तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ६/प्रपाठकः २

6.2 प्रपाठक: 2
6.2.1 अनुवाक 1 आतिथ्येष्ट्यभिधानम्
1 यद् उभौ विमुच्यातिथ्यं गृह्णीयाद् यज्ञं वि छिन्द्यात् । यद् उभाव् अविमुच्य यथानागतायातिथ्यं क्रियते तादृग् एव तत् । विमुक्तो ऽन्यो ऽनड्वान् भवत्य् अविमुक्तो ऽन्यो ऽथाऽऽतिथ्यं गृह्णाति यज्ञस्य संतत्यै पत्न्य् अन्वारभते पत्नी हि पारीणह्यस्येशे पत्नियैवानुमतं निर् वपति यद् वै पत्नी यज्ञस्य करोति मिथुनं तत् । अथो पत्निया एव
2 एष यज्ञस्यान्वारम्भो ऽनवछित्त्यै यावद्भिर् वै राजानुचरैर् आगच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दाꣳसि खलु वै सोमस्य राज्ञो ऽनुचराणि । अग्नेर् आतिथ्यम् असि विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति सोमस्यातिथ्यम् असि विष्णवे त्वेत्य् आह त्रिष्टुभ एवैतेन करोति । अतिथेर् आतिथ्यम् असि विष्णवे त्वेत्य् आह जगत्यै
3 एवैतेन करोति । अग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वेत्य् आहानुष्टुभ एवैतेन करोति श्येनाय त्वा सोमभृते विष्णवे त्वेत्य् आह गायत्रिया एवैतेन करोति पञ्च कृत्वो गृह्णाति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञम् एवाव रुन्द्धे ब्रह्मवादिनो वदन्ति कस्मात् सत्याद् गायत्रिया उभयत आतिथ्यस्य क्रियत इति यद् एवादः सोमम् आ
4 अहरत् तस्माद् गायत्रिया उभयत आतिथ्यस्य क्रियते पुरस्ताच् चोपरिष्टाच् च शिरो वा एतद् यज्ञस्य यद् आतिथ्यं नवकपालः पुरोडाशो भवति तस्मान् नवधा शिरो विष्यूतम् । नवकपालः पुरोडाशो भवति ते त्रयस् त्रिकपालास् त्रिवृता स्तोमेन सम्मितास् तेजस् त्रिवृत् तेज एव यज्ञस्य शीर्षन् दधाति नवकपालः पुरोडाशो भवति ते त्रयस् त्रिकपालास् त्रिवृता प्राणेन सम्मितास् त्रिवृद् वै ॥
5 प्राणस् त्रिवृतम् एव प्राणम् अभिपूर्वं यज्ञस्य शीर्षन् दधाति प्रजापतेर् वा एतानि पक्ष्माणि यद् अश्ववाला ऐक्षवी तिरश्ची यद् आश्ववालः प्रस्तरो भवत्य् ऐक्षवी तिरश्ची प्रजापतेर् एव तच् चक्षुः सम् भरति देवा वै या आहुतीर् अजुहवुस् ता असुरा निष्कावम् आदन् ते देवाः कार्ष्मर्यम् अपश्यन् कर्मण्यो वै कर्मैनेन कुर्वीतेति ते कार्ष्मर्यमयान् परिधीन्
6 अकुर्वत तैर् वै ते रक्षाꣳस्य् अपाघ्नत यत् कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसाम् अपहत्यै सꣳ स्पर्शयति रक्षसाम् अनन्ववचाराय न पुरस्तात् परि दधात्य् आदित्यो ह्य् एवोद्यन् पुरस्ताद् रक्षाꣳस्य् अपहन्ति ।
ऊर्ध्वे समिधाव् आ दधात्य् उपरिष्टाद् एव रक्षाꣳस्य् अपहन्ति यजुषान्यां तूष्णीम् अन्याम् मिथुनत्वाय द्वे आ दधाति द्विपाद् यजमानः प्रतिष्ठित्यै ब्रह्मवादिनो वदन्ति ।
7 अग्निश् च वा एतौ सोमश् च कथा सोमायातिथ्यं क्रियते नाग्नय इति यद् अग्नाव् अग्निम् मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते । अथो खल्व् आहुर् अग्निः सर्वा देवता इति यद् धविर् आसाद्याग्निम् मन्थति हव्यायैवाऽऽसन्नाय सर्वा देवता जनयति ॥

6.2.2 अनुवाक 2 तानूनप्त्र्येष्ट्यभिधानम्
1 देवासुराः संयत्ता आसन् ते देवा मिथो विप्रिया आसन् ते ऽन्योऽन्यस्मै ज्यैष्ठ्यायातिष्ठमानाः पञ्चधा व्यक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैर् बृहस्पतिर् विश्वैर् देवैस् ते ऽमन्यन्त । असुरेभ्यो वा इदम् भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः स्मो या न इमाः प्रियास् तनुवस् ताः समवद्यामहै ताभ्यः स निर् ऋच्छाद् यः
2 नः प्रथमो ऽन्योऽन्यस्मै द्रुह्याद् इति तस्माद् यः सतानूनप्त्रिणाम् प्रथमो द्रुह्यति स आर्तिम् आर्छति यत् तानूनप्त्रꣳ समवद्यति भ्रातृव्याभिभूत्यै भवत्य् आत्मना परास्य भ्रातृव्यो भवति पञ्च कृत्वो ऽव द्यति पञ्चधा हि ते तत् समवाद्यन्त । अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः । यज्ञम् एवाव रुन्द्धे । आपतये त्वा गृह्णामीत्य् आह प्राणो वै
3 आपतिः प्राणम् एव प्रीणाति परिपतय इत्य् आह मनो वै परिपतिः । मन एव प्रीणाति तनूनप्त्र इत्य् आह तनुवो हि ते ताः समवाद्यन्त शाक्वरायेत्य् आह शक्त्यै हि ते ताः समवाद्यन्त शक्मन्न् ओजिष्ठायेत्य् आह । ओजिष्ठꣳ हि ते तद् आत्मनः समवाद्यन्त । अनाधृष्टम् अस्य् अनाधृष्यम् इत्य् आह । अनाधृष्टꣳ ह्य् एतद् अनाधृष्यम् । देवानाम् ओजः
4 इत्य् आह देवानाꣳ ह्य् एतद् ओजः । अभिशस्तिपा अनभिशस्तेन्यम् इत्य् आह । अभिशस्तिपा ह्य् एतद् अनभिशस्तेन्यम् अनु मे दीक्षां दीक्षापतिर् मन्यताम् इत्य् आह यथायजुर् एवैतत् । घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन् । अन्तिकम् इव खलु वा अस्यैतच् चरन्ति यत् तानूनप्त्रेण प्रचरन्ति । अꣳशुरꣳश्स् ते देव सोमा प्यायताम् इत्य् आह यत्
5 एवास्यापुवायते यन् मीयते तद् एवास्यैतेना प्याययति । आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह । उभाव् एवेन्द्रं च सोमं चाऽऽप्याययति । आ प्यायय सखीन्त् सन्या मेधयेत्य् आह । ऋत्विजो वा अस्य सखायस् तान् एवाऽऽप्याययति स्वस्ति ते देव सोम सुत्याम् अशीय
6 इत्य् आह । आशिषं एवैताम् आ शास्ते प्र वा एते ऽस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति । अन्तरिक्षदेवत्यो हि सोम आप्यायितः । एष्टा रायः प्रेषे भगायेत्य् आह द्यावापृथिवीभ्याम् एव नमस्कृत्यास्मिम्̐ लोके प्रति तिष्ठन्ति देवासुराः संयत्ता आसन् ते देवा बिभ्यतो ऽग्निम् प्राविशन् तस्माद् आहुः । अग्निः सर्वा देवता इति ते
7 अग्निम् एव वरूथं कृत्वाऽसुरान् अभ्य् अभवन् । अग्निम् इव खलु वा एष प्र विशति यो ऽवान्तरदीक्षाम् उपैति भ्रातृव्याभिभूत्यै भवत्य् आत्मना परास्य भ्रातृव्यो भवति । आत्मानम् एव दीक्षया पाति प्रजाम् अवान्तरदीक्षया संतराम् मेखलाꣳ समायच्छते प्रजा ह्य् आत्मनो ऽन्तरतरा तप्तव्रतो भवति मदन्तीभिर् मार्जयते निर् ह्य् अग्निः शीतेन वायति समिद्ध्यै या ते अग्ने रुद्रिया तनूर् इत्य् आह स्वयैवैनद् देवतया व्रतयति सयोनित्वाय शान्त्यै ॥

6.2.3 अनुवाक 3 उपसद्धोमाभिधानम्
1 तेषाम् असुराणां तिस्रः पुर आसन्न् अयस्मय्य् अवमाथ रजताथ हरिणी ता देवा जेतुं नाशक्नुवन् ता उपसदैवाजिगीषन् तस्माद् आहुर् यश् चैवं वेद यश् च न । उपसदा वै महापुरं जयन्तीति त इषुꣳ सम् अस्कुर्वताग्निम् अनीकꣳ सोमꣳ शल्यं विष्णुं तेजनम् । ते ऽब्रुवन् क इमाम् असिष्यतीति ॥
2 रुद्र इत्य् अब्रुवन् रुद्रो वै क्रूरः सो ऽस्यत्विति सो ऽब्रवीत् । वरं वृणा अहम् एव पशूनाम् अधिपतिर् असानीति तस्माद् रुद्रः पशूनाम् अधिपतिस् ताꣳ रुद्रो ऽवासृजत् स तिस्रः पुरो भित्त्वैभ्यो लोकेभ्यो ऽसुरान् प्राणुदत यद् उपसद उपसद्यन्ते भ्रातृव्यपराणुत्तयै नान्याम् आहुतिम् पुरस्ताज् जुहुयात् । यद् अन्याम् आहुतिम् पुरस्ताज् जुहुयात्
3 अन्यन् मुखं कुर्यात् स्रुवेणाघारम् आ घारयति यज्ञस्य प्रज्ञात्यै पराङ् अतिक्रम्य जुहोति पराच एवैभ्यो लोकेभ्यो यजमानो भ्रातृव्यान् प्र णुदते पुनर् अत्याक्रम्योपसदं जुहोति प्रणुद्यैवैभ्यो लोकेभ्यो भ्रातृव्याञ्जित्वा भ्रातृव्यलोकम् अभ्यारोहति देवा वै याः प्रातर् उपसद उपासीदन्न् अह्नस् ताभिर् असुरान् प्राणुदन्त याः सायꣳ रात्रियै ताभिः । यत् सायम्प्रातर् उपसदः
4 उपसद्यन्ते ऽहोरात्राभ्याम् एव तद् यजमानो भ्रातृव्यान् प्र णुदते याः प्रातर् याज्याः स्युस् ताः सायम् पुरोऽनुवाक्याः कुर्याद् अयातयामत्वाय तिस्र उपसद उपैति त्रय इमे लोका इमान् एव लोकान् प्रीणाति षट् सम् पद्यन्ते षड् वा ऋतव ऋतून् एव प्रीणाति द्वादशाहीने सोम उपैति द्वादश मासाः संवत्सरः संवत्सरम् एव प्रीणाति चतुर्विꣳशतिः सम्
5 पद्यन्ते चतुर्विꣳशतिर् अर्धमासा अर्धमासान् एव प्रीणाति । आराग्राम् अवान्तरदीक्षाम् उपेयाद् यः कामयेत । अस्मिन् मे लोके ऽर्धुकꣳ स्याद् इत्य् एकम् अग्रे ऽथे द्वाव् अथ त्रीन् अथ चतुर एषा वा आराग्राऽवान्तरदीक्षाऽस्मिन्न् एवास्मै लोके ऽर्धुकम् भवति परोवरीयसीम् अवान्तरदीक्षाम् उपेयाद् यः कामयेत । अमुष्मिन् मे लोके ऽर्धुकꣳ स्याद् इति चतुरो ऽग्रे ऽथे त्रीन् अथ द्वाव् अथैकम् एषा वै परोवरीयस्य् अवान्तरदीक्षाऽमुष्मिन्न् एवास्मै लोके ऽर्धुकं भवति ॥

6.2.4 अनुवाक 4 वेद्यभिधानम्
1 सुवर्गं वा एते लोकं यन्ति य उपसद उपयन्ति तेषां य उन्नयते हीयत एव स नोद् अनेषीति सून्नीयम् इव यो वै स्वार्थेतां यताꣳ श्रान्तो हीयत उत स निष्ट्याय सह वसति तस्मात् सकृद् उन्नीय नापरम् उन्नयेत दध्नोन्नयेत । एतद् वै पशूनाꣳ रूपम् । रूपेणैव पशून् अव रुन्द्धे ॥
2 यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा स पृथिवीम् प्राविशत् तं देवा हस्तान्त् सꣳरभ्यैच्छन् तम् इन्द्र उपर्युपर्य् अत्य् अक्रामत् सो ऽब्रवीत् को मायम् उपर्युपर्य् अत्य् अक्रमीद् इति । अहं दुर्गे हन्तेत्य् अथ कस् त्वम् इति । अहं दुर्गाद् आहर्तेति सो ऽब्रवीत् । दुर्गे वै हन्ताऽवोचथा वराहो ऽयं वाममोषः
3 सप्तानां गिरीणाम् परस्ताद् वित्तं वेद्यम् असुराणाम् बिभर्ति तं जहि यदि दुर्गे हन्तासीति स दर्भपुञ्जीलम् उद्वृह्य सप्तगिरीन् भित्त्वा तम् अहन् । सो ऽब्रवीत् । दुर्गाद् वा आहर्तावोचथा एतम् आ हरेति तम् एभ्यो यज्ञ एव यज्ञम् आहरत् । यत् तद् वित्तं वेद्यम् असुराणाम् अविन्दन्त तद् एकं वेद्यै वेदित्वम् असुराणाम्
4 वा इयम् अग्र आसीत् । यावद् आसीनः परापश्यति तावद् देवानाम् । ते देवा अब्रुवन् । अस्त्व् एव नो ऽस्याम् अपीति कियद् वो दास्याम इति यावद् इयꣳ सलावृकी त्रिः परिक्रामति तावन् नो दत्तेति स इन्द्रः सलावृकी रूपं कृत्वेमां त्रिः सर्वतः पर्य् अक्रामत् तद् इमाम् अविन्दन्त यद् इमाम् अविन्दन्त तद् वेद्यै वेदित्वम् ॥
5 सा वा इयꣳ सर्वैव वेदिः । इयति शक्ष्यामीति त्वा अवमाय यजन्ते त्रिꣳशत् पदानि पश्चात् तिरश्ची भवति षट्त्रिꣳशत् प्राची चतुर्विꣳशतिः पुरस्तात् तिरश्ची दशदश सम् पद्यन्ते दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्द्धे । उद् धन्ति यद् एवास्या अमेध्यं तद् अप हन्ति । उद् धन्ति तस्माद् ओषधयः परा भवन्ति बर्हि स्तृणाति तस्माद् ओषधयः पुनर् आ भवन्ति । उत्तरम् बर्हिष उत्तरबर्हि स्तृणाति प्रजा वै बर्हिर् यजमान उत्तरबर्हिः । यजमानम् एवायजमानाद् उत्तरं करोति तस्माद् यजमानो ऽयजमानाद् उत्तरः ॥

6.2.5 अनुवाक 5 व्रतनिरूपणम्
1 यद् वा अनीशानो भारम् आदत्ते वि वै स लिशते यद् द्वादश साह्नस्योपसदः स्युस् तिस्रो ऽहीनस्य यज्ञस्य विलोम क्रियेत तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य यज्ञस्य सवीर्यत्वायाथो सलोम क्रियते वत्सस्यैकः स्तनो भागी हि सो ऽथैकꣳ स्तनं व्रतम् उपैत्य् अथ द्वाव् अथ त्रीन् अथ चतुर एतद् वै
2 क्षुरपवि नाम व्रतं येन प्र जातान् भ्रातृव्यान् नुदते प्रति जनिष्यमाणान् अथो कनीयसैव भूय उपैति चतुरो ऽग्रे स्तनान् व्रतम् उपैत्य् अथ त्रीन् अथ द्वाव् अथैकम् एतद् वै सुजघनं नाम व्रतं तपस्यꣳ सुवर्ग्यम् अथो प्रैव जायते प्रजया पशुभिः । यवागू राजन्यस्य व्रतं क्रूरेव वै यवागूः क्रूर इव
3 राजन्यो वज्रस्य रूपꣳ समृद्ध्यै । आमिक्षा वैश्यस्य पाकयज्ञस्य रूपम् पुष्ट्यै पयो ब्राह्मणस्य तेजो वै ब्राह्मणस् तेजः पयस् तेजसैव तेजः पय आत्मन् धत्ते । अथो पयसा वै गर्भा वर्धन्ते गर्भ इव खलु वा एष यद् दीक्षितो यद् अस्य पयो व्रतम् भवत्य् आत्मानम् एव तद् वर्धयति त्रिव्रतो वै मनुर् आसीद् द्विव्रता असुरा एकव्रताः
4 देवाः । प्रातर् मध्यंदिने सायं तन् मनोर् व्रतम् आसीत् पाकयज्ञस्य रूपम् पुष्ट्यै प्रातश् च सायं चासुराणां निर्मध्यं क्षुधो रूपं ततस् ते पराभवन् मध्यंदिने मध्यरात्रे देवानां ततस् ते ऽभवन्त् सुवर्गं लोकम् आयन् यद् अस्य मध्यंदिने मध्यरात्रे व्रतम् भवति मध्यतो वा अन्नेन भुञ्जते मध्यत एव तद् ऊर्जं धत्ते भ्रातृव्याभिभूत्यै भवत्य् आत्मना
5 परास्य भ्रातृव्यो भवति गर्भो वा एष यद् दीक्षितो योनिर् दीक्षितविमितं यद् दीक्षितो दीक्षितविमितात् प्रवसेद् यथा योनेर् गर्भ स्कन्दति तादृग् एव तन् न प्रवस्तव्यम् आत्मनो गोपीथाय ।
एष वै व्याघ्रः कुलगोपो यद् अग्निस् तस्माद् यद् दीक्षितः प्रवसेत् स एनम् ईश्वरो ऽनूत्थाय हन्तोर् न प्रवस्तव्यम् आत्मनो गुप्त्यै दक्षिणतः शय एतद् वै यजमानस्यायतनꣳ स्व एवायतने शये । अग्निम् अभ्यावृत्य शये देवता एव यज्ञम् अभ्यावृत्य शये ॥

6.2.6 अनुवाक 6 काम्ययागभूम्याभिधानम्
1 पुरोहविषि देवयजने याजयेद् यं कामयेत । उपैनम् उत्तरो यज्ञो नमेद् अभि सुवर्गं लोकं जयेद् इति । एतद् वै पुरोहविर् देवयजनं यस्य होता प्रातरनुवाकम् अनुब्रुवन्न् अग्निम् अप आदित्यम् अभि विपश्यति । उपैनम् उत्तरो यज्ञो नमत्य् अभि सुवर्गं लोकं जयति । आप्ते देवयजने याजयेद् भ्रातृव्यवन्तम् पन्थां वाऽधिस्पर्शयेत् कर्तं वा यावन् नानसे यातवै
2 न रथायैतद् वा आप्तं देवयजनम् आप्नोत्य् एव भ्रातृव्यं नैनम् भ्रातृव्य आप्नोति । एकोन्नते देवयजने याजयेत् पशुकामम् एकोन्नताद् वै देवयजनाद् अङ्गिरसः पशून् असृजन्त । अन्तरा सदोहविर्धाने उन्नतꣳ स्यात् । एतद् वा एकोन्नतं देवयजनम् पशुमान् एव भवति त्र्युन्नते देवयजने याजयेत् सुवर्गकामम् । त्र्युन्नताद् वै देवयजनाद् अङ्गिरसः सुवर्गं लोकम् आयन् । अन्तराहवनीयं च हविर्धानं च
3 उन्नतꣳ स्याद् अन्तरा हविर्धानं च सदश् चान्तरा सदश् च गार्हपत्यं च । एतद् वै त्र्युन्नतं देवयजनम् । सुवर्गम् एव लोकम् एति प्रतिष्ठिते देवयजने याजयेत् प्रतिष्ठाकामम् एतद् वै प्रतिष्ठितं देवयजनं यत् सर्वतः समम् प्रत्य् एव तिष्ठति यत्रान्याअन्या ओषधयो व्यतिषक्ताः स्युस् तद् याजयेत् पशुकामम् एतद् वै पशूनाꣳ रूपम् । रूपेणैवास्मै पशून्
4 अव रुन्द्धे पशुमान् एव भवति निर्ऋतिगृहीते देवयजने याजयेद् यं कामयेत निर्ऋत्याऽस्य यज्ञं ग्राहयेयम् इति । एतद् वै निर्ऋतिगृहीतं देवयजनं यत् सदृश्यै सत्या ऋक्षम् । निर्ऋत्यैवास्य यज्ञं ग्राहयति व्यावृत्ते देवयजने याजयेद् व्यावृत्कामं यम् पात्रे वा तल्पे वा मीमाꣳसेरन् प्राचीनम् आहवनीयात् प्रवणꣳ स्यात् प्रतीचीनं गार्हपत्याद् एतद् वै व्यावृत्तं देवयजनम् । वि पाप्मना भ्रातृव्येणा वर्तते नैनम् पात्रे न तल्पे मीमाꣳसन्ते कार्ये देवयजने याजयेद् भूतिकामम् । कार्यो वै पुरुषः । भवत्य् एव ॥

6.2.7 अनुवाक 7 उत्तरवेदिनिरूपणम्
1 तेभ्य उत्तरवेदिः सिꣳही रूपं कृत्वोभयान् अन्तरापक्रम्यातिष्ठत् ते देवा अमन्यन्त यन्तरान् वा इयम् उपावर्त्स्यति त इदम् भविष्यन्तीति ताम् उपामन्त्रयन्त साब्रवीद् वरं वृणै सर्वान् मया कामान् व्यश्नवथ पूर्वां तु माग्नेर् आहुतिर् अश्नवता इति तस्माद् उत्तरवेदिम् पूर्वाम् अग्नेर् व्याघारयन्ति वारेवृतꣳ ह्य् अस्यै शम्यया परि मिमीते
2 मात्रैवास्यै साऽथो युक्तेनैव युक्तम् अव रुन्द्धे वित्तायनी मे ऽसीत्य् आह वित्ता ह्य् एनान् आवत् तिक्तायनी मे ऽसीत्य् आह तिक्तान् ह्य् एनान् आवत् अवतान् मा नाथितम् इत्य् आह नाथितान् ह्य् एनान् आवद् अवतान् मा व्यथितम् इत्य् आह व्यथितान् ह्य् एनान् आवद् विदेर् अग्निर् नभो नाम
3 अग्ने अङ्गिर इति त्रिर् हरति य एवैषु लोकेष्व् अग्नयस् तान् एवाव रुन्द्धे तूष्णीं चतुर्थꣳ हरत्य् अनिरुक्तम् एवाव रुन्द्धे सिꣳहीर् असि महिषीर् असीत्य् आह सिꣳहीर् ह्य् एषा रूपं कृत्वोभयान् अन्तरापक्रम्यातिष्ठद् उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इत्य् आह यजमानम् एव प्रजया पशुभिः प्रथयति ध्रुवा
4 असीति सꣳ हन्ति धृत्यै देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्वेत्य् अव चोक्षति प्र च किरति शुद्ध्यै । इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पात्व् इत्य् आह दिग्भ्य एवैनाम् प्रोक्षति देवाꣳश् चेद् उत्तरवेदिर् उपाववर्तीहैव वि जयामहा इत्य् असुरा वज्रम् उद्यत्य देवान् अभ्य् आयन्त तान् इन्द्रघोषो वसुभिः पुरस्ताद् अप
5 अनुदत मनोजवाः पितृभिर् दक्षिणतः प्रचेता रुद्रैः पश्चाद् विश्वकर्मादित्यैर् उत्तरतो यद् एवम् उत्तरवेदिम् प्रोक्षति दिग्भ्य एव तद् यजमानो भ्रातृव्यान् प्रणुदत इन्द्रो यतीन्त् सालावृकेभ्यः प्रायच्छत् तान् दक्षिणत उत्तरवेद्या आदन् यत् प्रोक्षणीनाम् उच्छिष्येत तद् दक्षिणत उत्तरवेद्यै नि नयेद् यद् एव तत्र क्रूरं तत् तेन शमयति यं द्विष्यात् तं ध्यायेच् छुचैवैनम् अर्पयति ॥

6.2.8 अनुवाक 8 व्याघारणविधिः
1 सोत्तरवेदिर् अब्रवीत् सर्वान् मया कामान् व्यश्नवथेति ते देवा अकामयन्त । असुरान् भ्रातृव्यान् अभि भवेमेति ते ऽजुहवुः सिꣳहीर् असि सपत्नसाही स्वाहेति ते ऽसुरान् भ्रातृव्यान् अभ्य् अभवन् ते ऽसुरान् भ्रातृव्यान् अभिभूयाकामयन्त प्रजां विन्देमहीति ते ऽजुहवुः सिꣳहीर् असि सुप्रजावनिः स्वाहेति ते प्रजाम् अविन्दन्त ते प्रजां वित्त्वा
2 अकामयन्त पशून् विन्देमहीति ते ऽजुहवुः सिꣳहीर् असि रायस्पोषवनिः स्वाहेति ते पशून् अविन्दन्त ते पशून् वित्त्वाकामयन्त प्रतिष्ठां विन्देमहीति ते ऽजुहवुः सिꣳहीर् अस्य् आदित्यवनिः स्वाहेति त इमाम् प्रतिष्ठाम् अविन्दन्त त इमाम् प्रतिष्ठां वित्त्वाकामयन्त देवता आशिष उपेयामेति ते ऽजुहवुः सिꣳहीर् अस्य् आ वह देवान् देवयते
3 यजमानाय स्वाहेति ते देवता आशिष उपायन् पञ्च कृत्वो व्याघारयति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः । यज्ञम् एवाव रुन्द्धे । अक्ष्ण्या व्याघारयति तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै भूतेभ्यस् त्वेति स्रुचम् उद् गृह्णाति य एव देवा भूतास् तेषां तद् भागधेयम् । तान् एव तेन प्रीणाति पौतुद्रवान् परिधीन् परि दधाति । एषाम्
4 लोकानां विधृत्यै । अग्नेस् त्रयो ज्यायाꣳसो भ्रातर आसन् ते देवेभ्यो हव्यं वहन्तः प्रामीयान्त सो ऽग्निर् अबिभेत् । इत्थं वाव स्य आर्तिम् आरिष्यतीति स निलायत स यां वनस्पतिष्व् अवसत् ताम् पूतुद्रौ याम् ओषधीषु ताꣳ सुगन्धितेजने याम् पशुषु ताम् पेत्वस्यान्तरा शृङ्गे तं देवताः प्रैषम् ऐच्छन् तम् अन्व् अविन्दन् तम् अब्रुवन्
5 उप न आ वर्तस्व हव्यं नो वहेति सो ऽब्रवीत् । वरं वृणै यद् एव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात् तन् मे भ्रातृणाम् भागधेयम् असद् इति तस्माद् यद् गृहीतस्याहुतस्य बहिःपरिधि स्कन्दति तेषां तद् भागधेयं तान् एव तेन प्रीणाति सो ऽमन्यत । अस्थन्वन्तो मे पूर्वे भ्रातरः प्रामेषतास्थानि शातया इति स यानि
6 अस्थान्य् अशातयत तत् पूतुद्र्वभवत् । यन् माꣳसम् उपमृतं तद् गुल्गुलु यद् एतान्त् सम्भारान्त् सम्भरत्य् अग्निम् एव तत् सम् भरति । अग्नेः पुरीषम् असीत्य् आह । अग्नेर् ह्य् एतत् पुरीषं यत् संभाराः । अथो खल्व् आहुः । एते वावैनं ते भ्रातरः परि शेरे यत् पौतुद्रवाः परिधय इति ॥
 
6.2.9 अनुवाक 9 व्याघारणविधिः
1 बद्धम् अव स्यति वरुणपाशाद् एवैने मुञ्चति प्र णेनेक्ति मेध्ये एवैने करोति सावित्रियर्चा हुत्वा हविर्धाने प्र वर्तयति सवितृप्रसूत एवैने प्र वर्तयति वरुणो वा एष दुर्वाग् उभयतो बद्धो यद् अक्षः स यद् उत्सर्जेद् यजमानस्य गृहान् अभ्युत्सर्जेत् सुवाग् देव दुर्याꣳ आ वदेत्य् आह गृहा वै दुर्याः शान्त्यै पत्नी
2 उपानक्ति पत्नी हि सर्वस्य मित्रम् मित्रत्वाय यद् वै पत्नी यज्ञस्य करोति मिथुनं तत् । अथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवछित्त्यै वर्त्मना वा अन्वित्य यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति वैष्णवीभ्याम् ऋग्भ्यां वर्त्मनोर् जुहोति यज्ञो वै विष्णुः । यज्ञाद् एव रक्षाꣳस्य् अप हन्ति यद् अध्वर्युर् अनग्नाव् आहुतिं जुहुयाद् अन्धो ऽध्वर्युः स्याद् रक्षाꣳसि यज्ञꣳ हन्युः ।
3 हिरण्यम् उपास्य जुहोति । अग्निवत्य् एव जुहोति नान्धो ऽध्वर्युर् भवति न यज्ञꣳ रक्षाꣳसि घ्नन्ति प्राची प्रेतम् अध्वरं कल्पयन्ती इत्य् आह सुवर्गम् एवैने लोकं गमयति । अत्र रमेथां वर्ष्मन् पृथिव्या इत्य् आह वर्ष्म ह्य् एतत् पृथिव्या यद् देवयजनम् । शिरो वा एतद् यज्ञस्य यद् धविर्धानम् । दिवो वा विष्णवुत वा पृथिव्याः
4 इत्य् आशीर्पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति शीर्षत एव यज्ञस्य यजमान आशिषो ऽव रुन्द्धे दण्डो वा औपरस् तृतीयस्य हविर्धानस्य वषट्कारेणाक्षम् अच्छिनत् । यत् तृतीयं छदिर् हविर्धानयोर् उदाह्रियते तृतीयस्य हविर्धानस्यावरुद्ध्यै शिरो वा एतद् यज्ञस्य यद् धविर्धानम् । विष्णो रराटम् असि विष्णोः पृष्ठम् असीत्य् आह तस्माद् एतावद्धा शिरो विष्यूतम् । विष्णोः स्यूर् असि विष्णोर् ध्रुवम् असीत्य् आह वैष्णवꣳ हि देवतया हविर्धानम् । यम् प्रथमं ग्रन्थिं ग्रथ्नीयात् यत् तं न विस्रꣳसयेद् अमेहेनाध्वर्युः प्र मीयेत
तस्मात् स विस्रस्यः ॥

6.2.10अनुवाक 10 सदोभिधानम्
1 देवस्य त्वा सवितुः प्रसव इत्य् अभ्रिम् आ दत्ते प्रसूत्यै । अश्विनोर् बाहुभ्याम् इत्य् आह । अश्विनौ हि देवानाम् अध्वर्यू आस्ताम् पूष्णो हस्ताभ्याम् इत्य् आह यत्यै वज्र इव वा एषा यद् अभ्रिर् अभ्रिर् असि नारिर् असीत्य् आह शान्त्यै काण्डेकाण्डे वै क्रियमाणे यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति परिलिखितꣳ रक्षः परिलिखिता अरातय इत्य् आह रक्षसाम् अपहत्यै ॥
2 इदम् अहꣳ रक्षसो ग्रीवा अपि कृन्तामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इत्य् आह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश् चैनं द्वेष्टि तयोर् एवानन्तरायं ग्रीवाः कृन्तति दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेत्य् आहैभ्य एवैनं लोकेभ्यः प्रोक्षति परस्ताद् अर्वाचीम् प्रोक्षति तस्मात्
3 परस्ताद् अर्वाचीम् मनुष्या ऊर्जम् उप जीवन्ति क्रूरम् इव वा एतत् करोति यत् खनत्य् अपो ऽव नयति शान्त्यै यवमतीर् अव नयत्य् ऊर्ग् वै यव ऊर्ग् उदुम्बर ऊर्जैवोर्जꣳ सम् अर्धयति यजमानेन सम्मितौदुम्बरी भवति यावान् एव यजमानस् तावतीम् एवास्मिन्न् ऊर्जं दधाति
पितृणाꣳ सदनम् असीति बर्हिर् अव स्तृणाति पितृदेवत्यम्
4 ह्य् एतद् यन् निखातम् । यद् बर्हिर् अनवस्तीर्य मिनुयात् पितृदेवत्या निखाता स्याद् बर्हिर् अवस्तीर्य मिनोत्य् अस्याम् एवैनां मिनोत्य् अथो स्वारुहम् एवैनां करोति । उद् दिवꣳ स्तभानान्तरिक्षम् पृणेत्य् आहैषां लोकानां विधृत्यै द्युतानस् त्वा मारुतो मिनोत्व् इत्य् आह द्युतानो ह स्म वै मारुतो देवानाम् औदुम्बरीम् मिनोति तेनैव
5 एनाम् मिनोति ब्रह्मवनिं त्वा क्षत्रवनिम् इत्य् आह यथायजुर् एवैतत् । घृतेन द्यावापृथिवी आ पृणेथाम् इत्य् औदुम्बर्यां जुहोति द्यावापृथिवी एव रसेनानक्ति । आन्तम् अन्ववस्रावयत्य् आन्तम् एव यजमानं तेजसाऽनक्ति । ऐन्द्रम् असीति छदिर् अधि नि दधात्य् ऐन्द्रꣳ हि देवतया सदः । विश्वजनस्य छायेत्य् आह विश्वजनस्य ह्य् एषा छाया यत् सदः । नवछदि
6 तेजस्कामस्य मिनुयात् त्रिवृता स्तोमेन सम्मितम् तेजस् त्रिवृत् तेजस्व्य् एव भवति । एकादशछदीन्द्रियकामस्यैकादशाक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुग् इन्द्रियाव्य् एव भवति पञ्चदशछदि भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशछदि प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै । एकविꣳशतिछदि प्रतिष्ठाकामस्यैकविꣳशः स्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै । उदरं वै सद ऊर्ग् उदुम्बरो मध्यत औदुम्बरीम् मिनोति मध्यत एव प्रजानामूर्जं दधाति तस्मात्
7 मध्यत ऊर्जा भुञ्जते यजमानलोके वै दक्षिणानि छदीꣳषि भ्रातृव्यलोक उत्तराणि दक्षिणान्य् उत्तराणि करोति यजमानम् एवायजमानाद् उत्तरं करोति तस्माद् यजमानो ऽयजमानाद् उत्तरः । अन्तर्वर्तान् करोति व्यावृत्त्यै तस्माद् अरण्यम् प्रजा उप जीवन्ति परि त्वा गिर्वणो गिर इत्य् आह यथायजुर् एवैतत् । इन्द्रस्य स्यूर् असीन्द्रस्य ध्रुवम् असीत्य् आहैन्द्रꣳ हि देवतया सदः । यम् प्रथमं ग्रन्थिं ग्रथ्नीयाद् यत् तं न विस्रꣳसयेद् अमेहेनाध्वर्युः प्र मीयेत तस्मात् स विस्रस्यः ॥
 
6.2.11 अनुवाक 11 उपरवाभिधानम्
1 शिरो वा एतद् यज्ञस्य यद् धविर्धानम् प्राणा उपरवाः । हविर्धाने खायन्ते तस्माच् छीर्षन् प्राणाः । अधस्तात् खायन्ते तस्माद् अधस्ताच् छीर्ष्णः प्राणाः । रक्षोहणो वलगहनो वैष्णवान् खनामीत्य् आह वैष्णवा हि देवतयोपरवाः । असुरा वै निर्यन्तो देवानाम् प्राणेषु वलगान् न्य् अखनन् तान् बाहुमात्रे ऽन्व् अविन्दन् तस्माद् बाहुमात्राः खायन्ते । इदम् अहं तं वलगं उद् वपामि
2 यं नः समानो यम् असमानो निचखानेत्य् आह द्वौ वाव पुरुषौ यश् चैव समानो यश् चासमानः । यम् एवास्मै तौ वलगं निखनस्तस् तम् एवोद् वपति सं तृणत्ति तस्मात् संतृण्णा अन्तरतः प्राणाः । न सम् भिनत्ति तस्माद् असम्भिन्नाः प्राणाः । अपो ऽव नयति तस्माद् आर्द्रा अन्तरतः प्राणाः । यवमतीर् अव नयति ॥
3 ऊर्ग् वै यवः प्राणा उपरवाः प्राणेष्व् एवोर्जं दधाति बर्हिर् अव स्तृणाति तस्माल् लोमशा अन्तरतः प्राणाः । आज्येन व्याघारयति तेजो वा आज्यम् प्राणा उपरवाः प्राणेष्व् एव तेजो दधाति हनू वा एते यज्ञस्य यद् अधिषवणे न सं तृणत्ति । असंतृण्णे हि हनू अथो खलु दीर्घसोमे संतृद्ये धृत्यै शिरो वा एतद् यज्ञस्य यद् धविर्धानम्
4 प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुखम् आहवनीयो नासिकोत्तरवेदिर् उदरꣳ सदः । यदा खलु वै जिह्वया दत्स्व् अधि खादत्य् अथ मुखं गच्छति यदा मुखं गच्छत्य् अथोदरं गच्छति तस्माद् धविर्धाने चर्मन्न् अधि ग्रावभिर् अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति यो वै विराजो यज्ञमुखे दोहं वेद दुह एवैनाम् इयं वै विराट् तस्यै त्वक् चर्मोधो ऽधिषवणे स्तना उपरवा ग्रावाणो वत्सा ऋत्विजो दुहन्ति सोमः पयः । य एवं वेद दुह एवैनाम् ॥


6.2.1 अनुवाक 1 आतिथ्येष्ट्यभिधानम्
 1
    यद् उभौ विमुच्यातिथ्यं गृह्णीयाद् यज्ञं वि छिन्द्यात् ।
    यद् उभाव् अविमुच्य यथानागतायातिथ्यं क्रियते तादृग् एव तत् ।
    विमुक्तो ऽन्यो ऽनड्वान् भवत्य् अविमुक्तो ऽन्यो ऽथाऽऽतिथ्यं गृह्णाति यज्ञस्य संतत्यै
    पत्न्य् अन्वारभते
    पत्नी हि पारीणह्यस्येशे पत्नियैवानुमतं निर् वपति
    यद् वै पत्नी यज्ञस्य करोति मिथुनं तत् ।
    अथो पत्निया एव

 2
    एष यज्ञस्यान्वारम्भो ऽनवछित्त्यै
    यावद्भिर् वै राजानुचरैर् आगच्छति सर्वेभ्यो वै तेभ्य आतिथ्यं क्रियते छन्दाꣳसि खलु वै सोमस्य राज्ञो ऽनुचराणि ।
    अग्नेर् आतिथ्यम् असि विष्णवे त्वेत्याह गायत्रिया एवैतेन करोति
    सोमस्यातिथ्यम् असि विष्णवे त्वेत्य् आह त्रिष्टुभ एवैतेन करोति ।
    अतिथेर् आतिथ्यम् असि विष्णवे त्वेत्य् आह जगत्यै

 3
    एवैतेन करोति ।
    अग्नये त्वा रायस्पोषदाव्ने विष्णवे त्वेत्य् आहानुष्टुभ एवैतेन करोति
    श्येनाय त्वा सोमभृते विष्णवे त्वेत्य् आह गायत्रिया एवैतेन करोति
    पञ्च कृत्वो गृह्णाति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञो यज्ञम् एवाव रुन्द्धे
    ब्रह्मवादिनो वदन्ति
    कस्मात् सत्याद् गायत्रिया उभयत आतिथ्यस्य क्रियत इति
    यद् एवादः सोमम् आ

 4
    अहरत् तस्माद् गायत्रिया उभयत आतिथ्यस्य क्रियते पुरस्ताच् चोपरिष्टाच् च
    शिरो वा एतद् यज्ञस्य यद् आतिथ्यं नवकपालः पुरोडाशो भवति तस्मान् नवधा शिरो विष्यूतम् ।
    नवकपालः पुरोडाशो भवति ते त्रयस् त्रिकपालास् त्रिवृता स्तोमेन सम्मितास् तेजस् त्रिवृत् तेज एव यज्ञस्य शीर्षन् दधाति
    नवकपालः पुरोडाशो भवति ते त्रयस् त्रिकपालास् त्रिवृता प्राणेन सम्मितास् त्रिवृद् वै ॥

 5
    प्राणस् त्रिवृतम् एव प्राणम् अभिपूर्वं यज्ञस्य शीर्षन् दधाति
    प्रजापतेर् वा एतानि पक्ष्माणि यद् अश्ववाला ऐक्षवी तिरश्ची यद् आश्ववालः प्रस्तरो भवत्य् ऐक्षवी तिरश्ची प्रजापतेर् एव तच् चक्षुः सम् भरति
    देवा वै या आहुतीर् अजुहवुस् ता असुरा निष्कावम् आदन् ते देवाः कार्ष्मर्यम् अपश्यन् कर्मण्यो वै
    कर्मैनेन कुर्वीतेति ते कार्ष्मर्यमयान् परिधीन्

 6
    अकुर्वत तैर् वै ते रक्षाꣳस्य् अपाघ्नत
    यत् कार्ष्मर्यमयाः परिधयो भवन्ति रक्षसाम् अपहत्यै
    सꣳ स्पर्शयति रक्षसाम् अनन्ववचाराय
    न पुरस्तात् परि दधात्य् आदित्यो ह्य् एवोद्यन् पुरस्ताद् रक्षाꣳस्य् अपहन्ति ।
    ऊर्ध्वे समिधाव् आ दधात्य् उपरिष्टाद् एव रक्षाꣳस्य् अपहन्ति
    यजुषान्यां तूष्णीम् अन्याम् मिथुनत्वाय
    द्वे आ दधाति द्विपाद् यजमानः प्रतिष्ठित्यै
    ब्रह्मवादिनो वदन्ति ।

 7
    अग्निश् च वा एतौ सोमश् च कथा सोमायातिथ्यं क्रियते नाग्नय इति
    यद् अग्नाव् अग्निम् मथित्वा प्रहरति तेनैवाग्नय आतिथ्यं क्रियते ।
    अथो खल्व् आहुर् अग्निः सर्वा देवता इति यद् धविर् आसाद्याग्निम् मन्थति हव्यायैवाऽऽसन्नाय सर्वा देवता जनयति ॥

6.2.2 अनुवाक 2 तानूनप्त्र्येष्ट्यभिधानम्
 1
    देवासुराः संयत्ता आसन्
    ते देवा मिथो विप्रिया आसन्
    ते ऽन्योऽन्यस्मै ज्यैष्ठ्यायातिष्ठमानाः पञ्चधा व्यक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैर् बृहस्पतिर् विश्वैर् देवैस्
    ते ऽमन्यन्त ।
    असुरेभ्यो वा इदम् भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः स्मो या न इमाः प्रियास् तनुवस् ताः समवद्यामहै ताभ्यः स निर् ऋच्छाद् यः

 2
    नः प्रथमो ऽन्योऽन्यस्मै द्रुह्याद् इति
    तस्माद् यः सतानूनप्त्रिणाम् प्रथमो द्रुह्यति स आर्तिम् आर्छति
    यत् तानूनप्त्रꣳ समवद्यति भ्रातृव्याभिभूत्यै
    भवत्य् आत्मना परास्य भ्रातृव्यो भवति
    पञ्च कृत्वो ऽव द्यति
    पञ्चधा हि ते तत् समवाद्यन्त ।
    अथो पञ्चाक्षरा पङ्क्तिः
    पाङ्क्तो यज्ञः ।
    यज्ञम् एवाव रुन्द्धे ।
    आपतये त्वा गृह्णामीत्य् आह
   प्राणो वै

 3
    आपतिः
    प्राणम् एव प्रीणाति
    परिपतय इत्य् आह
    मनो वै परिपतिः ।
    मन एव प्रीणाति
    तनूनप्त्र इत्य् आह
    तनुवो हि ते ताः समवाद्यन्त
    शाक्वरायेत्य् आह
    शक्त्यै हि ते ताः समवाद्यन्त
    शक्मन्न् ओजिष्ठायेत्य् आह ।
    ओजिष्ठꣳ हि ते तद् आत्मनः समवाद्यन्त ।
    अनाधृष्टम् अस्य् अनाधृष्यम् इत्य् आह ।
   अनाधृष्टꣳ ह्य् एतद् अनाधृष्यम् ।
   देवानाम् ओजः

 4
    इत्य् आह
    देवानाꣳ ह्य् एतद् ओजः ।
    अभिशस्तिपा अनभिशस्तेन्यम् इत्य् आह ।
    अभिशस्तिपा ह्य् एतद् अनभिशस्तेन्यम्
    अनु मे दीक्षां दीक्षापतिर् मन्यताम् इत्य् आह
    यथायजुर् एवैतत् ।
    घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन् ।
    अन्तिकम् इव खलु वा अस्यैतच् चरन्ति यत् तानूनप्त्रेण प्रचरन्ति ।
    अꣳशुरꣳश्स् ते देव सोमा प्यायताम् इत्य् आह
    यत्

 5
    एवास्यापुवायते यन् मीयते तद् एवास्यैतेना प्याययति ।
    आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह ।
    उभाव् एवेन्द्रं च सोमं चाऽऽप्याययति ।
    आ प्यायय सखीन्त् सन्या मेधयेत्य् आह ।
    ऋत्विजो वा अस्य सखायस्
    तान् एवाऽऽप्याययति
    स्वस्ति ते देव सोम सुत्याम् अशीय

 6
    इत्य् आह ।
    आशिषं एवैताम् आ शास्ते
    प्र वा एते ऽस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति ।
    अन्तरिक्षदेवत्यो हि सोम आप्यायितः ।
    एष्टा रायः प्रेषे भगायेत्य् आह
    द्यावापृथिवीभ्याम् एव नमस्कृत्यास्मिम्̐ लोके प्रति तिष्ठन्ति
    देवासुराः संयत्ता आसन्
    ते देवा बिभ्यतो ऽग्निम् प्राविशन्
    तस्माद् आहुः ।
    अग्निः सर्वा देवता इति
    ते

 7
    अग्निम् एव वरूथं कृत्वाऽसुरान् अभ्य् अभवन् ।
    अग्निम् इव खलु वा एष प्र विशति यो ऽवान्तरदीक्षाम् उपैति
    भ्रातृव्याभिभूत्यै
    भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
    आत्मानम् एव दीक्षया पाति प्रजाम् अवान्तरदीक्षया
    संतराम् मेखलाꣳ समायच्छते
    प्रजा ह्य् आत्मनो ऽन्तरतरा
    तप्तव्रतो भवति
    मदन्तीभिर् मार्जयते
    निर् ह्य् अग्निः शीतेन वायति
    समिद्ध्यै
    या ते अग्ने रुद्रिया तनूर् इत्य् आह
    स्वयैवैनद् देवतया व्रतयति
    सयोनित्वाय शान्त्यै ॥

6.2.3 अनुवाक 3 उपसद्धोमाभिधानम्
 1
    तेषाम् असुराणां तिस्रः पुर आसन्न् अयस्मय्य् अवमाथ रजताथ हरिणी
    ता देवा जेतुं नाशक्नुवन् ता उपसदैवाजिगीषन्
    तस्माद् आहुर् यश् चैवं वेद यश् च न ।
    उपसदा वै महापुरं जयन्तीति
    त इषुꣳ सम् अस्कुर्वताग्निम् अनीकꣳ सोमꣳ शल्यं विष्णुं तेजनम् ।
    ते ऽब्रुवन्
    क इमाम् असिष्यतीति ॥

 2
    रुद्र इत्य् अब्रुवन् रुद्रो वै क्रूरः सो ऽस्यत्विति
    सो ऽब्रवीत् ।
    वरं वृणा अहम् एव पशूनाम् अधिपतिर् असानीति तस्माद् रुद्रः पशूनाम् अधिपतिस्
    ताꣳ रुद्रो ऽवासृजत् स तिस्रः पुरो भित्त्वैभ्यो लोकेभ्यो ऽसुरान् प्राणुदत
    यद् उपसद उपसद्यन्ते भ्रातृव्यपराणुत्तयै
    नान्याम् आहुतिम् पुरस्ताज् जुहुयात् ।
    यद् अन्याम् आहुतिम् पुरस्ताज् जुहुयात्

 3
    अन्यन् मुखं कुर्यात्
    स्रुवेणाघारम् आ घारयति यज्ञस्य प्रज्ञात्यै
    पराङ् अतिक्रम्य जुहोति
    पराच एवैभ्यो लोकेभ्यो यजमानो भ्रातृव्यान् प्र णुदते
    पुनर् अत्याक्रम्योपसदं जुहोति
    प्रणुद्यैवैभ्यो लोकेभ्यो भ्रातृव्याञ्जित्वा भ्रातृव्यलोकम् अभ्यारोहति
    देवा वै याः प्रातर् उपसद उपासीदन्न् अह्नस् ताभिर् असुरान् प्राणुदन्त
    याः सायꣳ रात्रियै ताभिः ।
    यत् सायम्प्रातर् उपसदः

 4
    उपसद्यन्ते ऽहोरात्राभ्याम् एव तद् यजमानो भ्रातृव्यान् प्र णुदते
    याः प्रातर् याज्याः स्युस् ताः सायम् पुरोऽनुवाक्याः कुर्याद् अयातयामत्वाय
    तिस्र उपसद उपैति त्रय इमे लोका इमान् एव लोकान् प्रीणाति
    षट् सम् पद्यन्ते षड् वा ऋतव ऋतून् एव प्रीणाति द्वादशाहीने सोम उपैति द्वादश मासाः संवत्सरः संवत्सरम् एव प्रीणाति
    चतुर्विꣳशतिः सम्

 5
    पद्यन्ते
    चतुर्विꣳशतिर् अर्धमासा अर्धमासान् एव प्रीणाति ।
    आराग्राम् अवान्तरदीक्षाम् उपेयाद् यः कामयेत ।
    अस्मिन् मे लोके ऽर्धुकꣳ स्याद् इत्य् एकम् अग्रे ऽथे द्वाव् अथ त्रीन् अथ चतुर एषा वा आराग्राऽवान्तरदीक्षाऽस्मिन्न् एवास्मै लोके ऽर्धुकम् भवति
    परोवरीयसीम् अवान्तरदीक्षाम् उपेयाद् यः कामयेत ।
    अमुष्मिन् मे लोके ऽर्धुकꣳ स्याद् इति चतुरो ऽग्रे ऽथे त्रीन् अथ द्वाव् अथैकम् एषा वै परोवरीयस्य् अवान्तरदीक्षाऽमुष्मिन्न् एवास्मै लोके ऽर्धुकं भवति ॥

6.2.4 अनुवाक 4 वेद्यभिधानम्
 1
    सुवर्गं वा एते लोकं यन्ति य उपसद उपयन्ति
    तेषां य उन्नयते हीयत एव स
    नोद् अनेषीति सून्नीयम् इव
    यो वै स्वार्थेतां यताꣳ श्रान्तो हीयत उत स निष्ट्याय सह वसति
    तस्मात् सकृद् उन्नीय नापरम् उन्नयेत
    दध्नोन्नयेत ।
    एतद् वै पशूनाꣳ रूपम् ।
    रूपेणैव पशून् अव रुन्द्धे ॥

 2
    यज्ञो देवेभ्यो निलायत विष्णू रूपं कृत्वा
    स पृथिवीम् प्राविशत्
    तं देवा हस्तान्त् सꣳरभ्यैच्छन्
    तम् इन्द्र उपर्युपर्य् अत्य् अक्रामत्
    सो ऽब्रवीत्
    को मायम् उपर्युपर्य् अत्य् अक्रमीद् इति ।
    अहं दुर्गे हन्तेत्य् अथ कस् त्वम् इति ।
    अहं दुर्गाद् आहर्तेति
    सो ऽब्रवीत् ।
    दुर्गे वै हन्ताऽवोचथा वराहो ऽयं वाममोषः

 3
    सप्तानां गिरीणाम् परस्ताद् वित्तं वेद्यम् असुराणाम् बिभर्ति तं जहि यदि दुर्गे हन्तासीति
    स दर्भपुञ्जीलम् उद्वृह्य सप्तगिरीन् भित्त्वा तम् अहन् ।
    सो ऽब्रवीत् ।
    दुर्गाद् वा आहर्तावोचथा एतम् आ हरेति
    तम् एभ्यो यज्ञ एव यज्ञम् आहरत् ।
    यत् तद् वित्तं वेद्यम् असुराणाम् अविन्दन्त तद् एकं वेद्यै वेदित्वम्
    असुराणाम्

 4
    वा इयम् अग्र आसीत् ।
    यावद् आसीनः परापश्यति तावद् देवानाम् ।
    ते देवा अब्रुवन् ।
    अस्त्व् एव नो ऽस्याम् अपीति
    कियद् वो दास्याम इति
    यावद् इयꣳ सलावृकी त्रिः परिक्रामति तावन् नो दत्तेति
    स इन्द्रः सलावृकी रूपं कृत्वेमां त्रिः सर्वतः पर्य् अक्रामत्
    तद् इमाम् अविन्दन्त
    यद् इमाम् अविन्दन्त तद् वेद्यै वेदित्वम् ॥

 5
    सा वा इयꣳ सर्वैव वेदिः ।
    इयति शक्ष्यामीति त्वा अवमाय यजन्ते
    त्रिꣳशत् पदानि पश्चात् तिरश्ची भवति षट्त्रिꣳशत् प्राची चतुर्विꣳशतिः पुरस्तात् तिरश्ची
    दशदश सम् पद्यन्ते
    दशाक्षरा विराड्
    अन्नं विराड्
    विराजैवान्नाद्यम् अव रुन्द्धे ।
    उद् धन्ति
    यद् एवास्या अमेध्यं तद् अप हन्ति ।
    उद् धन्ति
    तस्माद् ओषधयः परा भवन्ति
    बर्हि स्तृणाति
    तस्माद् ओषधयः पुनर् आ भवन्ति ।
    उत्तरम् बर्हिष उत्तरबर्हि स्तृणाति
    प्रजा वै बर्हिर् यजमान उत्तरबर्हिः ।
    यजमानम् एवायजमानाद् उत्तरं करोति
    तस्माद् यजमानो ऽयजमानाद् उत्तरः ॥

6.2.5 अनुवाक 5 व्रतनिरूपणम्
 1
    यद् वा अनीशानो भारम् आदत्ते वि वै स लिशते
    यद् द्वादश साह्नस्योपसदः स्युस् तिस्रो ऽहीनस्य यज्ञस्य विलोम क्रियेत
    तिस्र एव साह्नस्योपसदो द्वादशाहीनस्य यज्ञस्य सवीर्यत्वायाथो सलोम क्रियते
    वत्सस्यैकः स्तनो भागी हि सो ऽथैकꣳ स्तनं व्रतम् उपैत्य् अथ द्वाव् अथ त्रीन् अथ चतुर एतद् वै

 2
    क्षुरपवि नाम व्रतं येन प्र जातान् भ्रातृव्यान् नुदते प्रति जनिष्यमाणान् अथो कनीयसैव भूय उपैति
    चतुरो ऽग्रे स्तनान् व्रतम् उपैत्य् अथ त्रीन् अथ द्वाव् अथैकम् एतद् वै सुजघनं नाम व्रतं तपस्यꣳ सुवर्ग्यम् अथो प्रैव जायते प्रजया पशुभिः ।
    यवागू राजन्यस्य व्रतं क्रूरेव वै यवागूः क्रूर इव

 3
    राजन्यो वज्रस्य रूपꣳ समृद्ध्यै ।
    आमिक्षा वैश्यस्य पाकयज्ञस्य रूपम् पुष्ट्यै
    पयो ब्राह्मणस्य तेजो वै ब्राह्मणस् तेजः पयस् तेजसैव तेजः पय आत्मन् धत्ते ।
    अथो पयसा वै गर्भा वर्धन्ते गर्भ इव खलु वा एष यद् दीक्षितो यद् अस्य पयो व्रतम् भवत्य् आत्मानम् एव तद् वर्धयति
    त्रिव्रतो वै मनुर् आसीद् द्विव्रता असुरा एकव्रताः

 4
    देवाः ।
    प्रातर् मध्यंदिने सायं तन् मनोर् व्रतम् आसीत् पाकयज्ञस्य रूपम् पुष्ट्यै
    प्रातश् च सायं चासुराणां निर्मध्यं क्षुधो रूपं ततस् ते पराभवन्
    मध्यंदिने मध्यरात्रे देवानां ततस् ते ऽभवन्त् सुवर्गं लोकम् आयन्
    यद् अस्य मध्यंदिने मध्यरात्रे व्रतम् भवति मध्यतो वा अन्नेन भुञ्जते मध्यत एव तद् ऊर्जं धत्ते भ्रातृव्याभिभूत्यै
    भवत्य् आत्मना

 5
    परास्य भ्रातृव्यो भवति
    गर्भो वा एष यद् दीक्षितो योनिर् दीक्षितविमितं यद् दीक्षितो दीक्षितविमितात् प्रवसेद् यथा योनेर् गर्भ स्कन्दति तादृग् एव तन् न प्रवस्तव्यम् आत्मनो गोपीथाय ।
    एष वै व्याघ्रः कुलगोपो यद् अग्निस् तस्माद् यद् दीक्षितः प्रवसेत् स एनम् ईश्वरो ऽनूत्थाय हन्तोर् न प्रवस्तव्यम् आत्मनो गुप्त्यै
    दक्षिणतः शय एतद् वै यजमानस्यायतनꣳ स्व एवायतने शये ।
    अग्निम् अभ्यावृत्य शये देवता एव यज्ञम् अभ्यावृत्य शये ॥

6.2.6 अनुवाक 6 काम्ययागभूम्याभिधानम्
 1
    पुरोहविषि देवयजने याजयेद् यं कामयेत ।
    उपैनम् उत्तरो यज्ञो नमेद् अभि सुवर्गं लोकं जयेद् इति ।
    एतद् वै पुरोहविर् देवयजनं यस्य होता प्रातरनुवाकम् अनुब्रुवन्न् अग्निम् अप आदित्यम् अभि विपश्यति ।
    उपैनम् उत्तरो यज्ञो नमत्य् अभि सुवर्गं लोकं जयति ।
    आप्ते देवयजने याजयेद् भ्रातृव्यवन्तम्
    पन्थां वाऽधिस्पर्शयेत् कर्तं वा
    यावन् नानसे यातवै

 2
    न रथायैतद् वा आप्तं देवयजनम्
    आप्नोत्य् एव भ्रातृव्यं नैनम् भ्रातृव्य आप्नोति ।
    एकोन्नते देवयजने याजयेत् पशुकामम्
    एकोन्नताद् वै देवयजनाद् अङ्गिरसः पशून् असृजन्त ।
    अन्तरा सदोहविर्धाने उन्नतꣳ स्यात् ।
    एतद् वा एकोन्नतं देवयजनम्
    पशुमान् एव भवति
    त्र्युन्नते देवयजने याजयेत् सुवर्गकामम् ।
    त्र्युन्नताद् वै देवयजनाद् अङ्गिरसः सुवर्गं लोकम् आयन् ।
    अन्तराहवनीयं च हविर्धानं च

 3
    उन्नतꣳ स्याद् अन्तरा हविर्धानं च सदश् चान्तरा सदश् च गार्हपत्यं च ।
    एतद् वै त्र्युन्नतं देवयजनम् ।
    सुवर्गम् एव लोकम् एति
    प्रतिष्ठिते देवयजने याजयेत् प्रतिष्ठाकामम्
    एतद् वै प्रतिष्ठितं देवयजनं यत् सर्वतः समम्
    प्रत्य् एव तिष्ठति
    यत्रान्याअन्या ओषधयो व्यतिषक्ताः स्युस् तद् याजयेत् पशुकामम्
    एतद् वै पशूनाꣳ रूपम् ।
    रूपेणैवास्मै पशून्

 4
    अव रुन्द्धे
    पशुमान् एव भवति
    निर्ऋतिगृहीते देवयजने याजयेद् यं कामयेत
    निर्ऋत्याऽस्य यज्ञं ग्राहयेयम् इति ।
    एतद् वै निर्ऋतिगृहीतं देवयजनं यत् सदृश्यै सत्या ऋक्षम् ।
    निर्ऋत्यैवास्य यज्ञं ग्राहयति
    व्यावृत्ते देवयजने याजयेद् व्यावृत्कामं यम् पात्रे वा तल्पे वा मीमाꣳसेरन्
    प्राचीनम् आहवनीयात् प्रवणꣳ स्यात् प्रतीचीनं गार्हपत्याद् एतद् वै व्यावृत्तं देवयजनम् ।
    वि पाप्मना भ्रातृव्येणा वर्तते
    नैनम् पात्रे न तल्पे मीमाꣳसन्ते
    कार्ये देवयजने याजयेद् भूतिकामम् ।
   कार्यो वै पुरुषः ।
   भवत्य् एव ॥

6.2.7 अनुवाक 7 उत्तरवेदिनिरूपणम्
 1
    तेभ्य उत्तरवेदिः सिꣳही रूपं कृत्वोभयान् अन्तरापक्रम्यातिष्ठत्
    ते देवा अमन्यन्त
    यन्तरान् वा इयम् उपावर्त्स्यति त इदम् भविष्यन्तीति
    ताम् उपामन्त्रयन्त
    साब्रवीद्
    वरं वृणै सर्वान् मया कामान् व्यश्नवथ पूर्वां तु माग्नेर् आहुतिर् अश्नवता इति
    तस्माद् उत्तरवेदिम् पूर्वाम् अग्नेर् व्याघारयन्ति
    वारेवृतꣳ ह्य् अस्यै
    शम्यया परि मिमीते

 2
    मात्रैवास्यै साऽथो युक्तेनैव युक्तम् अव रुन्द्धे
    वित्तायनी मे ऽसीत्य् आह
    वित्ता ह्य् एनान् आवत्
    तिक्तायनी मे ऽसीत्य् आह
    तिक्तान् ह्य् एनान् आवत्
    अवतान् मा नाथितम् इत्य् आह
    नाथितान् ह्य् एनान् आवद्
    अवतान् मा व्यथितम् इत्य् आह
    व्यथितान् ह्य् एनान् आवद्
   विदेर् अग्निर् नभो नाम

 3
    अग्ने अङ्गिर इति त्रिर् हरति
    य एवैषु लोकेष्व् अग्नयस्
    तान् एवाव रुन्द्धे तूष्णीं चतुर्थꣳ हरत्य्
    अनिरुक्तम् एवाव रुन्द्धे
    सिꣳहीर् असि महिषीर् असीत्य् आह
    सिꣳहीर् ह्य् एषा रूपं कृत्वोभयान् अन्तरापक्रम्यातिष्ठद्
    उरु प्रथस्वोरु ते यज्ञपतिः प्रथताम् इत्य् आह
    यजमानम् एव प्रजया पशुभिः प्रथयति
    ध्रुवा

 4
    असीति सꣳ हन्ति धृत्यै देवेभ्यः शुन्धस्व देवेभ्यः शुम्भस्वेत्य् अव चोक्षति प्र च किरति शुद्ध्यै ।
    इन्द्रघोषस् त्वा वसुभिः पुरस्तात् पात्व् इत्य् आह दिग्भ्य एवैनाम् प्रोक्षति
    देवाꣳश् चेद् उत्तरवेदिर् उपाववर्तीहैव वि जयामहा इत्य् असुरा वज्रम् उद्यत्य देवान् अभ्य् आयन्त तान् इन्द्रघोषो वसुभिः पुरस्ताद् अप

 5
    अनुदत मनोजवाः पितृभिर् दक्षिणतः प्रचेता रुद्रैः पश्चाद् विश्वकर्मादित्यैर् उत्तरतो
    यद् एवम् उत्तरवेदिम् प्रोक्षति दिग्भ्य एव तद् यजमानो भ्रातृव्यान् प्रणुदत
    इन्द्रो यतीन्त् सालावृकेभ्यः प्रायच्छत् तान् दक्षिणत उत्तरवेद्या आदन्
    यत् प्रोक्षणीनाम् उच्छिष्येत तद् दक्षिणत उत्तरवेद्यै नि नयेद्
    यद् एव तत्र क्रूरं तत् तेन शमयति
    यं द्विष्यात् तं ध्यायेच् छुचैवैनम् अर्पयति ॥

6.2.8 अनुवाक 8 व्याघारणविधिः
 1
    सोत्तरवेदिर् अब्रवीत्
    सर्वान् मया कामान् व्यश्नवथेति
    ते देवा अकामयन्त ।
    असुरान् भ्रातृव्यान् अभि भवेमेति
    ते ऽजुहवुः
    सिꣳहीर् असि सपत्नसाही स्वाहेति
    ते ऽसुरान् भ्रातृव्यान् अभ्य् अभवन्
    ते ऽसुरान् भ्रातृव्यान् अभिभूयाकामयन्त
    प्रजां विन्देमहीति
    ते ऽजुहवुः
    सिꣳहीर् असि सुप्रजावनिः स्वाहेति
    ते प्रजाम् अविन्दन्त
    ते प्रजां वित्त्वा

 2
    अकामयन्त
    पशून् विन्देमहीति
    ते ऽजुहवुः
    सिꣳहीर् असि रायस्पोषवनिः स्वाहेति
    ते पशून् अविन्दन्त
    ते पशून् वित्त्वाकामयन्त
    प्रतिष्ठां विन्देमहीति
    ते ऽजुहवुः
    सिꣳहीर् अस्य् आदित्यवनिः स्वाहेति
    त इमाम् प्रतिष्ठाम् अविन्दन्त
    त इमाम् प्रतिष्ठां वित्त्वाकामयन्त
    देवता आशिष उपेयामेति
    ते ऽजुहवुः
    सिꣳहीर् अस्य् आ वह देवान् देवयते

 3
    यजमानाय स्वाहेति
    ते देवता आशिष उपायन्
    पञ्च कृत्वो व्याघारयति
    पञ्चाक्षरा पङ्क्तिः
    पाङ्क्तो यज्ञः ।
    यज्ञम् एवाव रुन्द्धे ।
    अक्ष्ण्या व्याघारयति
    तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति
    प्रतिष्ठित्यै
    भूतेभ्यस् त्वेति स्रुचम् उद् गृह्णाति
    य एव देवा भूतास् तेषां तद् भागधेयम् ।
    तान् एव तेन प्रीणाति
    पौतुद्रवान् परिधीन् परि दधाति ।
    एषाम्

 4
    लोकानां विधृत्यै ।
    अग्नेस् त्रयो ज्यायाꣳसो भ्रातर आसन्
    ते देवेभ्यो हव्यं वहन्तः प्रामीयान्त
    सो ऽग्निर् अबिभेत् ।
    इत्थं वाव स्य आर्तिम् आरिष्यतीति
    स निलायत
    स यां वनस्पतिष्व् अवसत् ताम् पूतुद्रौ याम् ओषधीषु ताꣳ सुगन्धितेजने याम् पशुषु ताम् पेत्वस्यान्तरा शृङ्गे
    तं देवताः प्रैषम् ऐच्छन्
    तम् अन्व् अविन्दन्
    तम् अब्रुवन्

 5
    उप न आ वर्तस्व हव्यं नो वहेति
    सो ऽब्रवीत् ।
    वरं वृणै यद् एव गृहीतस्याहुतस्य बहिःपरिधि स्कन्दात् तन् मे भ्रातृणाम् भागधेयम् असद् इति
    तस्माद् यद् गृहीतस्याहुतस्य बहिःपरिधि स्कन्दति तेषां तद् भागधेयं तान् एव तेन प्रीणाति
    सो ऽमन्यत ।
    अस्थन्वन्तो मे पूर्वे भ्रातरः प्रामेषतास्थानि शातया इति
    स यानि

 6
    अस्थान्य् अशातयत तत् पूतुद्र्वभवत् ।
    यन् माꣳसम् उपमृतं तद् गुल्गुलु यद् एतान्त् सम्भारान्त् सम्भरत्य् अग्निम् एव तत् सम् भरति ।
    अग्नेः पुरीषम् असीत्य् आह ।
    अग्नेर् ह्य् एतत् पुरीषं यत् संभाराः ।
    अथो खल्व् आहुः ।
    एते वावैनं ते भ्रातरः परि शेरे यत् पौतुद्रवाः परिधय इति ॥

6.2.9 अनुवाक 9 व्याघारणविधिः
 1
    बद्धम् अव स्यति
    वरुणपाशाद् एवैने मुञ्चति
    प्र णेनेक्ति मेध्ये एवैने करोति
    सावित्रियर्चा हुत्वा हविर्धाने प्र वर्तयति
    सवितृप्रसूत एवैने प्र वर्तयति
    वरुणो वा एष दुर्वाग् उभयतो बद्धो यद् अक्षः
    स यद् उत्सर्जेद् यजमानस्य गृहान् अभ्युत्सर्जेत्
    सुवाग् देव दुर्याꣳ आ वदेत्य् आह
    गृहा वै दुर्याः
    शान्त्यै
    पत्नी

 2
    उपानक्ति
    पत्नी हि सर्वस्य मित्रम्
    मित्रत्वाय
    यद् वै पत्नी यज्ञस्य करोति मिथुनं तत् ।
    अथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवछित्त्यै
    वर्त्मना वा अन्वित्य यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति
    वैष्णवीभ्याम् ऋग्भ्यां वर्त्मनोर् जुहोति
    यज्ञो वै विष्णुः ।
    यज्ञाद् एव रक्षाꣳस्य् अप हन्ति
    यद् अध्वर्युर् अनग्नाव् आहुतिं जुहुयाद् अन्धो ऽध्वर्युः स्याद् रक्षाꣳसि यज्ञꣳ हन्युः ।

 3
    हिरण्यम् उपास्य जुहोति ।
    अग्निवत्य् एव जुहोति
    नान्धो ऽध्वर्युर् भवति न यज्ञꣳ रक्षाꣳसि घ्नन्ति
    प्राची प्रेतम् अध्वरं कल्पयन्ती इत्य् आह
    सुवर्गम् एवैने लोकं गमयति ।
    अत्र रमेथां वर्ष्मन् पृथिव्या इत्य् आह
    वर्ष्म ह्य् एतत् पृथिव्या यद् देवयजनम् ।
    शिरो वा एतद् यज्ञस्य यद् धविर्धानम् ।
    दिवो वा विष्णवुत वा पृथिव्याः

 4
    इत्य् आशीर्पदयर्चा दक्षिणस्य हविर्धानस्य मेथीं नि हन्ति
    शीर्षत एव यज्ञस्य यजमान आशिषो ऽव रुन्द्धे
    दण्डो वा औपरस् तृतीयस्य हविर्धानस्य वषट्कारेणाक्षम् अच्छिनत् ।
    यत् तृतीयं छदिर् हविर्धानयोर् उदाह्रियते तृतीयस्य हविर्धानस्यावरुद्ध्यै
    शिरो वा एतद् यज्ञस्य यद् धविर्धानम् ।
    विष्णो रराटम् असि विष्णोः पृष्ठम् असीत्य् आह
    तस्माद् एतावद्धा शिरो विष्यूतम् ।
    विष्णोः स्यूर् असि विष्णोर् ध्रुवम् असीत्य् आह
    वैष्णवꣳ हि देवतया हविर्धानम् ।
    यम् प्रथमं ग्रन्थिं ग्रथ्नीयात् यत् तं न विस्रꣳसयेद् अमेहेनाध्वर्युः प्र मीयेत
    तस्मात् स विस्रस्यः ॥

6.2.10अनुवाक 10 सदोभिधानम्
 1
    देवस्य त्वा सवितुः प्रसव इत्य् अभ्रिम् आ दत्ते प्रसूत्यै ।
    अश्विनोर् बाहुभ्याम् इत्य् आह ।
    अश्विनौ हि देवानाम् अध्वर्यू आस्ताम्
    पूष्णो हस्ताभ्याम् इत्य् आह यत्यै
    वज्र इव वा एषा यद् अभ्रिर् अभ्रिर् असि नारिर् असीत्य् आह शान्त्यै
    काण्डेकाण्डे वै क्रियमाणे यज्ञꣳ रक्षाꣳसि जिघाꣳसन्ति
    परिलिखितꣳ रक्षः परिलिखिता अरातय इत्य् आह रक्षसाम् अपहत्यै ॥

 2
    इदम् अहꣳ रक्षसो ग्रीवा अपि कृन्तामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इत्य् आह द्वौ वाव पुरुषौ यं चैव द्वेष्टि यश् चैनं द्वेष्टि तयोर् एवानन्तरायं ग्रीवाः कृन्तति
    दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेत्य् आहैभ्य एवैनं लोकेभ्यः प्रोक्षति
    परस्ताद् अर्वाचीम् प्रोक्षति तस्मात्

 3
    परस्ताद् अर्वाचीम् मनुष्या ऊर्जम् उप जीवन्ति
    क्रूरम् इव वा एतत् करोति यत् खनत्य् अपो ऽव नयति शान्त्यै
    यवमतीर् अव नयत्य् ऊर्ग् वै यव ऊर्ग् उदुम्बर ऊर्जैवोर्जꣳ सम् अर्धयति
    यजमानेन सम्मितौदुम्बरी भवति यावान् एव यजमानस् तावतीम् एवास्मिन्न् ऊर्जं दधाति
    पितृणाꣳ सदनम् असीति बर्हिर् अव स्तृणाति पितृदेवत्यम्

 4
    ह्य् एतद् यन् निखातम् ।
    यद् बर्हिर् अनवस्तीर्य मिनुयात् पितृदेवत्या निखाता स्याद् बर्हिर् अवस्तीर्य मिनोत्य् अस्याम् एवैनां मिनोत्य् अथो स्वारुहम् एवैनां करोति ।
    उद् दिवꣳ स्तभानान्तरिक्षम् पृणेत्य् आहैषां लोकानां विधृत्यै
    द्युतानस् त्वा मारुतो मिनोत्व् इत्य् आह द्युतानो ह स्म वै मारुतो देवानाम् औदुम्बरीम् मिनोति तेनैव

 5
    एनाम् मिनोति
    ब्रह्मवनिं त्वा क्षत्रवनिम् इत्य् आह यथायजुर् एवैतत् ।
    घृतेन द्यावापृथिवी आ पृणेथाम् इत्य् औदुम्बर्यां जुहोति द्यावापृथिवी एव रसेनानक्ति ।
    आन्तम् अन्ववस्रावयत्य् आन्तम् एव यजमानं तेजसाऽनक्ति ।
    ऐन्द्रम् असीति छदिर् अधि नि दधात्य् ऐन्द्रꣳ हि देवतया सदः ।
    विश्वजनस्य छायेत्य् आह विश्वजनस्य ह्य् एषा छाया यत् सदः ।
    नवछदि

 6
    तेजस्कामस्य मिनुयात् त्रिवृता स्तोमेन सम्मितम् तेजस् त्रिवृत् तेजस्व्य् एव भवति ।
    एकादशछदीन्द्रियकामस्यैकादशाक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुग् इन्द्रियाव्य् एव भवति
    पञ्चदशछदि भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै
    सप्तदशछदि प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै ।
    एकविꣳशतिछदि प्रतिष्ठाकामस्यैकविꣳशः स्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै ।
    उदरं वै सद ऊर्ग् उदुम्बरो मध्यत औदुम्बरीम् मिनोति मध्यत एव प्रजानामूर्जं दधाति तस्मात्

 7
    मध्यत ऊर्जा भुञ्जते
    यजमानलोके वै दक्षिणानि छदीꣳषि भ्रातृव्यलोक उत्तराणि दक्षिणान्य् उत्तराणि करोति यजमानम् एवायजमानाद् उत्तरं करोति तस्माद् यजमानो ऽयजमानाद् उत्तरः ।
    अन्तर्वर्तान् करोति व्यावृत्त्यै तस्माद् अरण्यम् प्रजा उप जीवन्ति
    परि त्वा गिर्वणो गिर इत्य् आह यथायजुर् एवैतत् ।
    इन्द्रस्य स्यूर् असीन्द्रस्य ध्रुवम् असीत्य् आहैन्द्रꣳ हि देवतया सदः ।
    यम् प्रथमं ग्रन्थिं ग्रथ्नीयाद् यत् तं न विस्रꣳसयेद् अमेहेनाध्वर्युः प्र मीयेत तस्मात् स विस्रस्यः ॥

6.2.11 अनुवाक 11 उपरवाभिधानम्
 1
    शिरो वा एतद् यज्ञस्य यद् धविर्धानम् प्राणा उपरवाः ।
    हविर्धाने खायन्ते
    तस्माच् छीर्षन् प्राणाः ।
    अधस्तात् खायन्ते
    तस्माद् अधस्ताच् छीर्ष्णः प्राणाः ।
    रक्षोहणो वलगहनो वैष्णवान् खनामीत्य् आह
    वैष्णवा हि देवतयोपरवाः ।
    असुरा वै निर्यन्तो देवानाम् प्राणेषु वलगान् न्य् अखनन्
    तान् बाहुमात्रे ऽन्व् अविन्दन्
    तस्माद् बाहुमात्राः खायन्ते ।
    इदम् अहं तं वलगं उद् वपामि

 2
    यं नः समानो यम् असमानो निचखानेत्य् आह
    द्वौ वाव पुरुषौ यश् चैव समानो यश् चासमानः ।
    यम् एवास्मै तौ वलगं निखनस्तस् तम् एवोद् वपति
    सं तृणत्ति
    तस्मात् संतृण्णा अन्तरतः प्राणाः ।
    न सम् भिनत्ति
    तस्माद् असम्भिन्नाः प्राणाः ।
    अपो ऽव नयति
    तस्माद् आर्द्रा अन्तरतः प्राणाः ।
   यवमतीर् अव नयति ॥

 3
    ऊर्ग् वै यवः
    प्राणा उपरवाः
    प्राणेष्व् एवोर्जं दधाति
    बर्हिर् अव स्तृणाति
    तस्माल् लोमशा अन्तरतः प्राणाः ।
    आज्येन व्याघारयति
    तेजो वा आज्यम्
    प्राणा उपरवाः
    प्राणेष्व् एव तेजो दधाति
   हनू वा एते यज्ञस्य यद् अधिषवणे
    न सं तृणत्ति ।
   असंतृण्णे हि हनू
    अथो खलु दीर्घसोमे संतृद्ये
    धृत्यै
    शिरो वा एतद् यज्ञस्य यद् धविर्धानम्

 4
    प्राणा उपरवा हनू अधिषवणे जिह्वा चर्म ग्रावाणो दन्ता मुखम् आहवनीयो नासिकोत्तरवेदिर् उदरꣳ सदः ।
    यदा खलु वै जिह्वया दत्स्व् अधि खादत्य् अथ मुखं गच्छति
    यदा मुखं गच्छत्य् अथोदरं गच्छति
    तस्माद् धविर्धाने चर्मन्न् अधि ग्रावभिर् अभिषुत्याहवनीये हुत्वा प्रत्यञ्चः परेत्य सदसि भक्षयन्ति
    यो वै विराजो यज्ञमुखे दोहं वेद
    दुह एवैनाम्
    इयं वै विराट्
    तस्यै त्वक् चर्मोधो ऽधिषवणे स्तना उपरवा ग्रावाणो वत्सा ऋत्विजो दुहन्ति सोमः पयः ।
    य एवं वेद दुह एवैनाम् ॥