तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ७/प्रपाठकः २

7.2 प्रपाठक: 2
7.2.1 अनुवाक 1 षड्रात्रकथनम्
1 साध्या वै देवाः सुवर्गकामा एतꣳ षड्रात्रम् अपश्यन् तम् आहरन् तेनायजन्त ततो वै ते सुवर्गं लोकम् आयन् य एवं विद्वाꣳसः षड्रात्रम् आसते सुवर्गम् एव लोकं यन्ति देवसत्त्रं वै षड्रात्रः प्रत्यक्षꣳ ह्य् एतानि पृष्ठानि य एवं विद्वाꣳसः षड्रात्रम् आसते साक्षाद् एव देवता अभ्यारोहन्ति षड्रात्रो भवति षड् वा ऋतवः षट् पृष्ठानि
2 पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । ते संवत्सर एव प्रति तिष्ठन्ति बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति त्रिवृद् अग्निष्टोमो भवति तेज एवाव रुन्धते पञ्चदशो भवति । इन्द्रियम् एवाव रुन्धते सप्तदशः
3 भवति । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायन्ते । एकविꣳशो भवति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् दधते त्रिणवो भवति विजित्यै त्रयस्त्रिꣳशो भवति प्रतिष्ठित्यै सदोहविर्धानिन एतेन षड्रात्रेण यजेरन् । आश्वत्थी हविर्धानं चाग्नीध्रं च भवतस् तद् धि सुवर्ग्यम् । चक्रीवती भवतः सुवर्गस्य लोकस्य समष्ट्यै । उलूखलबुध्नो यूपो भवति प्रतिष्ठित्यै प्राञ्चो यान्ति प्राङ् इव हि सुवर्गः
4 लोकः सरस्वत्या यान्ति । एष वै देवयानः पन्थास् तम् एवान्वारोहन्ति । आक्रोशन्तो यान्ति । अवर्तिम् एवान्यस्मिन् प्रतिषज्य प्रतिष्ठां गच्छन्ति यदा दश शतं कुर्वन्त्य् अथैकम् उत्थानम् । शतायुः पुरुषः शतेन्द्रियः । आयुष्य् एवेन्द्रिये प्रति तिष्ठन्ति यदा शतꣳ सहस्रं कुर्वन्त्य् अथैकम् उत्थानम् । सहस्रसम्मितो वा असौ लोकः । अमुम् एव लोकम् अभि जयन्ति यदैषाम् प्रमीयेत यदा वा जीयेरन्न् अथैकम् उत्थानम् । तद् धि तीर्थम् ॥

7.2.2 अनुवाक 2 सप्तरात्रकथनम्
1 कुसुरुबिन्द औद्दालकिर् अकामयत पशुमान्त् स्याम् इति स एतꣳ सप्तरात्रम् आहरत् तेनायजत तेन वै स यावन्तो ग्राम्याः पशवस् तान् अवारुन्द्ध य एवं विद्वान्त् सप्तरात्रेण यजते यावन्त एव ग्राम्याः पशवस् तान् एवाव रुन्द्धे सप्तरात्रो भवति सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाꣳसि । उभयस्यावरुद्ध्यै त्रिवृद् अग्निष्टोमो भवति तेजः
2 एवाव रुन्द्धे पञ्चदशो भवति । इन्द्रियम् एवाव रुन्द्धे सप्तदशो भवति । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायते । एकविꣳशो भवति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् धत्ते त्रिणवो भवति विजित्यै पञ्चविꣳशो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति सर्वस्याभिजित्यै यत् प्रत्यक्षम् पूर्वेष्व् अहःसु पृष्ठान्य् उपेयुः प्रत्यक्षम्
3 विश्वजिति यथा दुग्धाम् उपसीदत्य् एवम् उत्तमम् अहः स्यात् । नैकरात्रश् चन स्यात् । बृहद्रथन्तरे पूर्वेष्व् अहःसूप यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव न यन्त्य् अथो अनयोर् एव प्रति तिष्ठन्ति यत् प्रत्यक्षं विश्वजिति पृष्ठान्य् उपयन्ति यथा प्रत्तां दुहे तादृग् एव तत् ॥

7.2.3 अनुवाक 3 अष्टरात्रकथनम्
1 बृहस्पतिर् अकामयत ब्रह्मवर्चसी स्याम् इति स एतम् अष्टरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै स ब्रह्मवर्चस्य् अभवत् । य एवं विद्वान् अष्टरात्रेण यजते ब्रह्मवर्चस्य् एव भवति । अष्टरात्रो भवति । अष्टाक्षरा गायत्री गायत्री ब्रह्मवर्चसम् । गायत्रियैव ब्रह्मवर्चसम् अव रुन्द्धे । अष्टरात्रो भवति चतस्रो वै दिशः । चतस्रो ऽवान्तरदिशाः । दिग्भ्य एव ब्रह्मवर्चसम् अव रुन्द्धे ॥
2 त्रिवृद् अग्निष्टोमो भवति तेज एवाव रुन्द्धे पञ्चदशो भवति । इन्द्रियम् एवाव रुन्द्धे सप्तदशो भवत्य् अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायते । एकविꣳशो भवति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् धत्ते त्रिणवो भवति विजित्यै त्रयस्त्रिꣳशो भवति प्रतिष्ठित्यै पञ्चविꣳशो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति सर्वस्याभिजित्यै ॥

7.2.4 अनुवाक 4 नवरात्रकथनम्
1 प्रजापतिः प्रजा असृजत ताः सृष्टाः क्षुधं न्य् आयन् । स एतं नवरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै प्रजाभ्यो ऽकल्पत यर्हि प्रजाः क्षुधं निगच्छेयुस् तर्हि नवरात्रेण यजेत । इमे हि वा एतासां लोका अक्लृप्ता अथैताः क्षुधं नि गच्छन्ति । इमान् एवाभ्यो लोकान् कल्पयति तान् कल्पमानान् प्रजाभ्यो ऽनु कल्पते कल्पन्ते
2 अस्मा इमे लोका ऊर्जम् प्रजासु दधाति त्रिरात्रेणैवेमं लोकं कल्पयति त्रिरात्त्रेणान्तरिक्षं त्रिरात्रेणामुं लोकम् । यथा गुणे गुणम् अन्वस्यत्य् एवम् एव तल् लोके लोकम् अन्व् अस्यति धृत्या अशिथिलम्भावाय ज्योतिर् गौर् आयुर् इति ज्ञाता स्तोमा भवन्ति । इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । एष्व् एव लोकेषु प्रति तिष्ठन्ति ज्ञात्रं प्रजानां
3 गच्छति नवरात्रो भवति । अभिपूर्वम् एवास्मिन् तेजो दधाति यो ज्योगामयावी स्यात् स नवरात्रेण यजेत प्राणा हि वा एतस्याधृताः । अथैतस्य ज्योग् आमयति प्राणान् एवास्मिन् दाधार । उत यदीतासुर् भवति जीवत्य् एव ॥

7.2.5 अनुवाक 5 दशरात्रकथनम्
1 प्रजापतिर् अकामयत प्र जायेयेति स एतं दशहोतारम् अपश्यत् तम् अजुहोत् तेन दशरात्रम् असृजत तेन दशरात्रेण प्राजायत दशरात्राय दीक्षिष्यमाणो दशहोतारं जुहुयात् । दशहोत्रैव दशरात्रꣳ सृजते तेन दशरात्रेण प्र जायते वैराजो वा एष यज्ञो यद् दशरात्रः । य एवं विद्वान् दशरात्रेण यजते विराजम् एव गच्छति प्राजापत्यो वा एष यज्ञो यद् दशरात्रः ॥
2 य एवं विद्वान् दशरात्रेण यजते प्रैव जायते । इन्द्रो वै सदृङ् देवताभिर् आसीत् स न व्यावृतम् अगच्छत् स प्रजापतिम् उपाधावत् तस्मा एतं दशरात्रम् प्रायच्छत् तम् आहरत् तेनायजत ततो वै सो ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छत् । य एवं विद्वान् दशरात्रेण यजते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छति त्रिककुद् वै
3 एष यज्ञो यद् दशरात्रः ककुत् पञ्चदशः ककुद् एकविꣳशः ककुत् त्रयस्त्रिꣳशः । य एवं विद्वान् दशरात्रेण यजते त्रिककुद् एव समानानाम् भवति यजमानः पञ्चदशो यजमान एकविꣳशो यजमानस् त्रयस्त्रिꣳशः पुर इतराः अभिचर्यमाणो दशरात्रेण यजेत देवपुरा एव पर्यूहते तस्य न कुतश् चनोपाव्याधो भवति नैनम् अभिचरन्त् स्तृणुते देवासुराः संयत्ता आसन् ते देवा एताः
4 देवपुरा अपश्यन् यद् दशरात्रस् ताः पर्य् औहन्त तेषां न कुतश् चनोपाव्याधो ऽभवत् ततो देवा अभवन् पराऽसुराः । यो भ्रातृव्यवान्त् स्यात् स दशरात्रेण यजेत देवपुरा एव पर्यूहते तस्य न कुतश् चनोपाव्याधो भवति भवत्य् आत्मना परास्य भ्रातृव्यो भवति स्तोम स्तोमस्योपस्तिर् भवति भ्रातृव्यम् एवोपस्तिं कुरुते जामि वै
5 एतत् कुर्वन्ति यज् ज्यायाꣳसꣳ स्तोमम् उपेत्य कनीयाꣳसम् उपयन्ति यद् अग्निष्टोमसामान्य् अवस्ताच् च परस्ताच् च भवन्त्य् अजामित्वाय त्रिवृद् अग्निष्टोमो ऽग्निष्टुद् आग्नेयीषु भवति तेज एवाव रुन्द्धे पञ्चदश उक्थ्य ऐन्द्रीषु । इन्द्रियम् एवाव रुन्द्धे त्रिवृद् अग्निष्टोमो वैश्वदेवीषु पुष्टिम् एवाव रुन्द्धे सप्तदशो ऽग्निष्टोमः प्राजापत्यासु तीव्रसोमः । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायते ॥
6 एकविꣳश उक्थ्यः सौरीषु प्रतिष्ठित्यै । अथो रुचम् एवात्मन् धत्ते सप्तदशो ऽग्निष्टोमः प्राजापत्यासूपहव्यः । उपहवम् एव गच्छति त्रिणवाव् अग्निष्टोमाव् अभित ऐन्द्रीषु विजित्यै त्रयस्त्रिꣳश उक्थ्यो वैश्वदेवीषु प्रतिष्ठित्यै विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति सर्वस्याभिजित्यै ॥

7.2.6 अनुवाक 6 एकादशरात्रकथनम्
1 ऋतवो वै प्रजाकामाः प्रजां नाविन्दन्त ते ऽकामयन्त प्रजाꣳ सृजेमहि प्रजाम् अव रुन्धीमहि प्रजां विन्देमहि प्रजावन्तः स्यामेति त एतम् एकादशरात्रम् अपश्यन् तम् आहरन् तेनायजन्त ततो वै ते प्रजाम् असृजन्त प्रजाम् अवारुन्धत प्रजाम् अविन्दन्त प्रजावन्तो ऽभवन् त ऋतवो ऽभवन् तद् आर्तवानाम् आर्तवत्वम् ऋतूनां वा एते पुत्रास् तस्मात्
2 आर्तवा उच्यन्ते य एवं विद्वाꣳस एकादशरात्रम् आसते प्रजाम् एव सृजन्ते प्रजाम् अव रुन्धते प्रजां विन्दन्ते प्रजावन्तो भवन्ति ज्योतिर् अतिरात्रो भवति ज्योतिर् एव पुरस्ताद् दधते सुवर्गस्य लोकस्यानुख्यात्यै पृष्ठ्यः षडहो भवति षड् वा ऋतवः षट् पृष्ठानि पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । ते संवत्सर एव प्रति तिष्ठन्ति चतुर्विꣳशो भवति चतुर्विꣳशत्यक्षरा गायत्री
3 गायत्रम् ब्रह्मवर्चसम् । गायत्रियाम् एव ब्रह्मवर्चसे प्रति तिष्ठन्ति चतुश्चत्वारिꣳशो भवति चतुष्चत्वारिꣳशदक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुप् त्रिष्टुभ्य् एवेन्द्रिये प्रति तिष्ठन्ति । अष्टाचत्वारिꣳशो भवति । अष्टाचत्वारिꣳशदक्षरा जगती जागताः पशवः । जगत्याम् एव पशुषु प्रति तिष्ठन्ति । एकादशरात्रो भवति पञ्च वा ऋतव आर्तवाः पञ्च । ऋतुष्व् एवाऽऽर्तवेषु संवत्सरे प्रतिष्ठाय प्रजाम् अव रुन्धते । अतिरात्राव् अभितो भवतः प्रजायै परिगृहीत्यै ॥

द्विदेवत्यग्रहाः३
शुक्रामन्थीग्रहप्रचारः
आग्रयण स्थाली

7.2.7 अनुवाक 7 द्वादशरात्रकथनम्
1 ऐन्द्रवायवाग्रान् गृह्णीयाद् यः कामयेत यथापूर्वम् प्रजाः कल्पेरन्न् इति यज्ञस्य वै क्लृप्तिम् अनु प्रजाः कल्पन्ते यज्ञस्याक्लृप्तिम् अनु न कल्पन्ते यथापूर्वम् एव प्रजाः कल्पयति न ज्यायाꣳसं कनीयान् अति क्रामति । ऐन्द्रवायवाग्रान् गृह्णीयाद् आमयाविनः प्राणेन वा एष व्यृध्यते यस्याऽऽमयति प्राण ऐन्द्रवायवः प्राणेनैवैनꣳ सम् अर्धयति मैत्रावरुणाग्रान् गृह्णीरन् येषां दीक्षितानाम् प्रमीयेत ।
2 प्राणापानाभ्यां वा एते व्यृध्यन्ते येषां दीक्षितानाम् प्रमीयते प्राणापानौ मित्रावरुणौ प्राणापानाव् एव मुखतः परि हरन्ते । आश्विनाग्रान् गृह्णीताऽऽनुजावरः । अश्विनौ वै देवानाम् आनुजावरौ पश्चेवाग्रम् पर्य् ऐताम् अश्विनाव् एतस्या देवता य आनुजावरस् ताव् एवैनम् अग्रम् परि णयतः शुक्राग्रान् गृह्णीत गतश्रीः प्रतिष्ठाकामः । असौ वा आदित्यः शुक्र एषो ऽन्तः । अन्तम् मनुष्यः
3 श्रियै गत्त्वा नि वर्तते । अन्ताद् एवान्तम् आ रभते न ततः पापीयान् भवति मन्थ्यग्रान् गृह्णीताभिचरन् । आर्तपात्रं वा एतद् यन् मन्थिपात्रम् मृत्युनैवैनं ग्राहयति ताजग् आर्तिम् आर्छति । आग्रयणाग्रान् गृह्णीत यस्य पिता पितामहः पुण्यः स्याद् अथ तन् न प्राप्नुयात् । वाचा वा एष इन्द्रियेण व्यृध्यते यस्य पिता पितामहः पुण्यः
4 भवत्य् अथ तन् न प्राप्नोति । उर इवैतद् यज्ञस्य वाग् इव यद् आग्रयणः । वाचैवैनम् इन्द्रियेण सम् अर्धयति न ततः पापीयान् भवति । उक्थ्याग्रान् गृह्णीताभिचर्यमाणः सर्वेषां वा एतत् पात्राणाम् इन्द्रियं यद् उक्थ्यपात्रम् । सर्वेणैवैनम् इन्द्रियेणाति प्र युङ्क्ते सरस्वत्य् अभि नो नेषि वस्य इति पुरोरुचं कुर्यात् । वाग् वै
5 सरस्वती वाचैवैनम् अति प्र युङ्क्ते मा त्वत् क्षेत्राण्य् अरणानि गन्मेत्य् आह मृत्योर् वै क्षेत्राण्य् अरणानि तेनैव मृत्योः क्षेत्राणि न गच्छति पूर्णान् ग्रहान् गृह्णीयाद् आमयाविनः प्राणान् वा एतस्य शुग् ऋच्छति यस्यामयति प्राणा ग्रहाः प्राणान् एवास्य शुचो मुञ्चति । उत यदीतासुर् भवति जीवत्य् एव पूर्णान् ग्रहान् गृह्णीयाद् यर्हि पर्जन्यो न वर्षेत् प्राणान् वा एतर्हि प्रजानाꣳ शुग् ऋच्छति यर्हि पर्जन्यो न वर्षति प्राणा ग्रहाः प्राणान् एव प्रजानाꣳ शुचो मुञ्चति ताजक् प्र वर्षति ॥

7.2.8 अनुवाक 8 द्वादशरात्रकथनम्
1 गायत्रो वा ऐन्द्रवायवः । गायत्रम् प्रायणीयम् अहर् । तस्मात् प्रायणीये ऽहन्न् ऐन्द्रवायवो गृह्यते स्व एवैनम् आयतने गृह्णाति त्रैष्टुभो वै शुक्रस् त्रैष्टुभम् द्वितीयम् अहर् । तस्माद् द्वितीये ऽहञ् छुक्रो गृह्यते स्व एवैनम् आयतने गृह्णाति जागतो वा आग्रयणः । जागतं तृतीयम् अहर् । तस्मात् तृतीये ऽहन्न् आग्रयणो गृह्यते स्व एवैनम् आयतने गृह्णाति । एतद् वै
2 यज्ञम् आपद् यच् छन्दाꣳस्य् आप्नोति यद् आग्रयणः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते जगन्मुखो वै द्वितीयस् त्रिरात्रः । जागत आग्रयणः । यच् चतुर्थे ऽहन्न् आग्रयणो गृह्यते स्व एवैनम् आयतने गृह्णाति । अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते राथंतरो वा ऐन्द्रवायवः । राथंतरम् पञ्चमम् अहर् । तस्मात् पञ्चमे ऽहन्
3 ऐन्द्रवायवो गृह्यते स्व एवैनम् आयतने गृह्णाति बार्हतो वै शुक्रः । बार्हतꣳ षष्ठम् अहर् । तस्मात् षष्ठे ऽहञ् छुक्रो गृह्यते स्व एवैनम् आयतने गृह्णाति । एतद् वै द्वितीयं यज्ञम् आपद् यच् छन्दाꣳस्य् आप्नोति यच् छुक्रः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते त्रिष्टुङ्मुखो वै तृतीयस् त्रिरात्रस् त्रैष्टुभः
4 शुक्रः । यत् सप्तमे ऽहञ् छुक्रो गृह्यते स्व एवैनम् आयतने गृह्णाति । अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते वाग् वा आग्रयणः । वाग् अष्टमम् अहर् । तस्माद् अष्टमे ऽहन्न् आग्रयणो गृह्यते स्व एवैनम् आयतने गृह्णाति प्राणो वा ऐन्द्रवायवः प्राणो नवमम् अहर् । तस्मान् नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते स्व एवैनम् आयतने गृह्णाति । एतत्
5 वै तृतीयं यज्ञम् आपद् यच् छन्दाꣳस्य् आप्नोति यद् ऐन्द्रवायवः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते ।
अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते पथो वा एते ऽध्य् अपथेन यन्ति ये ऽन्येनैन्द्रवायवात् प्रतिपद्यन्ते । अन्तः खलु वा एष यज्ञस्य यद् दशमम् अहर् दशमे ऽहन्न् ऐन्द्रवायवो गृह्यते यज्ञस्य
6 एवान्तं गत्वा पथात् पन्थाम् अपि यन्ति । अथो यथा वहीयसा प्रतिसारं वहन्ति तादृग् एव तत् । छन्दाꣳस्य् अन्योऽन्यस्य लोकम् अभ्यध्यायन् तान्य् एतेनैव देवा व्यवाहयन् । ऐन्द्रवायवस्य वा एतद् आयतनं यच् चतुर्थम् अहर् । तस्मिन्न् आग्रयणो गृह्यते तस्माद् आग्रयणस्यायतने नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते शुक्रस्य वा एतद् आयतनं यत् पञ्चमम्
7 अहर् । तस्मिन्न् ऐन्द्रवायवो गृह्यते तस्माद् ऐन्द्रवायवस्याऽऽयतने सप्तमे ऽहञ् छुक्रो गृह्यते । आग्रयणस्य वा एतद् आयतनं यत् षष्ठम् अहर् । तस्मिञ् छुक्रो गृह्यते तस्माच् छुक्रस्यायतने ऽष्टमे ऽहन्न् आग्रयणो गृह्यते छन्दाꣳस्य् एव तद् वि वाहयति प्र वस्यसो विवाहम् आप्नोति य एवं वेद । अथो देवताभ्य एव यज्ञे संविदं दधाति तस्माद् इदम् अन्योऽन्यस्मै दधाति ॥
 
7.2.9 अनुवाक 9 द्वादशरात्रकथनम्
1 प्रजापतिर् अकामयत प्र जायेयेति स एतं द्वादशरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै स प्राजायत यः कामयेत प्र जायेयेति स द्वादशरात्रेण यजेत प्रैव जायते ब्रह्मवादिनो वदन्ति । अग्निष्टोमप्रायणा यज्ञा अथ कस्माद् अतिरात्रः पूर्वः प्र युज्यत इति चक्षुषी वा एते यज्ञस्य यद् अतिरात्रौ कनीनिके अग्निष्टोमौ यत्
2 अग्निष्टोमं पूर्वम् प्रयुञ्जीरन् बहिर्धा कनीनिके दध्युस् तस्माद् अतिरात्रः पूर्वः प्र युज्यते चक्षुषी एव यज्ञे धित्वा मध्यतः कनीनिके प्रति दधति यो वै गायत्रीं ज्योतिःपक्षां वेद ज्योतिषा भासा सुवर्गं लोकम् एति याव् अग्निष्टोमौ तौ पक्षौ ये ऽन्तरे ऽष्टाव् उक्थ्याः स आत्मा । एषा वै गायत्री ज्योतिःपक्षा य एवं वेद ज्योतिषा भासा सुवर्गं लोकम्
3 एति प्रजापतिर् वा एष द्वादशधा विहितो यद् द्वादशरात्रः । याव् अतिरात्रौ तौ पक्षौ ये ऽन्तरे ऽष्टाव् उक्थ्याः स आत्मा प्रजापतिर् वावैष सन्त् सद् ध वै सत्त्रेण स्पृणोति प्राणा वै सत् प्राणान् एव स्पृणोति सर्वासां वा एते प्रजानाम् प्राणैर् आसते ये सत्त्रम् आसते तस्मात् पृच्छन्ति किम् एते सत्त्रिण इति प्रियः प्रजानाम् उत्थितो भवति य एवं वेद ॥

7.2.10 अनुवाक 10 द्वादशरात्रकथनम्
1 न वा एषो ऽन्यतोवैश्वानरः सुवर्गाय लोकाय प्राभवत् । ऊर्ध्वो ह वा एष आतत आसीत् ते देवा एतं वैश्वानरम् पर्य् औहन्त् सुवर्गस्य लोकस्य प्रभूत्यै । ऋतवो वा एतेन प्रजापतिम् अयाजयन् तेष्व् आर्ध्नोद् अधि तत् ऋध्नोति ह वा ऋत्विक्षु य एवं विद्वान् द्वादशाहेन यजते ते ऽस्मिन्न् ऐच्छन्त स रसम् अह वसन्ताय प्रायच्छत्
2 यवं ग्रीष्मायौषधीर् वर्षाभ्यो व्रीहीञ् छरदे माषतिलौ हेमन्तशिशिराभ्याम् । तेनेन्द्रम् प्रजापतिर् अयाजयत् ततो वा इन्द्र इन्द्रो ऽभवत् तस्माद् आहुः । आनुजावरस्य यज्ञ इति स ह्य् एतेनाग्रे ऽयजत । एष ह वै कुणपम् अत्ति यः सत्त्रे प्रतिगृह्णाति पुरुषकुणपम् अश्वकुणपम् । गौर् वा अन्नम् । []येन पात्रेणान्नम् बिभ्रति यत् तन् न निर्णेनिजति ततो ऽधि
3 मलं जायते । एक एव यजेत । एको हि प्रजापतिर् आर्ध्नोत् । द्वादश रात्रीर् दीक्षितः स्यात् । द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर् वावैष एष ह त्वै जायते यस् तपसो ऽधि जायते चतुर्धा वा एतास् तिस्रस्तिस्रो रात्रयो यद् द्वादशोपसदः । याः प्रथमा यज्ञं ताभिः सम् भरति या द्वितीया यज्ञं ताभिर् आ रभते
4 यास् तृतीयाः पात्राणि ताभिर् निर्णेनिक्ते याश् चतुर्थीर् अपि ताभिर् आत्मानम् अन्तरतः शुन्धते यो वा अस्य पशुम् अत्ति माꣳसꣳ सो ऽत्ति यः पुरोडाशम् मस्तिष्कꣳ स यः परिवापम् पुरीषꣳ स य आज्यम् मज्जानꣳ स यः सोमꣳ स्वेदꣳ सः । अपि ह वा अस्य शीर्षण्या निष्पदः प्रति गृह्णाति यो द्वादशाहे प्रतिगृह्णाति तस्माद् द्वादशाहेन न याज्यम् पाप्मनो व्यावृत्त्यै ॥

7.2.11 अनुवाक 11 अश्वमेधमन्त्रकथनम्
1 एकस्मै स्वाहा द्वाभ्याꣳ स्वाहा त्रिभ्यः स्वाहा चतुर्भ्यः स्वाहा पञ्चभ्यः स्वाहा षड्भ्यः स्वाहा सप्तभ्यः स्वाहा । अष्टाभ्यः स्वाहा नवभ्यः स्वाहा दशभ्यः स्वाहा । एकादशभ्यः स्वाहा द्वादशभ्यः स्वाहा त्रयोदशभ्यः स्वाहा चतुर्दशभ्यः स्वाहा पञ्चदशभ्यः स्वाहा षोडशभ्यः स्वाहा सप्तदशभ्यः स्वाहा । अष्टादशभ्यः स्वाहा । एकान्न विꣳशत्यै स्वाहा नवविꣳशत्यै स्वाहा । एकान्न चत्वारिꣳशते स्वाहा नवचत्वारिꣳशते स्वाहा । एकान्न षष्ट्यै स्वाहा नवषष्ट्यै स्वाहा । एकान्नाशीत्यै स्वाहा नवाशीत्यै स्वाहा । एकान्न शताय स्वाहा शताय स्वाहा द्वाभ्याꣳ शताभ्याꣳ स्वाहा सर्वस्मै स्वाहा ॥

7.2.12 अनुवाक 12 अश्वमेधगतमन्त्रकथनम्
1 एकस्मै स्वाहा त्रिभ्यः स्वाहा पञ्चभ्यः स्वाहा सप्तभ्यः स्वाहा नवभ्यः स्वाहा । एकादशभ्यः स्वाहा त्रयोदशभ्यः स्वाहा पञ्चदशभ्यः स्वाहा सप्तदशभ्यः स्वाहा । एकान्न विꣳशत्यै स्वाहा नवविꣳशत्यै स्वाहा । एकान्न चत्वारिꣳशते स्वाहा नवचत्वारिꣳशते स्वाहा । एकान्न षष्ट्यै स्वाहा नवषष्ट्यै स्वाहा । एकान्नाशीत्यै स्वाहा नवाशीत्यै स्वाहा । एकान्न शताय स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥

7.2.13 अनुवाक 13 अश्वमेधगतमन्त्रकथनम्
1 द्वाभ्याꣳ स्वाहा चतुर्भ्यः स्वाहा षड्भ्यः स्वाहा । अष्टाभ्यः स्वाहा दशभ्यः स्वाहा द्वादशभ्यः स्वाहा चतुर्दशभ्यः स्वाहा षोडशभ्यः स्वाहा । अष्टादशभ्यः स्वाहा विꣳशत्यै स्वाहा । अष्टानवत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥

7.2.14 अनुवाक 14 अश्वमेधगतमन्त्रकथनम्
1 त्रिभ्यः स्वाहा पञ्चभ्यः स्वाहा सप्तभ्यः स्वाहा नवभ्यः स्वाहा । एकादशभ्यः स्वाहा त्रयोदशभ्यः स्वाहा पञ्चदशभ्यः स्वाहा सप्तदशभ्यः स्वाहा । एकान्न विꣳशत्यै स्वाहा नवविꣳशत्यै स्वाहा । एकान्न चत्वारिꣳशते स्वाहा नवचत्वारिꣳशते स्वाहा । एकान्न षष्ट्यै स्वाहा नवषष्ट्यै स्वाहा । एकान्नाशीत्यै स्वाहा नवाशीत्यै स्वाहा । एकान्न शताय स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥
 
7.2.15 अनुवाक 15 अश्वमेधगतमन्त्रकथनम्
1 चतुर्भ्यः स्वाहा । अष्टाभ्यः स्वाहा द्वादशभ्यः स्वाहा षोडशभ्यः स्वाहा विꣳशत्यै स्वाहा षण्णवत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥
 
7.2.16 अनुवाक 16 अश्वमेधगतमन्त्रकथनम्
1 पञ्चभ्यः स्वाहा दशभ्यः स्वाहा पञ्चदशभ्यः स्वाहा विꣳशत्यै स्वाहा पञ्चनवत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥

7.2.17 अनुवाक 17 अश्वमेधगतमन्त्रकथनम्
1 दशभ्यः स्वाहा विꣳशत्यै स्वाहा त्रिꣳशते स्वाहा चत्वारिꣳशते स्वाहा पञ्चाशते स्वाहा षष्ट्यै स्वाहा सप्तत्यै स्वाहा । अशीत्यै स्वाहा नवत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥
 
7.2.18 अनुवाक 18 अश्वमेधगतमन्त्रकथनम्
1 विꣳशत्यै स्वाहा चत्वारिꣳशते स्वाहा षष्ट्यै स्वाहा । अशीत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥
 
7.2.19अनुवाक 19 अश्वमेधगतमन्त्रकथनम्
1 पञ्चाशते स्वाहा शताय स्वाहा द्वाभ्याꣳ शताभ्याꣳ स्वाहा त्रिभ्यः शतेभ्यः स्वाहा चतुर्भ्यः शतेभ्यः स्वाहा पञ्चभ्यः शतेभ्यः स्वाहा षड्भ्यः शतेभ्यः स्वाहा सप्तभ्यः शतेभ्यः स्वाहा । अष्टाभ्यः शतेभ्यः स्वाहा नवभ्यः शतेभ्यः स्वाहा सहस्राय स्वाहा सर्वस्मै स्वाहा ॥

7.2.20 अनुवाक 20 अश्वमेधगतमन्त्रकथनम्
1 शताय स्वाहा सहस्राय स्वाहा । अयुताय स्वाहा नियुताय स्वाहा प्रयुताय स्वाहा । अर्बुदाय स्वाहा न्यर्बुदाय स्वाहा समुद्राय स्वाहा मध्याय स्वाहा । अन्ताय स्वाहा परार्धाय स्वाहा । उषसे स्वाहा व्युष्ट्यै स्वाहा । उदेष्यते स्वाहा । उद्यते स्वाहा । उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहा ॥  


7.2.1 अनुवाक 1 षड्रात्रकथनम्
 1
    साध्या वै देवाः सुवर्गकामा एतꣳ षड्रात्रम् अपश्यन्
    तम् आहरन्
    तेनायजन्त
    ततो वै ते सुवर्गं लोकम् आयन्
    य एवं विद्वाꣳसः षड्रात्रम् आसते सुवर्गम् एव लोकं यन्ति
    देवसत्त्रं वै षड्रात्रः
    प्रत्यक्षꣳ ह्य् एतानि पृष्ठानि
    य एवं विद्वाꣳसः षड्रात्रम् आसते साक्षाद् एव देवता अभ्यारोहन्ति
    षड्रात्रो भवति
    षड् वा ऋतवः
    षट् पृष्ठानि

 2
    पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् ।
    ते संवत्सर एव प्रति तिष्ठन्ति
    बृहद्रथंतराभ्यां यन्ति ।
    इयं वाव रथंतरम् असौ बृहत् ।
    आभ्याम् एव यन्ति ।
    अथो अनयोर् एव प्रति तिष्ठन्ति ।
    एते वै यज्ञस्याञ्जसायनी स्रुती
    ताभ्याम् एव सुवर्गं लोकं यन्ति
    त्रिवृद् अग्निष्टोमो भवति
    तेज एवाव रुन्धते
    पञ्चदशो भवति ।
    इन्द्रियम् एवाव रुन्धते
    सप्तदशः

 3
    भवति ।
    अन्नाद्यस्यावरुद्ध्यै ।
    अथो प्रैव तेन जायन्ते ।
    एकविꣳशो भवति प्रतिष्ठित्यै ।
    अथो रुचम् एवात्मन् दधते
    त्रिणवो भवति विजित्यै
    त्रयस्त्रिꣳशो भवति
    प्रतिष्ठित्यै
    सदोहविर्धानिन एतेन षड्रात्रेण यजेरन् ।
    आश्वत्थी हविर्धानं चाग्नीध्रं च भवतस्
    तद् धि सुवर्ग्यम् ।
    चक्रीवती भवतः
   सुवर्गस्य लोकस्य समष्ट्यै ।
    उलूखलबुध्नो यूपो भवति
   प्रतिष्ठित्यै
    प्राञ्चो यान्ति
    प्राङ् इव हि सुवर्गः

 4
    लोकः
    सरस्वत्या यान्ति ।
    एष वै देवयानः पन्थास्
    तम् एवान्वारोहन्ति ।
    आक्रोशन्तो यान्ति ।
    अवर्तिम् एवान्यस्मिन् प्रतिषज्य प्रतिष्ठां गच्छन्ति
    यदा दश शतं कुर्वन्त्य् अथैकम् उत्थानम् ।
    शतायुः पुरुषः शतेन्द्रियः ।
    आयुष्य् एवेन्द्रिये प्रति तिष्ठन्ति
    यदा शतꣳ सहस्रं कुर्वन्त्य् अथैकम् उत्थानम् ।
    सहस्रसम्मितो वा असौ लोकः ।
    अमुम् एव लोकम् अभि जयन्ति
    यदैषाम् प्रमीयेत यदा वा जीयेरन्न् अथैकम् उत्थानम् ।
    तद् धि तीर्थम् ॥

7.2.2 अनुवाक 2 सप्तरात्रकथनम्
 1
    कुसुरुबिन्द औद्दालकिर् अकामयत
    पशुमान्त् स्याम् इति
    स एतꣳ सप्तरात्रम् आहरत्
    तेनायजत
    तेन वै स यावन्तो ग्राम्याः पशवस् तान् अवारुन्द्ध
    य एवं विद्वान्त् सप्तरात्रेण यजते यावन्त एव ग्राम्याः पशवस् तान् एवाव रुन्द्धे
    सप्तरात्रो भवति
    सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाꣳसि ।
    उभयस्यावरुद्ध्यै
    त्रिवृद् अग्निष्टोमो भवति
    तेजः

 2
    एवाव रुन्द्धे
    पञ्चदशो भवति ।
    इन्द्रियम् एवाव रुन्द्धे
    सप्तदशो भवति ।
    अन्नाद्यस्यावरुद्ध्यै ।
    अथो प्रैव तेन जायते ।
    एकविꣳशो भवति
    प्रतिष्ठित्यै ।
    अथो रुचम् एवात्मन् धत्ते
    त्रिणवो भवति
    विजित्यै
    पञ्चविꣳशो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै
    महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै
    विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति
    सर्वस्याभिजित्यै
    यत् प्रत्यक्षम् पूर्वेष्व् अहःसु पृष्ठान्य् उपेयुः प्रत्यक्षम्

 3
    विश्वजिति यथा दुग्धाम् उपसीदत्य् एवम् उत्तमम् अहः स्यात् ।
    नैकरात्रश् चन स्यात् ।
    बृहद्रथन्तरे पूर्वेष्व् अहःसूप यन्ति ।
    इयं वाव रथंतरम् असौ बृहत् ।
    आभ्याम् एव न यन्त्य् अथो अनयोर् एव प्रति तिष्ठन्ति
    यत् प्रत्यक्षं विश्वजिति पृष्ठान्य् उपयन्ति यथा प्रत्तां दुहे तादृग् एव तत् ॥

7.2.3 अनुवाक 3 अष्टरात्रकथनम्
 1
    बृहस्पतिर् अकामयत
    ब्रह्मवर्चसी स्याम् इति
    स एतम् अष्टरात्रम् अपश्यत्
    तम् आहरत्
    तेनायजत
    ततो वै स ब्रह्मवर्चस्य् अभवत् ।
    य एवं विद्वान् अष्टरात्रेण यजते ब्रह्मवर्चस्य् एव भवति ।
    अष्टरात्रो भवति ।
    अष्टाक्षरा गायत्री
    गायत्री ब्रह्मवर्चसम् ।
    गायत्रियैव ब्रह्मवर्चसम् अव रुन्द्धे ।
   अष्टरात्रो भवति
    चतस्रो वै दिशः ।
    चतस्रो ऽवान्तरदिशाः ।
    दिग्भ्य एव ब्रह्मवर्चसम् अव रुन्द्धे ॥

 2
    त्रिवृद् अग्निष्टोमो भवति
    तेज एवाव रुन्द्धे
    पञ्चदशो भवति ।
    इन्द्रियम् एवाव रुन्द्धे
    सप्तदशो भवत्य् अन्नाद्यस्यावरुद्ध्यै ।
    अथो प्रैव तेन जायते ।
    एकविꣳशो भवति
    प्रतिष्ठित्यै ।
    अथो रुचम् एवात्मन् धत्ते
    त्रिणवो भवति
    विजित्यै
    त्रयस्त्रिꣳशो भवति
    प्रतिष्ठित्यै
    पञ्चविꣳशो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै
    महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै
    विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति
    सर्वस्याभिजित्यै ॥

7.2.4 अनुवाक 4 नवरात्रकथनम्
 1
    प्रजापतिः प्रजा असृजत
    ताः सृष्टाः क्षुधं न्य् आयन् ।
    स एतं नवरात्रम् अपश्यत्
    तम् आहरत्
    तेनायजत
    ततो वै प्रजाभ्यो ऽकल्पत
    यर्हि प्रजाः क्षुधं निगच्छेयुस् तर्हि नवरात्रेण यजेत ।
    इमे हि वा एतासां लोका अक्लृप्ता अथैताः क्षुधं नि गच्छन्ति ।
    इमान् एवाभ्यो लोकान् कल्पयति
    तान् कल्पमानान् प्रजाभ्यो ऽनु कल्पते
    कल्पन्ते

 2
    अस्मा इमे लोका ऊर्जम् प्रजासु दधाति
    त्रिरात्रेणैवेमं लोकं कल्पयति त्रिरात्त्रेणान्तरिक्षं त्रिरात्रेणामुं लोकम् ।
    यथा गुणे गुणम् अन्वस्यत्य् एवम् एव तल् लोके लोकम् अन्व् अस्यति धृत्या अशिथिलम्भावाय
    ज्योतिर् गौर् आयुर् इति ज्ञाता स्तोमा भवन्ति ।
    इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः ।
    एष्व् एव लोकेषु प्रति तिष्ठन्ति
    ज्ञात्रं प्रजानां

 3
    गच्छति
    नवरात्रो भवति ।
    अभिपूर्वम् एवास्मिन् तेजो दधाति
    यो ज्योगामयावी स्यात् स नवरात्रेण यजेत
    प्राणा हि वा एतस्याधृताः ।
    अथैतस्य ज्योग् आमयति प्राणान् एवास्मिन् दाधार ।
    उत यदीतासुर् भवति जीवत्य् एव ॥

7.2.5 अनुवाक 5 दशरात्रकथनम्
 1
    प्रजापतिर् अकामयत
    प्र जायेयेति
    स एतं दशहोतारम् अपश्यत्
    तम् अजुहोत्
    तेन दशरात्रम् असृजत
    तेन दशरात्रेण प्राजायत
    दशरात्राय दीक्षिष्यमाणो दशहोतारं जुहुयात् ।
    दशहोत्रैव दशरात्रꣳ सृजते
    तेन दशरात्रेण प्र जायते
    वैराजो वा एष यज्ञो यद् दशरात्रः ।
    य एवं विद्वान् दशरात्रेण यजते विराजम् एव गच्छति
    प्राजापत्यो वा एष यज्ञो यद् दशरात्रः ॥

 2
    य एवं विद्वान् दशरात्रेण यजते प्रैव जायते ।
    इन्द्रो वै सदृङ् देवताभिर् आसीत्
    स न व्यावृतम् अगच्छत्
    स प्रजापतिम् उपाधावत्
    तस्मा एतं दशरात्रम् प्रायच्छत्
    तम् आहरत्
    तेनायजत
    ततो वै सो ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छत् ।
    य एवं विद्वान् दशरात्रेण यजते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छति
   त्रिककुद् वै

 3
    एष यज्ञो यद् दशरात्रः
    ककुत् पञ्चदशः ककुद् एकविꣳशः ककुत् त्रयस्त्रिꣳशः ।
    य एवं विद्वान् दशरात्रेण यजते त्रिककुद् एव समानानाम् भवति
    यजमानः पञ्चदशो यजमान एकविꣳशो यजमानस् त्रयस्त्रिꣳशः पुर इतराः
    अभिचर्यमाणो दशरात्रेण यजेत
    देवपुरा एव पर्यूहते
    तस्य न कुतश् चनोपाव्याधो भवति
    नैनम् अभिचरन्त् स्तृणुते
    देवासुराः संयत्ता आसन्
    ते देवा एताः

 4
    देवपुरा अपश्यन् यद् दशरात्रस्
    ताः पर्य् औहन्त
    तेषां न कुतश् चनोपाव्याधो ऽभवत्
    ततो देवा अभवन् पराऽसुराः ।
    यो भ्रातृव्यवान्त् स्यात् स दशरात्रेण यजेत
    देवपुरा एव पर्यूहते
    तस्य न कुतश् चनोपाव्याधो भवति
    भवत्य् आत्मना परास्य भ्रातृव्यो भवति
    स्तोम स्तोमस्योपस्तिर् भवति
    भ्रातृव्यम् एवोपस्तिं कुरुते
    जामि वै

 5
    एतत् कुर्वन्ति यज् ज्यायाꣳसꣳ स्तोमम् उपेत्य कनीयाꣳसम् उपयन्ति
    यद् अग्निष्टोमसामान्य् अवस्ताच् च परस्ताच् च भवन्त्य् अजामित्वाय
    त्रिवृद् अग्निष्टोमो ऽग्निष्टुद् आग्नेयीषु भवति
    तेज एवाव रुन्द्धे
    पञ्चदश उक्थ्य ऐन्द्रीषु ।
    इन्द्रियम् एवाव रुन्द्धे
    त्रिवृद् अग्निष्टोमो वैश्वदेवीषु
    पुष्टिम् एवाव रुन्द्धे
    सप्तदशो ऽग्निष्टोमः प्राजापत्यासु तीव्रसोमः ।
    अन्नाद्यस्यावरुद्ध्यै ।
    अथो प्रैव तेन जायते ॥

 6
    एकविꣳश उक्थ्यः सौरीषु प्रतिष्ठित्यै ।
    अथो रुचम् एवात्मन् धत्ते
    सप्तदशो ऽग्निष्टोमः प्राजापत्यासूपहव्यः ।
    उपहवम् एव गच्छति
    त्रिणवाव् अग्निष्टोमाव् अभित ऐन्द्रीषु
    विजित्यै
    त्रयस्त्रिꣳश उक्थ्यो वैश्वदेवीषु
    प्रतिष्ठित्यै
    विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति
    सर्वस्याभिजित्यै ॥

7.2.6 अनुवाक 6 एकादशरात्रकथनम्
 1
    ऋतवो वै प्रजाकामाः प्रजां नाविन्दन्त
    ते ऽकामयन्त
    प्रजाꣳ सृजेमहि प्रजाम् अव रुन्धीमहि प्रजां विन्देमहि प्रजावन्तः स्यामेति
    त एतम् एकादशरात्रम् अपश्यन्
    तम् आहरन्
    तेनायजन्त
    ततो वै ते प्रजाम् असृजन्त प्रजाम् अवारुन्धत प्रजाम् अविन्दन्त प्रजावन्तो ऽभवन्
    त ऋतवो ऽभवन्
    तद् आर्तवानाम् आर्तवत्वम्
    ऋतूनां वा एते पुत्रास्
   तस्मात्

 2
    आर्तवा उच्यन्ते
    य एवं विद्वाꣳस एकादशरात्रम् आसते प्रजाम् एव सृजन्ते प्रजाम् अव रुन्धते प्रजां विन्दन्ते प्रजावन्तो भवन्ति
    ज्योतिर् अतिरात्रो भवति
    ज्योतिर् एव पुरस्ताद् दधते
    सुवर्गस्य लोकस्यानुख्यात्यै
    पृष्ठ्यः षडहो भवति
    षड् वा ऋतवः षट् पृष्ठानि
    पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् ।
    ते संवत्सर एव प्रति तिष्ठन्ति
    चतुर्विꣳशो भवति
    चतुर्विꣳशत्यक्षरा गायत्री

 3
    गायत्रम् ब्रह्मवर्चसम् ।
    गायत्रियाम् एव ब्रह्मवर्चसे प्रति तिष्ठन्ति
    चतुश्चत्वारिꣳशो भवति
    चतुष्चत्वारिꣳशदक्षरा त्रिष्टुग्
    इन्द्रियं त्रिष्टुप्
    त्रिष्टुभ्य् एवेन्द्रिये प्रति तिष्ठन्ति ।
    अष्टाचत्वारिꣳशो भवति ।
    अष्टाचत्वारिꣳशदक्षरा जगती
    जागताः पशवः ।
    जगत्याम् एव पशुषु प्रति तिष्ठन्ति ।
    एकादशरात्रो भवति
    पञ्च वा ऋतव आर्तवाः पञ्च ।
    ऋतुष्व् एवाऽऽर्तवेषु संवत्सरे प्रतिष्ठाय प्रजाम् अव रुन्धते ।
    अतिरात्राव् अभितो भवतः
    प्रजायै परिगृहीत्यै ॥

7.2.7 अनुवाक 7 द्वादशरात्रकथनम्
 1
    ऐन्द्रवायवाग्रान् गृह्णीयाद् यः कामयेत
    यथापूर्वम् प्रजाः कल्पेरन्न् इति
    यज्ञस्य वै क्लृप्तिम् अनु प्रजाः कल्पन्ते यज्ञस्याक्लृप्तिम् अनु न कल्पन्ते
    यथापूर्वम् एव प्रजाः कल्पयति
    न ज्यायाꣳसं कनीयान् अति क्रामति ।
    ऐन्द्रवायवाग्रान् गृह्णीयाद् आमयाविनः
    प्राणेन वा एष व्यृध्यते यस्याऽऽमयति
    प्राण ऐन्द्रवायवः
    प्राणेनैवैनꣳ सम् अर्धयति
    मैत्रावरुणाग्रान् गृह्णीरन् येषां दीक्षितानाम् प्रमीयेत ।

 2
    प्राणापानाभ्यां वा एते व्यृध्यन्ते येषां दीक्षितानाम् प्रमीयते
    प्राणापानौ मित्रावरुणौ
    प्राणापानाव् एव मुखतः परि हरन्ते ।
    आश्विनाग्रान् गृह्णीताऽऽनुजावरः ।
    अश्विनौ वै देवानाम् आनुजावरौ पश्चेवाग्रम् पर्य् ऐताम्
    अश्विनाव् एतस्या देवता य आनुजावरस्
    ताव् एवैनम् अग्रम् परि णयतः
    शुक्राग्रान् गृह्णीत गतश्रीः प्रतिष्ठाकामः ।
    असौ वा आदित्यः शुक्र एषो ऽन्तः ।
    अन्तम् मनुष्यः

 3
    श्रियै गत्त्वा नि वर्तते ।
    अन्ताद् एवान्तम् आ रभते
    न ततः पापीयान् भवति
    मन्थ्यग्रान् गृह्णीताभिचरन् ।
    आर्तपात्रं वा एतद् यन् मन्थिपात्रम्
    मृत्युनैवैनं ग्राहयति
    ताजग् आर्तिम् आर्छति ।
    आग्रयणाग्रान् गृह्णीत यस्य पिता पितामहः पुण्यः स्याद् अथ तन् न प्राप्नुयात् ।
    वाचा वा एष इन्द्रियेण व्यृध्यते यस्य पिता पितामहः पुण्यः

 4
    भवत्य् अथ तन् न प्राप्नोति ।
    उर इवैतद् यज्ञस्य वाग् इव यद् आग्रयणः ।
    वाचैवैनम् इन्द्रियेण सम् अर्धयति
    न ततः पापीयान् भवति ।
    उक्थ्याग्रान् गृह्णीताभिचर्यमाणः
    सर्वेषां वा एतत् पात्राणाम् इन्द्रियं यद् उक्थ्यपात्रम् ।
    सर्वेणैवैनम् इन्द्रियेणाति प्र युङ्क्ते
    सरस्वत्य् अभि नो नेषि वस्य इति पुरोरुचं कुर्यात् ।
    वाग् वै

 5
    सरस्वती वाचैवैनम् अति प्र युङ्क्ते
    मा त्वत् क्षेत्राण्य् अरणानि गन्मेत्य् आह
    मृत्योर् वै क्षेत्राण्य् अरणानि
    तेनैव मृत्योः क्षेत्राणि न गच्छति
    पूर्णान् ग्रहान् गृह्णीयाद् आमयाविनः
    प्राणान् वा एतस्य शुग् ऋच्छति यस्यामयति
    प्राणा ग्रहाः
    प्राणान् एवास्य शुचो मुञ्चति ।
    उत यदीतासुर् भवति जीवत्य् एव
    पूर्णान् ग्रहान् गृह्णीयाद् यर्हि पर्जन्यो न वर्षेत्
    प्राणान् वा एतर्हि प्रजानाꣳ शुग् ऋच्छति यर्हि पर्जन्यो न वर्षति
    प्राणा ग्रहाः
    प्राणान् एव प्रजानाꣳ शुचो मुञ्चति
    ताजक् प्र वर्षति ॥

7.2.8 अनुवाक 8 द्वादशरात्रकथनम्
 1
    गायत्रो वा ऐन्द्रवायवः ।
    गायत्रम् प्रायणीयम् अहर् ।
    तस्मात् प्रायणीये ऽहन्न् ऐन्द्रवायवो गृह्यते
    स्व एवैनम् आयतने गृह्णाति
    त्रैष्टुभो वै शुक्रस्
    त्रैष्टुभम् द्वितीयम् अहर् ।
    तस्माद् द्वितीये ऽहञ् छुक्रो गृह्यते
    स्व एवैनम् आयतने गृह्णाति
    जागतो वा आग्रयणः ।
    जागतं तृतीयम् अहर् ।
    तस्मात् तृतीये ऽहन्न् आग्रयणो गृह्यते
   स्व एवैनम् आयतने गृह्णाति ।
    एतद् वै

 2
    यज्ञम् आपद् यच् छन्दाꣳस्य् आप्नोति
    यद् आग्रयणः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते
    जगन्मुखो वै द्वितीयस् त्रिरात्रः ।
    जागत आग्रयणः ।
    यच् चतुर्थे ऽहन्न् आग्रयणो गृह्यते स्व एवैनम् आयतने गृह्णाति ।
    अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते
    राथंतरो वा ऐन्द्रवायवः ।
    राथंतरम् पञ्चमम् अहर् ।
    तस्मात् पञ्चमे ऽहन्

 3
    ऐन्द्रवायवो गृह्यते
    स्व एवैनम् आयतने गृह्णाति
    बार्हतो वै शुक्रः ।
    बार्हतꣳ षष्ठम् अहर् ।
    तस्मात् षष्ठे ऽहञ् छुक्रो गृह्यते
    स्व एवैनम् आयतने गृह्णाति ।
    एतद् वै द्वितीयं यज्ञम् आपद् यच् छन्दाꣳस्य् आप्नोति
    यच् छुक्रः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते
    त्रिष्टुङ्मुखो वै तृतीयस् त्रिरात्रस्
    त्रैष्टुभः

 4
    शुक्रः ।
    यत् सप्तमे ऽहञ् छुक्रो गृह्यते स्व एवैनम् आयतने गृह्णाति ।
    अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते
    वाग् वा आग्रयणः ।
    वाग् अष्टमम् अहर् ।
    तस्माद् अष्टमे ऽहन्न् आग्रयणो गृह्यते
    स्व एवैनम् आयतने गृह्णाति
    प्राणो वा ऐन्द्रवायवः
    प्राणो नवमम् अहर् ।
    तस्मान् नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते
    स्व एवैनम् आयतने गृह्णाति ।
    एतत्

 5
    वै तृतीयं यज्ञम् आपद् यच् छन्दाꣳस्य् आप्नोति
    यद् ऐन्द्रवायवः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते ।
    अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते
    पथो वा एते ऽध्य् अपथेन यन्ति ये ऽन्येनैन्द्रवायवात् प्रतिपद्यन्ते ।
    अन्तः खलु वा एष यज्ञस्य यद् दशमम् अहर्
    दशमे ऽहन्न् ऐन्द्रवायवो गृह्यते
    यज्ञस्य

 6
    एवान्तं गत्वा पथात् पन्थाम् अपि यन्ति ।
    अथो यथा वहीयसा प्रतिसारं वहन्ति तादृग् एव तत् ।
    छन्दाꣳस्य् अन्योऽन्यस्य लोकम् अभ्यध्यायन्
    तान्य् एतेनैव देवा व्यवाहयन् ।
    ऐन्द्रवायवस्य वा एतद् आयतनं यच् चतुर्थम् अहर् ।
    तस्मिन्न् आग्रयणो गृह्यते
    तस्माद् आग्रयणस्यायतने नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते
    शुक्रस्य वा एतद् आयतनं यत् पञ्चमम्

 7
    अहर् ।
    तस्मिन्न् ऐन्द्रवायवो गृह्यते
    तस्माद् ऐन्द्रवायवस्याऽऽयतने सप्तमे ऽहञ् छुक्रो गृह्यते ।
    आग्रयणस्य वा एतद् आयतनं यत् षष्ठम् अहर् ।
    तस्मिञ् छुक्रो गृह्यते
    तस्माच् छुक्रस्यायतने ऽष्टमे ऽहन्न् आग्रयणो गृह्यते
    छन्दाꣳस्य् एव तद् वि वाहयति
    प्र वस्यसो विवाहम् आप्नोति य एवं वेद ।
    अथो देवताभ्य एव यज्ञे संविदं दधाति
    तस्माद् इदम् अन्योऽन्यस्मै दधाति ॥

7.2.9 अनुवाक 9 द्वादशरात्रकथनम्
 1
    प्रजापतिर् अकामयत
    प्र जायेयेति
    स एतं द्वादशरात्रम् अपश्यत्
    तम् आहरत्
    तेनायजत
    ततो वै स प्राजायत
    यः कामयेत
    प्र जायेयेति
    स द्वादशरात्रेण यजेत
    प्रैव जायते
   ब्रह्मवादिनो वदन्ति ।
    अग्निष्टोमप्रायणा यज्ञा अथ कस्माद् अतिरात्रः पूर्वः प्र युज्यत इति
    चक्षुषी वा एते यज्ञस्य यद् अतिरात्रौ कनीनिके अग्निष्टोमौ
    यत्

 2
    अग्निष्टोमं पूर्वम् प्रयुञ्जीरन् बहिर्धा कनीनिके दध्युस्
    तस्माद् अतिरात्रः पूर्वः प्र युज्यते
    चक्षुषी एव यज्ञे धित्वा मध्यतः कनीनिके प्रति दधति
    यो वै गायत्रीं ज्योतिःपक्षां वेद ज्योतिषा भासा सुवर्गं लोकम् एति
    याव् अग्निष्टोमौ तौ पक्षौ
    ये ऽन्तरे ऽष्टाव् उक्थ्याः स आत्मा ।
    एषा वै गायत्री ज्योतिःपक्षा
    य एवं वेद ज्योतिषा भासा सुवर्गं लोकम्

 3
    एति
    प्रजापतिर् वा एष द्वादशधा विहितो यद् द्वादशरात्रः ।
    याव् अतिरात्रौ तौ पक्षौ
    ये ऽन्तरे ऽष्टाव् उक्थ्याः स आत्मा
    प्रजापतिर् वावैष सन्त् सद् ध वै सत्त्रेण स्पृणोति
    प्राणा वै सत्
    प्राणान् एव स्पृणोति
    सर्वासां वा एते प्रजानाम् प्राणैर् आसते ये सत्त्रम् आसते
    तस्मात् पृच्छन्ति
    किम् एते सत्त्रिण इति
   प्रियः प्रजानाम् उत्थितो भवति य एवं वेद ॥

7.2.10 अनुवाक 10 द्वादशरात्रकथनम्
 1
    न वा एषो ऽन्यतोवैश्वानरः सुवर्गाय लोकाय प्राभवत् ।
    ऊर्ध्वो ह वा एष आतत आसीत्
    ते देवा एतं वैश्वानरम् पर्य् औहन्त् सुवर्गस्य लोकस्य प्रभूत्यै ।
    ऋतवो वा एतेन प्रजापतिम् अयाजयन्
    तेष्व् आर्ध्नोद् अधि तत्
    ऋध्नोति ह वा ऋत्विक्षु य एवं विद्वान् द्वादशाहेन यजते
    ते ऽस्मिन्न् ऐच्छन्त
    स रसम् अह वसन्ताय प्रायच्छत्

 2
    यवं ग्रीष्मायौषधीर् वर्षाभ्यो व्रीहीञ् छरदे माषतिलौ हेमन्तशिशिराभ्याम् ।
    तेनेन्द्रम् प्रजापतिर् अयाजयत्
    ततो वा इन्द्र इन्द्रो ऽभवत्
    तस्माद् आहुः ।
    आनुजावरस्य यज्ञ इति
    स ह्य् एतेनाग्रे ऽयजत ।
    एष ह वै कुणपम् अत्ति यः सत्त्रे प्रतिगृह्णाति पुरुषकुणपम् अश्वकुणपम् ।
    गौर् वा अन्नम् ।
    येन पात्रेणान्नम् बिभ्रति यत् तन् न निर्णेनिजति ततो ऽधि

 3
    मलं जायते ।
    एक एव यजेत ।
    एको हि प्रजापतिर् आर्ध्नोत् ।
    द्वादश रात्रीर् दीक्षितः स्यात् ।
    द्वादश मासाः संवत्सरः
    संवत्सरः प्रजापतिः
    प्रजापतिर् वावैष
    एष ह त्वै जायते यस् तपसो ऽधि जायते
    चतुर्धा वा एतास् तिस्रस्तिस्रो रात्रयो यद् द्वादशोपसदः ।
    याः प्रथमा यज्ञं ताभिः सम् भरति
    या द्वितीया यज्ञं ताभिर् आ रभते

 4
    यास् तृतीयाः पात्राणि ताभिर् निर्णेनिक्ते
    याश् चतुर्थीर् अपि ताभिर् आत्मानम् अन्तरतः शुन्धते
    यो वा अस्य पशुम् अत्ति माꣳसꣳ सो ऽत्ति
    यः पुरोडाशम् मस्तिष्कꣳ स
    यः परिवापम् पुरीषꣳ स
    य आज्यम् मज्जानꣳ स
    यः सोमꣳ स्वेदꣳ सः ।
    अपि ह वा अस्य शीर्षण्या निष्पदः प्रति गृह्णाति यो द्वादशाहे प्रतिगृह्णाति
    तस्माद् द्वादशाहेन न याज्यम् पाप्मनो व्यावृत्त्यै ॥

7.2.11 अनुवाक 11 अश्वमेधमन्त्रकथनम्
 1
    एकस्मै स्वाहा
    द्वाभ्याꣳ स्वाहा
    त्रिभ्यः स्वाहा
    चतुर्भ्यः स्वाहा
    पञ्चभ्यः स्वाहा
    षड्भ्यः स्वाहा
    सप्तभ्यः स्वाहा ।
    अष्टाभ्यः स्वाहा
    नवभ्यः स्वाहा
    दशभ्यः स्वाहा ।
    एकादशभ्यः स्वाहा
   द्वादशभ्यः स्वाहा
    त्रयोदशभ्यः स्वाहा
   चतुर्दशभ्यः स्वाहा
   पञ्चदशभ्यः स्वाहा
    षोडशभ्यः स्वाहा
   सप्तदशभ्यः स्वाहा ।
    अष्टादशभ्यः स्वाहा ।
   एकान्न विꣳशत्यै स्वाहा
    नवविꣳशत्यै स्वाहा ।
   एकान्न चत्वारिꣳशते स्वाहा
    नवचत्वारिꣳशते स्वाहा ।
    एकान्न षष्ट्यै स्वाहा
    नवषष्ट्यै स्वाहा ।
    एकान्नाशीत्यै स्वाहा
    नवाशीत्यै स्वाहा ।
    एकान्न शताय स्वाहा
    शताय स्वाहा
   द्वाभ्याꣳ शताभ्याꣳ स्वाहा
    सर्वस्मै स्वाहा ॥

7.2.12 अनुवाक 12 अश्वमेधगतमन्त्रकथनम्
 1
    एकस्मै स्वाहा
    त्रिभ्यः स्वाहा
    पञ्चभ्यः स्वाहा
    सप्तभ्यः स्वाहा
    नवभ्यः स्वाहा ।
    एकादशभ्यः स्वाहा
    त्रयोदशभ्यः स्वाहा
    पञ्चदशभ्यः स्वाहा
    सप्तदशभ्यः स्वाहा ।
    एकान्न विꣳशत्यै स्वाहा
    नवविꣳशत्यै स्वाहा ।
    एकान्न चत्वारिꣳशते स्वाहा
    नवचत्वारिꣳशते स्वाहा ।
    एकान्न षष्ट्यै स्वाहा
    नवषष्ट्यै स्वाहा ।
    एकान्नाशीत्यै स्वाहा
    नवाशीत्यै स्वाहा ।
    एकान्न शताय स्वाहा
    शताय स्वाहा
   सर्वस्मै स्वाहा ॥

7.2.13 अनुवाक 13 अश्वमेधगतमन्त्रकथनम्
 1
    द्वाभ्याꣳ स्वाहा
    चतुर्भ्यः स्वाहा
    षड्भ्यः स्वाहा ।
    अष्टाभ्यः स्वाहा
    दशभ्यः स्वाहा
    द्वादशभ्यः स्वाहा
    चतुर्दशभ्यः स्वाहा
    षोडशभ्यः स्वाहा ।
    अष्टादशभ्यः स्वाहा
    विꣳशत्यै स्वाहा ।
   अष्टानवत्यै स्वाहा
   शताय स्वाहा
   सर्वस्मै स्वाहा ॥

7.2.14 अनुवाक 14 अश्वमेधगतमन्त्रकथनम्
 1
    त्रिभ्यः स्वाहा
    पञ्चभ्यः स्वाहा
    सप्तभ्यः स्वाहा
    नवभ्यः स्वाहा ।
    एकादशभ्यः स्वाहा
    त्रयोदशभ्यः स्वाहा
    पञ्चदशभ्यः स्वाहा
    सप्तदशभ्यः स्वाहा ।
    एकान्न विꣳशत्यै स्वाहा
    नवविꣳशत्यै स्वाहा ।
    एकान्न चत्वारिꣳशते स्वाहा
    नवचत्वारिꣳशते स्वाहा ।
    एकान्न षष्ट्यै स्वाहा
   नवषष्ट्यै स्वाहा ।
    एकान्नाशीत्यै स्वाहा
    नवाशीत्यै स्वाहा ।
    एकान्न शताय स्वाहा
    शताय स्वाहा
    सर्वस्मै स्वाहा ॥

7.2.15 अनुवाक 15 अश्वमेधगतमन्त्रकथनम्
 1
    चतुर्भ्यः स्वाहा ।
    अष्टाभ्यः स्वाहा
    द्वादशभ्यः स्वाहा
    षोडशभ्यः स्वाहा
    विꣳशत्यै स्वाहा
    षण्णवत्यै स्वाहा
    शताय स्वाहा
    सर्वस्मै स्वाहा ॥

7.2.16 अनुवाक 16 अश्वमेधगतमन्त्रकथनम्
 1
    पञ्चभ्यः स्वाहा
    दशभ्यः स्वाहा
    पञ्चदशभ्यः स्वाहा
    विꣳशत्यै स्वाहा
    पञ्चनवत्यै स्वाहा
    शताय स्वाहा
    सर्वस्मै स्वाहा ॥

7.2.17 अनुवाक 17 अश्वमेधगतमन्त्रकथनम्
 1
    दशभ्यः स्वाहा
    विꣳशत्यै स्वाहा
    त्रिꣳशते स्वाहा
    चत्वारिꣳशते स्वाहा
    पञ्चाशते स्वाहा
    षष्ट्यै स्वाहा
    सप्तत्यै स्वाहा ।
    अशीत्यै स्वाहा
    नवत्यै स्वाहा
    शताय स्वाहा
    सर्वस्मै स्वाहा ॥

7.2.18 अनुवाक 18 अश्वमेधगतमन्त्रकथनम्
 1
    विꣳशत्यै स्वाहा
    चत्वारिꣳशते स्वाहा
    षष्ट्यै स्वाहा ।
    अशीत्यै स्वाहा
    शताय स्वाहा
    सर्वस्मै स्वाहा ॥

7.2.19अनुवाक 19 अश्वमेधगतमन्त्रकथनम्
 1
    पञ्चाशते स्वाहा
    शताय स्वाहा
    द्वाभ्याꣳ शताभ्याꣳ स्वाहा
    त्रिभ्यः शतेभ्यः स्वाहा
    चतुर्भ्यः शतेभ्यः स्वाहा
    पञ्चभ्यः शतेभ्यः स्वाहा
    षड्भ्यः शतेभ्यः स्वाहा
    सप्तभ्यः शतेभ्यः स्वाहा ।
    अष्टाभ्यः शतेभ्यः स्वाहा
    नवभ्यः शतेभ्यः स्वाहा
    सहस्राय स्वाहा
    सर्वस्मै स्वाहा ॥

7.2.20 अनुवाक 20 अश्वमेधगतमन्त्रकथनम्
 1
    शताय स्वाहा
    सहस्राय स्वाहा ।
    अयुताय स्वाहा
    नियुताय स्वाहा
    प्रयुताय स्वाहा ।
    अर्बुदाय स्वाहा
    न्यर्बुदाय स्वाहा
    समुद्राय स्वाहा
    मध्याय स्वाहा ।
    अन्ताय स्वाहा
    परार्धाय स्वाहा ।
   उषसे स्वाहा
   व्युष्ट्यै स्वाहा ।
    उदेष्यते स्वाहा ।
    उद्यते स्वाहा ।
   उदिताय स्वाहा
   सुवर्गाय स्वाहा
   लोकाय स्वाहा
    सर्वस्मै स्वाहा ॥


  1. तु. तद्वै द्वयेनैव देवेभ्यो निर्णेनिजत्येकेन मनुष्येभ्योऽद्भिश्च ब्रह्मणा च देवेभ्य आपो हि कुशा ब्रह्म यजुरेकेनैव मनुष्येभ्योऽद्भिरेवैवम्वेतन्नाना भवति - माश १.३.१.३