प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः १

< तैत्तिरीयसंहिता(विस्वरः)‎ | काण्डम् ६

तैत्तिरीय संहिता
काण्ड 6
6.1 प्रपाठक: 1
6.1.1 अनुवाक 1
क्षुरकर्मादिसंस्कृतस्य प्राग्वंशप्रवेशाभिधानम्
VERSE: 1
    प्राचीनवम्̇शं करोति
    देवमनुष्या दिशो व्यभजन्त
    प्राचीं देवा दक्षिणा पितरः प्रतीचीम् मनुष्या उदीचीम्̇ रुद्राः ।
    यत् प्राचीनवम्̇शं करोति देवलोकम् एव तद् यजमान उपावर्तते
    परि श्रयति ।
    अन्तर्हितो हि देवलोको मनुष्यलोकात् ।
    नास्माल्लोकात् स्वेतव्यम् इवेत्य् आहुः
    को हि तद् वेद यद्य् अमुष्मिम्̐ लोके ऽस्ति वा न वेति
    दिक्ष्व् अतीकाशान् करोति

VERSE: 2
    उभयोर् लोकयोर् अभिजित्यै
    केशश्मश्रु वपते नखानि नि कृन्तते
    मृता वा एषा त्वग् अमेध्या यत् केशश्मश्रु
    मृताम् एव त्वचम् अमेध्याम् अपहत्य यज्ञियो भूत्वा मेधम् उपैति ।
    अङ्गिरसः सुवर्गं लोकम् यन्तो ऽप्सु दीक्षातपसी प्रावेशयन् ।
    अप्सु स्नाति
    साक्षाद् एव दीक्षातपसी अव रुन्द्धे
    तीर्थे स्नाति
    तीर्थे हि ते ताम् प्रावेशयन्
   तीर्थे स्नाति

VERSE: 3
    तीर्थम् एव समानानाम् भवति ।
    अपो ऽश्नाति ।
    अन्तरत एव मेध्यो भवति
    वाससा दीक्षयति
    सौम्यं वै क्षौमं देवतया
    सोमम् एष देवताम् उपैति यो दीक्षते
    सोमस्य तनूर् असि तनुवम् मे पाहीत्य् आह
    स्वाम् एव देवताम् उपैति ।
    अथो आशिषम् एवैतां आ शास्ते ।
    अग्नेस् तूषाधानम् ।
    वायोर् वातपानम्
    पितृणां नीविः ।
   ओषधीनाम् प्रघातः ।

VERSE: 4
    आदित्यानाम् प्राचीनतानः ।
    विश्वेषां देवानाम् ओतुः ।
    नक्षत्राणाम् अतीकाशास्
    तद् वा एतत् सर्वदेवत्यं यद् वासः ।
    यद् वाससा दीक्षयति सर्वाभिर् एवैनं देवताभिर् दीक्षयति
    बहिःप्राणो वै मनुष्यस्
    तस्याशनम् प्राणः ।
    अश्नाति सप्राण एव दीक्षते ।
    आशितो भवति
    यावान् एवास्य प्राणस् तेन सह मेधम् उपैति
    घृतं देवानाम्
    मस्तु पितृणाम् ।
    निष्पक्वम् मनुष्याणाम् ।
    तद् वै

VERSE: 5
    एतत् सर्वदेवत्यं यन् नवनीतम् ।
    यन् नवनीतेनाभ्यङ्क्ते सर्वा एव देवताः प्रीणाति
    प्रच्युतो वा एषो ऽस्माल् लोकाद् अगतो देवलोकं यो दीक्षितः ।
    अन्तरेव नवनीतम् ।
    तस्मान् नवनीतेनाभ्य् अङ्क्ते ।
    अनुलोमम् ।
    यजुषा
    व्यावृत्त्यै ।
    इन्द्रो वृत्रम् अहन्
   तस्य कनीनिका परापतत्
    तद् आञ्जनम् अभवत् ।
   यद् आङ्क्ते चक्षुर् एव भ्रातृव्यस्य वृङ्क्ते
    दक्षिणम् पूर्वम् आङ्क्ते

VERSE: 6
    सव्यम्̇ हि पूर्वम् मनुष्या आञ्जते
    न नि धावते
    नीव हि मनुष्या धावन्ते
    पञ्च कृत्व आऽङ्क्ते
    पञ्चाक्षरा पङ्क्तिः
    पाङ्क्तो यज्ञः ।
    यज्ञम् एवाव रुन्द्धे
    परिमितम् आऽङ्क्ते।
    परिमितम्̇ हि मनुष्या आञ्जते
    सतूलयाऽऽङ्क्ते।
    अपतूलया हि मनुष्या आञ्जते
    व्यावृत्त्यै
    यद् अपतूलयाऽऽञ्जीत वज्र इव स्यात्
   सतूलयाऽङ्क्ते मित्रत्वाय ।

VERSE: 7
    इन्द्रो वृत्रम् अहन् ।
    सो ऽपो ऽभ्य्य् अम्रियत
    तासां यन् मेध्यं यज्ञियम्̇ सदेवम् आसीत् तद् अपोदक्रामत्
    ते दर्भा अभवन्
    यद् दर्भपुञ्जीलैः पवयति या एव मेध्या यज्ञियाः सदेवा आपस् ताभिर् एवैनम् पवयति
    द्वाभ्याम् पवयति ।
    अहोरात्राभ्याम् एवैनम् पवयति
    त्रिभिः पवयति
    त्रय इमे लोकाः ।
    एभिर् एवैनं लोकैः पवयति
    पञ्चभिः

VERSE: 8
    पवयति
    पञ्चाक्षरा पङ्क्तिः
    पाङ्क्तो यज्ञः ।
    यज्ञायैवैनम् पवयति
    षड्भिः पवयति
    षड् वा ऋतवः ।
    ऋतुभिर् एवैनम् पवयति
    सप्तभिः पवयति
    सप्त छन्दाम्̇सि
   छन्दोभिर् एवैनम् पवयति
    नवभिः पवयति
    नव वै पुरुषे प्राणाः
   सप्राणम् एवैनम् पवयति ।
    एकविम्̇शत्या पवयति
    दश हस्त्या अङ्गुलयो दश पद्या आत्मैकविम्̇शः ।
    यावान् एव पुरुषस् तम् अपरिवर्गम्

VERSE: 9
    पवयति
    चित्पतिस् त्वा पुनात्व् इत्य् आह
    मनो वै चित्पतिः ।
    मनसैवैनम् पवयति
    वाक्पतिस् त्वा पुनात्व् इत्य् आह
    वाचैवैनम् पवयति
    देवस् त्वा सविता पुनात्व् इत्य् आह
    सवितृप्रसूत एवैनम् पवयति
    तस्य ते पवित्रपते पवित्रेण यस्मै कम् पुने तच् छकेयम् इत्य् आह ।
    आशिषम् एवैताम् आ शास्ते ॥

6.1.2 अनुवाक 2
दीक्षाहुत्याभिधानम्
VERSE: 1
    यावन्तो वै देवा यज्ञायापुनत त एवाभवन्
    य एवं विद्वान् यज्ञाय पुनीते भवत्य् एव
    बहिः पवयित्वान्तः प्र पादयति
    मनुष्यलोक एवैनम् पवयित्वा पूतं देवलोकम् प्र णयति ।
    अदीक्षित एकयाऽऽहुत्येत्य् आहुः
    स्रुवेण चतस्रो जुहोति दीक्षितत्वाय स्रुचा पञ्चमीम्
    पञ्चाक्षरा पङ्क्तिः
    पाङ्क्तो यज्ञः ।
    यज्ञम् एवाव रुन्द्धे ।
    आकूत्यै प्रयुजे ऽग्नये

VERSE: 2
    स्वाहेत्य् आह ।
    आकूत्या हि पुरुषो यज्ञम् अभि प्रयुङ्क्ते
    यजेयेति
    मेधायै मनसे ऽग्नये स्वाहेत्य् आह
    मेधया हि मनसा पुरुषो यज्ञम् अभिगच्छति
    सरस्वत्यै पूष्णे ऽग्नये स्वाहेत्य् आह
    वाग् वै सरस्वती पृथिवी पूषा
    वाचैव पृथिव्या यज्ञम् प्र युङ्क्ते ।
    आपो देवीर् बृहतीर् विश्वशम्भुव इत्य् आह
   या वै वर्ष्यास् ताः

VERSE: 3
    आपो देवीर् बृहतीर् विश्वशम्भुवः ।
    यद् एतद् यजुर् न ब्रूयाद् दिव्या आपो ऽशान्ता इमं लोकम् आ गच्छेयुः ।
    आपो देवीर् बृहतीर् विश्वशम्भुव इत्य् आह ।
    अस्मा एवैना लोकाय शमयति
    तस्माच् छान्ता इमं लोकम् आ गच्छन्ति
    द्यावापृथिवी इत्य् आह
    द्यावापृथिव्योर् हि यज्ञः ।
    उर्व् अन्तरिक्षम् इत्य् आह ।
    अन्तरिक्षे हि यज्ञः ।
बृहस्पतिर् नो हविषा वृधातु

VERSE: 4
    इत्य् आह।
    ब्रह्म वै देवानाम् बृहस्पतिः ।
    ब्रह्मणैवास्मै यज्ञम् अव रुन्द्धे
    यद् ब्रूयात् ।
    विधेर् इति यज्ञस्थाणुम् ऋच्छेत् ।
    वृधात्व् इत्य् आह यज्ञस्थाणुम् एव परि वृणक्ति
    प्रजापतिर् यज्ञम् असृजत
    सो ऽस्मात् सृष्टः पराङ् ऐत्
    स प्र यजुर् अव्लीनात् प्र साम
    तम् ऋग् उद् अयच्छत् ।
    यद् ऋग् उदयच्छत् तद् औद्ग्रहणस्यौद्ग्रहणत्वम् ॥
   ऋचा

VERSE: 5
    जुहोति यज्ञस्योद्यत्यै ।
    अनुष्टुप् छन्दसाम् उदयच्छद् इत्य् आहुस्
    तस्माद् अनुष्टुभा जुहोति
    यज्ञस्योद्यत्यै
    द्वादश वात्सबन्धान्य् उद् अयच्छन्न् इत्य् आहुस्
    तस्माद् द्वादशभिर् वात्सबन्धविदो दीक्षयन्ति
    सा वा एषर्ग् अनुष्टुग्
    वाग् अनुष्टुग्
    यद् एतयर्चा दीक्षयति वाचैवैनम्̇ सर्वया दीक्षयति
    विश्वे देवस्य नेतुर् इत्य् आह सावित्र्य् एतेन ।
    मर्तो वृणीत सख्यम्

VERSE: 6
    इत्य् आह पितृदेवत्यैतेन।
    विश्वे राय इषुध्यसीत्य् आह वैश्वदेव्य् एतेन
    द्युम्नं वृणीत पुष्यस इत्य् आह पौष्ण्य् एतेन
    सा वा एषर्क् सर्वदेवत्या
    यद् एतयर्चा दीक्षयति सर्वाभिर् एवैनं देवताभिर् दीक्षयति
    सप्ताक्षरम् प्रथमम् पदम् अष्टाक्षराणि त्रीणि
    यानि त्रीणि तान्य् अष्टाव् उप यन्ति
    यानि चत्वारि तान्य् अष्टौ
    यद् अष्टाक्षरा तेन

VERSE: 7
    गायत्री ।
    यद् एकादशाक्षरा तेन त्रिष्टुग्
    यद् द्वादशाक्षरा तेन जगती सा वा एषर्क् सर्वाणि छन्दाम्̇सि
    यद् एतयर्चा दीक्षयति सर्वेभिर् एवैनं छन्दोभिर् दीक्षयति
    सप्ताक्षरम् प्रथमम् पदम् ।
    सप्तपदा शक्वरी
    पशवः शक्वरी
    पशून् एवाव रुन्द्धे ।
    एकस्माद् अक्षराद् अनाप्तम् प्रथमम् पदम् ।
    तस्माद् यद् वाचो ऽनाप्तं तन् मनुष्या उप जीवन्ति
   पूर्णया जुहोति
    पूर्ण इव हि प्रजापतिः
   प्रजापतेर् आप्त्यै
   न्यूनया जुहोति
   न्यूनाद् धि प्रजापतिः प्रजा असृजत प्रजानाम्̇ सृष्ट्यै ॥

6.1.3 अनुवाक 3
  कृष्णाजिनादिभिर्दीक्षाकरणाभिधानम्
VERSE: 1
    ऋक्सामे वै देवेभ्यो यज्ञायातिष्ठमाने कृष्णो रूपं कृत्वाऽपक्रम्यातिष्ठताम् ।
    ते ऽमन्यन्त
    यं वा इमे उपावर्त्स्यतः स इदं भविष्यतीति ते उपामन्त्रयन्त् ते अहोरात्रयोर् महिमानम् अपनिधाय देवान् उपावर्तेताम्
    एष वा ऋचो वर्णो यच् छुक्लं कृष्णाजिनस्य ।
    एष साम्नो यत्कृष्णम्
    ऋक्सामयोः शिल्पे स्थ इत्य् आह ।
    ऋक्सामे एवाव रुन्धे ।
    एषः

VERSE: 2
    वा अह्नो वर्णो यच् छुक्लं कृष्णाजिनस्यैष रात्रिया यत् कृष्णं यद् एवैनयोस् तत्र न्यक्तं तद् एवाव रुन्द्धे
    कृष्णाजिनेन दीक्षयति ब्रह्मणो वा एतद् रूपं यत् कृष्णाजिनम् ब्रह्मणैवैनं दीक्षयति ।
    इमां धियम्̇ शिक्षमाणस्य देवेत्य् आह यथायजुर् एवैतत् ।
    गर्भो वा एष यद् दीक्षित उल्बं वासः प्रोर्णुते तस्मात्

VERSE: 3
    गर्भाः प्रावृता जायन्ते
    न पुरा सोमस्य क्रयाद् अपोर्ण्वीत यत् पुरा सोमस्य क्रयाद् अपोर्ण्वीत गर्भाः प्रजानाम् परापातुकाः स्युः
    क्रीते सोमे ऽपोर्णुते जायत एव तद् अथो यथा वसीयाम्̇सम् प्रत्यपोर्णुते तादृग् एव तद्
    अङ्गिरसः सुवर्गं लोकं यन्त ऊर्जं व्यभजन्त ततो यद् अत्यशिष्यत ते शरा अभवन्न् ऊर्ग् वै शरा यच् छरमयी

VERSE: 4
    मेखला भवत्य् ऊर्जम् एवाव रुन्द्धे
    मध्यतः सं नह्यति मध्यत एवास्मा ऊर्जं दधाति तस्मान् मध्यत ऊर्जा भुञ्जते ।
    ऊर्ध्वं वै पुरुषस्य नाभ्यै मेध्यम् अवाचीनम् अमेध्यं यन् मध्यतः संनह्यति मेध्यं चैवास्यामेध्यं च व्यावर्तयति ।
    इन्द्रो वृत्राय वज्रम् प्राहरत् स त्रेधा व्यभवत् स्फ्यस् तृतीयम्̇ रथस् तृतीयं यूपस् तृतीयम् ॥

VERSE: 5
    ये ऽन्तःशरा अशीर्यन्त ते शरा अभवन् तच् छराणाम्̇ शरत्वम्
    वज्रो वै शराः क्षुत् खलु वै मनुष्यस्य भ्रातृव्यो यच् छरमयी मेखला भवति वज्रेणैव साक्षात् क्षुधम् भ्रातृव्यम् मध्यतो ऽप हते
    त्रिवृद् भवति त्रिवृद् वै प्राणस् त्रिवृतम् एव प्राणम् मध्यतो यजमाने दधाति
    पृथ्वी भवति रज्जूनां व्यावृत्त्यै
    मेखलया यजमानं दीक्षयति योक्त्रेण पत्नीम् मिथुनत्वाय ।

VERSE: 6
    यज्ञो दक्षिणाम् अभ्यध्यायत् ताम्̇ सम् अभवत् तद् इन्द्रो ऽचायत् सो ऽमन्यत यो वा इतो जनिष्यते स इदम् भविष्यतीति ताम् प्राविशत् तस्या इन्द्र एवाजायत
    सो ऽमन्यत
    यो वै मद् इतो ऽपरो जनिष्यते स इदम् भविष्यतीति तस्या अनुमृश्य योनिम् आऽच्छिनत् सा सूतवशाऽभवत् तत् सूत वशायै जन्म ॥

VERSE: 7
    ताम्̇ हस्ते न्य् अवेष्टयत ताम् मृगेषु न्य् अदधात् सा कृष्णविषाणाऽभवद् इन्द्रस्य योनिर् असि मा मा हिम्̇सीर् इति कृष्णविषाणाम् प्र यच्छति सयोनिम् एव यज्ञं करोति सयोनिं दक्षिणाम्̇ सयोनिम् इन्द्रम्̇ सयोनित्वाय
    कृष्यै त्वा सुसस्याया इत्य् आह तस्माद् अकृष्टपच्या ओषधयः पच्यन्ते
    सुपिप्पलाभ्यस् त्वौषधीभ्य इत्य् आह तस्माद् ओषधयः फलं गृह्णन्ति
    यद् धस्तेन

VERSE: 8
    कण्डूयेत पामनम्भावुकाः प्रजाः स्युर् यत् स्मयेत नग्नम्भावुकाः
    कृष्णविषाणया कण्डूयते ऽपिगृह्य स्मयते प्रजानां गोपीथाय
    न पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणाम् अव चृतेद् यत् पुरा दक्षिणाभ्यो नेतोः कृष्णविषाणाम् अवचृतेद् योनिः प्रजानाम् परापातुका स्यात् ।
    नीतासु दक्षिणासु चात्वाले कृष्णविषाणाम् प्रास्यति योनिर् वै यज्ञस्य चात्वालं योनिः कृष्णविषाणा योनाव् एव योनिं दधाति यज्ञस्य सयोनित्वाय ॥

6.1.4 अनुवाक 4
 दण्डादानादिकरणपूर्वकनियमानुष्ठानविधिः
VERSE: 1
    वाग् वै देवेभ्यो ऽपाक्रामद् यज्ञायातिष्ठमाना सा वनस्पतीन् प्राविशत् सैषा वाग् वनस्पतिषु वदति या दुन्दुभौ या तूणवे या वीणायाम् ।
    यद् दीक्षितदण्डम् प्रयच्छति वाचम् एवाव रुन्द्धे ।
    औदुम्बरो भवत्य् ऊर्ग् वा उदुम्बर ऊर्जम् एवाव रुन्द्धे
    मुखेन सम्मितो भवति मुखत एवास्मा ऊर्जं दधाति तस्मान् मुखत ऊर्जा भुञ्जते ।

VERSE: 2
    क्रीते सोमे मैत्रावरुणाय दण्डम् प्र यच्छति मैत्रावरुणो हि पुरस्ताद् ऋत्विग्भ्यो वाचं विभजति ताम् ऋत्विजो यजमाने प्रति ष्ठापयन्ति
    स्वाहा यज्ञम् मनसेत्य् आह मनसा हि पुरुषो यज्ञम् अभिगच्छति
    स्वाहा द्यावापृथिवीभ्याम् इत्य् आह द्यावापृथिव्योर् हि यज्ञः
    स्वाहोरोर् अन्तरिक्षाद् इत्य् आहान्तरिक्षे हि यज्ञः स्वाहा यज्ञं वाताद् आरभ इत्य् आहायम्

VERSE: 3
    वाव यः पवते स यज्ञस् तम् एव साक्षाद् आ रभते
    मुष्टी करोति वाचं यच्छति यज्ञस्य धृत्यै ।
    अदीक्षिष्टायम् ब्राह्मण इति त्रिर् उपाम्̇श्व् आह देवेभ्य एवैनम् प्राह त्रिर् उच्चैर् उभयेभ्य एवैनं देवमनुष्येभ्यः प्राह
    न पुरा नक्षत्रेभ्यो वाचं वि सृजेत् ।
    यत् पुरा नक्षत्रेभ्यो वाचं विसृजेद् यज्ञं वि च्छिन्द्यात् ।

VERSE: 4
    उदितेषु नक्षत्रेषु व्रतं कृणुतेति वाचं वि सृजति यज्ञव्रतो वै दीक्षितो यज्ञम् एवाभि वाचं वि सृजति
    यदि विसृजेद् वैष्णवीम् ऋचम् अनु ब्रूयाद् यज्ञो वै विष्णुर् यज्ञेनैव यज्ञम्̇ सं तनोति
    दैवीं धियम् मनामह इत्य् आह यज्ञम् एव तन् म्रदयति
    सुपारा नो असद् वश इत्य् आह व्युष्टिम् एवाव रुन्द्धे ।

VERSE: 5
    ब्रह्मवादिनो वदन्ति
    होतव्यं दीक्षितस्य गृहा३इ न होतव्या३म् इति
    हविर् वै दीक्षितो यज् जुहुयाद् यजमानस्यावदाय जुहुयाद् यन् न जुहुयाद् यज्ञपरुर् अन्तर् इयाद् ये देवा मनोजाता मनोयुज इत्य् आह
    प्राणा वै देवा मनोजाता मनोयुजस्
    तेष्व् एव परोऽक्षं जुहोति
    तन् नेव हुतं नेवाहुतम् ।
    स्वपन्तं वै दीक्षितम्̇ रक्षाम्̇सि जिघाम्̇सन्त्य् अग्निः

VERSE: 6
    खलु वै रक्षोहाग्ने त्वम्̇ सु जागृहि वयम्̇ सु मन्दिषीमहीत्य् आहाग्निम् एवाधिपां कृत्वा स्वपिति
    रक्षसाम् अपहत्यै ।
    अव्रत्यम् इव वा एष करोति यो दीक्षितः स्वपिति त्वम् अग्ने व्रतपा असीत्य् आहाग्निर् वै देवानां व्रतपतिः स एवैनं व्रतम् आलम्भयति
    देव आ मर्त्येष्वा इत्य् आह
    देवः

VERSE: 7
    ह्य् एष सन् मर्त्येषु
    त्वं यज्ञेष्व् ईड्य इत्य् आहैतम्̇ हि यज्ञेष्व् ईडते ।
    अप वै दीक्षितात् सुषुपुष इन्द्रियं देवताः क्रामन्ति
    विश्वे देवा अभि माम् आववृत्रन्न् इत्य् आह ।
    इन्द्रियेणैवैनं देवताभिः सं नयति
    यद् एतद् यजुर् न ब्रूयाद् यावत एव पशून् अभि दीक्षेत तावन्तो ऽस्य पशवः स्यू रास्वेयत् ॥

VERSE: 8
    सोमाऽऽभूयो भरेत्य् आहापरिमितान् एव पशून् अव रुन्द्धे
    चन्द्रमसि मम भोगाय भवेत्य् आह
    यथादेवतम् एवैनाः प्रति गृह्णाति
    वायवे त्वा वरुणाय त्वेति यद् एवम् एता नानुदिशेद् अयथा देवतं दक्षिणा गमयेद् आ देवताभ्यो वृश्च्येत
    यद् एवम् एता अनुदिशति यथादेवतम् एव दक्षिणा गमयति न देवताभ्य आ वृश्च्यते

VERSE: 9
    देवीर् आपो अपां नपाद् इत्य् आह
    यद् वो मेध्यं यज्ञियम्̇ सदेवं तद् वो माव क्रमिषम् इति वावैतद् आह ।
    अच्छिन्नं तन्तुम् पृथिव्या अनु गेषम् इत्य् आह सेतुम् एव कृत्वाऽत्य् एति ॥

6.1.5 अनुवाक 5
 प्रायणीया विधानम्
VERSE: 1
    देवा वै देवयजनम् अध्यवसाय दिशो न प्राजानन् ते ऽन्योऽन्यम् उपाधावन्
    त्वया प्र जानाम त्वयेति तेऽदित्याम्̇ सम् अध्रियन्त
    त्वया प्र जानामेति साब्रवीद् वरं वृणै मत्प्रायणा एव वो यज्ञा मदुदयना असन्न् इति
    तस्माद् आदित्यः प्रायणीयो यज्ञानाम् आदित्य उदयनीयः
    पञ्च देवता यजति पञ्च दिशो दिशाम् प्रज्ञात्यै ॥

VERSE: 2
    अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञम् एवाव रुन्द्धे
    पथ्याम्̇ स्वस्तिम् अयजन् प्राचीम् एव तया दिशम् प्राजानन्न्
 अग्निना दक्षिणा
 सोमेन प्रतीचीम्
̇ सवित्रोदीचीम्
अदित्योर्ध्वाम्
    पथ्याम्̇ स्वस्तिं यजति प्राचीम् एव तया दिशम् प्र जानाति
    पथ्याम्̇ स्वस्तिम् इष्ट्वाग्नीषोमौ यजति चक्षुषी वा एते यज्ञस्य यद् अग्नीषोमौ ताभ्याम् एवानु पश्यति ॥

VERSE: 3
    अग्नीषोमाव् इष्ट्वा सवितारं यजति सवितृप्रसूत एवानु पश्यति
    सवितारम् इष्ट्वाऽदितिं यजतीयं वा अदितिर् अस्याम् एव प्रतिष्ठायानु पश्यति ।
    अदितिम् इष्ट्वा मारुतीम् ऋचम् अन्वाह विशां क्लृप्त्यै
    ब्रह्मवादिनो वदन्ति
    प्रयाजवद् अननूयाजम् प्रायणीयं कार्यम् अनूयाजवत्

VERSE: 4
    अप्रयाजम् उदयनीयम् इति ।
    इमे वै प्रयाजा अमी अनूयाजाः सैव सा यज्ञस्य संततिस्
    तत् तथा न कार्यम् आत्मा वै प्रयाजाः प्रजानूयाजा यत् प्रयाजान् अन्तरियाद् आत्मानम् अन्तर् इयाद् यद् अनूयाजान् अन्तरियात् प्रजाम् अन्तर् इयाद् यतः खलु वै यज्ञस्य विततस्य न क्रियते तद् अनु यज्ञः परा भवति
    यज्ञम् पराभवन्तं यजमानो ऽनु

VERSE: 5
    परा भवति
    प्रयाजवद् एवानूयाजवत् प्रायणीयं कार्यम् प्रयाजवद् अनूयाजवद् उदयनीयं नात्मानम् अन्तरेति न प्रजां न यज्ञः पराभवति न यजमानः
    प्रायणीयस्य निष्कास उदयनीयम् अभि निर् वपति सैव सा यज्ञस्य संततिः ।
    याः प्रायणीयस्य याज्या यत् ता उदयनीयस्य याज्याः कुर्यात् पराङ् अमुं लोकम् आ रोहेत् प्रमायुकः स्यात् ।
    याः प्रायणीयस्य पुरोऽनुवाक्यास् ता उदयनीयस्य याज्याः करोत्य् अस्मिन्न् एव लोके प्रति तिष्ठति ॥

6.1.6 अनुवाक 6
अरुणया सोमक्रयाभिधानम्
VERSE: 1
    कद्रूश् च वै सुपर्णी चात्मरूपयोर् अस्पर्धेताम् ।
    सा कद्रूः सुपर्णीम् अजयत्
    साब्रवीत्
    तृतीयस्याम् इतो दिवि सोमस् तम् आ हर तेनात्मानं निष्क्रीणीष्वेति ।
    इयं वै कद्रूर् असौ सुपर्णी
    छन्दाम्̇सि सौपर्णेयाः
    साब्रवीत् ।
    अस्मै वै पितरौ पुत्रान् बिभृतस् तृतीयस्याम् इतो दिवि सोमस् तम् आ हर तेनात्मानं निष् क्रीणीष्व

VERSE: 2
    इति मा कद्रूर् अवोचद् इति
    जगत्य् उद् अपतच् चतुर्दशाक्षरा सती
    साऽप्राप्य न्य् अवर्तत
    तस्यै द्वे अक्षरे अमीयेताम् ।
    सा पशुभिश् च दीक्षया चाऽगच्छत्
    तस्माज् जगती छन्दसाम् पशव्यतमा
    तस्मात् पशुमन्तं दीक्षोप नमति
    त्रिष्टुग् उद् अपतत् त्रयोदशाक्षरा सती
    साऽप्राप्य न्य् अवर्तत
    तस्यै द्वे अक्षरे अमीयेताम् ।
   सा दक्षिणाभिश् च

VERSE: 3
    तपसा चागच्छत्
    तस्मात् त्रिष्टुभो लोके माध्यंदिने सवने दक्षिणा नीयन्ते ।
    एतत् खलु वाव तप इत्य् आहुर् यः स्वं ददातीति
    गायत्र्य् उद् अपतच् चतुरक्षरा सत्य् अजया ज्योतिषा
    तम् अस्या अजाऽभ्यरुन्द्ध
    तद् अजाया अजत्वम् ।
    सा सोमं चाऽहरच् चत्वारि चाक्षराणि
    साष्टाक्षरा समपद्यत
    ब्रह्मवादिनो वदन्ति ।

VERSE: 4
    कस्मात् सत्याद् गायत्री कनिष्ठा छन्दसाम्̇ सती यज्ञमुखम् परीयायेति
    यद् एवादः सोमम् आऽहरत् तस्माद् यज्ञमुखम् पर्य् ऐत्
    तस्मात् तेजस्विनीतमा
    पद्भ्यां द्वे सवने समगृह्णान् मुखेनैकम् ।
    यम् मुखेन समगृह्णात् तद् अधयत्
    तस्माद् द्वे सवने शुक्रवती प्रातःसवनं च माध्यंदिनं च
    तस्मात् तृतीयसवन ऋजीषम् अभि षुण्वन्ति
    धीतम् इव हि मन्यन्ते ॥

VERSE: 5
    आशिरम् अव नयति सशुक्रत्वायाथो सम् भरत्य् एवैनत्
    तम्̇ सोमम् आह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात्
    स तिस्रो रात्रीः परिमुषितो ऽवसत्
    तस्मात् तिस्रो रात्रीः क्रीतः सोमो वसति
    ते देवा अब्रुवन् ।
    स्त्रीकामा वै गन्धर्वा स्त्रिया निष्क्रीणामेति
    ते वाचम्̇ स्त्रियम् एकहायनीं कृत्वा तया निर् अक्रीणन् ।
    सा रोहिद् रूपं कृत्वा गन्धर्वेभ्यः

VERSE: 6
    अपक्रम्यातिष्ठत्
    तद् रोहितो जन्म
    ते देवा अब्रुवन् ।
    अप युष्मद् अक्रमीन् नास्मान् उपावर्तते वि ह्वयामहा इति
    ब्रह्म गन्धर्वा अवदन्न् अगायन् देवाः
    सा देवान् गायत उपावर्तत
    तस्माद् गायन्तम्̇ स्त्रियः कामयन्ते
    कामुका एनम्̇ स्त्रियो भवन्ति य एवं वेदाथो य एवं विद्वान् अपि जन्येषु भवति तेभ्य एव ददत्य् उत यद् बहुतयाः

VERSE: 7
    भवन्ति ।
    एकहायन्या क्रीणाति
    वाचैवैनम्̇ सर्वया क्रीणाति
    तस्माद् एकहायना मनुष्या वाचं वदन्ति ।
    अकूटयाऽकर्णयाऽकणायाऽश्लोणयाऽसप्तशफया क्रीणाति
    सर्वयैवैनं क्रीणाति
    यच् छ्वेतया क्रीणीयाद् दुश्चर्मा यजमानः स्यात् ।
    यत् कृष्णयानुस्तरणी स्यात्
    प्रमायुको यजमानः स्यात् ।
  यद् द्विरूपया वार्त्रघ्नी स्यात्
   स वान्यं जिनीयात् तं वान्यो जिनीयात् ।
   अरुणया पिङ्गाक्ष्या क्रीणाति ।
    एतद् वै सोमस्य रूपम् ।
    स्वयैवैनं देवतया क्रीणाति ॥

6.1.7 अनुवाक 7 अरुणया सोमक्रयप्रकाराभिधानम्
VERSE: 1
    तद् धिरण्यम् अभवत्
    तस्माद् अद्भ्यो हिरण्यम् पुनन्ति
    ब्रह्मवादिनो वदन्ति
    कस्मात् सत्याद् अनस्थिकेन प्रजाः प्रवीयन्ते ऽस्थन्वतीर् जायन्त इति
    यद् धिरण्यं घृते ऽवधाय जुहोति तस्माद् अनस्थिकेन प्रजाः प्र वीयन्ते ऽस्थन्वतीर् जायन्ते ।
    एतद् वा अग्नेः प्रियं धाम यद् घृतं तेजो हिरण्यम्
    इयं ते शुक्र तनूर् इदं वर्च इत्य् आह
    सतेजसम् एवैनम्̇ सतनुम् ॥

VERSE: 2
    करोति ।
    अथो सम् भरत्य् एवैनम् ।
    यद् अबद्धम् अवदध्याद् गर्भाः प्रजानाम् परापातुकाः स्युः ।
    बद्धम् अव दधाति गर्भाणां धृत्यै
    निष्टर्क्यम् बध्नाति
    प्रजानाम् प्रजननाय
    वाग् वा एषा यत् सोमक्रयणी
    जूर् असीत्य् आह
    यद् धि मनसा जवते तद् वाचा वदति
    धृता मनसेत्य् आह
    मनसा हि वाग् धृता
    जुष्टा विष्णव इत्य् आह ।

VERSE: 3
    यज्ञो वै विष्णुः ।
    यज्ञायैवैनां जुष्टां करोति
    तस्यास् ते सत्यसवसः प्रसव इत्य् आह
    सवितृप्रसूताम् एव वाचम् अव रुन्द्धे
    काण्डेकाण्डे वै क्रियमाणे यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति ।
    एष खलु वा अरक्षोहतः पन्था यो ऽग्नेश् च सूर्यस्य च
    सूर्यस्य चक्षुर् आरुहम् अग्नेर् अक्ष्णः कनीनिकाम् इत्य् आह
    य एवारक्षोहतः पन्थास् तम्̇ समारोहति

VERSE: 4
    वाग् वा एषा यत् सोमक्रयणी
    चिद् असि मनासीत्य् आह
    शास्त्य् एवैनाम् एतत्
    तस्माच् छिष्टाः प्रजा जायन्ते
    चिद् असीत्य् आह
    यद् धि मनसा चेतयते तद् वाचा वदति
    मनासीत्य् आह
    यद् धि मनसाभिगच्छति तत् करोति
    धीर् असीत्य् आह
    यद् धि मनसा ध्यायति तद् वाचा

VERSE: 5
    वदति
    दक्षिणासीत्य् आह
    दक्षिणा ह्य् एषा
    यज्ञियासीत्य् आह
    यज्ञियाम् एवैनां करोति
    क्षत्रियासीत्य् आह
    क्षत्रिया ह्य् एषा ।
    अदितिर् अस्य् उभयतःशीर्ष्णीत्य् आह
    यद् एवादित्यः प्रायणीयो यज्ञानाम् आदित्य उदयनीयस् तस्माद् एवम् आह
   यद् अबद्धा स्याद् अयता स्यात् ।
    यत् पदिबद्धानुस्तरणी स्यात्
    प्रमायुको यजमानः स्यात् ॥

VERSE: 6
    यत् कर्णगृहीता वार्त्रघ्नी स्यात्
    स वान्यं जिनीयात् तं वान्यो जिनीयात् ।
    मित्रस् त्वा पदि बध्नात्व् इत्य् आह
    मित्रो वै शिवो देवानाम् ।
    तेनैवैनाम् पदि बध्नाति
    पूषाध्वनः पात्व् इत्य् आह ।
    इयं वै पूषा ।
    इमाम् एवास्या अधिपाम् अकर् ।
    समष्ट्यै ।
    इन्द्रायाध्यक्षायेत्य् आह ।
    इन्द्रम् एवास्या अध्यक्षं करोति ॥

VERSE: 7
    अनु त्वा माता मन्यताम् अनु पितेत्य् आह ।
    अनुमतयैवैनया क्रीणाति
    सा देवि देवम् अच्छेहीत्य् आह
    देवी ह्य् एषा देवः सोमः ।
    इन्द्राय सोमम् इत्य् आह ।
    इन्द्राय हि सोम आह्रियते
    यद् एतद् यजुर् न ब्रूयात् पराच्य् एव सोमक्रयणीयात् ।
    रुद्रस् त्वाऽऽ वर्तयत्वित्याह
    रुद्रो वै क्रूरः

VERSE: 8
    देवानाम् ।
    तम् एवास्यै परस्ताद् दधात्य् आवृत्त्यै
    क्रूरम् इव वा एतत् करोति यद् रुद्रस्य कीर्तयति
    मित्रस्य पथेत्य् आह
    शान्त्यै
    वाचा वा एष वि क्रीणीते यः सोमक्रयण्या
    स्वस्ति सोमसखा पुनर् एहि सह रय्येत्य् आह
    वाचैव विक्रीय पुनर् आत्मन् वाचं धत्ते ।
    अनुपदासुकाऽस्य वाग् भवति य एवं वेद ॥

6.1.8 अनुवाक 8 पदसंग्रहणाभिधानम्
VERSE: 1
    षट् पदान्य् अनु नि क्रामति
    षडहं वाङ् नाति वदति ।
    उत संवत्सरस्यायने यावत्य् एव वाक् ताम् अव रुन्द्धे
    सप्तमे पदे जुहोति
    सप्तपदा शक्वरी
    पशवः शक्वरी
    पशून् एवाव रुन्द्धे
    सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाम्̇सि ।
    उभयस्यावरुद्ध्यै
    वस्व्य् असि रुद्राऽसीत्य् आह
    रूपम् एवास्या एतन् महिमानम्

VERSE: 2
    व्याचष्टे
    बृहस्पतिस् त्वा सुम्ने रण्वत्व् इत्याह
    ब्रह्म वै देवानाम् बृहस्पतिः ।
    ब्रह्मणैवास्मै पशून् अव रुन्द्धे
    रुद्रो वसुभिर् आ चिकेत्व् इत्य् आह ।
    आवृत्त्यै
    पृथिव्यास् त्वा मूर्धन्न् आ जिघर्मि देवयजन इत्य् आह
    पृथिव्या ह्य् एष मूर्धा यद् देवयजनम्
    इडायाः पद इत्य् आह ।
   इडायै ह्य् एतत् पदं यत् सोमक्रयण्यै
   घृतवति स्वाहा

VERSE: 3
    इत्य् आह
    यद् एवास्यै पदाद् घृतम् अपीड्यत तस्माद् एवम् आह
    यद् अध्वर्युर् अनग्नाव् आहुतिं जुहुयाद् अन्धो ऽध्वर्युः भवति न यज्ञम्̇ रक्षाम्̇सि घ्नन्ति
    काण्डेकाण्डे वै क्रियमाणे यज्ञम्̇ रक्षाम्̇सि जिघाम्̇सन्ति
    परिलिखितम्̇ रक्षः परिलिखिता अरातय इत्य् आह
    रक्षसाम् अपहत्यै

VERSE: 4
    इदम् अहम्̇ रक्षसो ग्रीवा अपि कृन्तामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इत्य् आह
    द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश् चैनं द्वेष्टि तयोर् एवानन्तरायं ग्रीवाः कृन्तति
    पशवो वै सोमक्रयण्यै पदम् ।
    यावत्त्मूतम्̇ सं वपति
    पशून् एवाव रुन्द्धे ।
    अस्मे राय इति सं वपति ।
    आत्मानम् एवाध्वर्युः

VERSE: 5
    पशुभ्यो नान्तर् एति
    त्वे राय इति यजमानाय प्र यच्छति
    यजमान एव रयिं दधाति
    तोते राय इति पत्नियाः ।
    अर्धो वा एष आत्मनो यत् पत्नी
    यथा गृहेषु निधत्ते तादृग् एव तत्
    त्वष्टीमती ते सपेयेत्य् आह
    त्वष्टा वै पशूनाम् मिथुनानाम्̇ रूपकृत् ।
    रूपम् एव पशुषु दधाति ।
    अस्मै वै लोकाय गार्हपत्य आ धीयते ऽमुष्मा आहवनीयः ।
    यद् गार्हपत्य उपवपेद् अस्मिम्̐ लोके पशुमान्त् स्यात् ।
    यद् आहवनीये ऽमुष्मिम्̐ लोके पशुमान्त् स्यात् ।
   उभयोर् उप वपति ।
    उभयोर् एवैनं लोकयोः पशुमन्तं करोति ॥

6.1.9 अनुवाक 9 सोमोन्मानाभिधानम्
VERSE: 1
    ब्रह्मवादिनो वदन्ति
    विचित्यः सोमा3 न विचित्या3 इति
    सोमो वा ओषधीनाम्̇ राजा
    तस्मिन् यद् आपन्नं ग्रसितम् एवास्य तत् ।
    यद् विचिनुयाद् यथाऽऽस्याद् ग्रसितं निष्खिदति तादृग् एव तत् ।
    यन् न विचिनुयाद् यथाऽक्षन्न् आपन्नं विधावति तादृग् एव तत्
    क्षोधुको ऽध्वर्युः स्यात् क्षोधुको यजमानः
    सोमविक्रयिन्त् सोमम्̇ शोधयेत्य् एव ब्रूयात् ।
    यदीतरम्

VERSE: 2
    यदीतरम् उभयेनैव सोमविक्रयिणम् अर्पयति
    तस्मात् सोमविक्रयी क्षोधुकः ।
    अरुणो ह स्माहौपवेशिः
    सोमक्रयण एवाहं तृतीयसवनम् अव रुन्ध इति
    पशूनां चर्मन् मिमीते पशून् एवाव रुन्द्धे
    पशवो हि तृतीयम्̇ सवनम् ।
    यं कामयेत ।
    अपशुः स्याद् इत्य् ऋक्षतस् तस्य मिमीत ।
    ऋक्षं वा अपशव्यम्
    अपशुर् एव भवति
    यं कामयेत
    पशुमान्त् स्यात् ॥

VERSE: 3
    इति लोमतस् तस्य मिमीत ।
    एतद् वै पशूनाम्̇ रूपम् ।
    रूपेणैवास्मै पशून् अव रुन्द्धे
    पशुमान् एव भवति ।
    अपाम् अन्ते क्रीणाति
    सरसम् एवैनं क्रीणाति ।
    अमात्यो ऽसीत्य् आह ।
    अमैवैनं कुरुते
    शुक्रस् ते ग्रह इत्य् आह
    शुक्रो ह्य् अस्य ग्रहः ।
    न साऽच्छ याति
    महिमानम् एवास्याच्छ याति ।
    अनसा

VERSE: 4
    अच्छ याति
    तस्माद् अनोवाह्यम्̇ समे जीवनम् ।
    यत्र खलु वा एतम्̇ शीर्ष्णा हरन्ति
    तस्माच् छीर्षहार्यं गिरौ जीवनम्
    अभि त्यं देवम्̇ सवितारम् इत्य् अतिच्छन्दसर्चा मिमीते ।
    अतिच्छन्दा वै सर्वाणि छन्दाम्̇सि
    सर्वेभिर् एवैनं छन्दोभिर् मिमीते
    वर्ष्म वा एषा छन्दसां यद् अतिच्छन्दाः ।
    यद् अतिच्छन्दसर्चा मिमीते वर्ष्मैवैनम्̇ समानानां करोति ।
   एकयैकयोत्सर्गम्

VERSE: 5
    मिमीते ऽयातयाम्नियायातयाम्नियैवैनम् मिमीते
    तस्मान् नाना वीर्या अङ्गुलयः
    सर्वास्व् अङ्गुष्ठम् उप नि गृह्णाति
    तस्मात् समावद्वीर्यो ऽन्याभिर् अङ्गुलिभिस्
    तस्मात् सर्वा अनु सं चरति
    यत् सह सर्वाभिर् मिमीत सम्̇श्लिष्टा अङ्गुलयो जायेरन् ।
    एकयैकयोत्सर्गम् मिमीते
    तस्माद् विभक्ता जायन्ते
    पञ्च कृत्वो यजुषा मिमीते
    पञ्चाक्षरा पङ्क्तिः
   पाङ्क्तो यज्ञः ।
   यज्ञम् एवाव रुन्द्धे
    पञ्च कृत्वस् तूष्णीम्

VERSE: 6
    दश सम् पद्यन्ते
    दशाक्षरा विराड्
    अन्नं विराड्
    विराजैवान्नाद्यम् अव रुन्द्धे
    यद् यजुषा मिमीते भूतम् एवाव रुन्द्धे
    यत् तूष्णीम् भविष्यत्
    यद् वै तावान् एव सोमः स्याद् यावन्तम् मिमीते यजमानस्यैव स्यान् नापि सदस्यानाम्
    प्रजाभ्यस् त्वेत्य् उप समूहति
    सदस्यान् एवान्वाभजति
    वाससोप नह्यति
   सर्वदेवत्यं वै

VERSE: 7
    वासः
    सर्वाभिर् एवैनं देवताभिः सम् अर्धयति
    पशवो वै सोमः
    प्राणाय त्वेत्य् उप नह्यति
    प्राणम् एव पशुषु दधाति
    व्यानाय त्वेत्य् अनु शृन्थति
    व्यानम् एव पशुषु दधाति
    तस्मात् स्वपन्तम् प्राणा न जहति ॥

6.1.10 अनुवाक 10 अन्यैः सोमक्रयाभिधानम्
VERSE: 1
    यत् कलया ते शफेन ते क्रीणानीति पणेतागोअर्घम्̇ सोमं कुर्याद् अगोअर्घं यजमानम् अगोअर्घम् अध्वर्युम् ।
    गोस् तु महिमानं नाव तिरेत् ।
    गवा ते क्रीणानीत्य् एव ब्रूयात् ।
    गोअर्घम् एव सोमं करोति गोअर्घं यजमानं गोअर्घम् अध्वर्युम् ।
    न गोर् महिमानम् अव तिरति ।
    अजया क्रीणाति
    सतपसम् एवैनं क्रीणाति
    हिरण्येन क्रीणाति
    सशुक्रम् एव

VERSE: 2
    एनं क्रीणाति
    धेन्वा क्रीणाति
    साशिरम् एवैनं क्रीणाति ।
    ऋषभेण क्रीणाति
    सेन्द्रम् एवैनं क्रीणाति ।
    अनडुहा क्रीणाति
    वह्निर् वा अनड्वान्
    वह्निनैव वह्नि यज्ञस्य क्रीणाति
    मिथुनाभ्यां क्रीणाति
    मिथुनस्यावरुद्ध्यै
    वाससा क्रीणाति
    सर्वदेवत्यं वै वासः सर्वाभ्य एवैनं देवताभ्यः क्रीणाति
    दश सम् पद्यन्ते
    दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्द्धे ॥

VERSE: 3
    तपसस् तनूर् असि प्रजापतेर् वर्ण इत्य् आह
    पशुभ्य एव तद् अध्वर्युर् नि ह्नुत आत्मनो ऽनाव्रस्काय गच्छति श्रियम् प्र पशून् आप्नोति य एवं वेद
    शुक्रं ते शुक्रेण क्रीणामीत्य् आह यथायजुर् एवैतत् ।
    देवा वै येन हिरण्येन सोमम् अक्रीणन् तत् अभीषहा पुनर् आददत को हि तेजसा विक्रेष्यत इति
    येन हिरण्येन

VERSE: 4
    सोमं क्रीणीयात् तद् अभीषहा पुनर् आ ददीत तेज एवात्मन् धत्ते ।
    अस्मे ज्योतिः सोमविक्रयिणि तम इत्य् आह
    ज्योतिर् एव यजमाने दधाति
    तमसा सोमविक्रयिणम् अर्पयति
    यद् अनुपग्रथ्य हन्याद् दन्दशूकास् ताम्̇ समाम्̇ सर्पाः स्युः ।
    इदम् अहम्̇ सर्पाणां दन्दशूकानां ग्रीवा उप ग्रथ्नामीत्य् आहादन्दशूकास् ताम्̇ समाम्̇ सर्पा भवन्ति तमसा सोमविक्रयिणं विध्यति
    स्वान

VERSE: 5
    भ्राजेत्य् आहैते वा अमुष्मिम्̐ लोके सोमम् अरक्षन् तेभ्यो ऽधि सोमम् आहरन्
    यद् एतेभ्यः सोमक्रयणान् नानुदिशेद् अक्रीतो ऽस्य सोमः स्यान् नास्यैते ऽमुष्मिम्̐ लोके सोमम्̇ रक्षेयुः ।
    यद् एतेभ्यः सोमक्रयणान् अनुदिशति क्रीतो ऽस्य सोमो भवत्य् एते ऽस्यामुष्मिम्̐ लोके सोमम्̇ रक्षन्ति ॥

6.1.11 अनुवाक 11 क्रीतसोमस्य शकटेन नयनाभिधानम्
VERSE: 1
    वारुणो वै क्रीतः सोम उपनद्धः ।
    मित्रो न एहि सुमित्रधा इत्य् आह
    शान्त्यै ।
    इन्द्रस्योरुम् आ विश दक्षिणम् इत्य् आह
    देवा वै यम्̇ सोमम् अक्रीणन् तम् इन्द्रस्योरौ दक्षिण आसादयन् ।
    एष खलु वा एतर्हीन्द्रो यो यजते
    तस्माद् एवम् आह ।
    उद् आयुषा स्वायुषेत्य् आह
    देवता एवान्वारभ्योत्

VERSE: 2
    तिष्ठति ।
    उर्व् अन्तरिक्षम् अन्व् इहीत्य् आह ।
    अन्तरिक्षदेवत्यो ह्य् एतर्हि सोमः ।
    अदित्याः सदो ऽस्य् अदित्याः सद आ सीदेत्य् आह
    यथायजुर् एवैतत् ।
    वि वा एनम् एतद् अर्धयति यद् वारुणम्̇ सन्तम् मैत्रं करोति
    वारुण्यर्चाऽऽ सादयतिस्वयैवैनं देवतया सम् अर्धयति
    वाससा पर्यानह्यति
    सर्वदेवत्यं वै वासः
    सर्वाभिर् एव

VERSE: 3
    एनं देवताभिः सम् अर्धयति ।
    अथो रक्षसाम् अपहत्यै
    वनेषु व्यन्तरिक्षं ततानेत्य् आह
    वनेषु हि व्यन्तरिक्षं ततान्
    वाजम् अर्वत्स्व् इत्य् आह
    वाजम्̇ ह्य् अर्वत्सु
    पयो अघ्नियास्व् इत्य् आह
    पयो ह्य् अघ्नियासु
    हृत्सु क्रतुम् इत्य् आह
    हृत्सु हि क्रतुम् ।
    वरुणो विक्ष्व् अग्निम् इत्य् आह
    वरुणो हि विक्ष्व् अग्निम् ।
    दिवि सूर्यम्

VERSE: 4
    इत्य् आह
    दिवि हि सूर्यम् ।
    सोमम् अद्राव् इत्य् आह
    ग्रावाणो वा अद्रयस्
    तेषु वा एष सोमं दधाति यो यजते
    तस्माद् एवम् आह ।
    उद् उ त्यं जातवेदसम् इति सौर्यर्चा कृष्णाजिनम् प्रत्यानह्यति
    रक्षसाम् अपहत्यै ।
    उस्राव् एतं धूर्षाहाव् इत्य् आह
    यथायजुर् एवैतत्
    प्र च्यवस्व भुवस् पत इत्य् आह
    भूतानाम्̇ हि

VERSE: 5
    एष पतिः ।
    विश्वान्य् अभि धामानीत्य् आह
    विश्वानि ह्य् एषो ऽभि धामानि प्रच्यवते
    मा त्वा परिपरी विदद् इत्य् आह
    यद् एवादः सोमं आह्रियमाणं गन्धर्वो विश्वावसुः पर्यमुष्णात् तस्माद् एवम् आह ।
    अपरिमोषाय
    यजमानस्य स्वस्त्ययन्य् असीत्य् आह
    यजमानस्यैवैष यज्ञस्यान्वारम्भः ।
    अनवछित्त्यै
   वरुणो वा एष यजमानम् अभ्य् ऐति यत्

VERSE: 6
    क्रीतः सोम उपनद्धः ।
    नमो मित्रस्य वरुणस्य चक्षस इत्य् आह
    शान्त्यै ।
    आ सोमं वहन्ति ।
    अग्निना प्रति तिष्ठते
    तौ सम्भवन्तौ यजमानम् अभि सम् भवतः
    पुरा खलु वावैष मेधायात्मानम् आरभ्य चरति यो दीक्षितः ।
    यद् अग्नीषोमीयम् पशुम् आलभत आत्मनिष्क्रयण एवास्य स
    तस्मात् तस्य नाऽऽश्यम्
    पुरुषनिष्क्रयण इव हि ।
   अथो खल्व् आहुः ।
   अग्नीषोमाभ्यां वा इन्द्रो वृत्रम् अहन्न् इति
   यद् अग्नीषोमीयम् पशुम् आलभते वार्त्रघ्न एवास्य स
    तस्माद् वाश्यम् ।
    वारुण्यर्चा परि चरति
   स्वयैवैनं देवतया परि चरति ॥