तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ५/प्रपाठकः ६

5.6 प्रपाठक: 6
5.6.1 अनुवाक 1 कुम्भेष्टकामन्त्रणार्थमन्त्राभिधानम्
1 हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्व् इन्द्रः । अग्निं गर्भं दधिरे विरूपास् ता न आपः शꣳ स्योना भवन्तु ॥ यासाꣳ राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् । मधुश्चुतः शुचयो याः पावकास् ता न आपः शꣳ स्योना भवन्तु ॥ यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । याः पृथिवीम् पयसोन्दन्ति
2 शुक्रास् ता न आपः शꣳ स्योना भवन्तु ॥ शिवेन मा चक्षुषा पश्यतापः शिवया तनुवो ऽप स्पृशत त्वचम् मे । सर्वाꣳ अग्नीꣳ र् अप्सुषदो हुवे वो मयि वर्चो बलम् ओजो नि धत्त ॥ यद् अदः सम्प्रयतीर् अहाव् अनदता हते । तस्माद् आ नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥ यत् प्रेषिता वरुणेन ताः शीभꣳ समवल्गत ।
3 तद् आप्नोद् इन्द्रो वो यतीस् तस्माद् आपो अनु स्थन ॥ अपकामꣳ स्यन्दमाना अवीवरत वो हिकम् । इन्द्रो वः शक्तिभिर् देवीस् तस्माद् वार् णाम वो हितम् ॥ एको देवो अप्य् अतिष्ठत् स्यन्दमाना यथावशम् । उद् आनिषुर् महीर् इति तस्माद् उदकम् उच्यते ॥ आपो भद्रा घृतम् इद् आप आसुर् अग्नीषोमौ बिभ्रत्य् आप इत् ताः । तीव्रो रसो मधुपृचाम् ॥
4 अरंगम आ मा प्राणेन सह वर्चसा गन् ॥ आद् इत् पश्याम्य् उत वा शृणोम्य् आ मा घोषो गच्छति वाङ् न आसाम् । मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यद् वः ॥ आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥ दिवि श्रयस्वान्तरिक्षे यतस्व पृथिव्या सम् भव ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय त्वा ॥

5.6.2 अनुवाक 2 कुम्भेष्टकोपधानविधिः
1 अपां ग्रहान् गृह्णाति । एतद् वाव राजसूयं यद् एते ग्रहाः सवो ऽग्निः । वरुणसवो राजसूयम् अग्निसवश् चित्यः ताभ्याम् एव सूयते । अथो उभाव् एव लोकाव् अभि जयति यश् च राजसूयेनेजानस्य यश् चाग्निचिते । आपो भवन्ति । आपो वा अग्नेर् भ्रातृव्याः । यद् अपो ऽग्नेर् अधस्ताद् उपदधाति भ्रातृव्याभिभूत्यै भवत्य् आत्मना परास्य भ्रातृव्यो भवति । अमृतम्
2 वा आपः तस्माद् अद्भिर् अवतान्तम् अभि षिञ्चन्ति नार्तिम् आर्छति सर्वम् आयुर् एति यस्यैता उपधीयन्ते य उ चैना एवं वेद । अन्नं वा आपः पशव आपः । अन्नम् पशवः । अन्नादः पशुमान् भवति यस्यैता उपधीयन्ते य उ चैना एवं वेद द्वादश भवन्ति द्वादश मासाः संवत्सरः संवत्सरेनैवास्मै
3 अन्नम् अव रुन्द्धे पात्राणि भवन्ति पात्रे वा अन्नम् अद्यते सयोन्य् एवान्नम् अव रुन्द्धे । आ द्वादशात् पुरुषाद् अन्नम् अत्त्य् अथो पात्रान् न छिद्यते यस्यैता उपधीयन्ते य उ चैना एवं वेद कुम्भाश् च कुम्भीश् च मिथुनानि भवन्ति मिथुनस्य प्रजात्यै प्र प्रजया पशुभिर् मिथुनैर् जायते यस्यैता उपधीयन्ते य उ
4 चैना एवं वेद शुग् वा अग्निः सो ऽध्वर्युं यजमानम् प्रजाः शुचार्पयति यद् अप उपदधाति शुचम् एवास्य शमयति नार्तिम् आर्छत्य् अध्वर्युर् न यजमानः शाम्यन्ति प्रजा यत्रैता उपधीयन्ते । अपां वा एतानि हृदयानि यद् एता आपः । यद् एता अप उपदधाति दिव्याभिर् एवैनाः सꣳ सृजति वषुकः पर्जन्यः
5 भवति यो वा एतासाम् आयतनं क्लृप्तिं वेदायतनवान् भवति कल्पते ऽस्मै । अनुसीतम् उप दधाति । एतद् वा आसाम् आयतनम् एषा क्लृप्तिः । य एवं वेदायतनवान् भवति कल्पते ऽस्मै द्वंद्वम् अन्या उप दधाति चतस्रो मध्ये धृत्यै । अन्नं वा इष्टकाः । एतत् खलु वै साक्षाद् अन्नं यद् एष चरुः । यद् एतं चरुम् उपदधाति साक्षात्
6 एवास्मा अन्नम् अव रुन्द्धे मध्यत उप दधाति मध्यत एवास्मा अन्नं दधाति तस्मान् मध्यतो ऽन्नम् अद्यते बार्हस्पत्यो भवति ब्रह्म वै देवानाम् बृहस्पतिः । ब्रह्मणैवास्मा अन्नम् अव रुन्द्धे ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय त्वेत्य् आह तेजस्वी ब्रह्मवर्चसी भवति यस्यैष उपधीयते य उ चैनम् एवं वेद ॥
 
5.6.3 अनुवाक 3 भूतेष्टकाद्यभिधानविधिः
1 भूतेष्टका उप दधाति । अत्रात्र वै मृत्युर् जायते यत्रयत्रैव मृत्युर् जायते तत एवैनम् अव यजते तस्माद् अग्निचित् सर्वम् आयु एति सर्वे ह्य् अस्य मृत्यवो ऽवेष्टाः तस्माद् अग्निचिन् नाभिचरितवै प्रत्यग् एनम् अभिचारः स्तृणुते सूयते वा एष यो ऽग्निं चिनुते देवसुवाम् एतानि हवीꣳ षि भवन्ति । एतावन्तो वै देवानाꣳ सवाः त एव
2 अस्मै सवान् प्र यच्छन्ति त एनꣳ सुवन्ते सवो ऽग्निर् वरुणसवो राजसूयम् ब्रह्मसवश् चित्यः । देवस्य त्वा सवितुः प्रसव इत्य् आह सवितृप्रसूत एवैनम् ब्रह्मणा देवताभिर् अभि षिञ्चति । अन्नस्यान्नस्याभि षिञ्चति । अन्नस्यान्नस्यावरुद्ध्यै पुरस्तात् प्रत्यञ्चम् अभि षिञ्चति पुरस्ताद् धि प्रतीचीनम् अन्नम् अद्यते शीर्षतो ऽभि षिञ्चति शीर्षतो ह्य् अन्नम् अद्यते । आ मुखाद् अन्ववस्रावयति ॥
3 मुखत एवास्मा अन्नाद्यं दधाति । अग्नेस् त्वा साम्राज्येनाभि षिञ्चामीत्य् आह । एष वा अग्नेः सवः तेनैवैनम् अभि षिञ्चति बृहस्पतेस् त्वा साम्राज्येनाभि षिञ्चामीत्य् आह ब्रह्म वै देवानाम् बृहस्पतिः । ब्रह्मणैवैनम् अभि षिञ्चति । इन्द्रस्य त्वा साम्राज्येनाभि षिञ्चामीत्य् आह । इन्द्रियम् एवास्मिन्न् उपरिष्टाद् दधाति । एतत्
4 वै राजसूयस्य रूपम् । य एवं विद्वान् अग्निं चिनुत उभाव् एव लोकाव् अभि जयति यश् च राजसूयेनेजानस्य यश् चाग्निचितः । इन्द्रस्य सुषुवाणस्य दशधेन्द्रियं वीर्यम् परापतत् तद् देवाः सौत्रामण्या सम् अभरन् । सूयते वा एष यो ऽग्निं चिनुते । अग्निं चित्वा सौत्रामण्या यजेतेन्द्रियम् एव वीर्यꣳ सम्भृत्यात्मन् धत्ते ॥

5.6.4 अनुवाक 4 होमाभिधानम्
1 सजूर् अब्दो ऽयावभिः सजूर् उषा अरुणीभिः सजूः सूर्य एतशेन सजोषाव् अश्विना दꣳ सोभिः सजूर् अग्निर् वैश्वानर इडाभिः । घृतेन स्वाहा संवत्सरो वा अब्दः । मासा अयावाः । उषा अरुणी सूर्य एतशः । इमे अश्विना संवत्सरो ऽग्निर् वैश्वानरः पशव इडा पशवो घृतम् । संवत्सरम् पशवो ऽनु प्र जायन्ते संवत्सरेणैवास्मै पशून् प्र जनयति दर्भस्तम्बे जुहोति यत्
2 वा अस्या अमृतं यद् वीर्यं तद् दर्भाः तस्मिञ् जुहोति प्रैव जायते ऽन्नादो भवति यस्यैवं जुह्वति । एता वै देवता अग्नेः पुरस्ताद्भागाः ता एव प्रीणाति । अथो चक्षुर् एवाग्नेः पुरस्तात् प्रति दधाति । अनन्धो भवति य एवं वेद । आपो वा इदम् अग्रे सलिलम् आसीत् स प्रजापतिः पुष्करपर्णे वातो भूतो ऽलेलायत् सः
3 प्रतिष्ठां नाविन्दत स एतद् अपां कुलायम् अपश्यत् तस्मिन्न् अग्निम् अचिनुत तद् इयम् अभवत् ततो वै स प्रत्य् अतिष्ठत् । याम् पुरस्ताद् उपादधात् तच् छिरो ऽभवत् सा प्राची दिग् यां दक्षिणत उपादधात् स दक्षिणः पक्षो ऽभवत् सा दक्षिणा दिग् याम् पश्चाद् उपादधात् तत् पुच्छम् अभवत् सा प्रतीची दिग् याम् उत्तरत उपादधात्
4 स उत्तरः पक्षो ऽभवत् सोदीची दिग् याम् उपरिष्टाद् उपादधात् तत् पृष्ठम् अभवत् सोर्ध्वा दिग् इयम् वा अग्निः पञ्चेष्टकः तस्माद् यद् अस्यां खनन्त्य् अभीष्टकां तृन्दन्त्य् अभि शर्कराम् । सर्वा वा इयं वयोभ्यो नक्तं दृशे दीप्यते तस्माद् इमां वयाꣳ सि नक्तं नाध्य् आसते य एवं विद्वान् अग्निं चिनुते प्रत्य् एव
5 तिष्ठत्य् अभि दिशो जयति । आग्नेयो वै ब्राह्मणः तस्माद् ब्राह्मणाय सर्वासु दिक्ष्व् अर्धुकम् । स्वाम् एव तद् दिशम् अन्व् एति । अपां वा अग्निः कुलायम् । तस्माद् आपो ऽग्निꣳ हारुकाः स्वाम् एव तद् योनिम् प्र विशन्ति ॥
 
5.6.5 अनुवाक 5 केषांचिद् हविषामभिधानम्
1 संवत्सरम् उख्यम् भृत्वा द्वितीये संवत्सर आग्नेयम् अष्टाकपालं निर् वपेद् ऐन्द्रम् एकादशकपालं वैश्वदेवं द्वादशकपालम् बार्हस्पत्यं चरुं वैष्णवं त्रिकपालम् । तृतीये संवत्सरे ऽभिजिता यजेत यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्र्य् आग्नेयं गायत्रम् प्रातःसवनम् प्रातःसवनम् एव तेन दाधार गायत्रीं छन्दः । यद् एकादशकपालो भवत्य् एकादशाक्षरा त्रिष्टुग् ऐन्द्रं त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिनम् एव सवनं तेन दाधार त्रिष्टुभम्
2 छन्दः । यद् द्वादशकपालो भवति द्वादशाक्षरा जगती वैश्वदेवं जागतं तृतीयसवनम् । तृतीयसवनम् एव तेन दाधार जगतीं छन्दः । यद् बार्हस्पत्यश् चरुर् भवति ब्रह्म वै देवानाम् बृहस्पतिः । ब्रह्मैव तेन दाधार यद् वैष्णवस् त्रिकपालो भवति यज्ञो वै विष्णुः । यज्ञम् एव तेन दाधार यत् तृतीये संवत्सरे ऽभिजिता यजते ऽभिजित्यै यत् संवत्सरम् उख्यम् बिभर्तीमम् एव
3 तेन लोकꣳ स्पृणोति यद् द्वितीये संवत्सरे ऽग्निं चिनुते ऽन्तरिक्षम् एव तेन स्पृणोति यत् तृतीये संवत्सरे यजते ऽमुम् एव तेन लोकꣳ स्पृणोति । एतं वै पर आट्णारः कक्षीवाꣳ औशिजो वीतहव्यः श्रायसस् त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अचिन्वत ततो वै ते सहस्रꣳ सहस्रम् पुत्रान् अविन्दन्त प्रथते प्रजया पशुभिस् ताम् मात्राम् आप्नोति यां ते ऽगच्छन् य एवं विद्वान् अग्निं चिनुते ॥

5.6.6 अनुवाक 6 पूर्वोक्तविधिप्रशंसा
1 प्रजापतिर् अग्निम् अचिनुत स क्षुरपविर् भूत्वातिष्ठत् तं देवा बिभ्यतो नोपायन् ते छन्दोभिर् आत्मानं छादयित्वोपायन् तच् छन्दसां छन्दस्त्वम् ब्रह्म वै छन्दाꣳ सि ब्रह्मण एतद् रूपं यत् कृष्णाजिनम् । कार्ष्णी उपानहाव् उप मुञ्चते छन्दोभिर् एवात्मानं छादयित्वाग्निम् उप चरत्य् आत्मनो ऽहिꣳ सायै देवनिधिर् वा एष नि धीयते यद् अग्निः ॥
2 अन्ये वा वै निधिम् अगुप्तं विन्दन्ति न वा प्रति प्र जानाति । उखाम् आ क्रामत्य् आत्मानम् एवाधिपां कुरुते गुप्त्यै । अथो खल्व् आहुः । नाक्रम्येति नैर्ऋत्य् उखा यद् आक्रामेन् निर्ऋत्या आत्मानम् अपि दध्यात् तस्मान् नाक्रम्या पुरुषशीर्षम् उप दधाति गुप्त्यै । अथो यथा ब्रूयात् । एतन् मे गोपायेति तादृग् एव तत् ॥
3 प्रजापतिर् वा अथर्वा । अग्निर् एव दध्यङ्ङ् आथर्वणस् तस्येष्टका अस्थानि । एतꣳ ह वाव तद् ऋषिर् अभ्यनूवाच । इन्द्रो दधीचो अस्थभिर् इति यद् इष्टकाभिर् अग्निं चिनोति सात्मानम् एवाग्निं चिनुते सात्मामुष्मिँल्लोके भवति य एवं वेद शरीरं वा एतद् अग्नेर् यच् चित्य आत्मा वैश्वानरः । यच् चिते वैश्वानरं जुहोति शरीरम् एव सꣳ स्कृत्य
4 अभ्यारोहति शरीरं वा एतद् यजमानः सꣳ स् कुरुते यद् अग्निं चिनुते यच् चिते वैश्वानरं जुहोति शरीरम् एव सꣳ स्कृत्यात्मनाभ्यारोहति तस्मात् तस्य नावद्यन्ति जीवन्न् एव देवान् अप्य् एति वैश्वानर्यर्चा पुरीषम् उप दधाति । इयं वा अग्निर् वैश्वानरस् तस्यैषा चितिर् यत् पुरीषम् अग्निम् एव वैश्वानरं चिनुते । एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः प्रियाम् एवास्य तनुवम् अव रुन्द्धे ॥

5.6.7 अनुवाक 7 दीक्षाविकल्पविधिः
1 अग्नेर् वै दीक्षया देवा विराजम् आप्नुवन् तिस्रो रात्रीर् दीक्षितः स्यात् त्रिपदा { विराट् ^ विराज् } विराजम् आप्नोति षड् रात्रीर् दीक्षितः स्यात् षड् वा ऋतवः संवत्सरः संवत्सरो { विराड् ^ विराज् } विराजम् आप्नोति दश रात्रीर् दीक्षितः स्यात् । दशाक्षरा { विराड् ^ विराज् } विराजम् आप्नोति द्वादश रात्रीर् दीक्षितः स्यात् । द्वादश मासाः संवत्सरः संवत्सरो { विराड् ^ विराज् } विराजम् आप्नोति त्रयोदश रात्रीर् दीक्षितः स्यात् त्रयोदश
2 मासाः संवत्सरः॥ संवत्सरो { विराड् ^ विराज् } पञ्चदश रात्रीर् दीक्षितः स्यात् पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते संवत्सरो { विराड् ^ विराज् } विराजम् आप्नोति सप्तदश रात्रीर् दीक्षितः स्यात् । द्वादश मासाः पञ्चर्तवः स संवत्सरः संवत्सरो { विराड् ^ विराज् } विराजम् आप्नोति चतुर्विꣳ शतिꣳ रात्रीर् दीक्षितः स्यात् । चतुर्विꣳ शतिर् अर्धमासाः संवत्सरः संवत्सरो { विराड् ^ विराज् } विराजम् आप्नोति त्रिꣳ शतꣳ रात्रीर् दीक्षितः स्यात् ॥
3 त्रिꣳ शदक्षरा { विराड् ^ विराज् } विराजम् आप्नोति मासं दीक्षितः स्यात् । यो मासः स संवत्सरः संवत्सरो { विराड् ^ विराज् } विराजम् आप्नोति चतुरो मासो दीक्षितः स्यात् । चतुरो वा एतम् मासो वसवो ऽबिभरुस् ते पृथिवीम् आऽजयन् गायत्रीं छन्दः । अष्टौ रुद्रास् ते ऽन्तरिक्षम् आऽजयन् त्रिष्टुभं छन्दः । द्वादशादित्यास् ते दिवम् आऽजयञ् जगतीं छन्दस् ततो वै ते व्यावृतम् अगच्छञ् छ्रैष्ठ्यं देवानाम् । तस्माद् द्वादश मासो भृत्वाग्निं चिन्वीत द्वादश मासाः संवत्सरः संवत्सरो ऽग्निश् चित्यस् तस्याहोरात्राणीष्टकाः । आप्तेष्टकम् एनं चिनुते ऽथो व्यावृतम् एव गच्छति श्रैष्ठ्यꣳ समानानाम् ॥

5.6.8 अनुवाक 8 अन्वारोहणाद्यभिधानम्
1 सुवर्गाय वा एष लोकाय चीयते यद् अग्निस् तं यन् नान्वारोहेत् सुवर्गाल् लोकाद् यजमानो हीयेत पृथिवीम् आक्रमिषम् प्राणो मा मा हासीत् । अन्तरिक्षम् आक्रमिषम् प्रजा मा मा हासीत् । दिवम् आक्रमिषꣳ सुवर् अगन्म । इत्य् आह । एष वा अग्नेर् अन्वारोहस् तेनैवैनम् अन्वारोहति सुवर्गस्य लोकस्य समष्ट्यै यत् पक्षसम्मिताम् मिनुयात् ।
2 कनीयाꣳ सं यज्ञक्रतुम् उपेयात् पापीयस्य् अस्यात्मनः प्रजा स्यात् । वेदिसम्मिताम् मिनोति ज्यायाꣳ सम् एव यज्ञक्रतुम् उपैति नास्यात्मनः पापीयसी प्रजा भवति साहस्रं चिन्वीत प्रथमं चिन्वानः सहस्रसम्मितो वा अयं लोकः । इमम् एव लोकम् अभि जयति द्विषाहस्रं चिन्वीत द्वितीयं चिन्वानः । द्विषाहस्रं वा अन्तरिक्षम् अन्तरिक्षम् एवाभि जयति त्रिषाहस्रं चिन्वीत तृतीयं चिन्वानः ॥
3 त्रिषाहस्रो वा असौ लोको ऽमुम् एव लोकम् अभि जयति जानुदघ्नं चिन्वीत प्रथमं चिन्वानः । गायत्रियैवेमं लोकम् अभ्यारोहति नाभिदघ्नं चिन्वीत द्वितीयं चिन्वानस् त्रिष्टुभैवान्तरिक्षम् अभ्यारोहति ग्रीवदघ्नं चिन्वीत तृतीयं चिन्वानः । जगत्यैवामुं लोकम् अभ्यारोहति नाग्निं चित्वा रामाम् उपेयाद् अयोनौ रेतो धास्यामीति न द्वितीयं चित्वान्यस्य स्त्रियम्
4 उपेयात् । न तृतीयं चित्वा कां चनोपेयात् । रेतो वा एतन् नि धत्ते यद् अग्निं चिनुते यद् उपेयाद् रेतसा व्यृध्येत । अथो खल्व् आहुः । अप्रजस्यं तद् यन् नोपेयाद् इति यद् रेतःसिचाव् उपदधाति ते एव यजमानस्य रेतो बिभृतस् तस्माद् उपेयाद् रेतसो ऽस्कन्दाय त्रीणि वाव रेताꣳ सि पिता पुत्रः पौत्रः ॥
5 यद् द्वे रेतःसिचाव् उपदध्याद् रेतो ऽस्य वि छिन्द्यात् तिस्र उप दधाति रेतसः संतत्यै । इयं वाव प्रथमा रेतःसिग् वाग् वा इयं तस्मात् पश्यन्तीमाम् पश्यन्ति वाचं वदन्तीम्
अन्तरिक्षं द्वितीया प्राणो वा अन्तरिक्षं तस्मान् नान्तरिक्षम् पश्यन्ति न प्राणम् असौ तृतीया चक्षुर् वा असौ तस्मात् पश्यन्त्य् अमूम् पश्यन्ति चक्षुः । यजुषेमां च
6 अमूंचोप दधाति मनसा मध्यमाम् एषां लोकानां क्लृप्त्यै । अथो प्राणानाम् इष्टो यज्ञो भृगुभिर् आशीर्दा वसुभिस् तस्य त इष्टस्य वीतस्य द्रविणेह भक्षीयेत्य् आह स्तुतशस्त्रे एवैतेन दुहे पिता मातरिश्वाऽछिद्रा पदा धा अछिद्रा उशिजः पदाऽनु तक्षुः []सोमो विश्वविन् नेता नेषद् बृहस्पतिर् १८४.१उक्थामदानि शꣳसिषद् इत्य् आह । एतद् वा अग्नेर् उक्थम् । तेनैवैनम् अनु शꣳसति ॥
 
5.6.9 अनुवाक 9 आसन्द्याद्यभिधानम्
1 सूयते वा एषो ऽग्नीनां य उखायाम् भ्रियते यद् अधः सादयेद् गर्भाः प्रपादुकाः स्युः । अथो यथा सवात् प्रत्यवरोहति तादृग् एव तत् । आसन्दी सादयति गर्भाणां धृत्या अप्रपादाय । अथो सवम् एवैनं करोति गर्भो वा एष यद् उख्यो योनिः शिक्यम् । यच् छिक्याद् उखां निरूहेद् योनेर् गर्भं निर् हण्यात् षड्-उद्यामꣳ शिक्यम् भवति षोढाविहितो वै
2 पुरुष आत्मा च शिरश् च चत्वार्य् अङ्गानि । आत्मन्न् एवैनम् बिभर्ति प्रजापतिर् वा एष यद् अग्निस् तस्योखा चोलूखलं च स्तनौ ताव् अस्य प्रजा उप जीवन्ति यद् उखां चोलूखलं चोपदधाति ताभ्याम् एव यजमानो ऽमुष्मिँल्लोके ऽग्निं दुहे संवत्सरो वा एष यद् अग्निस् तस्य त्रेधाविहिता इष्टकाः []प्राजापत्या वैष्णवीः ॥
3 वैश्वकर्मणीः । अहोरात्राण्य् एवास्य प्राजापत्याः । यद् उख्यम् बिभर्ति प्राजापत्या एव तद् उप धत्ते यत् समिध आदधाति वैष्णवा वै वनस्पतयः । वैष्णवीर् एव तद् उप धत्ते यद् इष्टकाभिर् अग्निं चिनोतीयं वै विश्वकर्मा वैश्वकर्मणीर् एव तद् उप धत्ते तस्माद् आहुस् त्रिवृद् अग्निर् इति तं वा एतं यजमान एव चिन्वीत यद् अस्यान्यश् चिनुयाद् यत् तं दक्षिणाभिर् न राधयेद् अग्निम् अस्य वृञ्जीत यो ऽस्याग्निं चिनुयात् तं दक्षिणाभी राधयेत् । अग्निम् एव तत् स्पृणोति ॥

5.6.10 अनुवाक 10 बहुधा चयनप्रशंसा
1 प्रजापतिर् अग्निम् अचिनुतर्तुभिः संवत्सरम् । वसन्तेनैवास्य पूर्वार्धम् अचिनुत ग्रीष्मेण दक्षिणम् पक्षम् । वर्षाभिः पुच्छम् । शरदोत्तरम् पक्षम् । हेमन्तेन मध्यम् ब्रह्मणा वा अस्य तत् पूर्वार्धम् अचिनुत क्षत्रेण दक्षिणम् पक्षम् पशुभिः पुच्छम् । विशोत्तरम् पक्षम् आशया मध्यम् । य एवं विद्वान् अग्निं चिनुत ऋतुभिर् एवैनं चिनुते । अथो एतद् एव सर्वम् अव
2 रुन्द्धे शृण्वन्त्य् एनम् अग्निं चिक्यानम् अत्त्य् अन्नम् । रोचते । इयं वाव प्रथमा चितिर् ओषधयो वनस्पतयः पुरीषम् अन्तरिक्षं द्वितीया वयाꣳ सि पुरीषम् असौ तृतीया नक्षत्राणि पुरीषम् । यज्ञश् चतुर्थी दक्षिणा पुरीषम् । यजमानः पञ्चमी प्रजा पुरीषम् । यत् त्रिचितीकं चिन्वीत यज्ञं दक्षिणाम् आत्मानम् प्रजाम् अन्तर् इयात् तस्मात् पञ्चचितीकश् चेतव्यः । एतद् एव सर्वꣳ स्पृणोति यत् तिस्रश् चितयः ॥
3 त्रिवृद् ध्य् अग्निः । यद् द्वे द्विपाद् यजमानः प्रतिष्ठित्यै पञ्च चितयो भवन्ति पाङ्क्तः पुरुषः । आत्मानम् एव स्पृणोति पञ्च चितयो भवन्ति पञ्चभिः पुरीषैर् अभ्य् ऊहति दश सम् पद्यन्ते दशाक्षरो वै पुरुषः । यावान् एव पुरुषस् तꣳ स्पृणोति । अथो दशाक्षरा { विराड् ^ विराज् } अन्नं { विराड् ^ विराज् } विराज्य् एवान्नाद्ये प्रति तिष्ठति संवत्सरो वै षष्ठी चितिः । ऋतवः पुरीषम् । षट् चितयो भवन्ति षट् पुरीषाणि द्वादश सम् पद्यन्ते द्वादश मासाः संवत्सरः संवत्सर एव प्रति तिष्ठति ॥

5.6.11 अनुवाक 11 अष्टादशिपशुप्रथमसंघाभिधानम्
1 रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते प्राजापत्याः । बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते रौद्राः श्येतः श्येताक्षः श्येतग्रीवस् ते पितृदेवत्यास् तिस्रः कृष्णा वशा वारुण्यस् तिस्रः श्वेता वशाः सौर्यः । मैत्राबार्हस्पत्या धूम्रललामास् तूपराः ॥

5.6.12 अनुवाक 12 अष्टादशिपशुद्वितीयसंघाभिधानम्
1 पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः फल्गूर् लोहितोर्णी बलक्षी ताः सारस्वत्यः पृषती स्थूलपृषती क्षुद्रपृषती ता वैश्वदेव्यस् तिस्रः श्यामा वशाः पौष्णियस् तिस्रो रोहिणीर् वशा मैत्रियः । ऐन्द्राबार्हस्पत्या अरुणललामास् तूपराः ॥

5.6.13 अनुवाक 13 अष्टादशिपशुतृतीयसंघाभिधानम्
1 शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् त ऐन्द्रवायवाः शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते मैत्रावरुणाः शुद्धवालः सर्वशुद्धवालो मणिवालस् त आश्विनास् तिस्रः शिल्पा वशा वैश्वदेव्यस् तिस्रः श्येनीः परमेष्ठिने सोमापौष्णाः श्यामललामास् तूपराः ॥

5.6.14 अनुवाक 14 अष्टादशिपशुचतुर्थसंघाभिधानम्
1 उन्नत ऋषभो वामनस् त ऐन्द्रावरुणाः शितिककुच् छितिपृष्ठः शितिभसत् त ऐन्द्राबार्हस्पत्याः शितिपाच् छित्योष्ठः शितिभ्रुस् त ऐन्द्रावैष्णवास् तिस्रः सिध्मा वशा वैश्वकर्मण्यस् तिस्रो धात्रे पृषोदरा ऐन्द्रापौष्णाः श्येतललामास् तूपराः ॥

5.6.15अनुवाक 15 अष्टादशिपशुपञ्चमसंघाभिधानम्
1 कर्णास् त्रयो यामाः सौम्यास् त्रयः श्वितिंगा अग्नये यविष्ठाय त्रयो नकुलास् तिस्रो रोहिणीस् त्र्यव्यस् ता वसूनाम् । तिस्रो ऽरुणा दित्यौह्यस् ता रुद्राणाम् । सोमैन्द्रा बभ्रुललामास् तूपराः ॥

5.6.16 अनुवाक 16 अष्टादशिपशुषष्ठसंघाभिधानम्
1 शुण्ठास् त्रयो वैष्णवाः । अधीलोधकर्णास् त्रयो विष्णव उरुक्रमाय लप्सुदिनस् त्रयो विष्णव उरुगायाय पञ्चावीस् तिस्र आदित्यानाम् । त्रिवत्सास् तिस्रो ऽङ्गिरसाम् ऐन्द्रावैष्णवा गौरललामास् तूपराः ॥

5.6.17 अनुवाक 17 अष्टादशिपशुसप्तमसंघाभिधानम्
1 इन्द्राय राज्ञे त्रयः शितिपृष्ठाः । इन्द्रायाधिराजाय त्रयः शितिककुदः । इन्द्राय स्वराज्ञे त्रयः शितिभसदस् तिस्रस् तुर्यौह्यः साध्यानाम् । तिस्रः पष्ठौह्यो विश्वेषां देवानाम् आग्नेन्द्राः कृष्णललामास् तूपराः ॥

5.6.18 अनुवाक 18 अष्टादशिपशुअष्टमसंघाभिधानम्
1 अदित्यै त्रयो रोहितैताः । इन्द्राण्यै त्रयः कृष्णैताः कुह्वै त्रयो ऽरुणैतास् तिस्रो धेनवो राकायै त्रयो ऽनड्वाहः सिनीवाल्याः । आग्नावैष्णवा रोहितललामास् तूपराः ॥

5.6.19 अनुवाक 19 अष्टादशिपशुनवमसंघाभिधानम्
1 सौम्यास् त्रयः पिशंगाः सोमाय राज्ञे त्रयः सारंगाः पार्जन्या नभोरूपास् तिस्रो ऽजा मल्हा इन्द्राण्यै तिस्रो मेष्य आदित्याः । द्यावापृथिव्या मालंगास् तूपराः ॥

5.6.20 अनुवाक 20 अष्टादशिपशुदशमसंघाभिधानम्
1 वारुणास् त्रयः कृष्णललामाः । वरुणाय राज्ञे त्रयो रोहितललामाः । वरुणाय रिशादसे त्रयो ऽरुणललामाः शिल्पास् त्रयो वैश्वदेवास् त्रयः पृश्नयः सर्वदेवत्याः । ऐन्द्रासूराः श्येतललामास् तूपराः ॥

5.6.21 अनुवाक 21 द्वंद्विपश्वभिधानम्
1 सोमाय स्वराज्ञे ऽनोवाहाव् अनड्वाहौ । इन्द्राग्निभ्याम् ओजोदाभ्याम् उष्टारौ । इन्द्राग्निभ्याम् बलदाभ्याꣳ सीरवाहाव् अवी द्वे धेनू भौमी दिग्भ्यो वडबे द्वे धेनू भौमी वैराजी पुरुषी द्वे धेनू भौमी वायव आरोहणवाहाव् अनड्वाहौ वारुणी कृष्णे वशे अराड्यौ दिव्याव् ऋषभौ परिमरौ ॥

5.6.22 अनुवाक 22 ऋतुपश्वभिधानम्
1 एकादश प्रातर् गव्याः पशव आ लभ्यन्ते छगलः कल्माषः किकिदीविर् विदीगयस् ते त्वाष्ट्राः सौरीर् नव श्वेता वशा अनूबन्ध्या भवन्ति । आग्नेय ऐन्द्राग्न आश्विनस् ते विशालयूप आ लभ्यन्ते ॥

5.6.23 अनुवाक 23 ऋतुपश्वभिधानम्
1 पिशंगास् त्रयो वासन्ताः सारंगास् त्रयो ग्रीष्माः पृषन्तस् त्रयो वार्षिकाः पृश्नयस् त्रयः शारदाः पृश्निसक्थास् त्रयो हैमन्तिकास् अवलिप्तास् त्रयः शैशिराः संवत्सराय निवक्षसः ॥




 
5.6.1 अनुवाक 1
 कुम्भेष्टकामन्त्रणार्थमन्त्राभिधानम्
1
हिरण्यवर्णाः शुचयः पावका यासु जातः कश्यपो यास्व् इन्द्रः । अग्निं गर्भं दधिरे विरूपास् ता न आपः शꣳ स्योना भवन्तु ॥
यासाꣳ राजा वरुणो याति मध्ये सत्यानृते अवपश्यञ् जनानाम् । मधुश्चुतः शुचयो याः पावकास् ता न आपः शꣳ स्योना भवन्तु ॥
यासां देवा दिवि कृण्वन्ति भक्षं या अन्तरिक्षे बहुधा भवन्ति । याः पृथिवीम् पयसोन्दन्ति

2
    शुक्रास् ता न आपः शꣳ स्योना भवन्तु ॥
शिवेन मा चक्षुषा पश्यतापः शिवया तनुवो ऽप स्पृशत त्वचम् मे । सर्वाꣳ अग्नीꣳ र् अप्सुषदो हुवे वो मयि वर्चो बलम् ओजो नि धत्त ॥
यद् अदः सम्प्रयतीर् अहाव् अनदता हते । तस्माद् आ नद्यो नाम स्थ ता वो नामानि सिन्धवः ॥
यत् प्रेषिता वरुणेन ताः शीभꣳ समवल्गत ।

3
    तद् आप्नोद् इन्द्रो वो यतीस् तस्माद् आपो अनु स्थन ॥
अपकामꣳ स्यन्दमाना अवीवरत वो हिकम् । इन्द्रो वः शक्तिभिर् देवीस् तस्माद् वार् णाम वो हितम् ॥
एको देवो अप्य् अतिष्ठत् स्यन्दमाना यथावशम् । उद् आनिषुर् महीर् इति तस्माद् उदकम् उच्यते ॥
आपो भद्रा घृतम् इद् आप आसुर् अग्नीषोमौ बिभ्रत्य् आप इत् ताः । तीव्रो रसो मधुपृचाम् ॥

4
    अरंगम आ मा प्राणेन सह वर्चसा गन् ॥
आद् इत् पश्याम्य् उत वा शृणोम्य् आ मा घोषो गच्छति वाङ् न आसाम् । मन्ये भेजानो अमृतस्य तर्हि हिरण्यवर्णा अतृपं यद् वः ॥
आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥
यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥
तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥
दिवि श्रयस्वान्तरिक्षे यतस्व पृथिव्या सम् भव ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय त्वा ॥

5.6.2 अनुवाक 2
कुम्भेष्टकोपधानविधिः
1
    अपां ग्रहान् गृह्णाति ।
    एतद् वाव राजसूयं यद् एते ग्रहाः सवो ऽग्निः ।
    वरुणसवो राजसूयम् अग्निसवश् चित्यः
    ताभ्याम् एव सूयते ।
    अथो उभाव् एव लोकाव् अभि जयति यश् च राजसूयेनेजानस्य यश् चाग्निचिते ।
    आपो भवन्ति ।
    आपो वा अग्नेर् भ्रातृव्याः ।
    यद् अपो ऽग्नेर् अधस्ताद् उपदधाति भ्रातृव्याभिभूत्यै
    भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
    अमृतम्

2
    वा आपः
    तस्माद् अद्भिर् अवतान्तम् अभि षिञ्चन्ति
    नार्तिम् आर्छति सर्वम् आयुर् एति यस्यैता उपधीयन्ते य उ चैना एवं वेद ।
    अन्नं वा आपः
    पशव आपः ।
    अन्नम् पशवः ।
    अन्नादः पशुमान् भवति यस्यैता उपधीयन्ते य उ चैना एवं वेद
    द्वादश भवन्ति
    द्वादश मासाः संवत्सरः
   संवत्सरेनैवास्मै

3
    अन्नम् अव रुन्द्धे
    पात्राणि भवन्ति
    पात्रे वा अन्नम् अद्यते
    सयोन्य् एवान्नम् अव रुन्द्धे ।
    आ द्वादशात् पुरुषाद् अन्नम् अत्त्य् अथो पात्रान् न छिद्यते यस्यैता उपधीयन्ते य उ चैना एवं वेद
    कुम्भाश् च कुम्भीश् च मिथुनानि भवन्ति
    मिथुनस्य प्रजात्यै
    प्र प्रजया पशुभिर् मिथुनैर् जायते यस्यैता उपधीयन्ते य उ

4
    चैना एवं वेद
    शुग् वा अग्निः
    सो ऽध्वर्युं यजमानम् प्रजाः शुचार्पयति
    यद् अप उपदधाति शुचम् एवास्य शमयति
    नार्तिम् आर्छत्य् अध्वर्युर् न यजमानः शाम्यन्ति प्रजा यत्रैता उपधीयन्ते ।
    अपां वा एतानि हृदयानि यद् एता आपः ।
    यद् एता अप उपदधाति दिव्याभिर् एवैनाः सꣳ सृजति वषुकः पर्जन्यः

5
    भवति
    यो वा एतासाम् आयतनं क्लृप्तिं वेदायतनवान् भवति कल्पते ऽस्मै ।
    अनुसीतम् उप दधाति ।
    एतद् वा आसाम् आयतनम् एषा क्लृप्तिः ।
    य एवं वेदायतनवान् भवति कल्पते ऽस्मै
    द्वंद्वम् अन्या उप दधाति चतस्रो मध्ये धृत्यै ।
    अन्नं वा इष्टकाः ।
    एतत् खलु वै साक्षाद् अन्नं यद् एष चरुः ।
    यद् एतं चरुम् उपदधाति साक्षात्

6
    एवास्मा अन्नम् अव रुन्द्धे
    मध्यत उप दधाति
    मध्यत एवास्मा अन्नं दधाति
    तस्मान् मध्यतो ऽन्नम् अद्यते
    बार्हस्पत्यो भवति
    ब्रह्म वै देवानाम् बृहस्पतिः ।
    ब्रह्मणैवास्मा अन्नम् अव रुन्द्धे
    ब्रह्मवर्चसम् असि ब्रह्मवर्चसाय त्वेत्य् आह
    तेजस्वी ब्रह्मवर्चसी भवति यस्यैष उपधीयते य उ चैनम् एवं वेद ॥

5.6.3 अनुवाक 3
भूतेष्टकाद्यभिधानविधिः
1
    भूतेष्टका उप दधाति ।
    अत्रात्र वै मृत्युर् जायते
    यत्रयत्रैव मृत्युर् जायते तत एवैनम् अव यजते
    तस्माद् अग्निचित् सर्वम् आयु एति सर्वे ह्य् अस्य मृत्यवो ऽवेष्टाः
    तस्माद् अग्निचिन् नाभिचरितवै प्रत्यग् एनम् अभिचारः स्तृणुते
    सूयते वा एष यो ऽग्निं चिनुते
    देवसुवाम् एतानि हवीꣳ षि भवन्ति ।
    एतावन्तो वै देवानाꣳ सवाः
    त एव

2
    अस्मै सवान् प्र यच्छन्ति
    त एनꣳ सुवन्ते
    सवो ऽग्निर् वरुणसवो राजसूयम् ब्रह्मसवश् चित्यः ।
    देवस्य त्वा सवितुः प्रसव इत्य् आह
    सवितृप्रसूत एवैनम् ब्रह्मणा देवताभिर् अभि षिञ्चति ।
    अन्नस्यान्नस्याभि षिञ्चति ।
    अन्नस्यान्नस्यावरुद्ध्यै
    पुरस्तात् प्रत्यञ्चम् अभि षिञ्चति
    पुरस्ताद् धि प्रतीचीनम् अन्नम् अद्यते
    शीर्षतो ऽभि षिञ्चति
    शीर्षतो ह्य् अन्नम् अद्यते ।
   आ मुखाद् अन्ववस्रावयति ॥

3
    मुखत एवास्मा अन्नाद्यं दधाति ।
    अग्नेस् त्वा साम्राज्येनाभि षिञ्चामीत्य् आह ।
    एष वा अग्नेः सवः
    तेनैवैनम् अभि षिञ्चति
    बृहस्पतेस् त्वा साम्राज्येनाभि षिञ्चामीत्य् आह
    ब्रह्म वै देवानाम् बृहस्पतिः ।
    ब्रह्मणैवैनम् अभि षिञ्चति ।
    इन्द्रस्य त्वा साम्राज्येनाभि षिञ्चामीत्य् आह ।
    इन्द्रियम् एवास्मिन्न् उपरिष्टाद् दधाति ।
    एतत्

4
    वै राजसूयस्य रूपम् ।
    य एवं विद्वान् अग्निं चिनुत उभाव् एव लोकाव् अभि जयति यश् च राजसूयेनेजानस्य यश् चाग्निचितः ।
    इन्द्रस्य सुषुवाणस्य दशधेन्द्रियं वीर्यम् परापतत्
    तद् देवाः सौत्रामण्या सम् अभरन् ।
    सूयते वा एष यो ऽग्निं चिनुते ।
    अग्निं चित्वा सौत्रामण्या यजेतेन्द्रियम् एव वीर्यꣳ सम्भृत्यात्मन् धत्ते ॥

5.6.4 अनुवाक 4 होमाभिधानम्
1
    सजूर् अब्दो ऽयावभिः
    सजूर् उषा अरुणीभिः
    सजूः सूर्य एतशेन
    सजोषाव् अश्विना दꣳ सोभिः
    सजूर् अग्निर् वैश्वानर इडाभिः ।
    घृतेन स्वाहा
    संवत्सरो वा अब्दः ।
    मासा अयावाः ।
    उषा अरुणी
   सूर्य एतशः ।
    इमे अश्विना
   संवत्सरो ऽग्निर् वैश्वानरः
   पशव इडा
   पशवो घृतम् ।
  संवत्सरम् पशवो ऽनु प्र जायन्ते
    संवत्सरेणैवास्मै पशून् प्र जनयति
   दर्भस्तम्बे जुहोति
    यत्

2
    वा अस्या अमृतं यद् वीर्यं तद् दर्भाः
    तस्मिञ् जुहोति
    प्रैव जायते ऽन्नादो भवति यस्यैवं जुह्वति ।
    एता वै देवता अग्नेः पुरस्ताद्भागाः
    ता एव प्रीणाति ।
    अथो चक्षुर् एवाग्नेः पुरस्तात् प्रति दधाति ।
    अनन्धो भवति य एवं वेद ।
    आपो वा इदम् अग्रे सलिलम् आसीत्
    स प्रजापतिः पुष्करपर्णे वातो भूतो ऽलेलायत्
   सः

3
    प्रतिष्ठां नाविन्दत
    स एतद् अपां कुलायम् अपश्यत्
    तस्मिन्न् अग्निम् अचिनुत
    तद् इयम् अभवत्
    ततो वै स प्रत्य् अतिष्ठत् ।
    याम् पुरस्ताद् उपादधात् तच् छिरो ऽभवत् सा प्राची दिग्
    यां दक्षिणत उपादधात् स दक्षिणः पक्षो ऽभवत् सा दक्षिणा दिग्
    याम् पश्चाद् उपादधात् तत् पुच्छम् अभवत् सा प्रतीची दिग्
    याम् उत्तरत उपादधात्

4
    स उत्तरः पक्षो ऽभवत् सोदीची दिग्
    याम् उपरिष्टाद् उपादधात् तत् पृष्ठम् अभवत् सोर्ध्वा दिग्
    इयम् वा अग्निः पञ्चेष्टकः
    तस्माद् यद् अस्यां खनन्त्य् अभीष्टकां तृन्दन्त्य् अभि शर्कराम् ।
    सर्वा वा इयं वयोभ्यो नक्तं दृशे दीप्यते
    तस्माद् इमां वयाꣳ सि नक्तं नाध्य् आसते
    य एवं विद्वान् अग्निं चिनुते प्रत्य् एव

5
    तिष्ठत्य् अभि दिशो जयति ।
    आग्नेयो वै ब्राह्मणः
    तस्माद् ब्राह्मणाय सर्वासु दिक्ष्व् अर्धुकम् ।
    स्वाम् एव तद् दिशम् अन्व् एति ।
    अपां वा अग्निः कुलायम् ।
    तस्माद् आपो ऽग्निꣳ हारुकाः
    स्वाम् एव तद् योनिम् प्र विशन्ति ॥

5.6.5 अनुवाक 5
केषांचिद् हविषामभिधानम्
1
    संवत्सरम् उख्यम् भृत्वा द्वितीये संवत्सर आग्नेयम् अष्टाकपालं निर् वपेद् ऐन्द्रम् एकादशकपालं वैश्वदेवं द्वादशकपालम् बार्हस्पत्यं चरुं वैष्णवं त्रिकपालम् ।
    तृतीये संवत्सरे ऽभिजिता यजेत
    यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्र्य् आग्नेयं गायत्रम् प्रातःसवनम्
    प्रातःसवनम् एव तेन दाधार गायत्रीं छन्दः ।
    यद् एकादशकपालो भवत्य् एकादशाक्षरा त्रिष्टुग् ऐन्द्रं त्रैष्टुभम् माध्यंदिनꣳ सवनम्
    माध्यंदिनम् एव सवनं तेन दाधार त्रिष्टुभम्

2
    छन्दः ।
    यद् द्वादशकपालो भवति द्वादशाक्षरा जगती वैश्वदेवं जागतं तृतीयसवनम् ।
    तृतीयसवनम् एव तेन दाधार जगतीं छन्दः ।
    यद् बार्हस्पत्यश् चरुर् भवति ब्रह्म वै देवानाम् बृहस्पतिः ।
    ब्रह्मैव तेन दाधार
    यद् वैष्णवस् त्रिकपालो भवति यज्ञो वै विष्णुः ।
    यज्ञम् एव तेन दाधार
    यत् तृतीये संवत्सरे ऽभिजिता यजते ऽभिजित्यै
    यत् संवत्सरम् उख्यम् बिभर्तीमम् एव

3
    तेन लोकꣳ स्पृणोति
    यद् द्वितीये संवत्सरे ऽग्निं चिनुते ऽन्तरिक्षम् एव तेन स्पृणोति
    यत् तृतीये संवत्सरे यजते ऽमुम् एव तेन लोकꣳ स्पृणोति ।
    एतं वै पर आट्णारः कक्षीवाꣳ औशिजो वीतहव्यः श्रायसस् त्रसदस्युः पौरुकुत्स्यः प्रजाकामा अचिन्वत
    ततो वै ते सहस्रꣳ सहस्रम् पुत्रान् अविन्दन्त
    प्रथते प्रजया पशुभिस् ताम् मात्राम् आप्नोति यां ते ऽगच्छन् य एवं विद्वान् अग्निं चिनुते ॥

5.6.6 अनुवाक 6 पूर्वोक्तविधिप्रशंसा
1
    प्रजापतिर् अग्निम् अचिनुत
    स क्षुरपविर् भूत्वातिष्ठत्
    तं देवा बिभ्यतो नोपायन्
    ते छन्दोभिर् आत्मानं छादयित्वोपायन्
    तच् छन्दसां छन्दस्त्वम्
    ब्रह्म वै छन्दाꣳ सि
    ब्रह्मण एतद् रूपं यत् कृष्णाजिनम् ।
    कार्ष्णी उपानहाव् उप मुञ्चते छन्दोभिर् एवात्मानं छादयित्वाग्निम् उप चरत्य् आत्मनो ऽहिꣳ सायै
    देवनिधिर् वा एष नि धीयते यद् अग्निः ॥

2
    अन्ये वा वै निधिम् अगुप्तं विन्दन्ति न वा प्रति प्र जानाति ।
    उखाम् आ क्रामत्य् आत्मानम् एवाधिपां कुरुते गुप्त्यै ।
    अथो खल्व् आहुः ।
    नाक्रम्येति
    नैर्ऋत्य् उखा यद् आक्रामेन् निर्ऋत्या आत्मानम् अपि दध्यात् तस्मान् नाक्रम्या
    पुरुषशीर्षम् उप दधाति गुप्त्यै ।
    अथो यथा ब्रूयात् ।
    एतन् मे गोपायेति तादृग् एव तत् ॥

3
    प्रजापतिर् वा अथर्वा ।
    अग्निर् एव दध्यङ्ङ् आथर्वणस्
    तस्येष्टका अस्थानि ।
    एतꣳ ह वाव तद् ऋषिर् अभ्यनूवाच ।
    इन्द्रो दधीचो अस्थभिर् इति
    यद् इष्टकाभिर् अग्निं चिनोति सात्मानम् एवाग्निं चिनुते
    सात्मामुष्मिँल्लोके भवति य एवं वेद
    शरीरं वा एतद् अग्नेर् यच् चित्य आत्मा वैश्वानरः ।
    यच् चिते वैश्वानरं जुहोति शरीरम् एव सꣳ स्कृत्य

4
    अभ्यारोहति
    शरीरं वा एतद् यजमानः सꣳ स् कुरुते यद् अग्निं चिनुते
    यच् चिते वैश्वानरं जुहोति शरीरम् एव सꣳ स्कृत्यात्मनाभ्यारोहति
    तस्मात् तस्य नावद्यन्ति जीवन्न् एव देवान् अप्य् एति
    वैश्वानर्यर्चा पुरीषम् उप दधाति ।
    इयं वा अग्निर् वैश्वानरस्
    तस्यैषा चितिर् यत् पुरीषम्
    अग्निम् एव वैश्वानरं चिनुते ।
    एषा वा अग्नेः प्रिया तनूर् यद् वैश्वानरः
    प्रियाम् एवास्य तनुवम् अव रुन्द्धे ॥

5.6.7 अनुवाक 7 दीक्षाविकल्पविधिः
1
    अग्नेर् वै दीक्षया देवा विराजम् आप्नुवन्
    तिस्रो रात्रीर् दीक्षितः स्यात्
    त्रिपदा { विराट् ^ विराज् }
    विराजम् आप्नोति
    षड् रात्रीर् दीक्षितः स्यात्
    षड् वा ऋतवः संवत्सरः
    संवत्सरो { विराड् ^ विराज् }
    विराजम् आप्नोति
    दश रात्रीर् दीक्षितः स्यात् ।
   दशाक्षरा { विराड् ^ विराज् }
   विराजम् आप्नोति
   द्वादश रात्रीर् दीक्षितः स्यात् ।
    द्वादश मासाः संवत्सरः
   संवत्सरो { विराड् ^ विराज् }
    विराजम् आप्नोति
  त्रयोदश रात्रीर् दीक्षितः स्यात्
  त्रयोदश

2
    मासाः संवत्सरः॥
    संवत्सरो { विराड् ^ विराज् }
    पञ्चदश रात्रीर् दीक्षितः स्यात्
    पञ्चदश वा अर्धमासस्य रात्रयः ।
    अर्धमासशः संवत्सर आप्यते
    संवत्सरो { विराड् ^ विराज् }
    विराजम् आप्नोति
    सप्तदश रात्रीर् दीक्षितः स्यात् ।
    द्वादश मासाः पञ्चर्तवः स संवत्सरः
    संवत्सरो { विराड् ^ विराज् }
    विराजम् आप्नोति
   चतुर्विꣳ शतिꣳ रात्रीर् दीक्षितः स्यात् ।
    चतुर्विꣳ शतिर् अर्धमासाः संवत्सरः
    संवत्सरो { विराड् ^ विराज् }
   विराजम् आप्नोति
    त्रिꣳ शतꣳ रात्रीर् दीक्षितः स्यात् ॥

3
    त्रिꣳ शदक्षरा { विराड् ^ विराज् }
    विराजम् आप्नोति
    मासं दीक्षितः स्यात् ।
    यो मासः स संवत्सरः
    संवत्सरो { विराड् ^ विराज् }
    विराजम् आप्नोति
    चतुरो मासो दीक्षितः स्यात् ।
    चतुरो वा एतम् मासो वसवो ऽबिभरुस् ते पृथिवीम् आऽजयन् गायत्रीं छन्दः ।
    अष्टौ रुद्रास् ते ऽन्तरिक्षम् आऽजयन् त्रिष्टुभं छन्दः ।
    द्वादशादित्यास् ते दिवम् आऽजयञ् जगतीं छन्दस्
    ततो वै ते व्यावृतम् अगच्छञ् छ्रैष्ठ्यं देवानाम् ।
    तस्माद् द्वादश मासो भृत्वाग्निं चिन्वीत
    द्वादश मासाः संवत्सरः
    संवत्सरो ऽग्निश् चित्यस्
    तस्याहोरात्राणीष्टकाः ।
   आप्तेष्टकम् एनं चिनुते ऽथो व्यावृतम् एव गच्छति श्रैष्ठ्यꣳ समानानाम् ॥

5.6.8 अनुवाक 8
अन्वारोहणाद्यभिधानम्
1
सुवर्गाय वा एष लोकाय चीयते यद् अग्निस्
    तं यन् नान्वारोहेत् सुवर्गाल् लोकाद् यजमानो हीयेत
    पृथिवीम् आक्रमिषम् प्राणो मा मा हासीत् ।
    अन्तरिक्षम् आक्रमिषम् प्रजा मा मा हासीत् ।
    दिवम् आक्रमिषꣳ सुवर् अगन्म ।
    इत्य् आह ।
    एष वा अग्नेर् अन्वारोहस्
    तेनैवैनम् अन्वारोहति
    सुवर्गस्य लोकस्य समष्ट्यै
यत् पक्षसम्मिताम् मिनुयात् ।

2
    कनीयाꣳ सं यज्ञक्रतुम् उपेयात् पापीयस्य् अस्यात्मनः प्रजा स्यात् ।
    वेदिसम्मिताम् मिनोति
    ज्यायाꣳ सम् एव यज्ञक्रतुम् उपैति
    नास्यात्मनः पापीयसी प्रजा भवति
साहस्रं चिन्वीत प्रथमं चिन्वानः
    सहस्रसम्मितो वा अयं लोकः ।
    इमम् एव लोकम् अभि जयति
    द्विषाहस्रं चिन्वीत द्वितीयं चिन्वानः ।
    द्विषाहस्रं वा अन्तरिक्षम्
    अन्तरिक्षम् एवाभि जयति
    त्रिषाहस्रं चिन्वीत तृतीयं चिन्वानः ॥

3
    त्रिषाहस्रो वा असौ लोको ऽमुम् एव लोकम् अभि जयति
जानुदघ्नं चिन्वीत प्रथमं चिन्वानः ।
    गायत्रियैवेमं लोकम् अभ्यारोहति
    नाभिदघ्नं चिन्वीत द्वितीयं चिन्वानस्
    त्रिष्टुभैवान्तरिक्षम् अभ्यारोहति
    ग्रीवदघ्नं चिन्वीत तृतीयं चिन्वानः ।
    जगत्यैवामुं लोकम् अभ्यारोहति
नाग्निं चित्वा रामाम् उपेयाद् अयोनौ रेतो धास्यामीति
    न द्वितीयं चित्वान्यस्य स्त्रियम्

4
    उपेयात् ।
    न तृतीयं चित्वा कां चनोपेयात् ।
    रेतो वा एतन् नि धत्ते यद् अग्निं चिनुते
    यद् उपेयाद् रेतसा व्यृध्येत ।
    अथो खल्व् आहुः ।
    अप्रजस्यं तद् यन् नोपेयाद् इति
    यद् रेतःसिचाव् उपदधाति ते एव यजमानस्य रेतो बिभृतस्
    तस्माद् उपेयाद् रेतसो ऽस्कन्दाय
त्रीणि वाव रेताꣳ सि पिता पुत्रः पौत्रः ॥

5
    यद् द्वे रेतःसिचाव् उपदध्याद् रेतो ऽस्य वि छिन्द्यात्
    तिस्र उप दधाति रेतसः संतत्यै ।
    इयं वाव प्रथमा रेतःसिग् वाग् वा इयं तस्मात् पश्यन्तीमाम् पश्यन्ति वाचं वदन्तीम्
    अन्तरिक्षं द्वितीया प्राणो वा अन्तरिक्षं तस्मान् नान्तरिक्षम् पश्यन्ति न प्राणम्
    असौ तृतीया चक्षुर् वा असौ तस्मात् पश्यन्त्य् अमूम् पश्यन्ति चक्षुः ।
    यजुषेमां च

6
    अमूंचोप दधाति मनसा मध्यमाम्
    एषां लोकानां क्लृप्त्यै ।
    अथो प्राणानाम्
इष्टो यज्ञो भृगुभिर् आशीर्दा वसुभिस् तस्य त इष्टस्य वीतस्य द्रविणेह भक्षीयेत्य् आह
    स्तुतशस्त्रे एवैतेन दुहे
    पिता मातरिश्वाऽछिद्रा पदा धा अछिद्रा उशिजः पदाऽनु तक्षुः सोमो विश्वविन् नेता नेषद् बृहस्पतिर् उक्थामदानि शꣳ सिषद् इत्य् आह ।
    एतद् वा अग्नेर् उक्थम् ।
    तेनैवैनम् अनु शꣳ सति ॥

5.6.9 अनुवाक 9
आसन्द्याद्यभिधानम्
1
सूयते वा एषो ऽग्नीनां य उखायाम् भ्रियते
    यद् अधः सादयेद् गर्भाः प्रपादुकाः स्युः ।
    अथो यथा सवात् प्रत्यवरोहति तादृग् एव तत् ।
    आसन्दी सादयति गर्भाणां धृत्या अप्रपादाय ।
    अथो सवम् एवैनं करोति
गर्भो वा एष यद् उख्यो योनिः शिक्यम् ।
    यच् छिक्याद् उखां निरूहेद् योनेर् गर्भं निर् हण्यात्
    षड्-उद्यामꣳ शिक्यम् भवति
    षोढाविहितो वै

2
    पुरुष आत्मा च शिरश् च चत्वार्य् अङ्गानि ।
    आत्मन्न् एवैनम् बिभर्ति
प्रजापतिर् वा एष यद् अग्निस्
    तस्योखा चोलूखलं च स्तनौ
    ताव् अस्य प्रजा उप जीवन्ति
    यद् उखां चोलूखलं चोपदधाति ताभ्याम् एव यजमानो ऽमुष्मिँल्लोके ऽग्निं दुहे
संवत्सरो वा एष यद् अग्निस्
    तस्य त्रेधाविहिता इष्टकाः प्राजापत्या वैष्णवीः ॥

3
    वैश्वकर्मणीः ।
    अहोरात्राण्य् एवास्य प्राजापत्याः ।
    यद् उख्यम् बिभर्ति प्राजापत्या एव तद् उप धत्ते
    यत् समिध आदधाति वैष्णवा वै वनस्पतयः ।
    वैष्णवीर् एव तद् उप धत्ते
    यद् इष्टकाभिर् अग्निं चिनोतीयं वै विश्वकर्मा
    वैश्वकर्मणीर् एव तद् उप धत्ते
    तस्माद् आहुस्
    त्रिवृद् अग्निर् इति
तं वा एतं यजमान एव चिन्वीत
    यद् अस्यान्यश् चिनुयाद् यत् तं दक्षिणाभिर् न राधयेद् अग्निम् अस्य वृञ्जीत
    यो ऽस्याग्निं चिनुयात् तं दक्षिणाभी राधयेत् ।
    अग्निम् एव तत् स्पृणोति ॥

5.6.10 अनुवाक 10
 बहुधा चयनप्रशंसा
1
    प्रजापतिर् अग्निम् अचिनुतर्तुभिः संवत्सरम् ।
    वसन्तेनैवास्य पूर्वार्धम् अचिनुत
    ग्रीष्मेण दक्षिणम् पक्षम् ।
    वर्षाभिः पुच्छम् ।
    शरदोत्तरम् पक्षम् ।
    हेमन्तेन मध्यम्
    ब्रह्मणा वा अस्य तत् पूर्वार्धम् अचिनुत
    क्षत्रेण दक्षिणम् पक्षम्
    पशुभिः पुच्छम् ।
   विशोत्तरम् पक्षम्
   आशया मध्यम् ।
    य एवं विद्वान् अग्निं चिनुत ऋतुभिर् एवैनं चिनुते ।
   अथो एतद् एव सर्वम् अव

2
    रुन्द्धे
    शृण्वन्त्य् एनम् अग्निं चिक्यानम्
    अत्त्य् अन्नम् ।
    रोचते ।
    इयं वाव प्रथमा चितिर् ओषधयो वनस्पतयः पुरीषम्
    अन्तरिक्षं द्वितीया वयाꣳ सि पुरीषम्
    असौ तृतीया नक्षत्राणि पुरीषम् ।
    यज्ञश् चतुर्थी दक्षिणा पुरीषम् ।
    यजमानः पञ्चमी प्रजा पुरीषम् ।
    यत् त्रिचितीकं चिन्वीत यज्ञं दक्षिणाम् आत्मानम् प्रजाम् अन्तर् इयात्
   तस्मात् पञ्चचितीकश् चेतव्यः ।
    एतद् एव सर्वꣳ स्पृणोति
   यत् तिस्रश् चितयः ॥

3
    त्रिवृद् ध्य् अग्निः ।
    यद् द्वे द्विपाद् यजमानः प्रतिष्ठित्यै
    पञ्च चितयो भवन्ति
    पाङ्क्तः पुरुषः ।
    आत्मानम् एव स्पृणोति
    पञ्च चितयो भवन्ति
    पञ्चभिः पुरीषैर् अभ्य् ऊहति
    दश सम् पद्यन्ते
    दशाक्षरो वै पुरुषः ।
    यावान् एव पुरुषस् तꣳ स्पृणोति ।
    अथो दशाक्षरा { विराड् ^ विराज् }
   अन्नं { विराड् ^ विराज् }
   विराज्य् एवान्नाद्ये प्रति तिष्ठति
    संवत्सरो वै षष्ठी चितिः ।
   ऋतवः पुरीषम् ।
  षट् चितयो भवन्ति षट् पुरीषाणि
   द्वादश सम् पद्यन्ते
   द्वादश मासाः संवत्सरः
    संवत्सर एव प्रति तिष्ठति ॥

5.6.11 अनुवाक 11
अष्टादशिपशुप्रथमसंघाभिधानम्
1
    रोहितो धूम्ररोहितः कर्कन्धुरोहितस् ते प्राजापत्याः ।
    बभ्रुर् अरुणबभ्रुः शुकबभ्रुस् ते रौद्राः
    श्येतः श्येताक्षः श्येतग्रीवस् ते पितृदेवत्यास्
    तिस्रः कृष्णा वशा वारुण्यस्
    तिस्रः श्वेता वशाः सौर्यः ।
    मैत्राबार्हस्पत्या धूम्रललामास् तूपराः ॥

5.6.12 अनुवाक 12
अष्टादशिपशुद्वितीयसंघाभिधानम्
1
    पृश्निस् तिरश्चीनपृश्निर् ऊर्ध्वपृश्निस् ते मारुताः
    फल्गूर् लोहितोर्णी बलक्षी ताः सारस्वत्यः
    पृषती स्थूलपृषती क्षुद्रपृषती ता वैश्वदेव्यस्
    तिस्रः श्यामा वशाः पौष्णियस्
    तिस्रो रोहिणीर् वशा मैत्रियः ।
    ऐन्द्राबार्हस्पत्या अरुणललामास् तूपराः ॥

5.6.13 अनुवाक 13
अष्टादशिपशुतृतीयसंघाभिधानम्
1
    शितिबाहुर् अन्यतःशितिबाहुः समन्तशितिबाहुस् त ऐन्द्रवायवाः
    शितिरन्ध्रो ऽन्यतःशितिरन्ध्रः समन्तशितिरन्ध्रस् ते मैत्रावरुणाः
    शुद्धवालः सर्वशुद्धवालो मणिवालस् त आश्विनास्
    तिस्रः शिल्पा वशा वैश्वदेव्यस्
    तिस्रः श्येनीः परमेष्ठिने
    सोमापौष्णाः श्यामललामास् तूपराः ॥

5.6.14 अनुवाक 14 अष्टादशिपशुचतुर्थसंघाभिधानम्
1
    उन्नत ऋषभो वामनस् त ऐन्द्रावरुणाः
    शितिककुच् छितिपृष्ठः शितिभसत् त ऐन्द्राबार्हस्पत्याः
    शितिपाच् छित्योष्ठः शितिभ्रुस् त ऐन्द्रावैष्णवास्
    तिस्रः सिध्मा वशा वैश्वकर्मण्यस्
    तिस्रो धात्रे पृषोदरा ऐन्द्रापौष्णाः श्येतललामास् तूपराः ॥

5.6.15अनुवाक 15
अष्टादशिपशुपञ्चमसंघाभिधानम्
1
    कर्णास् त्रयो यामाः
    सौम्यास् त्रयः श्वितिंगा अग्नये यविष्ठाय त्रयो नकुलास्
    तिस्रो रोहिणीस् त्र्यव्यस् ता वसूनाम् ।
    तिस्रो ऽरुणा दित्यौह्यस् ता रुद्राणाम् ।
    सोमैन्द्रा बभ्रुललामास् तूपराः ॥

5.6.16 अनुवाक 16
अष्टादशिपशुषष्ठसंघाभिधानम्
1
    शुण्ठास् त्रयो वैष्णवाः ।
    अधीलोधकर्णास् त्रयो विष्णव उरुक्रमाय
    लप्सुदिनस् त्रयो विष्णव उरुगायाय
    पञ्चावीस् तिस्र आदित्यानाम् ।
    त्रिवत्सास् तिस्रो ऽङ्गिरसाम्
    ऐन्द्रावैष्णवा गौरललामास् तूपराः ॥

5.6.17 अनुवाक 17
अष्टादशिपशुसप्तमसंघाभिधानम्
1
    इन्द्राय राज्ञे त्रयः शितिपृष्ठाः ।
    इन्द्रायाधिराजाय त्रयः शितिककुदः ।
    इन्द्राय स्वराज्ञे त्रयः शितिभसदस्
    तिस्रस् तुर्यौह्यः साध्यानाम् ।
    तिस्रः पष्ठौह्यो विश्वेषां देवानाम्
    आग्नेन्द्राः कृष्णललामास् तूपराः ॥

5.6.18 अनुवाक 18
अष्टादशिपशुअष्टमसंघाभिधानम्
1
    अदित्यै त्रयो रोहितैताः ।
    इन्द्राण्यै त्रयः कृष्णैताः
    कुह्वै त्रयो ऽरुणैतास्
    तिस्रो धेनवो राकायै
    त्रयो ऽनड्वाहः सिनीवाल्याः ।
    आग्नावैष्णवा रोहितललामास् तूपराः ॥

5.6.19 अनुवाक 19
अष्टादशिपशुनवमसंघाभिधानम्
1
    सौम्यास् त्रयः पिशंगाः
    सोमाय राज्ञे त्रयः सारंगाः
    पार्जन्या नभोरूपास्
    तिस्रो ऽजा मल्हा इन्द्राण्यै
    तिस्रो मेष्य आदित्याः ।
    द्यावापृथिव्या मालंगास् तूपराः ॥

5.6.20 अनुवाक 20
अष्टादशिपशुदशमसंघाभिधानम्
1
    वारुणास् त्रयः कृष्णललामाः ।
    वरुणाय राज्ञे त्रयो रोहितललामाः ।
    वरुणाय रिशादसे त्रयो ऽरुणललामाः
    शिल्पास् त्रयो वैश्वदेवास्
    त्रयः पृश्नयः सर्वदेवत्याः ।
    ऐन्द्रासूराः श्येतललामास् तूपराः ॥

5.6.21 अनुवाक 21
द्वंद्विपश्वभिधानम्
1
    सोमाय स्वराज्ञे ऽनोवाहाव् अनड्वाहौ ।
    इन्द्राग्निभ्याम् ओजोदाभ्याम् उष्टारौ ।
    इन्द्राग्निभ्याम् बलदाभ्याꣳ सीरवाहाव् अवी
    द्वे धेनू भौमी
    दिग्भ्यो वडबे
    द्वे धेनू भौमी
    वैराजी पुरुषी
    द्वे धेनू भौमी
    वायव आरोहणवाहाव् अनड्वाहौ
    वारुणी कृष्णे वशे
    अराड्यौ दिव्याव् ऋषभौ परिमरौ ॥

5.6.22 अनुवाक 22
 ऋतुपश्वभिधानम्
1
    एकादश प्रातर् गव्याः पशव आ लभ्यन्ते
छगलः कल्माषः किकिदीविर् विदीगयस् ते त्वाष्ट्राः
    सौरीर् नव श्वेता वशा अनूबन्ध्या भवन्ति ।
    आग्नेय ऐन्द्राग्न आश्विनस् ते विशालयूप आ लभ्यन्ते ॥

5.6.23 अनुवाक 23 ऋतुपश्वभिधानम्
1
    पिशंगास् त्रयो वासन्ताः
    सारंगास् त्रयो ग्रीष्माः
    पृषन्तस् त्रयो वार्षिकाः
    पृश्नयस् त्रयः शारदाः
    पृश्निसक्थास् त्रयो हैमन्तिकास्
    अवलिप्तास् त्रयः शैशिराः
    संवत्सराय निवक्षसः ॥



  1. तु. सोमो विश्वविन्नीथा निनेषद्बृहस्पतिरुक्थामदानि शंसिषत् - आश्व.श्रौ.सू. ५.९.१, ऐ.ब्रा. २.३८,
  2. विष्णुर्योनिं कल्पयतु त्वष्टा रूपाणि पिंशतु ।
    आ सिञ्चतु प्रजापतिर्धाता गर्भं दधातु ते ॥- ऋ. १०.१८४.१