणान् इति प्रैव जातान् भ्रातृव्यान् नुदते प्रति जनिष्यमाणान्
    रथचक्रचितं चिन्वीत भ्रातृव्यवान् वज्रो वै रथो वज्रम् एव भ्रातृव्येभ्यः प्र हरति
    द्रोणचितं चिन्वीतान्नकामो द्रोणे वा अन्नम् भ्रियते सयोन्य् एवान्नम् अव रुन्द्धे
    समूह्यं चिन्वीत पशुकामः पशुमान् एव भवति ॥

 3
    परिचाय्यं चिन्वीत ग्रामकामो ग्राम्य् एव भवति
    श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयाम् इति पितृलोक एवर्ध्नोति
    विश्वामित्रजमदग्नी वसिष्ठेनास्पर्धेताम्̇ स एता जमदग्निर् विहव्या अपश्यत् ता उपाधत्त ताभिर् वै स वसिष्ठस्येन्द्रियं वीर्यम् अवृङ्क्त यद् विहव्या उपदधातीन्द्रियम् एव ताभिर् वीर्यं यजमानो भ्रातृव्यस्य वृङ्क्ते
    होतुर् धिष्णिय उप दधाति यजमानायतनं वै ॥

 4
    होता स्व एवास्मा आयतन इन्द्रियं वीर्यम् अव रुन्द्धे
    द्वादशोप दधाति द्वादशाक्षरा जगती जागताः पशवो जगत्यैवास्मै पशून् अव रुन्द्धे ।
    अष्टावष्टाव् अन्येषु धिष्णियेषूप दधात्य् अष्टाशफाः पशवः पशून् एवाव रुन्द्धे
    षण् मार्जालीये षड् वा ऋतव ऋतवः खलु वै देवाः पितर ऋतून् एव देवान् पितॄन् प्रीणाति ॥

5.4.12 अनुवाक 12
अश्वमेधीयस्तोत्रसम्बन्धि ऋगाद्यभिधानम्
 1
    पवस्व वाजसातय इत्य् अनुष्टुक् प्रतिपद् भवति
    तिस्रो ऽनुष्टुभश् चतस्रो गायत्रियः ।
    यत् तिस्रो ऽनुष्टुभस् तस्माद् अश्वस् त्रिभिस् तिष्ठम्̇स् तिष्ठति
    यच् चतस्रो गायत्रियस् तस्मात् सर्वाम्̇श् चतुरः पदः प्रतिदधत् पलायते
    परमा वा एषा छन्दसां यद् { अनुष्टुक् ^ अनुष्टुभ् }
    परमश् चतुष्टोम स्तोमानाम्
    परमस् त्रिरात्रो यज्ञानाम्
    परमो ऽश्वः पशूनाम्
    परमेणैवैनम् परमतां गमयति ।
    एकविम्̇शम् अहर् भवति ॥

 2
    यस्मिन्न् अश्व आलभ्यते
    द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविम्̇श एष प्रजापतिः
    प्राजापत्यो ऽश्वस्
    तम् एव साक्षाद् ऋध्नोति
    शक्वरयः पृष्ठम् भवन्ति ।
    अन्यदन्यच् छन्दः ।
    अन्येऽन्ये वा एते पशव आ लभ्यन्त उतेव ग्राम्या उतेवाऽऽरण्याः ।
    यच् छक्वरयः पृष्ठम् भवन्त्य् अश्वस्य सर्वत्वाय
    पार्थुरश्मम् ब्रह्मसामम् भवति
   रश्मिना वा अश्वः

 3
    यतः।
    ईश्वरो वा अश्वो ऽयतो ऽप्रतिष्ठितः पराम् परावतं गन्तोः ।
    यत् पार्थुरश्मम् ब्रह्मसामम् भवत्य् अश्वस्य यत्यै धृत्यै ॥
    संकृत्य् अच्छावाकसामम् भवति ।
    उत्सन्नयज्ञो वा एष यद् अश्वमेधः
    कस् तद् वेदेत्य् आहुर् यदि सर्वो वा क्रियते न वा सर्व इति
    यत् संकृत्य् अच्छावाकसामम् भवत्य् अश्वस्य सर्वत्वाय पर्याप्त्या अनन्तरायाय
    सर्वस्तोमो ऽतिरात्र उत्तमम् अहर् भवति सर्वस्याप्त्यै सर्वस्य जित्यै
    सर्वम् एव तेनाप्नोति सर्वं जयति ॥