तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ५/प्रपाठकः ५

5.5 प्रपाठक: 5

5.5.1 अनुवाक 1 दीक्षणीयेष्टकाभिधानम्
1 यद् एकेन सꣳस्थापयति यज्ञस्य संतत्या अविच्छेदाय । ऐन्द्राः पशवो ये मुष्कराः । यद् ऐन्द्राः सन्तो ऽग्निभ्य आलभ्यन्ते देवताभ्यः समदं दधाति । आग्नेयीस् त्रिष्टुभो याज्यानुवाक्याः कुर्यात् । यद् अग्नेयीस् तेनाग्नेयाः । यत् त्रिष्टुभस् तेनैन्द्राः समृद्ध्यै न देवताभ्यः समदं दधाति वायवे नियुत्वते तूपरम् आ लभते तेजो ऽग्नेर् वायुस् तेजस एष आ लभ्यते तस्माद् यद्रियङ् वायुः ॥
2 वाति तद्रियङ्ङ् अग्निर् दहति स्वम् एव तत् तेजो ऽन्व् एति यन् न नियुत्वते स्याद् उन् माद्येद् यजमानः । नियुत्वते भवति यजमानस्यानुन्मादाय वायुमती श्वेतवती याज्यानुवाक्ये भवतः सतेजस्त्वाय हिरण्यगर्भः सम् अवर्तताग्र इत्य् आघारम् आ घारयति प्रजापतिर् वै हिरण्यगर्भः प्रजापतेर् अनुरूपत्वाय सर्वाणि वा एष रूपाणि पशूनाम् प्रत्य् आ लभ्यते। यच् छ्मश्रुणस् तत्
3 पुरुषाणाꣳ रूपम् । यत् तूपरस् तद् अश्वानाम् । यद् अन्यतोदन् तद् गवाम् । यद् अव्या इव शफास् तद् अवीनाम् । यद् अजस् तद् अजानाम् । वायुर् वै पशूनाम् प्रियं धाम यद् वायव्यो भवत्य् एतम् एवैनम् अभि संजानानाः पशव उप तिष्ठन्ते वायव्यः कार्या3ः प्राजापत्या3 इत्य् आहुः । यद् वायव्यं कुर्यात् प्रजापतेर् इयात् । यत् प्राजापत्यं कुर्याद् वायोः
4 इयात् । यद् वायव्यः पशुर् भवति तेन वायोर् नैति यत् प्राजापत्यः पुरोडाशो भवति तेन प्राजापतेर् नैति यद् द्वादशकपालस् तेन वैश्वानरान् नैति । आग्नावैष्णवम् एकादशकपालं निर् वपति दीक्षिष्यमाणः । अग्निः सर्वा देवता विष्णुर् यज्ञः । देवताश् चैव यज्ञं चाऽऽ रभते । अग्निर् अवमो देवतानां विष्णुः परमः । यद् आग्नावैष्णवम् एकादशकपालं निर्वपति देवताः
5 एवोभयतः परिगृह्य यजमानो ऽव रुन्द्धे पुरोडाशेन वै देवा अमुष्मिँल्लोक आर्ध्नुवञ् चरुणास्मिन् यः कामयेत । अमुष्मिँल्लोक ऋध्नुयाम् इति स पुरोडाशं कुर्वीत । अमुष्मिन्न् एव लोक ऋध्नोति यद् अष्टाकपालस् तेनाग्नेयः । यत् त्रिकपालस् तेन वैष्णवः समृद्ध्यै यः कामयेत । अस्मिँल्लोक ऋध्नुयाम् इति स चरुं कुर्वीत । अग्नेर् घृतं विष्णोस् तण्डुलास् तस्मात्
6 चरुः कार्यः । अस्मिन्न् एव लोक ऋध्नोति । आदित्यो भवति । इयं वा अदितिः । अस्याम् एव प्रति तिष्ठत्य् अथो अस्याम् एवाधि यज्ञं तनुते यो वै संवत्सरम् उख्यम् अभृत्वाग्निं चिनुते यथा सामि गर्भो ऽवपद्यते तादृग् एव तत् । आर्तिम् आर्छेत् । वैश्वानरं द्वादशकपालम् पुरस्तान् निर् वपेत् संवत्सरो वा अग्निर् वैश्वानरः । यथा संवत्सरम् आप्त्वा
7 काल आगते विजायत एवम् एव संवत्सरम् आप्त्वा काल आगते ऽग्निं चिनुते नार्तिम् आर्छति । एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रियाम् एवास्य तनुवम् अव रुन्द्धे त्रीण्य् एतानि हवीꣳषि भवन्ति त्रय इमे लोकाः । एषां लोकानाꣳ रोहाय ॥

5.5.2 अनुवाक 2 चयनतत्फलाभिधानम्
1 प्रजापतिः प्रजाः सृष्ट्वा प्रेणाऽनु प्राविशत् ताभ्यः पुनः सम्भवितुं नाशक्नोत् सो ऽब्रवीत् । ऋध्नवद् इत् स यो मेतः पुनः संचिनवद् इति तं देवाः सम् अचिन्वन् ततो वै त आर्ध्नुवन् यत् समचिन्वन् तच् चित्यस्य चित्यत्वम् । य एवं विदान् अग्निं चिनुत ऋध्नोत्य् एव कस्मै कम् अग्निश् चीयत इत्य् आहुः । अग्निवान्
2 असानीति वा अग्निश् चीयते । अग्निवान् एव भवति कस्मै कम् अग्निश् चीयत इत्य् आहुः । देवा मा वेदन्न् इति वा अग्निश् चीयते विदुर् एनं देवाः कस्मै कम् अग्निश् चीयत इत्य् आहुः । गृह्य् असानीति वा अग्निश् चीयते गृह्य् एव भवति कस्मै कम् अग्निश् चीयत इत्य् आहुः ।
पशुमान् असानीति वा अग्निः
3 चीयते पशुमान् एव भवति कस्मै कम् अग्निश् चीयत इत्य् आहुः सप्त मा पुरुषा उप जीवान् इति वा अग्निश् चीयते त्रयः प्राञ्चस् त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनम् अमुष्मिँल्लोक उप जीवन्ति प्रजापतिर् अग्निम् अचिकीषत तम् पृथिव्यब्रवीत् । न मय्य् अग्निं चेष्यसेऽति मा धक्ष्यति सा त्वाऽतिदह्यमाना वि धविष्ये
4 स पापीयान् भविष्यसीति। सो ऽब्रवीत् तथा वा अहं करिष्यामि यथा त्वा नातिधक्ष्यतीति स इमाम् अभ्य् अमृशत् प्रजापतिस् त्वा सादयतु तया देवतयाङ्गिरस्वद् ध्रुवा सीद । इति । इमाम् एवेष्टकां कृत्वोपाधत्तानतिदाहाय यत् प्रत्य् अग्निं चिन्वीत तद् अभि मृशेत् प्रजापतिस् त्वा सादयतु तया देवतयाङ्गिरस्वद् ध्रुवा सीद
5 इति । इमाम् एवेष्टकां कृत्वोप धत्ते ऽनतिदाहाय प्रजापतिर् अकामयत प्र जायेयेति स एतम् उख्यम् अपश्यत् तꣳ संवत्सरम् अबिभस् ततो वै स प्राजायत तस्मात् संवत्सरम् भार्यः प्रैव जायते तं वसवो ऽब्रुवन् प्र त्वम् अजनिष्ठा वयम् प्र जायामहा इति तं वसुभ्यः प्रायच्छत् तं त्रीण्य् अहान्य् अबिभरुः । तेन
6 त्रीणि च शतान्य् असृजन्त त्रयस्त्रिꣳशतं च तस्मात् त्र्यहम् भार्यः प्रैव जायते तान् रुद्रा अब्रुवन् प्र यूयम् अजनिढ्वं वयम् प्र जायामहा इति तꣳ रुद्रेभ्यः प्रायच्छन् तꣳ षड् अहान्य् अबिभरुस् तेन त्रीणि च शतान्य् असृजन्त त्रयस्त्रिꣳशतं च तस्मात् षडहम् भार्यः प्रैव जायते तान् आदित्या अब्रुवन् प्र यूयम् अजनिढ्वं वयम्
7 प्र जायामहा इति । तम् आदित्येभ्यः प्रायच्छन् तं द्वादशाहान्य् अबिभरुस् तेन त्रीणि च शतान्य् असृजन्त त्रयस्त्रिꣳशतं च तस्माद् द्वादशाहम् भार्यः प्रैव जायते तेनैव ते सहस्रम् असृजन्तोखाꣳ सहस्रतमीम् । य एवम् उख्यꣳ साहस्रं वेद प्र सहस्रम् पशून् आप्नोति ॥

5.5.3 अनुवाक 3 उखाहोमादेरभिधानम्
1 यजुषा वा एषा क्रियते यजुषा पच्यते यजुषा वि मुच्यते यद् उखा सा वा एषैतर्हि यातयाम्नी सा न पुनः प्रयुज्येत्य् आहुः । अग्ने युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमाꣳ इत्य् उखायां जुहोति तेनैवैनाम् पुनः प्र युङ्क्ते तेनायातयाम्नी यो वा अग्निं योग आगते युनक्ति युङ्क्ते युञ्जानेषु । अग्ने
2 युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमाꣳ इत्य् आह । एष वा अग्नेर् योगस् तेनैवैनं युनक्ति युङ्क्ते युञ्जानेषु ब्रह्मवादिनो वदन्ति न्यङ्ङ् अग्निश् चेतव्या3 उत्ताना3 इति वयसां वा एष प्रतिमया चीयते यद् अग्निः । यन् न्यञ्चं चिनुयात् पृष्टित एनम् आहुतय ऋच्छेयुः । यद् उत्तानं न पतितुꣳ शक्नुयाद् असुवर्ग्यो ऽस्य स्यात् प्राचीनम् उत्तानम्
3 पुरुषशीर्षम् उप दधाति मुखत एवैनम् आहुतय ऋच्छन्ति नोत्तानं चिनुते सुवर्ग्यो ऽस्य भवति सौर्या जुहोति चक्षुर् एवास्मिन् प्रति दधाति द्विर् जुहोति द्वे हि चक्षुषी समान्या जुहोति समानꣳ हि चक्षुः समृद्ध्यै ॥ देवासुराः संयत्ता आसन् ते वामं वसु सं न्यदधत तद् देवा वामभृताऽवृञ्जत तद् वामभृतो वामभृत्त्वम् । यद् वामभृतम् उपदधाति वामम् एव तया वसु यजमानो भ्रातृव्यस्य वृङ्क्ते हिरण्यमूर्ध्नी भवति ज्योतिर् वै हिरण्यं ज्योतिर् वामम् । ज्योतिषैवास्य ज्योतिर् वामं वृङ्क्ते द्वियजुर् भवति प्रतिष्ठित्यै ॥

5.5.4 अनुवाक 4 रेतःसिगाद्यभिधानम्
1 आपो वरुणस्य पत्नय आसन् ता अग्निर् अभ्य् ध्यायत् ताः सम् अभवत् तस्य रेतः पराऽपतत् तद् इयम् अभवद् यद् द्वितीयम् पराऽपतत् तद् असाव् अभवद् इयं वै विराड् असौ { स्वराड् ^ स्वराज् } यद् विराजाव् उपदधातीमे एवोप धत्ते यद् वा असौ रेतः सिञ्चति तद् अस्याम् प्रति तिष्ठति तत् प्र जायते ता ओषधयः ॥
2 वीरुधो भवन्ति ता अग्निर् अत्ति य एवं वेद प्रैव जायते ऽन्नादो भवति यो रेतस्वी स्यात् प्रथमायां तस्य चित्याम् उभे उप दध्याद् इमे एवास्मै समीची रेतः सिञ्चतो यः सिक्तरेताः स्यात् प्रथमायां तस्य चित्याम् अन्याम् उप दध्याद् उत्तमायाम् अन्याꣳ रेत एवास्य सिक्तम् आभ्याम् उभयतः परि गृह्णाति ॥ संवत्सरं न कम्
3 चन प्रत्यवरोहेन् न हीमे कं चन प्रत्यवरोहतस् तद् एनयोर् व्रतम् । यो वा अपशीर्षाणम् अग्निं चिनुते ऽपशीर्षामुष्मिँल्लोके भवति यः सशीर्षाणं चिनुते सशीर्षामुष्मिँल्लोके भवति चित्तिं जुहोमि मनसा घृतेन यथा देवा इहाऽऽगमन् वीतिहोत्रा ऋतावृधः समुद्रस्य वयुनस्य पत्मञ् जुहोमि विश्वकर्मणे विश्वाऽहामर्त्यꣳ हविर् इति स्वयमातृण्णाम् उपधाय जुहोति ॥
4 एतद् वा अग्नेः शिरः सशीर्षाणम् एवाग्निं चिनुते सशीर्षाऽमुष्मिँल्लोके भवति य एवं वेद सुवर्गाय वा एष लोकाय चीयते यद् अग्निस् तस्य यद् अयथापूर्वं क्रियते ऽसुवर्ग्यम् अस्य तत्।
सुवर्ग्यो ऽग्निः। चितिम् उपधायाभि मृशेत् । चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्येति यथापूर्वम् एवैनाम् उप धत्ते प्राञ्चम् एनं चिनुते सुवर्ग्यो ऽस्य भवति ॥

5.5.5 अनुवाक 5 हिरण्येष्टकादेरभिधानम्
1 विश्वकर्मा दिशाम् पतिः स नः पशून् पातु सो ऽस्मान् पातु तस्मै नमः प्रजापती रुद्रो वरुणो ऽग्निर् दिशाम् पतिः स नः पशून् पातु सो ऽस्मान् पातु तस्मै नमः । एता वै देवता एतेषाम् पशूनाम् अधिपतयस् ताभ्यो वा एष आ वृश्च्यते यः पशुशीर्षाण्य् उपदधाति हिरण्येष्टका उप दधाति । एताभ्य एव देवताभ्यो नमस् करोति ब्रह्मवादिनः
2 वदन्ति । अग्नौ ग्राम्यान् पशून् प्र दधाति शुचारण्यान् अर्पयति किं तत उच् छिꣳषतीति यद् धिरण्येष्टका उपदधात्य् अमृतं वै हिरण्यम् अमृतेनैव ग्राम्येभ्यः पशुभ्यो भेषजं करोति नैनान् हिनस्ति प्राणो वै प्रथमा स्वयमातृण्णा व्यानो द्वितीयाऽपानस् तृतीया । अनु प्राण्यात् प्रथमाꣳ स्वयमातृण्णाम् उपधाय प्राणेनैव प्राणꣳ सम् अर्धयति व्यन्यात्
3 द्वितीयाम् उपधाय व्यानेनैव व्यानꣳ सम् अर्धयति । अपान्यात् तृतीयाम् उपधाय । अपानेनैवापानꣳ सम् अर्धयति । अथो प्राणैर् एवैनꣳ सम् इन्द्धे भूर् भुवः सुवर् इति स्वयमातृण्णा उप दधाति । इमे वै लोकाः स्वयमातृण्णाः । एताभिः खलु वै व्याहृतीभिः प्रजापतिः प्राजायत यद् एताभिर् व्याहृतीभिः स्वयमातृण्णा उपदधातीमान् एव लोकान् उपधायैषु
4 लोकेष्व् अधि प्र जायते । प्राणाय व्यानायापानाय वाचे त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद् ध्रुवा सीद । अग्निना वै देवाः सुवर्गं लोकम् अजिगाꣳसन् तेन पतितुं नाशक्नुवन् त एताश् चतस्रः स्वयमातृण्णा अपश्यन् ता दिक्षूपादधत तेन सर्वतश्चक्षुषा सुवर्गं लोकम् आयन् यच् चतस्रः स्वयमातृण्णा दिक्षूपदधाति सर्वतश्चक्षुषैव तद् अग्निना यजमानः सुवर्गं लोकम् एति ॥

5.5.6 अनुवाक 6 अह्नां रूपादीनामभिधानम्
1 अग्न आ याहि वीतये । इत्य् आहाह्वतैवैनम् अग्निं दूतं वृणीमहे । इत्य् आह हुत्वैवैनं वृणीते । अग्निनाग्निः सम् इध्यते । इत्य् आह सम् इन्द्ध एवैनम् अग्निर् वृत्राणि जङ्घनत् । इत्य् आह समिद्ध एवास्मिन्न् इन्द्रियं दधाति । अग्ने स्तोमम् मनामहे । इत्य् आह मनुत एवैनम् एतानि वा अह्नाꣳ रूपाणि ॥
2 अन्वहम् एवैनं चिनुते । अवाह्नाꣳ रूपाणि रुन्द्धे ब्रह्मवादिनो वदन्ति कस्मात् सत्याद् यातयाम्नीर् अन्या इष्टका अयातयाम्नी लोकम्पृणेत्य् ऐन्द्राग्नी हि बार्हस्पत्येति ब्रूयात् । इन्द्राग्नी च हि देवानाम् बृहस्पतिश् चायातयामानः । अनुचरवती भवति । अजामित्वाय । अनुष्टुभानु चरति । आत्मा वै लोकम्पृणा प्राणो ऽनुष्टुप् तस्मात् प्राणःसर्वाण्य् अङ्गान्य् अनु चरति ता अस्य सूददोहसः
3 इत्य् आह तस्मात् परुषिपरुषि रसः। सोमꣳ श्रीणन्ति पृश्नय इत्य् आह । अन्नं वै पृश्न्य् अन्नम् एवाव रुन्द्धे । अर्को वा अग्निर् अर्को ऽन्नम् अन्नम् एवाव रुन्द्धे जन्मन् देवानां विशस् तृष्व् आ रोचने दिव इत्य् आह । इमान् एवास्मै लोकाञ् ज्योतिष्मतः करोति यो वा इष्टकानाम् प्रतिष्ठां वेद प्रत्य् एव तिष्ठति तया देवतयाङ्गिरस्वद् ध्रुवा सीदेत्य् आह । एषा वा इष्टकानाम् प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति ॥

5.5.7अनुवाक 7 यूपैकत्वादीनामभिधानम्
1 सुवर्गाय वा एष लोकाय चीयते यद् अग्निः। वज्र एकादशिनी यद् अग्नाव् एकादशिनीम् मिनुयाद् वज्रेणैनꣳ सुवर्गाल् लोकाद् अन्तर् दध्यात् ।
यन् न मिनुयात् स्वरुभिः पशून् व्यर्धयेत् । एकयूपम् मिनोति नैनं वज्रेण सुवर्गाल् लोकाद् अन्तर्दधाति न स्वरुभिः पशून् व्यर्धयति वि वा एष इन्द्रियेण वीर्येणर्ध्यते यो ऽग्निं चिन्वन्न् अधिक्रामति । ऐन्द्रिया
2 ऋचाऽऽक्रमणम् प्रतीष्टकाम् उप दध्यात् । नेन्द्रियेण वीर्येण व्यृध्यते रुद्रो वा एष यद् अग्निः ।
तस्य तिस्रः शरव्याः प्रतीची तिरश्च्य् अनूची ताभ्यो वा एष आ वृश्च्यते यो ऽग्निं चिनुते । अग्निं चित्वा तिसृधन्वम् अयाचितम् ब्राह्मणाय दद्यात् ताभ्य एव नमस् करोति । अथो ताभ्य एवाऽऽत्मानं निष्क्रीणीते यत् ते रुद्र पुरः
3 धनुस् तद् वातो अनु वातु ते तस्मै ते रुद्र संवत्सरेण नमस् करोमि यत् ते रुद्र दक्षिणा धनुस् तद् वातो अनु वातु ते तस्मै ते रुद्र परिवत्सरेण नमस् करोमि यत् ते रुद्र पश्चाद् धनुस् तद् वातो अनु वातु ते तस्मै ते रुद्रेदावत्सरेण नमस् करोमि यत् ते रुद्रोत्तराद् धनुस् तत्
4 वातो अनु वातु ते तस्मै ते रुद्रेदुवत्सरेण नमस् करोमि यत् ते रुद्रोपरि धनुस् तद् वातो अनु वातु ते तस्मै ते रुद्र वत्सरेण नमस् करोमि रुद्रो वा एष यद् अग्निः स यथा व्याघ्रः क्रुद्धस् तिष्ठत्य् एवं वा एष एतर्हि संचितम् एतैर् उप तिष्ठते नमस्कारैर् एवैनꣳ शमयति ये ऽग्नयः
5 पुरीष्याः प्रविष्टाः पृथिवीम् अनु । तेषां त्वम् अस्य् उत्तमः प्र णो जीवातवे सुव ॥ आपं त्वाग्ने मनसा । आपं त्वाग्ने तपसा । आपं त्वाग्ने दीक्षया । आपं त्वाग्न उपसद्भिः । आपं त्वाग्ने सुत्यया । आपं त्वाग्ने दक्षिणाभिः । आपं त्वाग्ने ऽवभृथेन । आपं त्वाग्ने वशया । आपं त्वाग्ने स्वगाकारेणेत्य् आह । 2 एषा वा अग्नेर् आप्तिस् 3 तयैवैनम् आप्नोति ॥

5.5.8 अनुवाक 8 उपस्थानाद्यभिधानम्
1 गायत्रेण पुरस्ताद् उप तिष्ठते प्राणम् एवास्मिन् दधाति बृहद्रथंतराभ्याम् पक्षाव् ओज एवास्मिन् दधाति । ऋतुस्था यज्ञायज्ञियेन पुच्छम् ऋतुष्व् एव प्रति तिष्ठति पृष्ठैर् उप तिष्ठते तेजो वै पृष्ठानि तेज एवास्मिन् दधाति प्रजापतिर् अग्निम् असृजत सो ऽस्मात् सृष्टः पराङ् ऐत् तं वारवन्तीयेनावारयत तद् वारवन्तीयस्य वारवन्तीयत्वम् । श्यैतेन श्येती अकुरुत तच् छ्यैतस्य श्यैतत्वम् ॥
2 यद् वारवन्तीयेनोपतिष्ठते वारयत एवैनम् । श्यैतेन श्येती कुरुते प्रजापतेर् हृदयेनापिपक्षम् प्रत्य् उप तिष्ठते प्रेमाणम् एवास्य गच्छति प्राच्या त्वा दिशा सादयामि गायत्रेण छन्दसाग्निना देवतयाग्नेः शीर्ष्णाग्नेः शिर उप दधामि दक्षिणया त्वा दिशा सादयामि त्रैष्टुभेन छन्दसेन्द्रेण देवतयाग्नेः पक्षेणाग्नेः पक्षम् उप दधामि प्रतीच्या त्वा दिशा सादयामि ॥
3 जागतेन छन्दसा सवित्रा देवतयाग्नेः पुच्छेनाग्नेः पुच्छम् उप दधामि । उदीच्या त्वा दिशा सादयाम्य् आनुष्टुभेन छन्दसा मित्रावरुणाभ्यां देवतयाग्नेः पक्षेणाग्नेः पक्षम् उप दधामि । ऊर्ध्वया त्वा दिशा सादयामि पाङ्क्तेन छन्दसा बृहस्पतिना देवतयाग्नेः पृष्ठेनाग्नेः पृष्ठम् उप दधामि यो वा अपात्मानम् अग्निं चिनुते ऽपात्मामुष्मिँल्लोके भवति यः सात्मानं चिनुते सात्मामुष्मिँल्लोके भवति । आत्मेष्टका उप दधाति । एष वा अग्नेर् आत्मा सात्मानम् एवाग्निं चिनुते सात्मामुष्मिँल्लोके भवति य एवं वेद ॥

5.5.9 अनुवाक 9 आहुत्याद्यभिधानम्
1 अग्न उदधे या त इषुर् युवा नाम तया नो मृड तस्यास् ते नमस् तस्यास् त उप जीवन्तो भूयास्म । अग्ने दुध्र गह्य किꣳशिल वन्य या त इषुर् युवा नाम तया नो मृड तस्यास् ते नमस् तस्यास् त उप जीवन्तो भूयास्म पञ्च वा एते ऽग्नयो यच् चितय उदधिर् एव नाम प्रथमो दुध्रः
2 द्वितीयो गह्यस् तृतीयः किꣳशिलश् चतुर्थो वन्यः पञ्चमस् तेभ्यो यद् आहुतीर् न जुहुयाद् अध्वर्युं च यजमानं च प्र दहेयुर् यद् एता आहुतीर् जुहोति भागधेयेनैवैनाञ् छमयति नार्तिम् आर्छत्य् अध्वर्युर् न यजमानः । वाङ् म आसन् नसोः प्राणो ऽक्ष्योश् चक्षुः कर्णयोः श्रोत्रम् बाहुवोर् बलमूरुवोर् ओजो ऽरिष्टा विश्वान्य् अङ्गानि तनूः
3 तनुवा मे सह नमस् ते अस्तु मा मा हिꣳसीः । अप वा एतस्मात् प्राणाः क्रामन्ति यो ऽग्निं चिन्वन्न् अधिक्रामति वाङ् म आसन् नसोः प्राणः । इत्य् आह प्राणान् एवात्मन् धत्ते यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु । आहुतिभागा वा अन्ये रुद्रा हविर्भागाः
4 अन्ये शतरुद्रीयꣳ हुत्वा गावीधुकं चरुम् एतेन यजुषा चरमायाम् इष्टकायां नि दध्याद् भागधेयेनैवैनꣳ शमयति तस्य त्वै शतरुद्रीयꣳ हुतम् इत्य् आहुर् यस्यैतद् अग्नौ क्रियत इति। वसवस् त्वा रुद्रैः पुरस्तात् पान्तु पितरस् त्वा यमराजानः पितृभिर् दक्षिणतः पान्त्व् आदित्यास् त्वा विश्वैर् देवैः पश्चात् पान्तु द्युतानस् त्वा मारुतो मरुद्भिर् उत्तरतः पातु ।
5 देवास् त्वेन्द्रज्येष्ठा वरुणराजानो ऽधस्ताच् चोपरिष्टाच् च पान्तु। न वा एतेन पूतो न मेध्यो न प्रोक्षितो यद् एनम् अतः प्राचीनम् प्रोक्षति यत् संचितम् आज्येन प्रोक्षति तेन पूतस् तेन मेध्यस् तेन प्रोक्षितः ॥

5.5.10 अनुवाक 10 सर्पाहुत्याद्यभिधानम्
1 समीची नामासि प्राची दिक् (तुलनीय : शौ. अथर्ववेद 3.27.1) तस्यास् ते ऽग्निर् अधिपतिर् असितो रक्षिता यश् चाधिपतिर् यश् च गोप्ता ताभ्यां नमस् तौ नो मृडयताम् । ते यं द्विष्मो यश् च नो द्वेष्टि तं वां जम्भे दधामि । ओजस्विनी नामासि दक्षिणा दिक् तस्यास् त इन्द्रो ऽधिपतिः पृदाकुः। प्राची नामासि प्रतीची दिक् तस्यास् ते
2 सोमो ऽधिपतिः स्वजः । अवस्थावा नामास्य् उदीची दिक् तस्यास् ते वरुणो ऽधिपतिस् तिरश्चराजिः । अधिपत्नी नामासि बृहती दिक् तस्यास् ते बृहस्पतिर् अधिपतिः श्वित्रः । वशिनी नामासीयं दिक् तस्यास् ते यमो ऽधिपतिः कल्माषग्रीवो रक्षिता यश् चाधिपतिर् यश् च गोप्ता ताभ्यां नमस् तौ नो मृडयताम् । ते यं द्विष्मो यश् च
3 नो द्वेष्टि तं वां जम्भे दधामि । एता वै देवता अग्निं चितꣳ रक्षन्ति ताभ्यो यद् आहुतीर् न जुहुयाद् अध्वर्युं च यजमानं च ध्यायेयुः । यद् एता आहुतीर् जुहोति भागधेयेनैवैनाञ् छमयति नार्तिम् आर्छत्य् अध्वर्युर् न यजमानः । हेतयो नाम स्थ तेषां वः पुरो गृहाः । अग्निर् व इषवः सलिलः । निलिम्पा नाम
4 स्थ तेषां वो दक्षिणा गृहाः पितरो व इषवः सगरः । वज्रिणो नाम स्थ तेषां वः पश्चाद् गृहाः स्वप्नो व इषवो गह्वरः । अवस्थावानो नाम स्थ तेषां व उत्तराद् गृहाः । आपो व इषवः समुद्रः । अधिपतयो नाम स्थ तेषां व उपरि गृहाः । वर्षं व इषवो ऽवस्वान् क्रव्या नाम स्थ पार्थिवाः तेषां व इह गृहाः ॥
5 अन्नं व इषवो निमिषो वातनामम् । तेभ्यो वो नमस् ते नो मृडयत ते यं द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि हुतादो वा अन्ये देवा अहुतादो ऽन्ये तान् अग्निचिद् एवोभयान् प्रीणाति दध्ना मधुमिश्रेणैता आहुतीर् जुहोति भागधेयेनैवैनान् प्रीणाति । अथो खल्व् आहुः । इष्टका वै देवा अहुताद इति
6 अनुपरिक्रामं जुहोति । अपरिवर्गम् एवैनान् प्रीणाति । इमꣳ स्तनमूर्जस्वन्तं धयापाम् प्रप्यातम् अग्ने सरिरस्य मध्ये । उत्सं जुषस्व मधुमन्तमूर्व समुद्रियꣳ सदनम् आ विशस्व ॥ यो वा अग्निम् प्रयुज्य न विमुञ्चति यथाश्वो युक्तो ऽविमुच्यमानः क्षुध्यन् पराभवत्य् एवम् अस्याग्निः परा भवति तम् पराभवन्तं यजमानो ऽनु परा भवति सो ऽग्निं चित्वा लूक्षः
7 भवति । इमꣳ स्तनमूर्जस्वन्तं धयापाम् इत्य् आज्यस्य पूर्णाꣳ स्रुचं जुहोति । एष वा अग्नेर् विमोकः । विमुच्यैवास्मा अन्नम् अपि दधाति तस्माद् आहुर् यश् चैवं वेद यश् च न सुधायꣳ ह वै वाजी सुहितो दधातीति । अग्निर् वाव वाजी तम् एव तत् प्रीणाति स एनम् प्रीतः प्रीणाति वसीयान् भवति ॥

5.5.11 अनुवाक 11 अश्वमेधशेषभूतप्रथमपशुसंघविधिः
1 इन्द्राय राज्ञे सूकरः । वरुणाय राज्ञे कृष्णः । यमाय राज्ञ ऋश्यः। ऋषभाय राज्ञे गवयः शार्दूलाय राज्ञे गौरः पुरुषराजाय मर्कटः क्षिप्रश्येनस्य वर्तिका नीलङ्गोः क्रिमिः सोमस्य राज्ञः कुलुङ्गः सिन्धोः शिꣳशुमारः । हिमवतो हस्ती ॥

5.5.12 अनुवाक 12 अश्वमेधशेषभूतद्वितीय पशुसंघविधिः
1 मयुः प्राजापत्यः । ऊलो हलीक्ष्णो वृषदꣳशस् ते धातुः सरस्वत्यै शारिः श्येता पुरुषवाक् । सरस्वते शुकः श्येतः पुरुषवाक् । आरण्यो ऽजो नकुलः शका ते पौष्णाः । वाचे क्रौञ्चः ॥

5.5.13 अनुवाक 13 अश्वमेधशेषभूततृतीयपशुसंघविधिः
1 अपां नप्त्रे जषः । नाक्रो मकरः कुलीकयस् ते ऽकूपारस्य वाचे पैङ्गराजः । भगाय कुषीतकः । आती वाहसो दर्विदा ते वायव्याः । दिग्भ्यश् चक्रवाकः ॥

5.5.14 अनुवाक 14 अश्वमेधशेषभूतचतु्र्थपशुसंघविधिः
1 बलायाजगरः । आखुः सृजया शयण्डकस् ते मैत्राः । मृत्यवे ऽसितः । मन्यवे स्वजः कुम्भीनसः पुष्करसादो लोहिताहिस् ते त्वाष्ट्राः प्रतिश्रुत्कायै वाहसः ॥

5.5.15 अनुवाक 15 अश्वमेधशेषभूतपञ्चमपशुसंघविधिः
1 पुरुषमृगश् चन्द्रमसे गोधा कालका दार्वाघाटस् ते वनस्पतीनाम् एण्य् अह्ने कृष्णो रात्रियै पिकः क्ष्विङ्का नीलशीर्ष्णी ते ऽर्यम्णे धातुः कत्कटः ॥

5.5.16 अनुवाक 16 अश्वमेधशेषभूतषष्ठपशुसंघविधिः
1 सौरी बलाका । ऋश्यो मयूरः श्येनस् ते गन्धर्वाणाम् । वसूनां कपिञ्जलः । रुद्राणां तित्तिरिः । रोहित् कुण्डृणाची गोलत्तिका ता अप्सरसाम् अरण्याय सृमरः ॥

5.5.17 अनुवाक 17 अश्वमेधशेषभूतसप्तमपशुसंघविधिः
1 पृषतो वैश्वदेवः पित्वो न्यङ्कुः कशस् ते ऽनुमत्यै । अन्यवापो ऽर्धमासानाम् मासां कश्यपः क्वयिः कुटरुर् दात्यौहस् ते सिनीवाल्यै बृहस्पतये शित्पुटः ॥

5.5.18 अनुवाक 18 अश्वमेधशेषभूताष्टमपशुसंघविधिः
1 शका भौमी पाङ्क्त्राः कशो मान्थीलवस् ते पितृणाम् ऋतूनां जहका संवत्सराय लोपा कपोत उलूकः शशस् ते नैर्ऋताः कृकवाकुः सावित्रः ॥

5.5.19 अनुवाक 19 अश्वमेधशेषभूतनवमपशुसंघविधिः
1 रुरू रौद्रः कृकलासः शकुनिः पिप्पका ते शरव्यायै हरिणो मारुतः । ब्रह्मणे शार्गः तरक्षुः कृष्णः श्वा चतुरक्षो गर्दभस् त इतरजनानाम् अग्नये धूङ्क्ष्णा ॥

5.5.20 अनुवाक 20 अश्वमेधशेषभूतदशमपशुसंघविधिः
1 अलज आन्तरिक्षः । उद्रो मद्गुः प्लवस् ते ऽपाम् अदित्यै हꣳससाचिः । इन्द्राण्यै कीर्शा गृध्रः शितिकक्षी वार्ध्राणसस् ते दिव्याः । द्यावापृथिव्या श्वावित् ॥

5.5.21 अनुवाक 21 अश्वमेधशेषभूतएकादशपशुसंघविधिः
1 सुपर्णः पार्जन्यः । हꣳसो वृको वृषदꣳशस् त ऐन्द्राः । अपाम् उद्रः । अर्यम्णे लोपाशः सिꣳहो नकुलो व्याघ्रस् ते महेन्द्राय कामाय परस्वान् ॥

5.5.22 अनुवाक 22 अश्वमेधशेषभूतप्रथमग्राम्यपशुसंघविधिः
1 आग्नेयः कृष्णग्रीवः सारस्वती मेषी बभ्रुः सौम्यः पौष्णः श्यामः शितिपृष्ठो बार्हस्पत्यः शिल्पो वैश्वदेवः । ऐन्द्रो ऽरुणः । मारुतः कल्माषः । ऐन्द्राग्नः सꣳहितः । अधोरामः सावित्रः । वारुणः पेत्वः ॥

5.5.23 अनुवाक 23 अश्वमेधशेषभूतद्वितीयं ग्राम्यपशुसंघविधिः
1 अश्वस् तूपरो गोमृगस् ते प्राजापत्याः । आग्नेयौ कृष्णग्रीवौ त्वाष्ट्रौ लोमशसक्थौ शितिपृष्ठौ बार्हस्पत्यौ धात्रे पृषोदरः सौर्यो बलक्षः पेत्वः ॥

5.5.24अनुवाक 24 अश्वमेधशेषभूततृतीयग्राम्यपशुसंघविधिः
1 अग्नये ऽनीकवते रोहिताञ्जिर् अनड्वान् अधोरामौ सावित्रौ पौष्णौ रजतनाभी वैश्वदेवौ पिशंगौ तूपरौ मारुतः कल्माषः । आग्नेयः कृष्णो ऽजः सारस्वती मेषी वारुणः कृष्ण एकशितिपात् पेत्वः ॥  


5.5.1 अनुवाक 1
 दीक्षणीयेष्टकाभिधानम्
 1
    यद् एकेन सꣳस्थापयति यज्ञस्य संतत्या अविच्छेदाय ।
    ऐन्द्राः पशवो ये मुष्कराः ।
    यद् ऐन्द्राः सन्तो ऽग्निभ्य आलभ्यन्ते देवताभ्यः समदं दधाति ।
    आग्नेयीस् त्रिष्टुभो याज्यानुवाक्याः कुर्यात् ।
    यद् अग्नेयीस् तेनाग्नेयाः ।
    यत् त्रिष्टुभस् तेनैन्द्राः
    समृद्ध्यै
    न देवताभ्यः समदं दधाति
    वायवे नियुत्वते तूपरम् आ लभते तेजो ऽग्नेर् वायुस्
    तेजस एष आ लभ्यते
    तस्माद् यद्रियङ् वायुः ॥

 2
    वाति तद्रियङ्ङ् अग्निर् दहति
    स्वम् एव तत् तेजो ऽन्व् एति
    यन् न नियुत्वते स्याद् उन् माद्येद् यजमानः ।
    नियुत्वते भवति यजमानस्यानुन्मादाय
    वायुमती श्वेतवती याज्यानुवाक्ये भवतः
    सतेजस्त्वाय
    हिरण्यगर्भः सम् अवर्तताग्र इत्य् आघारम् आ घारयति
    प्रजापतिर् वै हिरण्यगर्भः
    प्रजापतेर् अनुरूपत्वाय
   सर्वाणि वा एष रूपाणि पशूनाम् प्रत्य् आ लभ्यते।
    यच् छ्मश्रुणस् तत्

 3
    पुरुषाणाꣳ रूपम् ।
    यत् तूपरस् तद् अश्वानाम् ।
    यद् अन्यतोदन् तद् गवाम् ।
    यद् अव्या इव शफास् तद् अवीनाम् ।
    यद् अजस् तद् अजानाम् ।
    वायुर् वै पशूनाम् प्रियं धाम
    यद् वायव्यो भवत्य् एतम् एवैनम् अभि संजानानाः पशव उप तिष्ठन्ते
    वायव्यः कार्या3ः प्राजापत्या3 इत्य् आहुः ।
    यद् वायव्यं कुर्यात् प्रजापतेर् इयात् ।
   यत् प्राजापत्यं कुर्याद् वायोः

 4
    इयात् ।
    यद् वायव्यः पशुर् भवति तेन वायोर् नैति
    यत् प्राजापत्यः पुरोडाशो भवति तेन प्राजापतेर् नैति
    यद् द्वादशकपालस् तेन वैश्वानरान् नैति ।
    आग्नावैष्णवम् एकादशकपालं निर् वपति दीक्षिष्यमाणः ।
    अग्निः सर्वा देवता विष्णुर् यज्ञः ।
    देवताश् चैव यज्ञं चाऽऽ रभते ।
    अग्निर् अवमो देवतानां विष्णुः परमः ।
    यद् आग्नावैष्णवम् एकादशकपालं निर्वपति देवताः

 5
    एवोभयतः परिगृह्य यजमानो ऽव रुन्द्धे
    पुरोडाशेन वै देवा अमुष्मिँल्लोक आर्ध्नुवञ् चरुणास्मिन्
    यः कामयेत ।
    अमुष्मिँल्लोक ऋध्नुयाम् इति स पुरोडाशं कुर्वीत ।
    अमुष्मिन्न् एव लोक ऋध्नोति
    यद् अष्टाकपालस् तेनाग्नेयः ।
    यत् त्रिकपालस् तेन वैष्णवः
    समृद्ध्यै
    यः कामयेत ।
   अस्मिँल्लोक ऋध्नुयाम् इति स चरुं कुर्वीत ।
   अग्नेर् घृतं विष्णोस् तण्डुलास्
   तस्मात्

 6
    चरुः कार्यः ।
    अस्मिन्न् एव लोक ऋध्नोति ।
    आदित्यो भवति ।
    इयं वा अदितिः ।
    अस्याम् एव प्रति तिष्ठत्य् अथो अस्याम् एवाधि यज्ञं तनुते
    यो वै संवत्सरम् उख्यम् अभृत्वाग्निं चिनुते यथा सामि गर्भो ऽवपद्यते तादृग् एव तत् ।
    आर्तिम् आर्छेत् ।
    वैश्वानरं द्वादशकपालम् पुरस्तान् निर् वपेत्
    संवत्सरो वा अग्निर् वैश्वानरः ।
   यथा संवत्सरम् आप्त्वा

 7
    काल आगते विजायत एवम् एव संवत्सरम् आप्त्वा काल आगते ऽग्निं चिनुते
    नार्तिम् आर्छति ।
    एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः
    प्रियाम् एवास्य तनुवम् अव रुन्द्धे
    त्रीण्य् एतानि हवीꣳषि भवन्ति
    त्रय इमे लोकाः ।
    एषां लोकानाꣳ रोहाय ॥

5.5.2 अनुवाक 2
 चयनतत्फलाभिधानम्
 1
    प्रजापतिः प्रजाः सृष्ट्वा प्रेणाऽनु प्राविशत्
    ताभ्यः पुनः सम्भवितुं नाशक्नोत्
    सो ऽब्रवीत् ।
    ऋध्नवद् इत् स यो मेतः पुनः संचिनवद् इति
    तं देवाः सम् अचिन्वन्
    ततो वै त आर्ध्नुवन्
    यत् समचिन्वन् तच् चित्यस्य चित्यत्वम् ।
    य एवं विदान् अग्निं चिनुत ऋध्नोत्य् एव
    कस्मै कम् अग्निश् चीयत इत्य् आहुः ।
    अग्निवान्

 2
    असानीति वा अग्निश् चीयते ।
    अग्निवान् एव भवति
    कस्मै कम् अग्निश् चीयत इत्य् आहुः ।
    देवा मा वेदन्न् इति वा अग्निश् चीयते
    विदुर् एनं देवाः
    कस्मै कम् अग्निश् चीयत इत्य् आहुः ।
    गृह्य् असानीति वा अग्निश् चीयते
    गृह्य् एव भवति
    कस्मै कम् अग्निश् चीयत इत्य् आहुः ।
    पशुमान् असानीति वा अग्निः

 3
    चीयते
    पशुमान् एव भवति
    कस्मै कम् अग्निश् चीयत इत्य् आहुः
    सप्त मा पुरुषा उप जीवान् इति वा अग्निश् चीयते
    त्रयः प्राञ्चस् त्रयः प्रत्यञ्च आत्मा सप्तम एतावन्त एवैनम् अमुष्मिँल्लोक उप जीवन्ति
    प्रजापतिर् अग्निम् अचिकीषत
    तम् पृथिव्यब्रवीत् ।
    न मय्य् अग्निं चेष्यसेऽति मा धक्ष्यति सा त्वाऽतिदह्यमाना वि धविष्ये

 4
    स पापीयान् भविष्यसीति।
    सो ऽब्रवीत्
    तथा वा अहं करिष्यामि यथा त्वा नातिधक्ष्यतीति
    स इमाम् अभ्य् अमृशत्
    प्रजापतिस् त्वा सादयतु तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
    इति ।
    इमाम् एवेष्टकां कृत्वोपाधत्तानतिदाहाय
    यत् प्रत्य् अग्निं चिन्वीत तद् अभि मृशेत्
    प्रजापतिस् त्वा सादयतु तया देवतयाङ्गिरस्वद् ध्रुवा सीद

 5
    इति ।
    इमाम् एवेष्टकां कृत्वोप धत्ते ऽनतिदाहाय
    प्रजापतिर् अकामयत
    प्र जायेयेति
    स एतम् उख्यम् अपश्यत्
    तꣳ संवत्सरम् अबिभस्
    ततो वै स प्राजायत
    तस्मात् संवत्सरम् भार्यः प्रैव जायते
    तं वसवो ऽब्रुवन्
    प्र त्वम् अजनिष्ठा वयम् प्र जायामहा इति
    तं वसुभ्यः प्रायच्छत्
    तं त्रीण्य् अहान्य् अबिभरुः ।
    तेन

 6
    त्रीणि च शतान्य् असृजन्त त्रयस्त्रिꣳशतं च
    तस्मात् त्र्यहम् भार्यः प्रैव जायते
    तान् रुद्रा अब्रुवन्
    प्र यूयम् अजनिढ्वं वयम् प्र जायामहा इति
    तꣳ रुद्रेभ्यः प्रायच्छन्
    तꣳ षड् अहान्य् अबिभरुस्
    तेन त्रीणि च शतान्य् असृजन्त त्रयस्त्रिꣳशतं च
    तस्मात् षडहम् भार्यः प्रैव जायते
    तान् आदित्या अब्रुवन्
   प्र यूयम् अजनिढ्वं वयम्

 7
    प्र जायामहा इति ।
    तम् आदित्येभ्यः प्रायच्छन्
    तं द्वादशाहान्य् अबिभरुस्
    तेन त्रीणि च शतान्य् असृजन्त त्रयस्त्रिꣳशतं च
    तस्माद् द्वादशाहम् भार्यः प्रैव जायते
    तेनैव ते सहस्रम् असृजन्तोखाꣳ सहस्रतमीम् ।
    य एवम् उख्यꣳ साहस्रं वेद प्र सहस्रम् पशून् आप्नोति ॥

5.5.3 अनुवाक 3
उखाहोमादेरभिधानम्
 1
    यजुषा वा एषा क्रियते यजुषा पच्यते यजुषा वि मुच्यते यद् उखा
    सा वा एषैतर्हि यातयाम्नी सा न पुनः प्रयुज्येत्य् आहुः ।
    अग्ने युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमाꣳ इत्य् उखायां जुहोति
    तेनैवैनाम् पुनः प्र युङ्क्ते तेनायातयाम्नी
    यो वा अग्निं योग आगते युनक्ति युङ्क्ते युञ्जानेषु ।
    अग्ने

 2
    युक्ष्वा हि ये तव युक्ष्वा हि देवहूतमाꣳ इत्य् आह ।
    एष वा अग्नेर् योगस्
    तेनैवैनं युनक्ति युङ्क्ते युञ्जानेषु
    ब्रह्मवादिनो वदन्ति
    न्यङ्ङ् अग्निश् चेतव्या3 उत्ताना3 इति
    वयसां वा एष प्रतिमया चीयते यद् अग्निः ।
    यन् न्यञ्चं चिनुयात् पृष्टित एनम् आहुतय ऋच्छेयुः ।
    यद् उत्तानं न पतितुꣳ शक्नुयाद् असुवर्ग्यो ऽस्य स्यात्
    प्राचीनम् उत्तानम्

 3
    पुरुषशीर्षम् उप दधाति मुखत एवैनम् आहुतय ऋच्छन्ति नोत्तानं चिनुते सुवर्ग्यो ऽस्य भवति
    सौर्या जुहोति चक्षुर् एवास्मिन् प्रति दधाति
    द्विर् जुहोति द्वे हि चक्षुषी
    समान्या जुहोति समानꣳ हि चक्षुः समृद्ध्यै ॥
    देवासुराः संयत्ता आसन्
    ते वामं वसु सं न्यदधत
    तद् देवा वामभृताऽवृञ्जत
    तद् वामभृतो वामभृत्त्वम् ।
    यद् वामभृतम् उपदधाति वामम् एव तया वसु यजमानो भ्रातृव्यस्य वृङ्क्ते
   हिरण्यमूर्ध्नी भवति
   ज्योतिर् वै हिरण्यं ज्योतिर् वामम् ।
   ज्योतिषैवास्य ज्योतिर् वामं वृङ्क्ते
    द्वियजुर् भवति प्रतिष्ठित्यै ॥

5.5.4 अनुवाक 4
 रेतःसिगाद्यभिधानम्
 1
    आपो वरुणस्य पत्नय आसन् ता अग्निर् अभ्य् ध्यायत् ताः सम् अभवत् तस्य रेतः पराऽपतत् तद् इयम् अभवद् यद् द्वितीयम् पराऽपतत् तद् असाव् अभवद् इयं वै विराड् असौ { स्वराड् ^ स्वराज् }
    यद् विराजाव् उपदधातीमे एवोप धत्ते
    यद् वा असौ रेतः सिञ्चति तद् अस्याम् प्रति तिष्ठति तत् प्र जायते ता ओषधयः ॥

 2
    वीरुधो भवन्ति ता अग्निर् अत्ति य एवं वेद प्रैव जायते ऽन्नादो भवति यो रेतस्वी स्यात् प्रथमायां तस्य चित्याम् उभे उप दध्याद् इमे एवास्मै समीची रेतः सिञ्चतो यः सिक्तरेताः स्यात् प्रथमायां तस्य चित्याम् अन्याम् उप दध्याद् उत्तमायाम् अन्याꣳ रेत एवास्य सिक्तम् आभ्याम् उभयतः परि गृह्णाति ॥
    संवत्सरं न कम्

 3
    चन प्रत्यवरोहेन् न हीमे कं चन प्रत्यवरोहतस् तद् एनयोर् व्रतम् ।
    यो वा अपशीर्षाणम् अग्निं चिनुते ऽपशीर्षामुष्मिँल्लोके भवति यः सशीर्षाणं चिनुते सशीर्षामुष्मिँल्लोके भवति
    चित्तिं जुहोमि मनसा घृतेन यथा देवा इहाऽऽगमन् वीतिहोत्रा ऋतावृधः समुद्रस्य वयुनस्य पत्मञ् जुहोमि विश्वकर्मणे विश्वाऽहामर्त्यꣳ हविर् इति स्वयमातृण्णाम् उपधाय जुहोति ॥

 4
    एतद् वा अग्नेः शिरः सशीर्षाणम् एवाग्निं चिनुते सशीर्षाऽमुष्मिँल्लोके भवति य एवं वेद
    सुवर्गाय वा एष लोकाय चीयते यद् अग्निस् तस्य यद् अयथापूर्वं क्रियते ऽसुवर्ग्यम् अस्य तत्।
 सुवर्ग्यो ऽग्निः।
    चितिम् उपधायाभि मृशेत् ।
    चित्तिम् अचित्तिं चिनवद् वि विद्वान् पृष्ठेव वीता वृजिना च मर्तान् राये च नः स्वपत्याय देव दितिं च रास्वादितिम् उरुष्येति यथापूर्वम् एवैनाम् उप धत्ते
    प्राञ्चम् एनं चिनुते सुवर्ग्यो ऽस्य भवति ॥

5.5.5 अनुवाक 5
हिरण्येष्टकादेरभिधानम्
 1
    विश्वकर्मा दिशाम् पतिः स नः पशून् पातु सो ऽस्मान् पातु तस्मै नमः
    प्रजापती रुद्रो वरुणो ऽग्निर् दिशाम् पतिः स नः पशून् पातु सो ऽस्मान् पातु तस्मै नमः ।
    एता वै देवता एतेषाम् पशूनाम् अधिपतयस्
    ताभ्यो वा एष आ वृश्च्यते यः पशुशीर्षाण्य् उपदधाति
    हिरण्येष्टका उप दधाति ।
    एताभ्य एव देवताभ्यो नमस् करोति
    ब्रह्मवादिनः

 2
    वदन्ति ।
    अग्नौ ग्राम्यान् पशून् प्र दधाति शुचारण्यान् अर्पयति किं तत उच् छिꣳषतीति
    यद् धिरण्येष्टका उपदधात्य् अमृतं वै हिरण्यम् अमृतेनैव ग्राम्येभ्यः पशुभ्यो भेषजं करोति नैनान् हिनस्ति
    प्राणो वै प्रथमा स्वयमातृण्णा व्यानो द्वितीयाऽपानस् तृतीया ।
    अनु प्राण्यात् प्रथमाꣳ स्वयमातृण्णाम् उपधाय
    प्राणेनैव प्राणꣳ सम् अर्धयति
    व्यन्यात्

 3
    द्वितीयाम् उपधाय
    व्यानेनैव व्यानꣳ सम् अर्धयति ।
    अपान्यात् तृतीयाम् उपधाय ।
    अपानेनैवापानꣳ सम् अर्धयति ।
    अथो प्राणैर् एवैनꣳ सम् इन्द्धे
    भूर् भुवः सुवर् इति स्वयमातृण्णा उप दधाति ।
    इमे वै लोकाः स्वयमातृण्णाः ।
    एताभिः खलु वै व्याहृतीभिः प्रजापतिः प्राजायत
    यद् एताभिर् व्याहृतीभिः स्वयमातृण्णा उपदधातीमान् एव लोकान् उपधायैषु

 4
    लोकेष्व् अधि प्र जायते ।
    प्राणाय व्यानायापानाय वाचे त्वा चक्षुषे त्वा तया देवतयाङ्गिरस्वद् ध्रुवा सीद ।
    अग्निना वै देवाः सुवर्गं लोकम् अजिगाꣳसन्
    तेन पतितुं नाशक्नुवन्
    त एताश् चतस्रः स्वयमातृण्णा अपश्यन्
    ता दिक्षूपादधत
    तेन सर्वतश्चक्षुषा सुवर्गं लोकम् आयन्
    यच् चतस्रः स्वयमातृण्णा दिक्षूपदधाति सर्वतश्चक्षुषैव तद् अग्निना यजमानः सुवर्गं लोकम् एति ॥

5.5.6 अनुवाक 6
 अह्नां रूपादीनामभिधानम्
 1
अग्न आ याहि वीतये ।
    इत्य् आहाह्वतैवैनम्
अग्निं दूतं वृणीमहे ।
    इत्य् आह हुत्वैवैनं वृणीते ।
अग्निनाग्निः सम् इध्यते ।
    इत्य् आह सम् इन्द्ध एवैनम्
अग्निर् वृत्राणि जङ्घनत् ।
    इत्य् आह समिद्ध एवास्मिन्न् इन्द्रियं दधाति ।
अग्ने स्तोमम् मनामहे ।
 इत्य् आह मनुत एवैनम्
    एतानि वा अह्नाꣳ रूपाणि ॥

 2
    अन्वहम् एवैनं चिनुते ।
    अवाह्नाꣳ रूपाणि रुन्द्धे
    ब्रह्मवादिनो वदन्ति
    कस्मात् सत्याद् यातयाम्नीर् अन्या इष्टका अयातयाम्नी लोकम्पृणेत्य् ऐन्द्राग्नी हि बार्हस्पत्येति ब्रूयात् ।
    इन्द्राग्नी च हि देवानाम् बृहस्पतिश् चायातयामानः ।
    अनुचरवती भवति ।
    अजामित्वाय ।
    अनुष्टुभानु चरति ।
    आत्मा वै लोकम्पृणा प्राणो ऽनुष्टुप् तस्मात् प्राणःसर्वाण्य् अङ्गान्य् अनु चरति
   ता अस्य सूददोहसः

 3
    इत्य् आह
    तस्मात् परुषिपरुषि रसः।
    सोमꣳ श्रीणन्ति पृश्नय इत्य् आह ।
    अन्नं वै पृश्न्य् अन्नम् एवाव रुन्द्धे ।
    अर्को वा अग्निर् अर्को ऽन्नम् अन्नम् एवाव रुन्द्धे
    जन्मन् देवानां विशस् तृष्व् आ रोचने दिव इत्य् आह ।
    इमान् एवास्मै लोकाञ् ज्योतिष्मतः करोति
    यो वा इष्टकानाम् प्रतिष्ठां वेद प्रत्य् एव तिष्ठति
    तया देवतयाङ्गिरस्वद् ध्रुवा सीदेत्य् आह ।
   एषा वा इष्टकानाम् प्रतिष्ठा य एवं वेद प्रत्य् एव तिष्ठति ॥

5.5.7अनुवाक 7
यूपैकत्वादीनामभिधानम्
 1
    सुवर्गाय वा एष लोकाय चीयते यद् अग्निः।
    वज्र एकादशिनी
    यद् अग्नाव् एकादशिनीम् मिनुयाद् वज्रेणैनꣳ सुवर्गाल् लोकाद् अन्तर् दध्यात् ।
    यन् न मिनुयात् स्वरुभिः पशून् व्यर्धयेत् ।
    एकयूपम् मिनोति
    नैनं वज्रेण सुवर्गाल् लोकाद् अन्तर्दधाति न स्वरुभिः पशून् व्यर्धयति
    वि वा एष इन्द्रियेण वीर्येणर्ध्यते यो ऽग्निं चिन्वन्न् अधिक्रामति ।
    ऐन्द्रिया

 2
    ऋचाऽऽक्रमणम् प्रतीष्टकाम् उप दध्यात् ।
    नेन्द्रियेण वीर्येण व्यृध्यते
    रुद्रो वा एष यद् अग्निः ।
    तस्य तिस्रः शरव्याः प्रतीची तिरश्च्य् अनूची
    ताभ्यो वा एष आ वृश्च्यते यो ऽग्निं चिनुते ।
    अग्निं चित्वा तिसृधन्वम् अयाचितम् ब्राह्मणाय दद्यात्
    ताभ्य एव नमस् करोति ।
    अथो ताभ्य एवाऽऽत्मानं निष्क्रीणीते
    यत् ते रुद्र पुरः

 3
    धनुस् तद् वातो अनु वातु ते
    तस्मै ते रुद्र संवत्सरेण नमस् करोमि
    यत् ते रुद्र दक्षिणा धनुस् तद् वातो अनु वातु ते
    तस्मै ते रुद्र परिवत्सरेण नमस् करोमि
    यत् ते रुद्र पश्चाद् धनुस् तद् वातो अनु वातु ते
    तस्मै ते रुद्रेदावत्सरेण नमस् करोमि
    यत् ते रुद्रोत्तराद् धनुस् तत्

 4
    वातो अनु वातु ते
    तस्मै ते रुद्रेदुवत्सरेण नमस् करोमि
    यत् ते रुद्रोपरि धनुस् तद् वातो अनु वातु ते
    तस्मै ते रुद्र वत्सरेण नमस् करोमि
    रुद्रो वा एष यद् अग्निः
    स यथा व्याघ्रः क्रुद्धस् तिष्ठत्य् एवं वा एष एतर्हि
    संचितम् एतैर् उप तिष्ठते
    नमस्कारैर् एवैनꣳ शमयति
    ये ऽग्नयः

 5
    पुरीष्याः प्रविष्टाः पृथिवीम् अनु ।
    तेषां त्वम् अस्य् उत्तमः प्र णो जीवातवे सुव ॥
    आपं त्वाग्ने मनसा ।
    आपं त्वाग्ने तपसा ।
    आपं त्वाग्ने दीक्षया ।
    आपं त्वाग्न उपसद्भिः ।
    आपं त्वाग्ने सुत्यया ।
    आपं त्वाग्ने दक्षिणाभिः ।
    आपं त्वाग्ने ऽवभृथेन ।
    आपं त्वाग्ने वशया ।
    आपं त्वाग्ने स्वगाकारेणेत्य् आह ।
2 एषा वा अग्नेर् आप्तिस्
3 तयैवैनम् आप्नोति ॥

5.5.8 अनुवाक 8
 उपस्थानाद्यभिधानम्
 1
    गायत्रेण पुरस्ताद् उप तिष्ठते प्राणम् एवास्मिन् दधाति
    बृहद्रथंतराभ्याम् पक्षाव् ओज एवास्मिन् दधाति ।
    ऋतुस्था यज्ञायज्ञियेन पुच्छम् ऋतुष्व् एव प्रति तिष्ठति
    पृष्ठैर् उप तिष्ठते
    तेजो वै पृष्ठानि
    तेज एवास्मिन् दधाति
    प्रजापतिर् अग्निम् असृजत
    सो ऽस्मात् सृष्टः पराङ् ऐत्
    तं वारवन्तीयेनावारयत तद् वारवन्तीयस्य वारवन्तीयत्वम् ।
   श्यैतेन श्येती अकुरुत तच् छ्यैतस्य श्यैतत्वम् ॥

 2
    यद् वारवन्तीयेनोपतिष्ठते वारयत एवैनम् ।
    श्यैतेन श्येती कुरुते
    प्रजापतेर् हृदयेनापिपक्षम् प्रत्य् उप तिष्ठते
    प्रेमाणम् एवास्य गच्छति
    प्राच्या त्वा दिशा सादयामि गायत्रेण छन्दसाग्निना देवतयाग्नेः शीर्ष्णाग्नेः शिर उप दधामि
    दक्षिणया त्वा दिशा सादयामि त्रैष्टुभेन छन्दसेन्द्रेण देवतयाग्नेः पक्षेणाग्नेः पक्षम् उप दधामि
    प्रतीच्या त्वा दिशा सादयामि ॥

 3
    जागतेन छन्दसा सवित्रा देवतयाग्नेः पुच्छेनाग्नेः पुच्छम् उप दधामि ।
    उदीच्या त्वा दिशा सादयाम्य् आनुष्टुभेन छन्दसा मित्रावरुणाभ्यां देवतयाग्नेः पक्षेणाग्नेः पक्षम् उप दधामि ।
    ऊर्ध्वया त्वा दिशा सादयामि पाङ्क्तेन छन्दसा बृहस्पतिना देवतयाग्नेः पृष्ठेनाग्नेः पृष्ठम् उप दधामि
    यो वा अपात्मानम् अग्निं चिनुते ऽपात्मामुष्मिँल्लोके भवति
    यः सात्मानं चिनुते सात्मामुष्मिँल्लोके भवति ।
    आत्मेष्टका उप दधाति ।
    एष वा अग्नेर् आत्मा
    सात्मानम् एवाग्निं चिनुते
    सात्मामुष्मिँल्लोके भवति य एवं वेद ॥

5.5.9 अनुवाक 9
आहुत्याद्यभिधानम्
 1
अग्न उदधे या त इषुर् युवा नाम तया नो मृड तस्यास् ते नमस् तस्यास् त उप जीवन्तो भूयास्म ।
अग्ने दुध्र गह्य किꣳशिल वन्य
या त इषुर् युवा नाम तया नो मृड तस्यास् ते नमस् तस्यास् त उप जीवन्तो भूयास्म
पञ्च वा एते ऽग्नयो यच् चितय उदधिर् एव नाम प्रथमो दुध्रः

 2
    द्वितीयो गह्यस् तृतीयः किꣳशिलश् चतुर्थो वन्यः पञ्चमस् तेभ्यो यद् आहुतीर् न जुहुयाद् अध्वर्युं च यजमानं च प्र दहेयुर् यद् एता आहुतीर् जुहोति भागधेयेनैवैनाञ् छमयति नार्तिम् आर्छत्य् अध्वर्युर् न यजमानः ।
वाङ् म आसन् नसोः प्राणो ऽक्ष्योश् चक्षुः कर्णयोः श्रोत्रम् बाहुवोर् बलमूरुवोर् ओजो ऽरिष्टा विश्वान्य् अङ्गानि तनूः

 3
    तनुवा मे सह नमस् ते अस्तु मा मा हिꣳसीः ।
अप वा एतस्मात् प्राणाः क्रामन्ति यो ऽग्निं चिन्वन्न् अधिक्रामति वाङ् म आसन् नसोः प्राणः ।
    इत्य् आह प्राणान् एवात्मन् धत्ते
यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश तस्मै रुद्राय नमो अस्तु ।
आहुतिभागा वा अन्ये रुद्रा हविर्भागाः

 4
    अन्ये शतरुद्रीयꣳ हुत्वा गावीधुकं चरुम् एतेन यजुषा चरमायाम् इष्टकायां नि दध्याद् भागधेयेनैवैनꣳ शमयति तस्य त्वै शतरुद्रीयꣳ हुतम्
    इत्य् आहुर् यस्यैतद् अग्नौ क्रियत इति।
वसवस् त्वा रुद्रैः पुरस्तात् पान्तु पितरस् त्वा यमराजानः पितृभिर् दक्षिणतः पान्त्व् आदित्यास् त्वा विश्वैर् देवैः पश्चात् पान्तु द्युतानस् त्वा मारुतो मरुद्भिर् उत्तरतः पातु ।

 5
देवास् त्वेन्द्रज्येष्ठा वरुणराजानो ऽधस्ताच् चोपरिष्टाच् च पान्तु।
न वा एतेन पूतो न मेध्यो न प्रोक्षितो यद् एनम् अतः प्राचीनम् प्रोक्षति यत् संचितम् आज्येन प्रोक्षति तेन पूतस् तेन मेध्यस् तेन प्रोक्षितः ॥

5.5.10 अनुवाक 10
सर्पाहुत्याद्यभिधानम्
 1
समीची नामासि प्राची दिक् (तुलनीय : शौ. अथर्ववेद 3.27.1)
    तस्यास् ते ऽग्निर् अधिपतिर् असितो रक्षिता
    यश् चाधिपतिर् यश् च गोप्ता ताभ्यां नमस् तौ नो मृडयताम् ।
    ते यं द्विष्मो यश् च नो द्वेष्टि तं वां जम्भे दधामि ।
    ओजस्विनी नामासि दक्षिणा दिक्
    तस्यास् त इन्द्रो ऽधिपतिः पृदाकुः।
    प्राची नामासि प्रतीची दिक्
    तस्यास् ते

 2
    सोमो ऽधिपतिः स्वजः ।
    अवस्थावा नामास्य् उदीची दिक्
    तस्यास् ते वरुणो ऽधिपतिस् तिरश्चराजिः ।
    अधिपत्नी नामासि बृहती दिक्
    तस्यास् ते बृहस्पतिर् अधिपतिः श्वित्रः ।
    वशिनी नामासीयं दिक्
    तस्यास् ते यमो ऽधिपतिः कल्माषग्रीवो रक्षिता
    यश् चाधिपतिर् यश् च गोप्ता ताभ्यां नमस् तौ नो मृडयताम् ।
    ते यं द्विष्मो यश् च

 3
    नो द्वेष्टि तं वां जम्भे दधामि ।
एता वै देवता अग्निं चितꣳ रक्षन्ति
    ताभ्यो यद् आहुतीर् न जुहुयाद् अध्वर्युं च यजमानं च ध्यायेयुः ।
    यद् एता आहुतीर् जुहोति भागधेयेनैवैनाञ् छमयति
    नार्तिम् आर्छत्य् अध्वर्युर् न यजमानः ।
हेतयो नाम स्थ
    तेषां वः पुरो गृहाः ।
    अग्निर् व इषवः सलिलः ।
    निलिम्पा नाम

 4
    स्थ
    तेषां वो दक्षिणा गृहाः
    पितरो व इषवः सगरः ।
    वज्रिणो नाम स्थ
    तेषां वः पश्चाद् गृहाः
    स्वप्नो व इषवो गह्वरः ।
    अवस्थावानो नाम स्थ
    तेषां व उत्तराद् गृहाः ।
    आपो व इषवः समुद्रः ।
   अधिपतयो नाम स्थ
   तेषां व उपरि गृहाः ।
   वर्षं व इषवो ऽवस्वान्
    क्रव्या नाम स्थ पार्थिवाः
    तेषां व इह गृहाः ॥

 5
    अन्नं व इषवो निमिषो वातनामम् ।
    तेभ्यो वो नमस्
    ते नो मृडयत
    ते यं द्विष्मो यश् च नो द्वेष्टि तं वो जम्भे दधामि
हुतादो वा अन्ये देवा अहुतादो ऽन्ये
    तान् अग्निचिद् एवोभयान् प्रीणाति
    दध्ना मधुमिश्रेणैता आहुतीर् जुहोति
    भागधेयेनैवैनान् प्रीणाति ।
    अथो खल्व् आहुः ।
    इष्टका वै देवा अहुताद इति

 6
    अनुपरिक्रामं जुहोति ।
    अपरिवर्गम् एवैनान् प्रीणाति ।
इमꣳ स्तनमूर्जस्वन्तं धयापाम् प्रप्यातम् अग्ने सरिरस्य मध्ये ।
उत्सं जुषस्व मधुमन्तमूर्व समुद्रियꣳ सदनम् आ विशस्व ॥
यो वा अग्निम् प्रयुज्य न विमुञ्चति यथाश्वो युक्तो ऽविमुच्यमानः क्षुध्यन् पराभवत्य् एवम् अस्याग्निः परा भवति
    तम् पराभवन्तं यजमानो ऽनु परा भवति
    सो ऽग्निं चित्वा लूक्षः

 7
    भवति ।
    इमꣳ स्तनमूर्जस्वन्तं धयापाम् इत्य् आज्यस्य पूर्णाꣳ स्रुचं जुहोति ।
    एष वा अग्नेर् विमोकः ।
    विमुच्यैवास्मा अन्नम् अपि दधाति
    तस्माद् आहुर् यश् चैवं वेद यश् च न
    सुधायꣳ ह वै वाजी सुहितो दधातीति ।
    अग्निर् वाव वाजी
    तम् एव तत् प्रीणाति
    स एनम् प्रीतः प्रीणाति वसीयान् भवति ॥

5.5.11 अनुवाक 11
अश्वमेधशेषभूतप्रथमपशुसंघविधिः
 1
    इन्द्राय राज्ञे सूकरः ।
    वरुणाय राज्ञे कृष्णः ।
    यमाय राज्ञ ऋश्यः।
    ऋषभाय राज्ञे गवयः
    शार्दूलाय राज्ञे गौरः
    पुरुषराजाय मर्कटः
    क्षिप्रश्येनस्य वर्तिका
    नीलङ्गोः क्रिमिः
    सोमस्य राज्ञः कुलुङ्गः
   सिन्धोः शिꣳशुमारः ।
   हिमवतो हस्ती ॥

5.5.12 अनुवाक 12
अश्वमेधशेषभूतद्वितीय पशुसंघविधिः
 1
    मयुः प्राजापत्यः ।
    ऊलो हलीक्ष्णो वृषदꣳशस् ते धातुः
    सरस्वत्यै शारिः श्येता पुरुषवाक् ।
    सरस्वते शुकः श्येतः पुरुषवाक् ।
    आरण्यो ऽजो नकुलः शका ते पौष्णाः ।
    वाचे क्रौञ्चः ॥

5.5.13 अनुवाक 13
अश्वमेधशेषभूततृतीयपशुसंघविधिः
 1
    अपां नप्त्रे जषः ।
    नाक्रो मकरः कुलीकयस् ते ऽकूपारस्य
    वाचे पैङ्गराजः ।
    भगाय कुषीतकः ।
    आती वाहसो दर्विदा ते वायव्याः ।
    दिग्भ्यश् चक्रवाकः ॥

5.5.14 अनुवाक 14
अश्वमेधशेषभूतचतु्र्थपशुसंघविधिः

 1
    बलायाजगरः ।
    आखुः सृजया शयण्डकस् ते मैत्राः ।
    मृत्यवे ऽसितः ।
    मन्यवे स्वजः
    कुम्भीनसः पुष्करसादो लोहिताहिस् ते त्वाष्ट्राः
    प्रतिश्रुत्कायै वाहसः ॥

5.5.15 अनुवाक 15
अश्वमेधशेषभूतपञ्चमपशुसंघविधिः
 
 1
    पुरुषमृगश् चन्द्रमसे
    गोधा कालका दार्वाघाटस् ते वनस्पतीनाम्
    एण्य् अह्ने कृष्णो रात्रियै
    पिकः क्ष्विङ्का नीलशीर्ष्णी ते ऽर्यम्णे
    धातुः कत्कटः ॥

5.5.16 अनुवाक 16
 अश्वमेधशेषभूतषष्ठपशुसंघविधिः

 1
    सौरी बलाका ।
    ऋश्यो मयूरः श्येनस् ते गन्धर्वाणाम् ।
    वसूनां कपिञ्जलः ।
    रुद्राणां तित्तिरिः ।
    रोहित् कुण्डृणाची गोलत्तिका ता अप्सरसाम्
    अरण्याय सृमरः ॥

5.5.17 अनुवाक 17
अश्वमेधशेषभूतसप्तमपशुसंघविधिः

 1
    पृषतो वैश्वदेवः
    पित्वो न्यङ्कुः कशस् ते ऽनुमत्यै ।
    अन्यवापो ऽर्धमासानाम्
    मासां कश्यपः
    क्वयिः कुटरुर् दात्यौहस् ते सिनीवाल्यै
    बृहस्पतये शित्पुटः ॥

5.5.18 अनुवाक 18
अश्वमेधशेषभूताष्टमपशुसंघविधिः
  
 1
    शका भौमी
    पाङ्क्त्राः कशो मान्थीलवस् ते पितृणाम्
    ऋतूनां जहका
    संवत्सराय लोपा
    कपोत उलूकः शशस् ते नैर्ऋताः
    कृकवाकुः सावित्रः ॥

5.5.19 अनुवाक 19
 अश्वमेधशेषभूतनवमपशुसंघविधिः

 1
    रुरू रौद्रः
    कृकलासः शकुनिः पिप्पका ते शरव्यायै
    हरिणो मारुतः ।
    ब्रह्मणे शार्गः
    तरक्षुः कृष्णः श्वा चतुरक्षो गर्दभस् त इतरजनानाम्
    अग्नये धूङ्क्ष्णा ॥

5.5.20 अनुवाक 20
अश्वमेधशेषभूतदशमपशुसंघविधिः
  
 1
    अलज आन्तरिक्षः ।
    उद्रो मद्गुः प्लवस् ते ऽपाम्
    अदित्यै हꣳससाचिः ।
    इन्द्राण्यै कीर्शा
    गृध्रः शितिकक्षी वार्ध्राणसस् ते दिव्याः ।
    द्यावापृथिव्या श्वावित् ॥

5.5.21 अनुवाक 21 अश्वमेधशेषभूतएकादशपशुसंघविधिः
 
 1
    सुपर्णः पार्जन्यः ।
    हꣳसो वृको वृषदꣳशस् त ऐन्द्राः ।
    अपाम् उद्रः ।
    अर्यम्णे लोपाशः
    सिꣳहो नकुलो व्याघ्रस् ते महेन्द्राय
    कामाय परस्वान् ॥

5.5.22 अनुवाक 22
 अश्वमेधशेषभूतप्रथमग्राम्यपशुसंघविधिः

 1
    आग्नेयः कृष्णग्रीवः
    सारस्वती मेषी
    बभ्रुः सौम्यः
    पौष्णः श्यामः
    शितिपृष्ठो बार्हस्पत्यः
    शिल्पो वैश्वदेवः ।
    ऐन्द्रो ऽरुणः ।
    मारुतः कल्माषः ।
    ऐन्द्राग्नः सꣳहितः ।
   अधोरामः सावित्रः ।
   वारुणः पेत्वः ॥

5.5.23 अनुवाक 23
अश्वमेधशेषभूतद्वितीयं ग्राम्यपशुसंघविधिः

 1
    अश्वस् तूपरो गोमृगस् ते प्राजापत्याः ।
    आग्नेयौ कृष्णग्रीवौ
    त्वाष्ट्रौ लोमशसक्थौ
    शितिपृष्ठौ बार्हस्पत्यौ
    धात्रे पृषोदरः
    सौर्यो बलक्षः पेत्वः ॥

5.5.24अनुवाक 24
अश्वमेधशेषभूततृतीयग्राम्यपशुसंघविधिः
  
 1
    अग्नये ऽनीकवते रोहिताञ्जिर् अनड्वान्
    अधोरामौ सावित्रौ
    पौष्णौ रजतनाभी
    वैश्वदेवौ पिशंगौ तूपरौ
    मारुतः कल्माषः ।
    आग्नेयः कृष्णो ऽजः
    सारस्वती मेषी
    वारुणः कृष्ण एकशितिपात् पेत्वः ॥