प्रमुखा विकल्पसूचिः उद्घाट्यताम्
धिष्ण्य

6.3 प्रपाठक: 3
6.3.1 अनुवाक 1 धिष्णियाभिधानम्
1 चात्वालाद् धिष्णियान् उप वपति योनिर् वै यज्ञस्य चात्वालं यज्ञस्य सयोनित्वाय देवा वै यज्ञम् पराजयन्त तम् आग्नीध्रात् पुनर् अपाजयन् । एतद् वै यज्ञस्यापराजितं यद् आग्नीध्रम् । यद् आग्नीध्राद् धिष्णियान् विहरति यद् एव यज्ञस्यापराजितं तत एवैनम् पुनस् तनुते
पराजित्येव खलु वा एते यन्ति ये बहिष्पवमानम्̇ सर्पन्ति बहिष्पवमाने स्तुते
2 आह । अग्नीद् अग्नीन् वि हर बर्हिः स्तृणाहि पुरोडाशाम्̇ अलं कुर्व् इति यज्ञम् एवापजित्य पुनस् तन्वाना यन्ति । अङ्गारैर् द्वे सवने वि हरति शलाकाभिस् तृतीयम् । सशुक्रत्वाय । अथो सम् भरत्य् एवैनद् । धिष्णिया वा अमुष्मिम्̐ लोके सोमम् अरक्षन् तेभ्यो ऽधि सोमम् आहरन् तम् अन्ववायन् तम् पर्य् अविशन् य एवं वेद विन्दते
3 परिवेष्टारम् । ते सोमपीथेन व्य् आर्ध्यन्त ते देवेषु सोमपीथम् ऐच्छन्त तान् देवा अब्रुवन् द्वेद्वे नामनी कुरुध्वम् अथ प्र वाऽऽप्स्यथ न वेति । अग्नयो वा अथ धिष्णियास् तस्माद् द्विनामा ब्राह्मणो ऽर्धुकस् तेषां ये नेदिष्ठम् पर्यविशन् ते सोमपीथम् प्राऽऽप्नुवन्न् आहवनीय आग्नीध्रीयो होत्रीयो मार्जालीयस् तस्मात् तेषु जुह्वति । अतिहाय वषट् करोति वि हि
4 एते सोमपीथेनार्ध्यन्त देवा वै याः प्राचीर् आहुतीर् अजुहवुर् ये पुरस्ताद् असुरा आसन् ताम्̇स् ताभिः प्राणुदन्त याः प्रतीचीर् ये पश्चाद् असुरा आसन् ताम्̇स् ताभिर् अपानुदन्त प्राचीर् अन्या आहुतयो हूयन्ते प्रत्यङ्ङ् आसीनो धिष्णियान् व्याघारयति पश्चाच् चैव पुरस्ताच् च यजमानो भ्रातृव्यान् प्र णुदते तस्मात् पराचीः प्रजाः प्र वीयन्ते प्रतीचीः
5 जायन्ते प्राणा वा एते यद् धिष्णियाः । यद् अध्वर्युः प्रत्यङ् धिष्णियान् अतिसर्पेत् प्राणान्त् सं कर्षेत् प्रमायुकः स्यात् । नाभिर् वा एषा यज्ञस्य यद् होता । ऊर्ध्वः खलु वै नाभ्यै प्राणो ऽवाङ् अपानः । यद् अध्वर्युः प्रत्यङ् होतारम् अतिसर्पेद् अपाने प्राणं दध्यात् प्रमायुकः स्यात् । नाध्वर्युर् उप गायेत् । वाग्वीर्यो वा अध्वर्युः । यद् अध्वर्युर् उपगायेद् उद्गात्रे
6 वाचम्̇ सम् प्र यच्छेद् उपदासुकाऽस्य वाक् स्यात् । ब्रह्मवादिनो वदन्ति नासम्̇स्थिते सोमे ऽध्वर्युः प्रत्यङ्क् सदो ऽतीयाद् अथ कथा दाक्षिणानि होतुम् एति यामो हि स तेषां कस्मा अह देवा यामं वाऽयामं वानु ज्ञास्यन्तीति । उत्तरेणाग्नीध्रम् परीत्य जुहोति दाक्षिणानि न प्राणान्त् सं कर्षति न्य् अन्ये धिष्णिया उप्यन्ते नान्ये यान् निवपति तेन तान् प्रीणाति यान् न निवपति यद् अनुदिशति तेन तान् ॥

6.3.2 अनुवाक 2 अग्नीषोमीयप्रणयनाभिधानम्
1 सुवर्गाय वा एतानि लोकाय हूयन्ते यद् वैसर्जनानि द्वाभ्यां गार्हपत्ये जुहोति द्विपाद् यजमानः प्रतिष्ठित्यै । आग्नीध्रे जुहोति । अन्तरिक्ष एवाऽऽक्रमते । आहवनीये जुहोति सुवर्गम् एवैनं लोकं गमयति देवान् वै सुवर्गं लोकं यतो रक्षाम्̇स्य् अजिघाम्̇सन् ते सोमेन राज्ञा रक्षाम्̇स्य् अपहत्याप्तुम् आत्मानं कृत्वा सुवर्गं लोकम् आयन् रक्षसाम् अनुपलाभाय । आत्तः सोमो भवत्य् अथ
2 वैसर्जनानि जुहोति रक्षसाम् अपहत्यै त्वम्̇ सोम तनूकृद्भ्य इत्य् आह तनूकृद् ध्य् एष द्वेषोभ्यो ऽन्यकृतेभ्य इत्य् आह । अन्यकृतानि हि रक्षाम्̇सि । उरु यन्तासि वरूथम् इत्य् आह । उरु णस् कृधीति वावैतद् आह जुषाणो अप्तुर् आज्यस्य वेत्व् इत्य् आह । अप्तुम् एव यजमानं कृत्वा सुवर्गं लोकं गमयति रक्षसाम् अनुपलाभाय । आ सोमं ददते
3 आ ग्राव्ण आ वायव्यान्य् आ द्रोणकलशम् उत् पत्नीम् आ नयन्ति । अन्व् अनाम्̇सि प्र वर्तयन्ति यावद् एवास्यास्ति तेन सह सुवर्गं लोकम् एति नयवत्यर्चाऽऽग्नीध्रे जुहोति सुवर्गस्य लोकस्याभिनीत्यै ग्राव्णो वायव्यानि द्रोणकलशम् आग्नीध्र उप वासयति वि ह्य् एनं तैर् गृह्णते यत् सहोपवासयेद् अपुवायेत सौम्यर्चा प्र पादयति स्वया
4 एवैनं देवतया प्र पादयति । अदित्याः सदो ऽस्य् अदित्याः सद आ सीदेत्य् आह यथायजुर् एवैतत् । यजमानो वा एतस्य पुरा गोप्ता भवति । एष वो देव सवितः सोम इत्य् आह सवितृप्रसूत एवैनं देवताभ्यः सम् प्र यच्छति । एतत् त्वम्̇ सोम देवो देवान् उपागा इत्य् आह देवो ह्य् एष सन्
5 देवान् उपैति । इदम् अहम् मनुष्यो मनुष्यान् इत्य् आह मनुष्यो ह्य् एष सन् मनुष्यान् उपैति यद् एतद् यजुर् न ब्रूयाद् अप्रजा अपशुर् यजमानः स्यात् सह प्रजया सह रायस् पोषेणेत्य् आह प्रजयैव पशुभिः सहेमं लोकम् उपावर्तते नमो देवेभ्य इत्य् आह नमस्कारो हि देवानाम् । स्वधा पितृभ्य इत्य् आह स्वधाकारो हि
6 पितृणाम् इदम् अहं निर् वरुणस्य पाशाद् इत्य् आह वरुणपाशाद् एव निर् मुच्यते । अग्ने व्रतपते । आत्मनः पूर्वा तनूर् आदेयेत्य् आहुः को हि तद् वेद यद् वसीयान्त् स्वे वशे भूते पुनर् वा ददाति न वेति ग्रावाणो वै सोमस्य राज्ञो मलिम्लुसेना य एवं विद्वान् ग्राव्ण आग्नीध्र उपवासयति नैनम् मलिम्लुसेना विन्दति ॥

6.3.3 अनुवाक 3 यूपखण्डनाभिधानम्
1 वैष्णव्यर्चा हुत्वा यूपम् अच्छैति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतयाऽच्छैत्य् अत्य् अन्यान् अगां नान्यान् उपागाम् इत्य् आहाति ह्य् अन्यान् एति नान्यान् उपैत्य् अर्वाक् त्वा परैर् अविदम् परोवरैर् इत्य् आहार्वाग् घ्य् एनम् परैर् विन्दति परोवरैस् तं त्वा जुषे ॥
2 वैष्णवं देवयज्याया इत्य् आह देवयज्यायै ह्य् एनं जुषते देवस् त्वा सविता मध्वाऽनक्त्व् इत्य् आह तेजसैवैनम् अनक्त्य् ओषधे त्रायस्वैनम्̇ स्वधिते मैनम्̇ हिम्̇सीर् इत्य् आह वज्रो वै स्वधितिः शान्त्यै स्वधितेर् वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परा पतति यः प्रथमः शकलः परापतेत् तम् अप्य् आ हरेत् सतेजसम्
3 एवैनम् आ हरतीमे वै लोका यूपात् प्रयतो बिभ्यति दिवम् अग्रेण मालेखीर् अन्तरिक्षम् मध्येन मा हिम्̇सीर् इत्य् आहैभ्य एवैनं लोकेभ्यः शमयति वनस्पते शतवल्शो वि रोहेत्य् आव्रश्चने जुहोति तस्माद् आव्रश्चनाद् वृक्षाणाम् भूयाम्̇स उत् तिष्ठन्ति सहस्रवल्शा वि वयम्̇ रुहेमेत्य् आहाऽऽशिषम् एवैताम् आ शास्ते । अनक्षसङ्गम्
4 वृश्चेद् यद् अक्षसङ्गं वृश्चेद् अधईषं यजमानस्य प्रमायुकम्̇ स्याद् यं कामयेताप्रतिष्ठितः स्याद् इत्य् आरोहं तस्मै वृश्चेद् एष वै वनस्पतीनाम् अप्रतिष्ठितोऽप्रतिष्ठित एव भवति यं कामयेतापशुः स्याद् इत्य् अपर्णं तस्मै शुष्काग्रं वृश्चेद् एष वै वनस्पतीनाम् अपशव्यो ऽपशुर् एव भवति यं कामयेत पशुमान्त् स्याद् इति बहुपर्णं तस्मै बहुशाखं वृश्चेद् एष वै
5 वनस्पतीनाम् पशव्यः पशुमान् एव भवति प्रतिष्ठितं वृश्चेत् प्रतिष्ठाकामस्यैष वै वनस्पतीनाम् प्रतिष्ठितो यः समे भूम्यै स्वाद् योने रूढः प्रत्य् एव तिष्ठति यः प्रत्यङ्ङ् उपनतस् तं वृश्चेत् स हि मेधम् अभ्य् उपनतः पञ्चारत्निं तस्मै वृश्चेद् यं कामयेतोपैनम् उत्तरो यज्ञो नमेद् इति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञ उपैनम् उत्तरो यज्ञः
6 नमति षडरत्निम् प्रतिष्ठाकामस्य षड् वा ऋतव ऋतुष्व् एव प्रति तिष्ठति सप्तारत्निम् पशुकामस्य सप्तपदा शक्वरी पशवः शक्वरी पशून् एवाव रुन्द्धे नवारत्निं तेजस्कामस्य त्रिवृता स्तोमेन सम्मितं तेजस् त्रिवृत् तेजस्व्य् एव भवति । एकादशारत्निम् इन्द्रियकामस्यैकादशाक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुग् इन्द्रियाव्य् एव भवति पञ्चदशारत्निम् भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै सप्तदशारत्निम् प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै । एकविम्̇शत्यरत्निम् प्रतिष्ठाकामस्यैकविम्̇श स्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै । अष्टाश्रिर् भवत्य् अष्टाक्षरा गायत्री तेजो गायत्री गायत्री यज्ञमुखं तेजसैव गायत्रिया यज्ञमुखेन सम्मितः ॥

यूपः


6.3.4 अनुवाक 4 यूपस्थापनाभिधानम्
1 पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेत्य् आहैभ्य एवैनं लोकेभ्यः प्रोक्षति पराञ्चम् प्रोक्षति पराङ् इव हि सुवर्गो लोकः क्रूरम् इव वा एतत् करोति यत् खनत्य् अपोऽव नयति शान्त्यै यवमतीर् अव नयत्य् ऊर्ग् वै यवो यजमानेन यूपः सम्मितो यावान् एव यजमानस् तावतीम् एवास्मिन्न् ऊर्जं दधाति
2 पितृणाम्̇ सदनम् असीति बर्हिर् अव स्तृणाति पितृदेवत्यम्̇ ह्य् एतद् यन् निखातं यद् बर्हिर् अनवस्तीर्य मिनुयात् पितृदेवत्यो निखातः स्याद् बर्हिर् अवस्तीर्य मिनोत्य् अस्याम् एवैनम् मिनोति यूपशकलम् अवास्यति सतेजसम् एवैनम् मिनोति देवस् त्वा सविता मध्वानक्त्व् इत्य् आह तेजसैवैनम् अनक्ति सुपिप्पलाभ्यस् त्वौषधीभ्य इति चषालम् प्रति
3 मुञ्चति तस्माच् छीर्षत ओषधयः फलं गृह्णन्त्य् अनक्ति तेजो वा आज्यं यजमानेनाग्निष्ठाऽश्रिः सम्मिता यद् अग्निष्ठाम् अश्रिम् अनक्ति यजमानम् एव तेजसाऽनक्त्य् आन्तम् अनक्त्य् आन्तम् एव यजमानं तेजसाऽनक्ति सर्वतः परि मृशत्य् अपरिवर्गम् एवास्मिन् तेजो दधात्य् उद् दिवम्̇ स्तभानाऽन्तरिक्षम् पृणेत्य् आहैषां लोकानां विधृत्यै वैष्णव्यर्चा
4 कल्पयति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतया कल्पयति द्वाभ्यां कल्पयति द्विपाद् यज्मानः प्रतिष्ठित्यै यं कामयेत तेजसैनं देवताभिर् इन्द्रियेण व्यर्धयेयम् इत्य् अग्निष्ठां तस्याश्रिं आहवनीयाद् इत्थं वेत्थं वाति नावयेत् तेजसैवैनं देवताभिर् इन्द्रियेण व्यर्धयति यं कामयेत तेजसैनं देवताभिर् इन्द्रियेण सम् अर्धयेयम् इति ॥
5 अग्निष्ठां तस्याश्रिम् आहवनीयेन सम् मिनुयात् तेजसैवैनं देवताभिर् इन्द्रियेण सम् अर्धयति ब्रह्मवनिं त्वा क्षत्रवनिम् इत्य् आह यथायजुर् एवैतत् परि व्ययत्य् ऊर्ग् वै रशना यजमानेन यूपः सम्मितो यजमानम् एवोर्जा सम् अर्धयति नाभिदघ्ने परि व्ययति नाभिदघ्न एवास्मा ऊर्जं दधाति तस्मान् नाभिदघ्न ऊर्जा भुञ्जते यं कामयेतोर्जैनम्
6 व्यर्धयेयम् इत्य् ऊर्ध्वां वा तस्यावाचीं वाऽवोहेद् ऊर्जैवैनं व्यर्धयति यदि कामयेत वर्षुकः पर्जन्यः स्याद् इत्य् अवाचीम् अवोहेद् वृष्टिम् एव नि यच्छति यदि कामयेतावर्षुकः स्याद् इत्य् ऊर्ध्वाम् उद् ऊहेद् वृष्टिम् एवोद् यच्छति पितृणां निखातम् मनुष्याणामूर्ध्वं निखाताद् आ रशनाया ओषधीनाम्̇ रशना विश्वेषाम्
7 देवानां ऊर्ध्वम्̇ रशनाया आ चषालाद् इन्द्रस्य चषालम्̇ साध्यानाम् अतिरिक्तम्̇ स वा एष सर्व देवत्यो यद् यूपो यद् यूपम् मिनोति सर्वा एव देवताः प्रीणाति यज्ञेन वै देवाः सुवर्गं लोकम् आयन् ते ऽमन्यन्त मनुष्या नो ऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकम् आयन् तम् ऋषयो यूपेनैवानु प्राजानन् तद् यूपस्य यूपत्वम् ।
8 यद् यूपम् मिनोति सुवर्गस्य लोकस्य प्रज्ञात्यै पुरस्तान् मिनोति पुरस्ताद् धि यज्ञस्य प्रज्ञायते ऽप्रज्ञातम्̇ हि तद् यद् अतिपन्न आहुर् इदं कार्यम् आसीद् इति साध्या वै देवा यज्ञम् अत्य् अमन्यन्त तान् यज्ञो नास्पृशत् तान् यद् यज्ञस्यातिरिक्तम् आसीत् तद् अस्पृशद् अतिरिक्तं वा एतद् यज्ञस्य यद् अग्नाव् अग्निम् मथित्वा प्रहरत्य् अतिरिक्तम् एतत्
9 यूपस्य यद् ऊर्ध्वं चषालात् तेषां तद् भागधेयं तान् एव तेन प्रीणाति देवा वै सम्̇स्थिते सोमे प्र स्रुचोहरन् प्र यूपं ते ऽमन्यन्त यज्ञवेशसं वा इदं कुर्म इति ते प्रस्तरम्̇ स्रुचाम्̇ निष्क्रयणम् अपश्यन्त् स्वरुं यूपस्य सम्̇स्थिते सोमे प्र प्रस्तरम्̇ हरति जुहोति स्वरुं अयज्ञवेशसाय ॥

6.3.5 अनुवाक 5 अग्निमन्थनाभिधानम्
1 साध्या वै देवा अस्मिम्̐ लोक आसन् नान्यत् किं चन मिषत् ते ऽग्निम् एवाग्नये मेधायालभन्त न ह्य् अन्यद् आलम्भ्यम् अविन्दन् ततो वा इमाः प्रजाः प्राजायन्त यद् अग्नाव् अग्निम् मथित्वा प्रहरति प्रजानाम् प्रजननाय रुद्रो वा एष यद् अग्निर् यजमानः पशुः । यत् पशुम् आलभ्याग्निम् मन्थेद् रुद्राय यजमानम्
2 अपि दध्यात् प्रमायुकः स्यात् । अथो खल्व् आहुः । अग्निः सर्वा देवता हविर् एतद् यत् पशुर् इति यत् पशुम् आलभ्याग्निम् मन्थति हव्यायैवासन्नाय सर्वा देवता जनयति । उपाकृत्यैव मन्थ्यस् तन् नेवालब्धं नेवानालब्धम् अग्नेर् जनित्रम् असीत्य् आह । अग्नेर् ह्य् एतज् जनित्रम् । वृषणौ स्थ इत्य् आह 1 वृषणौ
3 ह्य् एतौ । उर्वश्य् अस्य् आयुर् असीत्य् आह मिथुनत्वाय घृतेनाक्ते वृषणं दधाथाम् इत्य् आह वृषणम्̇ ह्य् एते दधाते ये अग्निम् । गायत्रं छन्दो ऽनु प्र जायस्वेत्य् आह छन्दोभिर् एवैनम् प्र जनयति । अग्नये मथ्यमानायानु ब्रूहीत्य् आह सावित्रीम् ऋचम् अन्व् आह सवितृप्रसूत एवैनम् मन्थति जातायानु ब्रूहि
4 प्रह्रियमानायानु ब्रूहीत्य् आह काण्डेकाण्ड एवैनं क्रियमाणे सम् अर्धयति गायत्रीः सर्वा अन्व् आह गायत्रछन्दा वा अग्निः स्वेनैवैनं छन्दसा सम् अर्धयति । अग्निः पुरा भवत्य् अग्निम् मथित्वा प्र हरति तौ सम्भवन्तौ यजमानम् अभि सम् भवतः । भवतं नः समनसाव् इत्य् आह शान्त्यै प्रहृत्य जुहोति जातायैवास्मा अन्नम् अपि दधाति । आज्येन जुहोति । एतद् वा अग्नेः प्रियं धाम यद् आज्यम् प्रियेणैवैनं धाम्ना सम् अर्धयत्य् अथो तेजसा ॥
 
6.3.6 अनुवाक 6 पशुनियोजनम्
1 इषे त्वेति बर्हिर् आ दत्त इच्छत इव ह्य् एष यो यजते । उपवीर् असीत्य् आहोप ह्य् एनान् आकरोति । उपो देवान् दैवीर् विशः प्रागुर् इत्य् आह दैवीर् ह्य् एता विशः सतीर् देवान् उपयन्ति वह्नीर् उशिज इत्य् आहर्त्विजो वै वह्नय उशिजस् तस्माद् एवम् आह बृहस्पते धारया वसूनीति
2 आह ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैवास्मै पशून् अव रुन्द्धे हव्या ते स्वदन्ताम् इत्य् आह स्वदयत्य् एवैनान् देव त्वष्टर् वसु रण्वेत्य् आह त्वष्टा वै पशूनाम् मिथुनानाम्̇ रूपकृद् रूपम् एव पशुषु दधाति रेवती रमध्वम् इत्य् आह पशवो वै रेवतीः पशून् एवास्मै रमयति देवस्य त्वा सवितुः प्रसव इति
3 रशनाम् आ दत्ते प्रसूत्या अश्विनोर् बाहुभ्याम् इत्य् आहाश्विनौ हि देवानाम् अध्वर्यू आस्ताम् पूष्णो हस्ताभ्याम् इत्य् आह यत्यै । ऋतस्य त्वा देवहविः पाशेना रभ इत्य् आह सत्यं वा ऋतम्̇ सत्येनैवैनम् ऋतेना रभते । अक्ष्णया परि हरति वध्यम्̇ हि प्रत्यञ्चम् प्रतिमुञ्चन्ति व्यावृत्त्यै धर्षा मानुषान् इति नि युनक्ति धृत्यै । अद्भ्यः
4 त्वौषधीभ्यः प्रोक्षामीत्य् आहाद्भ्यो ह्य् एष ओषधीभ्यः सम्भवति यत् पशुः । अपाम् पेरुर् असीत्य् आहैष ह्य् अपाम् पाता यो मेधायारभ्यते स्वात्तं चित् सदेवम्̇ हव्यम् आपो देवीः स्वदतैनम् इत्य् आह स्वदयत्य् एवैनम् उपरिष्टात् प्रोक्षत्य् उपरिष्टाद् एवैनम् मेध्यं करोति पाययत्य् अन्तरत एवैनम् मेध्यं करोत्य् अधस्ताद् उपोक्षति सर्वत एवैनम् मेध्यं करोति ॥
 
6.3.7 अनुवाक 7 सामिधेन्याद्यभिधानम्
1 अग्निना वै होत्रा देवा असुरान् अभ्य् अभवन्न् अग्नये समिध्यमानायानु ब्रूहीत्य् आह भ्रातृव्याभिभूत्यै सप्तदश सामिधेनीर् अन्व् आह सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै सप्तदशान्वाह द्वादश मासाः पञ्चर्तवः स संवत्सरः संवत्सरम् प्रजा अनु प्र जायन्ते प्रजानाम् प्रजननाय देवा वै सामिधेनीर् अनूच्य यज्ञं नान्व् अपश्यन्त् स प्रजापतिस् तूष्णीम् आघारम्
2 आघारयत् ततो वै देवा यज्ञम् अन्व् अपश्यन् यत् तूष्णीम् आघारम् आघारयति यज्ञस्यानुख्यात्यै । असुरेषु वै यज्ञ आसीत् तं देवास् तूष्णीम्̇ होमेनावृञ्जत यत् तूष्णीम् आघारम् आघारयति भ्रातृव्यस्यैव तद् यज्ञं वृङ्क्ते परिधीन्त् सम् मार्ष्टि पुनात्य् एवैनान् त्रिस्त्रिः सम् मार्ष्टि त्र्यावृद् धि यज्ञो ऽथो रक्षसाम् अपहत्यै द्वादश सम् पद्यन्ते द्वादश
3 मासाः संवत्सरः संवत्सरम् एव प्रीणात्य् अथो संवत्सरम् एवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै शिरो वा एतद् यज्ञस्य यद् आघारो ऽग्निः सर्वा देवता यद् आघारम् आघारयति शीर्षत एव यज्ञस्य यजमानः सर्वा देवता अव रुन्द्धे शिरो वा एतद् यज्ञस्य यद् आघार आत्मा पशुर् आघारम् आघार्य पशुम्̇ सम् अनक्त्य् आत्मन्न् एव यज्ञस्य
4 शिरः प्रति दधाति सं ते प्राणो वायुना गच्छताम् इत्य् आह वायुदेवत्यो वै प्राणो वायाव् एवास्य प्राणं जुहोति सं यजत्रैर् अङ्गानि सं यज्ञपतिर् आशिषेत्य् आह यज्ञपतिम् एवास्याशिषं गमयति विश्वरूपो वै त्वाष्ट्र उपरिष्टात् पशुम् अभ्य् अवमीत् तस्माद् उपरिष्टात् पशोर् नावद्यन्ति यद् उपरिष्टात् पशुम्̇ समनक्ति मेध्यम् एव
5 एनं करोति । ऋत्विजो वृणीते छन्दाम्̇स्य् एव वृणीते सप्त वृणीते सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाम्̇स्य् उभयस्यावरुद्ध्यै । एकादश प्रयाजान् यजति दश वै पशोः प्राणा आत्मैकादशो यावान् एव पशुस् तम् प्र यजति वपां एकः परि शय आत्मैवात्मानम् परि शये वज्रो वै स्वधितिर् वज्रो यूपशकलो घृतं खलु वै देवा वज्रं कृत्वा सोमम् अघ्नन् घृतेनाक्तौ पशुं त्रायेथाम् इत्य् आह वज्रेणैवैनं वशे कृत्वा लभते ॥

6.3.8 अनुवाक 8 पशुहिंसनाभिधानम्
1 पर्यग्नि करोति सर्वहुतम् एवैनं करोत्य् अस्कन्दायास्कन्नं हि तद् यद् धुतस्य स्कन्दति त्रिः पर्यग्नि करोति त्र्यावृद् धि यज्ञो ऽथो रक्षसाम् अपहत्यै ब्रह्मवादिनो वदन्ति । अन्वारभ्यः पशू3र् नान्वारभ्या3 इति मृत्यवे वा एष नीयते यत् पशुस् तम् यद् अन्वारभेत प्रमायुको यजमानः स्याद् अथो खल्व् आहुः सुवर्गाय वा एष लोकाय नीयते यत्
2 पशुर् इति यन् नान्वारभेत सुवर्गाल् लोकाद् यजमानो हीयेत वपाश्रपणीभ्याम् अन्वारभते तन् नेवान्वारब्धं नेवानन्वारब्धम् उप प्रेष्य होतर् हव्या देवेभ्य इत्य् आहेषितम्̇ हि कर्म क्रियते रेवतीर् यज्ञपतिं प्रियधा विशतेत्य् आह यथायजुर् एवैतद् अग्निना पुरस्ताद् एति रक्षसाम् अपहत्यै पृथिव्याः संपृचः पाहीति बर्हिः
3 उपास्यत्य् अस्कन्दायास्कन्नम्̇ हि तद् यद् बर्हिषि स्कन्दत्य् अथो बर्हिषदम् एवैनं करोति पराङ् आ वर्तते ऽध्वर्युः पशोः संज्ञप्यमानात् पशुभ्य एव तन् नि ह्नुत आत्मनोऽनाव्रस्काय गच्छति श्रियम् प्र पशून् आप्नोति य एवं वेद पश्चाल् लोका वा एषा प्राच्य् उदानीयते यत् पत्नी नमस् त आतानेत्य् आहाऽऽदित्यस्य वै रश्मयः
4 आतानास् तेभ्य एव नमस् करोति । अनर्वा प्रेहीत्य् आह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै घृतस्य कुल्याम् अनु सह प्रजया सह रायस् पोषेणेत्य् आहाऽऽशिषम् एवैताम् आ शास्त आपो देवीः शुद्धायुव इत्य् आह यथायजुर् एवैतत् ॥

6.3.9 अनुवाक 9 वपाहोमाभिधानम्
1 पशोर् वा आलब्धस्य प्राणाञ् छुग् ऋच्छति वाक् त आ प्यायताम् प्राणस् त आ प्यायताम् इत्य् आह प्राणेभ्य एवास्य शुचम्̇ शमयति सा प्राणेभ्यो ऽधि पृथिवीम्̇ शुक् प्र विशति शम् अहोभ्याम् इति नि नयत्य् अहोरात्राभ्याम् एव पृथिव्यै शुचम्̇ शमयति । ओषधे त्रायस्वैनम्̇ स्वधिते मैनम्̇ हिम्̇सीर् इत्य् आह वज्रो वै स्वधितिः
2 शान्त्यै पार्श्वत आ च्छ्यति मध्यतो हि मनुष्या आच्छ्यन्ति तिरश्चीनम् आ छ्यत्य् अनूचीनम्̇ हि मनुष्या आछ्यन्ति व्यावृत्त्यै रक्षसाम् भागो ऽसीति स्थविमतो बर्हिर् अक्त्वापास्यत्य् अस्नैव रक्षाम्̇सि निरवदयते । इदम् अहम्̇ रक्षो ऽधमं तमो नयामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इत्य् आह द्वौ वाव पुरुषौ यं चैव
3 द्वेष्टि यश् चैनं द्वेष्टि ताव् उभाव् अधमं तमो नयति । इषे त्वेति वपाम् उत् खिदतीच्छत इव ह्य् एष यो यजते यद् उपतृन्द्याद् रुद्रो ऽस्य पशून् घातुकः स्याद् यन् नोपतृन्द्याद् अयता स्याद् अन्ययोपतृणत्त्य् अन्यया न धृत्यै घृतेन द्यावापृथिवी प्रोर्ण्वाथाम् इत्य् आह द्यावापृथिवी एव रसेनानक्ति । अछिन्नः
4 रायः सुवीर इत्य् आह यथायजुर् एवैतत् क्रूरम् इव वा एतत् करोति यद् वपाम् उत्खिदत्य् उर्व् अन्तरिक्षम् अन्व् इहीत्य् आह शान्त्यै प्र वा एषो ऽस्माल् लोकाच् च्यवते यः पशुम् मृत्यवे नीयमानम् अन्वारभते वपाश्रपणी पुनर् अन्वारभते ऽस्मिन्न् एव लोके प्रति तिष्ठति । अग्निना पुरस्ताद् एति रक्षसाम् अपहत्या अथो देवता एव हव्येन
5 अन्व् एति नान्तमम् अङ्गारम् अति हरेद् यद् अन्तमम् अङ्गारम् अतिहरेद् देवता अति मन्येत वायो वीहि स्तोकानाम् इत्य् आह तस्माद् विभक्ता स्तोका अव पद्यन्ते । अग्रं वा एतत् पशूनां यद् वपाग्रम् ओषधीनाम् बर्हिर् अग्रेणैवाग्रम्̇ सम् अर्धयत्य् अथो ओषधीष्व् एव पशून् प्रति ष्ठापयति स्वाहाकृतीभ्यः प्रेष्येत्य् आह
6 यज्ञस्य समिष्ट्यै प्राणापानौ वा एतौ पशूनां यत् पृषदाज्यम् आत्मा वपा पृषदाज्यम् अभिघार्य वपाम् अभि घारयत्य् आत्मन्न् एव पशूनाम् प्राणापानौ दधाति स्वाहोर्ध्वनभसम् मारुतं गच्छतम् इत्य् आहोर्ध्वनभा ह स्म वै मारुतो देवानां वपाश्रपणी प्रहरति तेनैवैने प्र हरति विषूची प्र हरति तस्माद् विष्वञ्चौ प्राणापानौ ॥
 
6.3.10 अनुवाक 10 अवदानाभिधानम्
1 पशुम् आलभ्य पुरोडाशं निर् वपति समेधम् एवैनम् आ लभते वपया प्रचर्य पुरोडाशेन प्र चरत्य् ऊर्ग् वै पुरोडाश ऊर्जम् एव पशूनाम् मध्यतो दधात्य् अथो पशोर् एव छिद्रम् अपि दधाति पृषदाज्यस्योपहत्य त्रिः पृच्छति शृतम्̇ हवी3ः शमितर् इति त्रिषत्या हि देवा यो ऽशृतम्̇ शृतम् आह स एनसा प्राणापानौ वा एतौ पशूनाम्
2 यत् पृषदाज्यम् पशोः खलु वा आलब्धस्य हृदयम् आत्माभि सम् एति यत् पृषदाज्येन हृदयम् अभिघारयत्य् आत्मन्न् एव पशूनाम् प्राणापानौ दधाति पशुना वै देवाः सुवर्गं लोकम् आयन् ते ऽमन्यन्त मनुष्या नो ऽन्वाभविष्यन्तीति तस्य शिरश् छित्त्वा मेधम् प्राक्षारयन्त् स प्रक्षो ऽभवत् तत् प्रक्षस्य प्रक्षत्वं यत् प्लक्षशाखोत्तरबर्हिर् भवति समेधस्यैव
3 पशोर् अव द्यति पशुं वै ह्रियमाणम्̇ रक्षाम्̇स्य् अनु सचन्ते ऽन्तरा यूपं चाहवनीयं च हरति रक्षसाम् अपहत्यै पशोर् वा आलब्धस्य मनो ऽप क्रामति मनोतायै हविषो ऽवदीयमानस्यानु ब्रूहीत्य् आह मन एवास्याव रुन्द्धे । एकादशावदानान्य् अव द्यति दश वै पशोः प्राणा आत्मैकादशो यावान् एव पशुस् तस्याव
4 द्यति हृदयस्याग्रे ऽव द्यत्य् अथ जिह्वाया अथ वक्षसो यद् वै हृदयेनाभिगच्छति तज् जिह्वया वदति यज् जिह्वया वदति तद् उरसो ऽधि निर् वदति । एतद् वै पशोर् यथापूर्वं यस्यैवम् अवदाय यथाकामम् उत्तरेषाम् अवद्यति यथापूर्वम् एवास्य पशोर् अवत्तम् भवति मध्यतो गुदस्याव द्यति मध्यतो हि प्राण उत्तमस्याव द्यति ।
5 उत्तमो हि प्राणो यदीतरं यदीतरम् उभयम् एवाजामि जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी तद् अवदानैर् एवाव दयते तद् अवदानानाम् अवदानत्वम् । देवासुराः संयत्ता आसन् ते देवा अग्निम् अब्रुवन् त्वया वीरेणासुरान् अभि भवामेति ।
6 सो ऽब्रवीद् वरं वृणै पशोर् उद्धारम् उद् धरा इति स एतम् उद्धारम् उद् अहरत दोः पूर्वार्धस्य गुदम् मध्यतः श्रोणिं जघनार्धस्य ततो देवा अभवन् परासुरा यत् त्र्यङ्गाणाम्̇ समवद्यति भ्रातृव्याभिभूत्यै भवत्य् आत्मना परास्य भ्रातृव्यो भवति । अक्ष्णयाव द्यति तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै ॥

6.3.11 अनुवाक 11 अनूयाजकथनम्
1 मेदसा स्रुचौ प्रोर्णोति मेदोरूपा वै पशवो रूपम् एव पशुषु दधाति यूषन्न् अवधाय प्रोर्णोति रसो वा एष पशूनां यद् यू रसम् एव पशुषु दधाति पार्श्वेन वसाहोमम् प्र यौति मध्यं वा एतत् पशूनां यत् पार्श्वम्̇ रस एष पशूनां यद् वसा यत् पार्श्वेन वसाहोमम् प्रयौति मध्यत एव पशूनाम्̇ रसं दधाति घ्नन्ति
2 वा एतत् पशुं यत् संज्ञपयन्त्य् ऐन्द्रः खलु वै देवतया प्राण ऐन्द्रो ऽपान ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यद् इत्य् आह प्राणापानाव् एव पशुषु दधाति देव त्वष्टर् भूरि ते सम्̇सम् एत्व् इत्य् आह त्वाष्ट्रा हि देवतया पशवः । विषुरूपा यत् सलक्ष्माणो भवथेत्य् आह विषुरूपा ह्य् एते सन्तः सलक्ष्माण एतर्हि भवन्ति देवत्रा यन्तम्
3 अवसे सखायो ऽनु त्वा माता पितरो मदन्त्व् इत्य् आहानुमतम् एवैनम् मात्रा पित्रा सुवर्गं लोकं गमयति । अर्धर्चे वसाहोमं जुहोत्य् असौ वा अर्धर्च इयम् अर्धर्च इमे एव रसेनानक्ति दिशो जुहोति दिश एव रसेनानक्त्य् अथो दिग्भ्य एवोर्जम्̇ रसम् अव रुन्द्धे प्राणापानौ वा एतौ पशूनां यत् पृषदाज्यं वानस्पत्याः खलु
4 वै देवतया पशवो यत् पृषदाज्यस्योपहत्याह वनस्पतये ऽनु ब्रूहि वनस्पतये प्रेष्येति प्राणापानाव् एव पशुषु दधाति । अन्यस्यान्यस्य समवत्तम्̇ समवद्यति तस्मान् नानारूपाः पशवः । यूष्णोप सिञ्चति रसो वा एष पशूनां यद् यू रसम् एव पशुषु दधाति । इडाम् उप ह्वयते पशवो वा इडा पशून् एवोप ह्वयते चतुर् उप ह्वयते
5 चतुष्पादो हि पशवः । यं कामयेत । अपशुः स्याद् इत्य् अमेदस्कं तस्मा आ दध्यान् मेदोरूपा वै पशवो रूपेणैवैनम् पशुभ्यो निर् भजत्य् अपशुर् एव भवति यं कामयेत पशुमान्त् स्याद् इति मेदस्वत् तस्मा आ दध्यान् मेदोरूपा वै पशवो रूपेणैवास्मै पशून् अव रुन्द्धे पशुमान् एव भवति प्रजापतिर् यज्ञम् असृजत स आज्यम्
6 पुरस्ताद् असृजत पशुम् मध्यतः पृषदाज्यम् पश्चात् तस्माद् आज्येन प्रयाजा इज्यन्ते पशुना पशुना मध्यतः पृषदाज्येनानूयाजास् तस्माद् एतन् मिश्रम् इव पश्चात्सृष्टम्̇ हि । एकादशानूयाजान् यजति दश वै पशोः प्राणा आत्मैकादशो यावान् एव पशुस् तम् अनु यजति घ्नन्ति वा एतत् पशुं यत् संज्ञपयन्ति प्राणापानौ खलु वा एतौ पशूनां यत् पृषदाज्यं यत् पृषदाज्येनानूयाजान् यजति प्राणापानाव् एव पशुषु दधाति ॥  


6.3.1 अनुवाक 1 धिष्णियाभिधानम्
1
    चात्वालाद् धिष्णियान् उप वपति
    योनिर् वै यज्ञस्य चात्वालं यज्ञस्य सयोनित्वाय
    देवा वै यज्ञम् पराजयन्त
    तम् आग्नीध्रात् पुनर् अपाजयन् ।
    एतद् वै यज्ञस्यापराजितं यद् आग्नीध्रम् ।
    यद् आग्नीध्राद् धिष्णियान् विहरति यद् एव यज्ञस्यापराजितं तत एवैनम् पुनस् तनुते
    पराजित्येव खलु वा एते यन्ति ये बहिष्पवमानम्̇ सर्पन्ति
    बहिष्पवमाने स्तुते

2
    आह ।
    अग्नीद् अग्नीन् वि हर बर्हिः स्तृणाहि पुरोडाशाम्̇ अलं कुर्व् इति
    यज्ञम् एवापजित्य पुनस् तन्वाना यन्ति ।
    अङ्गारैर् द्वे सवने वि हरति शलाकाभिस् तृतीयम् ।
    सशुक्रत्वाय ।
    अथो सम् भरत्य् एवैनद् ।
    धिष्णिया वा अमुष्मिम्̐ लोके सोमम् अरक्षन्
    तेभ्यो ऽधि सोमम् आहरन्
    तम् अन्ववायन् तम् पर्य् अविशन्
   य एवं वेद विन्दते

3
    परिवेष्टारम् ।
    ते सोमपीथेन व्य् आर्ध्यन्त
    ते देवेषु सोमपीथम् ऐच्छन्त
    तान् देवा अब्रुवन्
    द्वेद्वे नामनी कुरुध्वम् अथ प्र वाऽऽप्स्यथ न वेति ।
    अग्नयो वा अथ धिष्णियास्
    तस्माद् द्विनामा ब्राह्मणो ऽर्धुकस्
    तेषां ये नेदिष्ठम् पर्यविशन् ते सोमपीथम् प्राऽऽप्नुवन्न् आहवनीय आग्नीध्रीयो होत्रीयो मार्जालीयस्
    तस्मात् तेषु जुह्वति ।
    अतिहाय वषट् करोति
   वि हि

4
    एते सोमपीथेनार्ध्यन्त
    देवा वै याः प्राचीर् आहुतीर् अजुहवुर् ये पुरस्ताद् असुरा आसन् ताम्̇स् ताभिः प्राणुदन्त
    याः प्रतीचीर् ये पश्चाद् असुरा आसन् ताम्̇स् ताभिर् अपानुदन्त
    प्राचीर् अन्या आहुतयो हूयन्ते प्रत्यङ्ङ् आसीनो धिष्णियान् व्याघारयति
    पश्चाच् चैव पुरस्ताच् च यजमानो भ्रातृव्यान् प्र णुदते
    तस्मात् पराचीः प्रजाः प्र वीयन्ते प्रतीचीः

5
    जायन्ते
    प्राणा वा एते यद् धिष्णियाः ।
    यद् अध्वर्युः प्रत्यङ् धिष्णियान् अतिसर्पेत् प्राणान्त् सं कर्षेत्
    प्रमायुकः स्यात् ।
    नाभिर् वा एषा यज्ञस्य यद् होता ।
    ऊर्ध्वः खलु वै नाभ्यै प्राणो ऽवाङ् अपानः ।
    यद् अध्वर्युः प्रत्यङ् होतारम् अतिसर्पेद् अपाने प्राणं दध्यात् प्रमायुकः स्यात् ।
    नाध्वर्युर् उप गायेत् ।
    वाग्वीर्यो वा अध्वर्युः ।
    यद् अध्वर्युर् उपगायेद् उद्गात्रे

6
    वाचम्̇ सम् प्र यच्छेद् उपदासुकाऽस्य वाक् स्यात् ।
    ब्रह्मवादिनो वदन्ति
    नासम्̇स्थिते सोमे ऽध्वर्युः प्रत्यङ्क् सदो ऽतीयाद् अथ कथा दाक्षिणानि होतुम् एति यामो हि स तेषां कस्मा अह देवा यामं वाऽयामं वानु ज्ञास्यन्तीति ।
    उत्तरेणाग्नीध्रम् परीत्य जुहोति दाक्षिणानि
    न प्राणान्त् सं कर्षति
    न्य् अन्ये धिष्णिया उप्यन्ते नान्ये
    यान् निवपति तेन तान् प्रीणाति
    यान् न निवपति यद् अनुदिशति तेन तान् ॥

6.3.2 अनुवाक 2 अग्नीषोमीयप्रणयनाभिधानम्
1
    सुवर्गाय वा एतानि लोकाय हूयन्ते यद् वैसर्जनानि
    द्वाभ्यां गार्हपत्ये जुहोति
    द्विपाद् यजमानः
    प्रतिष्ठित्यै ।
    आग्नीध्रे जुहोति ।
    अन्तरिक्ष एवाऽऽक्रमते ।
    आहवनीये जुहोति
    सुवर्गम् एवैनं लोकं गमयति
    देवान् वै सुवर्गं लोकं यतो रक्षाम्̇स्य् अजिघाम्̇सन्
    ते सोमेन राज्ञा रक्षाम्̇स्य् अपहत्याप्तुम् आत्मानं कृत्वा सुवर्गं लोकम् आयन्
    रक्षसाम् अनुपलाभाय ।
    आत्तः सोमो भवत्य् अथ

2
    वैसर्जनानि जुहोति रक्षसाम् अपहत्यै
    त्वम्̇ सोम तनूकृद्भ्य इत्य् आह
    तनूकृद् ध्य् एष
    द्वेषोभ्यो ऽन्यकृतेभ्य इत्य् आह ।
    अन्यकृतानि हि रक्षाम्̇सि ।
    उरु यन्तासि वरूथम् इत्य् आह ।
    उरु णस् कृधीति वावैतद् आह
    जुषाणो अप्तुर् आज्यस्य वेत्व् इत्य् आह ।
    अप्तुम् एव यजमानं कृत्वा सुवर्गं लोकं गमयति
    रक्षसाम् अनुपलाभाय ।
    आ सोमं ददते

3
    आ ग्राव्ण आ वायव्यान्य् आ द्रोणकलशम्
    उत् पत्नीम् आ नयन्ति ।
    अन्व् अनाम्̇सि प्र वर्तयन्ति
    यावद् एवास्यास्ति तेन सह सुवर्गं लोकम् एति
    नयवत्यर्चाऽऽग्नीध्रे जुहोति
    सुवर्गस्य लोकस्याभिनीत्यै
    ग्राव्णो वायव्यानि द्रोणकलशम् आग्नीध्र उप वासयति
    वि ह्य् एनं तैर् गृह्णते
    यत् सहोपवासयेद् अपुवायेत
   सौम्यर्चा प्र पादयति
    स्वया

4
    एवैनं देवतया प्र पादयति ।
    अदित्याः सदो ऽस्य् अदित्याः सद आ सीदेत्य् आह
    यथायजुर् एवैतत् ।
    यजमानो वा एतस्य पुरा गोप्ता भवति ।
    एष वो देव सवितः सोम इत्य् आह
    सवितृप्रसूत एवैनं देवताभ्यः सम् प्र यच्छति ।
    एतत् त्वम्̇ सोम देवो देवान् उपागा इत्य् आह
    देवो ह्य् एष सन्

5
    देवान् उपैति ।
    इदम् अहम् मनुष्यो मनुष्यान् इत्य् आह
    मनुष्यो ह्य् एष सन् मनुष्यान् उपैति
    यद् एतद् यजुर् न ब्रूयाद् अप्रजा अपशुर् यजमानः स्यात्
    सह प्रजया सह रायस् पोषेणेत्य् आह
    प्रजयैव पशुभिः सहेमं लोकम् उपावर्तते
    नमो देवेभ्य इत्य् आह
    नमस्कारो हि देवानाम् ।
    स्वधा पितृभ्य इत्य् आह
   स्वधाकारो हि

6
    पितृणाम्
    इदम् अहं निर् वरुणस्य पाशाद् इत्य् आह
    वरुणपाशाद् एव निर् मुच्यते ।
    अग्ने व्रतपते ।
    आत्मनः पूर्वा तनूर् आदेयेत्य् आहुः
    को हि तद् वेद यद् वसीयान्त् स्वे वशे भूते पुनर् वा ददाति न वेति
    ग्रावाणो वै सोमस्य राज्ञो मलिम्लुसेना
    य एवं विद्वान् ग्राव्ण आग्नीध्र उपवासयति नैनम् मलिम्लुसेना विन्दति ॥

6.3.3 अनुवाक 3 यूपखण्डनाभिधानम्
1
    वैष्णव्यर्चा हुत्वा यूपम् अच्छैति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतयाऽच्छैत्य्
    अत्य् अन्यान् अगां नान्यान् उपागाम् इत्य् आहाति ह्य् अन्यान् एति नान्यान् उपैत्य् अर्वाक् त्वा परैर् अविदम् परोवरैर् इत्य् आहार्वाग् घ्य् एनम् परैर् विन्दति परोवरैस् तं त्वा जुषे ॥

2
    वैष्णवं देवयज्याया इत्य् आह देवयज्यायै ह्य् एनं जुषते
    देवस् त्वा सविता मध्वाऽनक्त्व् इत्य् आह तेजसैवैनम् अनक्त्य् ओषधे त्रायस्वैनम्̇ स्वधिते मैनम्̇ हिम्̇सीर् इत्य् आह वज्रो वै स्वधितिः शान्त्यै
    स्वधितेर् वृक्षस्य बिभ्यतः प्रथमेन शकलेन सह तेजः परा पतति यः प्रथमः शकलः परापतेत् तम् अप्य् आ हरेत् सतेजसम्

3
    एवैनम् आ हरतीमे वै लोका यूपात् प्रयतो बिभ्यति दिवम् अग्रेण मालेखीर् अन्तरिक्षम् मध्येन मा हिम्̇सीर् इत्य् आहैभ्य एवैनं लोकेभ्यः शमयति
    वनस्पते शतवल्शो वि रोहेत्य् आव्रश्चने जुहोति तस्माद् आव्रश्चनाद् वृक्षाणाम् भूयाम्̇स उत् तिष्ठन्ति
    सहस्रवल्शा वि वयम्̇ रुहेमेत्य् आहाऽऽशिषम् एवैताम् आ शास्ते ।
    अनक्षसङ्गम्

4
    वृश्चेद् यद् अक्षसङ्गं वृश्चेद् अधईषं यजमानस्य प्रमायुकम्̇ स्याद्
    यं कामयेताप्रतिष्ठितः स्याद् इत्य् आरोहं तस्मै वृश्चेद् एष वै वनस्पतीनाम् अप्रतिष्ठितोऽप्रतिष्ठित एव भवति
    यं कामयेतापशुः स्याद् इत्य् अपर्णं तस्मै शुष्काग्रं वृश्चेद् एष वै वनस्पतीनाम् अपशव्यो ऽपशुर् एव भवति
    यं कामयेत पशुमान्त् स्याद् इति बहुपर्णं तस्मै बहुशाखं वृश्चेद् एष वै

5
    वनस्पतीनाम् पशव्यः पशुमान् एव भवति
    प्रतिष्ठितं वृश्चेत् प्रतिष्ठाकामस्यैष वै वनस्पतीनाम् प्रतिष्ठितो यः समे भूम्यै स्वाद् योने रूढः प्रत्य् एव तिष्ठति यः प्रत्यङ्ङ् उपनतस् तं वृश्चेत् स हि मेधम् अभ्य् उपनतः
    पञ्चारत्निं तस्मै वृश्चेद् यं कामयेतोपैनम् उत्तरो यज्ञो नमेद् इति पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञ उपैनम् उत्तरो यज्ञः

6
    नमति
    षडरत्निम् प्रतिष्ठाकामस्य षड् वा ऋतव ऋतुष्व् एव प्रति तिष्ठति
    सप्तारत्निम् पशुकामस्य सप्तपदा शक्वरी पशवः शक्वरी पशून् एवाव रुन्द्धे
    नवारत्निं तेजस्कामस्य त्रिवृता स्तोमेन सम्मितं तेजस् त्रिवृत् तेजस्व्य् एव भवति ।
    एकादशारत्निम् इन्द्रियकामस्यैकादशाक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुग् इन्द्रियाव्य् एव भवति
    पञ्चदशारत्निम् भ्रातृव्यवतः पञ्चदशो वज्रो भ्रातृव्याभिभूत्यै
    सप्तदशारत्निम् प्रजाकामस्य सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै ।
    एकविम्̇शत्यरत्निम् प्रतिष्ठाकामस्यैकविम्̇श स्तोमानाम् प्रतिष्ठा प्रतिष्ठित्यै ।
    अष्टाश्रिर् भवत्य् अष्टाक्षरा गायत्री तेजो गायत्री गायत्री यज्ञमुखं तेजसैव गायत्रिया यज्ञमुखेन सम्मितः ॥

यूपः


6.3.4 अनुवाक 4 यूपस्थापनाभिधानम्
1
    पृथिव्यै त्वान्तरिक्षाय त्वा दिवे त्वेत्य् आहैभ्य एवैनं लोकेभ्यः प्रोक्षति
    पराञ्चम् प्रोक्षति पराङ् इव हि सुवर्गो लोकः
    क्रूरम् इव वा एतत् करोति यत् खनत्य् अपोऽव नयति शान्त्यै यवमतीर् अव नयत्य् ऊर्ग् वै यवो यजमानेन यूपः सम्मितो यावान् एव यजमानस् तावतीम् एवास्मिन्न् ऊर्जं दधाति

2
    पितृणाम्̇ सदनम् असीति बर्हिर् अव स्तृणाति पितृदेवत्यम्̇ ह्य् एतद् यन् निखातं यद् बर्हिर् अनवस्तीर्य मिनुयात् पितृदेवत्यो निखातः स्याद् बर्हिर् अवस्तीर्य मिनोत्य् अस्याम् एवैनम् मिनोति
    यूपशकलम् अवास्यति सतेजसम् एवैनम् मिनोति
    देवस् त्वा सविता मध्वानक्त्व् इत्य् आह तेजसैवैनम् अनक्ति
    सुपिप्पलाभ्यस् त्वौषधीभ्य इति चषालम् प्रति

3
    मुञ्चति तस्माच् छीर्षत ओषधयः फलं गृह्णन्त्य्
    अनक्ति तेजो वा आज्यं यजमानेनाग्निष्ठाऽश्रिः सम्मिता यद् अग्निष्ठाम् अश्रिम् अनक्ति यजमानम् एव तेजसाऽनक्त्य्
    आन्तम् अनक्त्य् आन्तम् एव यजमानं तेजसाऽनक्ति
    सर्वतः परि मृशत्य् अपरिवर्गम् एवास्मिन् तेजो दधात्य्
    उद् दिवम्̇ स्तभानाऽन्तरिक्षम् पृणेत्य् आहैषां लोकानां विधृत्यै
    वैष्णव्यर्चा

4
    कल्पयति वैष्णवो वै देवतया यूपः स्वयैवैनं देवतया कल्पयति
    द्वाभ्यां कल्पयति द्विपाद् यज्मानः प्रतिष्ठित्यै
    यं कामयेत तेजसैनं देवताभिर् इन्द्रियेण व्यर्धयेयम् इत्य् अग्निष्ठां तस्याश्रिं आहवनीयाद् इत्थं वेत्थं वाति नावयेत् तेजसैवैनं देवताभिर् इन्द्रियेण व्यर्धयति
    यं कामयेत तेजसैनं देवताभिर् इन्द्रियेण सम् अर्धयेयम् इति ॥

5
    अग्निष्ठां तस्याश्रिम् आहवनीयेन सम् मिनुयात् तेजसैवैनं देवताभिर् इन्द्रियेण सम् अर्धयति
    ब्रह्मवनिं त्वा क्षत्रवनिम् इत्य् आह यथायजुर् एवैतत्
    परि व्ययत्य् ऊर्ग् वै रशना यजमानेन यूपः सम्मितो यजमानम् एवोर्जा सम् अर्धयति
    नाभिदघ्ने परि व्ययति नाभिदघ्न एवास्मा ऊर्जं दधाति तस्मान् नाभिदघ्न ऊर्जा भुञ्जते
    यं कामयेतोर्जैनम्

6
    व्यर्धयेयम् इत्य् ऊर्ध्वां वा तस्यावाचीं वाऽवोहेद् ऊर्जैवैनं व्यर्धयति
    यदि कामयेत वर्षुकः पर्जन्यः स्याद् इत्य् अवाचीम् अवोहेद् वृष्टिम् एव नि यच्छति यदि कामयेतावर्षुकः स्याद् इत्य् ऊर्ध्वाम् उद् ऊहेद् वृष्टिम् एवोद् यच्छति
    पितृणां निखातम् मनुष्याणामूर्ध्वं निखाताद् आ रशनाया ओषधीनाम्̇ रशना विश्वेषाम्

7
    देवानां ऊर्ध्वम्̇ रशनाया आ चषालाद् इन्द्रस्य चषालम्̇ साध्यानाम् अतिरिक्तम्̇ स वा एष सर्व देवत्यो यद् यूपो यद् यूपम् मिनोति सर्वा एव देवताः प्रीणाति
    यज्ञेन वै देवाः सुवर्गं लोकम् आयन् ते ऽमन्यन्त मनुष्या नो ऽन्वाभविष्यन्तीति ते यूपेन योपयित्वा सुवर्गं लोकम् आयन् तम् ऋषयो यूपेनैवानु प्राजानन् तद् यूपस्य यूपत्वम् ।

8
    यद् यूपम् मिनोति सुवर्गस्य लोकस्य प्रज्ञात्यै
    पुरस्तान् मिनोति पुरस्ताद् धि यज्ञस्य प्रज्ञायते ऽप्रज्ञातम्̇ हि तद् यद् अतिपन्न आहुर् इदं कार्यम् आसीद् इति साध्या वै देवा यज्ञम् अत्य् अमन्यन्त तान् यज्ञो नास्पृशत् तान् यद् यज्ञस्यातिरिक्तम् आसीत् तद् अस्पृशद् अतिरिक्तं वा एतद् यज्ञस्य यद् अग्नाव् अग्निम् मथित्वा प्रहरत्य् अतिरिक्तम् एतत्

9
    यूपस्य यद् ऊर्ध्वं चषालात् तेषां तद् भागधेयं तान् एव तेन प्रीणाति
    देवा वै सम्̇स्थिते सोमे प्र स्रुचोहरन् प्र यूपं ते ऽमन्यन्त यज्ञवेशसं वा इदं कुर्म इति ते प्रस्तरम्̇ स्रुचाम्̇ निष्क्रयणम् अपश्यन्त् स्वरुं यूपस्य सम्̇स्थिते सोमे प्र प्रस्तरम्̇ हरति जुहोति स्वरुं अयज्ञवेशसाय ॥

6.3.5 अनुवाक 5 अग्निमन्थनाभिधानम्
1
    साध्या वै देवा अस्मिम्̐ लोक आसन्
    नान्यत् किं चन मिषत्
    ते ऽग्निम् एवाग्नये मेधायालभन्त
    न ह्य् अन्यद् आलम्भ्यम् अविन्दन्
    ततो वा इमाः प्रजाः प्राजायन्त
    यद् अग्नाव् अग्निम् मथित्वा प्रहरति प्रजानाम् प्रजननाय
    रुद्रो वा एष यद् अग्निर् यजमानः पशुः ।
    यत् पशुम् आलभ्याग्निम् मन्थेद् रुद्राय यजमानम्

2
    अपि दध्यात्
    प्रमायुकः स्यात् ।
    अथो खल्व् आहुः ।
    अग्निः सर्वा देवता हविर् एतद् यत् पशुर् इति
    यत् पशुम् आलभ्याग्निम् मन्थति हव्यायैवासन्नाय सर्वा देवता जनयति ।
    उपाकृत्यैव मन्थ्यस्
    तन् नेवालब्धं नेवानालब्धम्
    अग्नेर् जनित्रम् असीत्य् आह ।
    अग्नेर् ह्य् एतज् जनित्रम् ।
    वृषणौ स्थ इत्य् आह
1 वृषणौ

3
    ह्य् एतौ ।
    उर्वश्य् अस्य् आयुर् असीत्य् आह
    मिथुनत्वाय
    घृतेनाक्ते वृषणं दधाथाम् इत्य् आह
    वृषणम्̇ ह्य् एते दधाते ये अग्निम् ।
    गायत्रं छन्दो ऽनु प्र जायस्वेत्य् आह
    छन्दोभिर् एवैनम् प्र जनयति ।
    अग्नये मथ्यमानायानु ब्रूहीत्य् आह
    सावित्रीम् ऋचम् अन्व् आह
    सवितृप्रसूत एवैनम् मन्थति
    जातायानु ब्रूहि

4
    प्रह्रियमानायानु ब्रूहीत्य् आह
    काण्डेकाण्ड एवैनं क्रियमाणे सम् अर्धयति
    गायत्रीः सर्वा अन्व् आह
    गायत्रछन्दा वा अग्निः
    स्वेनैवैनं छन्दसा सम् अर्धयति ।
    अग्निः पुरा भवत्य् अग्निम् मथित्वा प्र हरति
    तौ सम्भवन्तौ यजमानम् अभि सम् भवतः ।
    भवतं नः समनसाव् इत्य् आह
    शान्त्यै
    प्रहृत्य जुहोति
    जातायैवास्मा अन्नम् अपि दधाति ।
    आज्येन जुहोति ।
    एतद् वा अग्नेः प्रियं धाम यद् आज्यम्
    प्रियेणैवैनं धाम्ना सम् अर्धयत्य् अथो तेजसा ॥

6.3.6 अनुवाक 6 पशुनियोजनम्
1
    इषे त्वेति बर्हिर् आ दत्त इच्छत इव ह्य् एष यो यजते ।
    उपवीर् असीत्य् आहोप ह्य् एनान् आकरोति ।
    उपो देवान् दैवीर् विशः प्रागुर् इत्य् आह दैवीर् ह्य् एता विशः सतीर् देवान् उपयन्ति
    वह्नीर् उशिज इत्य् आहर्त्विजो वै वह्नय उशिजस् तस्माद् एवम् आह
    बृहस्पते धारया वसूनीति

2
    आह ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैवास्मै पशून् अव रुन्द्धे
    हव्या ते स्वदन्ताम् इत्य् आह स्वदयत्य् एवैनान्
    देव त्वष्टर् वसु रण्वेत्य् आह त्वष्टा वै पशूनाम् मिथुनानाम्̇ रूपकृद् रूपम् एव पशुषु दधाति
    रेवती रमध्वम् इत्य् आह पशवो वै रेवतीः पशून् एवास्मै रमयति
    देवस्य त्वा सवितुः प्रसव इति

3
    रशनाम् आ दत्ते प्रसूत्या अश्विनोर् बाहुभ्याम् इत्य् आहाश्विनौ हि देवानाम् अध्वर्यू आस्ताम् पूष्णो हस्ताभ्याम् इत्य् आह यत्यै ।
    ऋतस्य त्वा देवहविः पाशेना रभ इत्य् आह सत्यं वा ऋतम्̇ सत्येनैवैनम् ऋतेना रभते ।
    अक्ष्णया परि हरति वध्यम्̇ हि प्रत्यञ्चम् प्रतिमुञ्चन्ति व्यावृत्त्यै
    धर्षा मानुषान् इति नि युनक्ति धृत्यै ।
    अद्भ्यः

4
    त्वौषधीभ्यः प्रोक्षामीत्य् आहाद्भ्यो ह्य् एष ओषधीभ्यः सम्भवति यत् पशुः ।
    अपाम् पेरुर् असीत्य् आहैष ह्य् अपाम् पाता यो मेधायारभ्यते
    स्वात्तं चित् सदेवम्̇ हव्यम् आपो देवीः स्वदतैनम् इत्य् आह स्वदयत्य् एवैनम्
    उपरिष्टात् प्रोक्षत्य् उपरिष्टाद् एवैनम् मेध्यं करोति पाययत्य् अन्तरत एवैनम् मेध्यं करोत्य् अधस्ताद् उपोक्षति सर्वत एवैनम् मेध्यं करोति ॥

6.3.7 अनुवाक 7 सामिधेन्याद्यभिधानम्
1
    अग्निना वै होत्रा देवा असुरान् अभ्य् अभवन्न् अग्नये समिध्यमानायानु ब्रूहीत्य् आह भ्रातृव्याभिभूत्यै
    सप्तदश सामिधेनीर् अन्व् आह सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै
    सप्तदशान्वाह द्वादश मासाः पञ्चर्तवः स संवत्सरः संवत्सरम् प्रजा अनु प्र जायन्ते प्रजानाम् प्रजननाय
    देवा वै सामिधेनीर् अनूच्य यज्ञं नान्व् अपश्यन्त् स प्रजापतिस् तूष्णीम् आघारम्

2
    आघारयत् ततो वै देवा यज्ञम् अन्व् अपश्यन् यत् तूष्णीम् आघारम् आघारयति यज्ञस्यानुख्यात्यै ।
    असुरेषु वै यज्ञ आसीत् तं देवास् तूष्णीम्̇ होमेनावृञ्जत यत् तूष्णीम् आघारम् आघारयति भ्रातृव्यस्यैव तद् यज्ञं वृङ्क्ते
    परिधीन्त् सम् मार्ष्टि पुनात्य् एवैनान् त्रिस्त्रिः सम् मार्ष्टि त्र्यावृद् धि यज्ञो ऽथो रक्षसाम् अपहत्यै द्वादश सम् पद्यन्ते द्वादश

3
    मासाः संवत्सरः संवत्सरम् एव प्रीणात्य् अथो संवत्सरम् एवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै
    शिरो वा एतद् यज्ञस्य यद् आघारो ऽग्निः सर्वा देवता यद् आघारम् आघारयति शीर्षत एव यज्ञस्य यजमानः सर्वा देवता अव रुन्द्धे
    शिरो वा एतद् यज्ञस्य यद् आघार आत्मा पशुर् आघारम् आघार्य पशुम्̇ सम् अनक्त्य् आत्मन्न् एव यज्ञस्य

4
    शिरः प्रति दधाति
    सं ते प्राणो वायुना गच्छताम् इत्य् आह वायुदेवत्यो वै प्राणो वायाव् एवास्य प्राणं जुहोति सं यजत्रैर् अङ्गानि सं यज्ञपतिर् आशिषेत्य् आह यज्ञपतिम् एवास्याशिषं गमयति
    विश्वरूपो वै त्वाष्ट्र उपरिष्टात् पशुम् अभ्य् अवमीत् तस्माद् उपरिष्टात् पशोर् नावद्यन्ति यद् उपरिष्टात् पशुम्̇ समनक्ति मेध्यम् एव

5
    एनं करोति ।
    ऋत्विजो वृणीते छन्दाम्̇स्य् एव वृणीते सप्त वृणीते सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाम्̇स्य् उभयस्यावरुद्ध्यै ।
    एकादश प्रयाजान् यजति दश वै पशोः प्राणा आत्मैकादशो यावान् एव पशुस् तम् प्र यजति
    वपां एकः परि शय आत्मैवात्मानम् परि शये
    वज्रो वै स्वधितिर् वज्रो यूपशकलो घृतं खलु वै देवा वज्रं कृत्वा सोमम् अघ्नन् घृतेनाक्तौ पशुं त्रायेथाम् इत्य् आह वज्रेणैवैनं वशे कृत्वा लभते ॥

6.3.8 अनुवाक 8 पशुहिंसनाभिधानम्
1
    पर्यग्नि करोति सर्वहुतम् एवैनं करोत्य् अस्कन्दायास्कन्नं हि तद् यद् धुतस्य स्कन्दति त्रिः पर्यग्नि करोति त्र्यावृद् धि यज्ञो ऽथो रक्षसाम् अपहत्यै
    ब्रह्मवादिनो वदन्ति ।
    अन्वारभ्यः पशू3र् नान्वारभ्या3 इति मृत्यवे वा एष नीयते यत् पशुस् तम् यद् अन्वारभेत प्रमायुको यजमानः स्याद् अथो खल्व् आहुः
    सुवर्गाय वा एष लोकाय नीयते यत्

2
    पशुर् इति यन् नान्वारभेत सुवर्गाल् लोकाद् यजमानो हीयेत वपाश्रपणीभ्याम् अन्वारभते तन् नेवान्वारब्धं नेवानन्वारब्धम्
    उप प्रेष्य होतर् हव्या देवेभ्य इत्य् आहेषितम्̇ हि कर्म क्रियते
    रेवतीर् यज्ञपतिं प्रियधा विशतेत्य् आह यथायजुर् एवैतद्
    अग्निना पुरस्ताद् एति रक्षसाम् अपहत्यै
    पृथिव्याः संपृचः पाहीति बर्हिः

3
    उपास्यत्य् अस्कन्दायास्कन्नम्̇ हि तद् यद् बर्हिषि स्कन्दत्य् अथो बर्हिषदम् एवैनं करोति
    पराङ् आ वर्तते ऽध्वर्युः पशोः संज्ञप्यमानात् पशुभ्य एव तन् नि ह्नुत आत्मनोऽनाव्रस्काय
    गच्छति श्रियम् प्र पशून् आप्नोति य एवं वेद
    पश्चाल् लोका वा एषा प्राच्य् उदानीयते यत् पत्नी नमस् त आतानेत्य् आहाऽऽदित्यस्य वै रश्मयः

4
    आतानास् तेभ्य एव नमस् करोति ।
    अनर्वा प्रेहीत्य् आह भ्रातृव्यो वा अर्वा भ्रातृव्यापनुत्त्यै
    घृतस्य कुल्याम् अनु सह प्रजया सह रायस् पोषेणेत्य् आहाऽऽशिषम् एवैताम् आ शास्त आपो देवीः शुद्धायुव इत्य् आह यथायजुर् एवैतत् ॥

6.3.9 अनुवाक 9 वपाहोमाभिधानम्
1
    पशोर् वा आलब्धस्य प्राणाञ् छुग् ऋच्छति
    वाक् त आ प्यायताम् प्राणस् त आ प्यायताम् इत्य् आह प्राणेभ्य एवास्य शुचम्̇ शमयति
    सा प्राणेभ्यो ऽधि पृथिवीम्̇ शुक् प्र विशति
    शम् अहोभ्याम् इति नि नयत्य् अहोरात्राभ्याम् एव पृथिव्यै शुचम्̇ शमयति ।
    ओषधे त्रायस्वैनम्̇ स्वधिते मैनम्̇ हिम्̇सीर् इत्य् आह वज्रो वै स्वधितिः

2
    शान्त्यै
    पार्श्वत आ च्छ्यति मध्यतो हि मनुष्या आच्छ्यन्ति तिरश्चीनम् आ छ्यत्य् अनूचीनम्̇ हि मनुष्या आछ्यन्ति व्यावृत्त्यै
    रक्षसाम् भागो ऽसीति स्थविमतो बर्हिर् अक्त्वापास्यत्य् अस्नैव रक्षाम्̇सि निरवदयते ।
    इदम् अहम्̇ रक्षो ऽधमं तमो नयामि यो ऽस्मान् द्वेष्टि यं च वयं द्विष्म इत्य् आह द्वौ वाव पुरुषौ यं चैव

3
    द्वेष्टि यश् चैनं द्वेष्टि ताव् उभाव् अधमं तमो नयति ।
    इषे त्वेति वपाम् उत् खिदतीच्छत इव ह्य् एष यो यजते
    यद् उपतृन्द्याद् रुद्रो ऽस्य पशून् घातुकः स्याद् यन् नोपतृन्द्याद् अयता स्याद् अन्ययोपतृणत्त्य् अन्यया न धृत्यै
    घृतेन द्यावापृथिवी प्रोर्ण्वाथाम् इत्य् आह द्यावापृथिवी एव रसेनानक्ति ।
    अछिन्नः

4
    रायः सुवीर इत्य् आह यथायजुर् एवैतत्
    क्रूरम् इव वा एतत् करोति यद् वपाम् उत्खिदत्य् उर्व् अन्तरिक्षम् अन्व् इहीत्य् आह शान्त्यै
    प्र वा एषो ऽस्माल् लोकाच् च्यवते यः पशुम् मृत्यवे नीयमानम् अन्वारभते वपाश्रपणी पुनर् अन्वारभते ऽस्मिन्न् एव लोके प्रति तिष्ठति ।
    अग्निना पुरस्ताद् एति रक्षसाम् अपहत्या अथो देवता एव हव्येन

5
    अन्व् एति
    नान्तमम् अङ्गारम् अति हरेद् यद् अन्तमम् अङ्गारम् अतिहरेद् देवता अति मन्येत
    वायो वीहि स्तोकानाम् इत्य् आह तस्माद् विभक्ता स्तोका अव पद्यन्ते ।
    अग्रं वा एतत् पशूनां यद् वपाग्रम् ओषधीनाम् बर्हिर् अग्रेणैवाग्रम्̇ सम् अर्धयत्य् अथो ओषधीष्व् एव पशून् प्रति ष्ठापयति
    स्वाहाकृतीभ्यः प्रेष्येत्य् आह

6
    यज्ञस्य समिष्ट्यै
    प्राणापानौ वा एतौ पशूनां यत् पृषदाज्यम् आत्मा वपा पृषदाज्यम् अभिघार्य वपाम् अभि घारयत्य् आत्मन्न् एव पशूनाम् प्राणापानौ दधाति
    स्वाहोर्ध्वनभसम् मारुतं गच्छतम् इत्य् आहोर्ध्वनभा ह स्म वै मारुतो देवानां वपाश्रपणी प्रहरति तेनैवैने प्र हरति विषूची प्र हरति तस्माद् विष्वञ्चौ प्राणापानौ ॥

6.3.10 अनुवाक 10 अवदानाभिधानम्
1
    पशुम् आलभ्य पुरोडाशं निर् वपति समेधम् एवैनम् आ लभते
    वपया प्रचर्य पुरोडाशेन प्र चरत्य् ऊर्ग् वै पुरोडाश ऊर्जम् एव पशूनाम् मध्यतो दधात्य् अथो पशोर् एव छिद्रम् अपि दधाति
    पृषदाज्यस्योपहत्य त्रिः पृच्छति
    शृतम्̇ हवी3ः शमितर् इति त्रिषत्या हि देवा यो ऽशृतम्̇ शृतम् आह स एनसा
    प्राणापानौ वा एतौ पशूनाम्

2
    यत् पृषदाज्यम् पशोः खलु वा आलब्धस्य हृदयम् आत्माभि सम् एति यत् पृषदाज्येन हृदयम् अभिघारयत्य् आत्मन्न् एव पशूनाम् प्राणापानौ दधाति
    पशुना वै देवाः सुवर्गं लोकम् आयन् ते ऽमन्यन्त
    मनुष्या नो ऽन्वाभविष्यन्तीति तस्य शिरश् छित्त्वा मेधम् प्राक्षारयन्त् स प्रक्षो ऽभवत् तत् प्रक्षस्य प्रक्षत्वं यत् प्लक्षशाखोत्तरबर्हिर् भवति समेधस्यैव

3
    पशोर् अव द्यति
    पशुं वै ह्रियमाणम्̇ रक्षाम्̇स्य् अनु सचन्ते ऽन्तरा यूपं चाहवनीयं च हरति रक्षसाम् अपहत्यै
    पशोर् वा आलब्धस्य मनो ऽप क्रामति
    मनोतायै हविषो ऽवदीयमानस्यानु ब्रूहीत्य् आह मन एवास्याव रुन्द्धे ।
    एकादशावदानान्य् अव द्यति दश वै पशोः प्राणा आत्मैकादशो यावान् एव पशुस् तस्याव

4
    द्यति
    हृदयस्याग्रे ऽव द्यत्य् अथ जिह्वाया अथ वक्षसो यद् वै हृदयेनाभिगच्छति तज् जिह्वया वदति यज् जिह्वया वदति तद् उरसो ऽधि निर् वदति ।
    एतद् वै पशोर् यथापूर्वं यस्यैवम् अवदाय यथाकामम् उत्तरेषाम् अवद्यति यथापूर्वम् एवास्य पशोर् अवत्तम् भवति
    मध्यतो गुदस्याव द्यति मध्यतो हि प्राण उत्तमस्याव द्यति ।

5
    उत्तमो हि प्राणो यदीतरं यदीतरम् उभयम् एवाजामि
    जायमानो वै ब्राह्मणस् त्रिभिर् ऋणवा जायते ब्रह्मचर्येणर्षिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्य एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारिवासी तद् अवदानैर् एवाव दयते तद् अवदानानाम् अवदानत्वम् ।
    देवासुराः संयत्ता आसन् ते देवा अग्निम् अब्रुवन्
    त्वया वीरेणासुरान् अभि भवामेति ।

6
    सो ऽब्रवीद्
    वरं वृणै पशोर् उद्धारम् उद् धरा इति स एतम् उद्धारम् उद् अहरत दोः पूर्वार्धस्य गुदम् मध्यतः श्रोणिं जघनार्धस्य ततो देवा अभवन् परासुरा यत् त्र्यङ्गाणाम्̇ समवद्यति भ्रातृव्याभिभूत्यै भवत्य् आत्मना परास्य भ्रातृव्यो भवति ।
    अक्ष्णयाव द्यति तस्माद् अक्ष्णया पशवो ऽङ्गानि प्र हरन्ति प्रतिष्ठित्यै ॥

6.3.11 अनुवाक 11 अनूयाजकथनम्
1
    मेदसा स्रुचौ प्रोर्णोति मेदोरूपा वै पशवो रूपम् एव पशुषु दधाति
    यूषन्न् अवधाय प्रोर्णोति रसो वा एष पशूनां यद् यू रसम् एव पशुषु दधाति
    पार्श्वेन वसाहोमम् प्र यौति मध्यं वा एतत् पशूनां यत् पार्श्वम्̇ रस एष पशूनां यद् वसा यत् पार्श्वेन वसाहोमम् प्रयौति मध्यत एव पशूनाम्̇ रसं दधाति
    घ्नन्ति

2
    वा एतत् पशुं यत् संज्ञपयन्त्य् ऐन्द्रः खलु वै देवतया प्राण ऐन्द्रो ऽपान ऐन्द्रः प्राणो अङ्गेअङ्गे नि देध्यद् इत्य् आह प्राणापानाव् एव पशुषु दधाति
    देव त्वष्टर् भूरि ते सम्̇सम् एत्व् इत्य् आह त्वाष्ट्रा हि देवतया पशवः ।
    विषुरूपा यत् सलक्ष्माणो भवथेत्य् आह विषुरूपा ह्य् एते सन्तः सलक्ष्माण एतर्हि भवन्ति
    देवत्रा यन्तम्

3
    अवसे सखायो ऽनु त्वा माता पितरो मदन्त्व् इत्य् आहानुमतम् एवैनम् मात्रा पित्रा सुवर्गं लोकं गमयति ।
    अर्धर्चे वसाहोमं जुहोत्य् असौ वा अर्धर्च इयम् अर्धर्च इमे एव रसेनानक्ति दिशो जुहोति दिश एव रसेनानक्त्य् अथो दिग्भ्य एवोर्जम्̇ रसम् अव रुन्द्धे
    प्राणापानौ वा एतौ पशूनां यत् पृषदाज्यं वानस्पत्याः खलु

4
    वै देवतया पशवो यत् पृषदाज्यस्योपहत्याह
    वनस्पतये ऽनु ब्रूहि वनस्पतये प्रेष्येति प्राणापानाव् एव पशुषु दधाति ।
    अन्यस्यान्यस्य समवत्तम्̇ समवद्यति तस्मान् नानारूपाः पशवः ।
    यूष्णोप सिञ्चति रसो वा एष पशूनां यद् यू रसम् एव पशुषु दधाति ।
    इडाम् उप ह्वयते पशवो वा इडा पशून् एवोप ह्वयते चतुर् उप ह्वयते

5
    चतुष्पादो हि पशवः ।
    यं कामयेत ।
    अपशुः स्याद् इत्य् अमेदस्कं तस्मा आ दध्यान् मेदोरूपा वै पशवो रूपेणैवैनम् पशुभ्यो निर् भजत्य् अपशुर् एव भवति
    यं कामयेत
    पशुमान्त् स्याद् इति मेदस्वत् तस्मा आ दध्यान् मेदोरूपा वै पशवो रूपेणैवास्मै पशून् अव रुन्द्धे पशुमान् एव भवति
    प्रजापतिर् यज्ञम् असृजत स आज्यम्

6
    पुरस्ताद् असृजत पशुम् मध्यतः पृषदाज्यम् पश्चात् तस्माद् आज्येन प्रयाजा इज्यन्ते पशुना पशुना मध्यतः पृषदाज्येनानूयाजास् तस्माद् एतन् मिश्रम् इव पश्चात्सृष्टम्̇ हि ।
    एकादशानूयाजान् यजति दश वै पशोः प्राणा आत्मैकादशो यावान् एव पशुस् तम् अनु यजति
    घ्नन्ति वा एतत् पशुं यत् संज्ञपयन्ति प्राणापानौ खलु वा एतौ पशूनां यत् पृषदाज्यं यत् पृषदाज्येनानूयाजान् यजति प्राणापानाव् एव पशुषु दधाति ॥