तैत्तिरीयसंहिता(विस्वरः)/काण्डम् ७/प्रपाठकः ३

7.3 प्रपाठक: 3
7.3.1 अनुवाक 1 पूर्वोक्तद्वादशाहशेष विशेषकथनम्
1 प्रजवं वा एतेन यन्ति यद् दशमम् अहर् । पापावहीयं वा एतेन भवन्ति यद् दशमम् अहर् यो वै प्रजवं यताम् अपथेन प्रतिपद्यते य स्थाणुꣳ हन्ति यो भ्रेषं न्येति स हीयते स यो वै दशमे ऽहन्न् अविवाक्य उपहन्यते स हीयते तस्मै य उपहताय व्याह तम् एवान्वारभ्य सम् अश्नुते । अथ यो व्याह सः
2 हीयते तस्माद् दशमे ऽहन्न् अविवाक्य उपहताय न व्युच्यम् अथो खल्व् आहुर् यज्ञस्य वै समृद्धेन देवाः सुवर्गं लोकम् आयन् यज्ञस्य व्यृद्धेनासुरान् पराऽभावयन्न् इति यत् खलु वै यज्ञस्य समृद्धं तद् यजमानस्य यद् व्यृद्धं तद् भ्रातृव्यस्य स यो वै दशमे ऽहन्न् अविवाक्य उपहन्यते स एवाति रेचयति ते ये बाह्या दृशीकवः
3 स्युस् ते वि ब्रूयुः । यदि तत्र न विन्देयुर् अन्तःसदसाद् व्युच्यम् । तद् व्युच्यम् एव । अथ वा एतत् सर्पराज्ञिया ऋग्भिः स्तुवन्ति । इयं वै सर्पतो राज्ञी यद् वा अस्यां किं चार्चन्ति यद् आनृचुस् तेनेयꣳ सर्पराज्ञी ते यद् एव किं च वाचाऽऽनृचुर् यद् अतो ऽध्य् अर्चितारः
4 तद् उभयम् आप्त्वाऽवरुध्योत् तिष्ठामेति ताभिर् मनसा स्तुवते न वा इमाम् अश्वरथो नाश्वतरीरथः सद्यः पर्याप्तुम् अर्हति मनो वा इमाꣳ सद्यः पर्याप्तुम् अर्हति मनः परिभवितुम् अथ ब्रह्म वदन्ति परिमिता वा ऋचः परिमितानि सामानि परिमितानि यजूꣳष्य् अथैतस्यैवान्तो नास्ति यद् ब्रह्म तत् प्रतिगृणत आ चक्षीत स प्रतिगरः ॥

7.3.2 अनुवाक 2 अहीनद्वादशाहकथनम्
1 ब्रह्मवादिनो वदन्ति किं द्वादशाहस्य प्रथमेनाह्नर्त्विजां यजमानो वृङ्क्त इति तेज इन्द्रियम् इति किं द्वितीयेनेति प्राणान् अन्नाद्यम् इति किं तृतीयेनेति त्रीन् इमाँल्लोकान् इति किं चतुर्थेनेति चतुष्पदः पशून् इति किम् पञ्चमेनेति पञ्चाक्षराम् पङ्क्तिम् इति किꣳ षष्ठेनेति षड् ऋतून् इति किꣳ सप्तमेनेति सप्तपदाꣳ शक्वरीम् इति
2 किम् अष्टमेनेति । अष्टाक्षरां गायत्रीम् इति किं नवमेनेति त्रिवृतꣳ स्तोमम् इति किं दशमेनेति दशाक्षरां विराजम् इति किम् एकादशेनेति । एकादशाक्षरां त्रिष्टुभम् इति किं द्वादशेनेति द्वादशाक्षरां जगतीम् इति । एतावद् वा अस्ति यावद् एतत् । यावद् एवास्ति तद् एषां वृङ्क्ते ॥

7.3.3 अनुवाक 3 त्रयोदशरात्रकथनम्
1 एष वा आप्तो द्वादशाहो यत् त्रयोदशरात्रः समानꣳ ह्य् एतद् अहर् यत् प्रायणीयश् चोदयनीयश् च त्र्यतिरात्रो भवति त्रय इमे लोकाः । एषां लोकानाम् आप्त्यै प्राणो वै प्रथमो ऽतिरात्रो व्यानो द्वितीयो ऽपानस् तृतीयः प्राणापानोदानेष्व् एवान्नाद्ये प्रति तिष्ठन्ति सर्वम् आयुर् यन्ति य एवं विद्वाꣳसस् त्रयोदशरात्रम् आसते तद् आहुः । वाग् वा एषा वितता
2 यद् द्वादशाहस् तां वि छिन्द्युर् यन् मध्ये ऽतिरात्रं कुर्युर् उपदासुका गृहपतेर् वाक् स्यात् ।
उपरिष्टाच् छन्दोमानाम् महाव्रतं कुर्वन्ति संतताम् एव वाचम् अव रुन्द्धे ऽनुपदासुका गृहपतेर् वाग् भवति पशवो वै छन्दोमा अन्नम् महाव्रतम् । यद् उपरिष्टाच् छन्दोमानाम् महाव्रतं कुर्वन्ति पशुषु चैवान्नाद्ये च प्रति तिष्ठन्ति ॥

7.3.4 अनुवाक 4 चतुर्दशरात्रकथनम्
1 आदित्या अकामयन्त । उभयोर् लोकयोर् ऋध्नुयामेति त एतं चतुर्दशरात्रम् अपश्यन् तम् आहरन् तेनायजन्त ततो वै त उभयोर् लोकयोर् आर्ध्नुवन्न् अस्मिꣳश् चामुष्मिꣳश् च य एवं विद्वाꣳसश् चतुर्दशरात्रम् आसत उभयोर् एव लोकयोर् ऋध्नुवन्त्य् अस्मिꣳश् चामुष्मिꣳश् च चतुर्दशरात्रो भवति सप्त ग्राम्या ओषधयः सप्तारण्या उभयीषाम् अवरुद्ध्यै यत् पराचीनानि पृष्ठानि
2 भवन्त्य् अमुम् एव तैर् लोकम् अभि जयन्ति यत् प्रतीचीनानि पृष्ठानि भवन्तीमम् एव तैर् लोकम् अभि जयन्ति त्रयस्त्रिꣳशौ मध्यत स्तोमौ भवतः साम्राज्यम् एव गच्छन्ति । अधिराजौ भवतो ऽधिराजा एव समानानाम् भवन्ति । अतिरात्रावभितो भवतः परिगृहीत्यै ॥

7.3.5 अनुवाक 5 अन्यच्चतुर्दशरात्रकथनम्
1 प्रजापतिः सुवर्गं लोकम् ऐत् तं देवा अन्व् आयन् तान् आदित्याश् च पशवश् चान्वायन् ते देवा अब्रुवन् यान् पशून् उपाजीविष्म त इमे ऽन्वाग्मन्न् इति तेभ्य एतं चतुर्दशरात्रम् प्रत्य् औहन् त आदित्याः पृष्ठैः सुवर्गं लोकम् आरोहन् त्र्यहाभ्याम् अस्मिम्̐ लोके पशून् प्रत्य् औहन् पृष्ठैर् आदित्या अमुष्मिम्̐ लोक आर्ध्नुवन् त्र्यहाभ्याम् अस्मिन्
2 लोके पशवः । य एवं विद्वाꣳसश् चतुर्दशरात्रम् आसत उभयोर् एव लोकयोर् ऋध्नुवन्त्य् अस्मिꣳश् चामुष्मिꣳश् च पृष्ठैर् एवामुष्मिम्̐ लोक ऋध्नुवन्ति त्र्यहाभ्याम् अस्मिम्̐ लोके ज्योतिर् गौर् आयुर् इति त्र्यहो भवति । इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । इमान् एव लोकान् अभ्यारोहन्ति यद् अन्यतः पृष्ठानि स्युर् विविवधꣳ स्यात् । मध्ये पृष्ठानि भवन्ति सविवधत्वाय ॥
3 ओजो वै वीर्यम् पृष्ठानि । ओज एव वीर्यम् मध्यतो दधते बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति चतुर्दशैताः । तासां या दश दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते याश् चतस्रश् चतस्रो दिशो दिक्ष्व् एव प्रति तिष्ठन्ति । अतिरात्राव् अभितो भवतः परिगृहीत्यै ॥

7.3.6 अनुवाक 6 पञ्चदशरात्रकथनम्
1 इन्द्रो वै सदृङ् देवताभिर् आसीत् स न व्यावृतम् अगच्छत् स प्रजापतिम् उपाधावत् तस्मा एतम् पञ्चदशरात्रम् प्रायच्छत् तम् आहरत् तेनायजत ततो वै सो ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छत् । य एवं विद्वाꣳसः पञ्चदशरात्रम् आसते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छन्ति ज्योतिर् गौर् आयुर् इति त्र्यहो भवति । इयं वाव ज्योतिर् अन्तरिक्षम्
2 गौर् असाव् आयुः । एष्व् एव लोकेषु प्रति तिष्ठन्ति । असत्त्रं वा एतद् यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् । देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति पञ्चदशरात्रो भवति पञ्चदशो वज्रः । वज्रम् एव भ्रातृव्येभ्यः प्र हरन्ति । अतिरात्राव् अभितो भवतः । इन्द्रियस्य परिगृहीत्यै ॥
 
7.3.7 अनुवाक 7 द्वितीयपञ्चदशरात्रकथनम्
1 इन्द्रो वै शिथिल इवाप्रतिष्ठित आसीत् सो ऽसुरेभ्यो ऽबिभेत् स प्रजापतिम् उपाधावत् तस्मा एतम् पञ्चदशरात्रं वज्रम् प्रायच्छत् तेनासुरान् पराभाव्य विजित्य श्रियम् अगच्छत् । अग्निष्टुता पाप्मानं निर् अदहत पञ्चदशरात्रेणौजो बलम् इन्द्रियं वीर्यम् आत्मन्न् अधत्त य एवं विद्वाꣳसः पञ्चदशरात्रम् आसते भ्रातृव्यान् एव पराभाव्य विजित्य श्रियं गच्छन्ति । अग्निष्टुता पाप्मानं निः
2 दहन्ते पञ्चदशरात्रेणौजो बलम् इन्द्रियं वीर्यम् आत्मन् दधते । एता एव पशव्याः पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते संवत्सरम् पशवो ऽनु प्र जायन्ते तस्मात् पशव्याः । एता एव सुवर्ग्याः पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते संवत्सरः सुवर्गो लोकस् तस्माद् सुवर्ग्याः । ज्योतिर् गौर् आयुर् इति त्र्यहो भवति । इयं वाव ज्योतिर् अन्तरिक्षम्
3 गौर् असाव् आयुः । इमान् एव लोकान् अभ्यारोहन्ति यद् अन्यतः पृष्ठानि स्युर् विविवधꣳ स्यात् । मध्ये पृष्ठानि भवन्ति सविवधत्वाय । ओजो वै वीर्यम् पृष्ठानि । ओज एव वीर्यम् मध्यतो दधते बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकम्
4 यन्ति पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति पञ्चदशैतास् तासां या दश दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते याः पञ्च पञ्च दिशः दिक्ष्व् एव प्रति तिष्ठन्ति । अतिरात्राव् अभितो भवतः । इन्द्रियस्य वीर्यस्य प्रजायै पशूनाम् परिगृहीत्यै ॥

7.3.8 अनुवाक 8 सप्तदशरात्रकथनम्
1 प्रजापतिर् अकामयत । अन्नादः स्याम् इति स एतꣳ सप्तदशरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै सो ऽन्नादो ऽभवत् । य एवं विद्वाꣳसः सप्तदशरात्रम् आसते ऽन्नादा एव भवन्ति पञ्चाहो भवति पञ्च वा ऋतवः संवत्सरः । ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति । अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः । यज्ञम् एवाव रुन्धते । असत्त्रं वा एतत्
2 यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् । देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति सप्तदशरात्रो भवति सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै । अतिरात्राव् अभितो भवतः । अन्नाद्यस्य परिगृहीत्यै ॥

7.3.9 अनुवाक 9 विंशतिरात्रकथनम्
1 सा विराड् विक्रम्यातिष्ठद् ब्रह्मणा देवेष्व् अन्नेनासुरेषु ते देवा अकामयन्त । उभयꣳ सं वृञ्जीमहि ब्रह्म चान्नं चेति त एता विꣳशतिꣳ रात्रीर् अपश्यन् ततो वै त उभयꣳ सम् अवृञ्जत ब्रह्म चान्नं च ब्रह्मवर्चसिनो ऽन्नादा अभवन् य एवं विद्वाꣳस एता आसत उभयम् एव सं वृञ्जते ब्रह्म चान्नं च ।
2 ब्रह्मवर्चसिनो ऽन्नादा भवन्ति द्वे वा एते विराजौ तयोर् एव नाना प्रति तिष्ठन्ति विꣳशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पद्याः । यावान् एव पुरुषस् तम् आप्त्वोत् तिष्ठन्ति ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति । इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । इमान् एव लोकान् अभ्यारोहन्ति । अभिपूर्वं त्र्यहा भवन्ति । अभिपूर्वम् एव सुवर्गम्
3 लोकम् अभ्यारोहन्ति यद् अन्यतः पृष्ठानि मध्ये पृष्ठानि भवन्ति सविवधत्वाय ॥ ओजो वै वीर्यम् पृष्ठानि । ओज एव वीर्यम् मध्यतो दधते बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति । अतिरात्राव् अभितो भवतः । ब्रह्मवर्चसस्यान्नाद्यस्य परि गृहीत्यै ॥
 
7.3.10 अनुवाक 10 एकविंशतिरात्रकथनम्
1 असाव आदित्यो ऽस्मिम्̐ लोक आसीत् तं देवाः पृष्ठैः परिगृह्य सुवर्गं लोकम् अगमयन् परैर् अवस्तात् पर्य् अगृह्णन् दिवाकीर्त्येन सुवर्गे लोके प्रत्य् अस्थापयन् परैः परस्तात् पर्य् अगृह्णन् पृष्ठैर् उपावारोहन् । स वा असाव् आदित्यो ऽमुष्मिम्̐ लोके परैर् उभयतः परिगृहीतः । यत् पृष्ठानि भवन्ति सुवर्गम् एव तैर् लोकं यजमाना यन्ति परैर् अवस्तात् परि गृह्णन्ति दिवाकीर्त्येन
2 सुवर्गे लोके प्रति तिष्ठन्ति परैः परस्तात् परि गृह्णन्ति पृष्ठैर् उपावरोहन्ति यत् परे परस्तान् न स्युः पराञ्चः सुवर्गाल् लोकान् निष्पद्येरन् यद् अवस्तान् न स्युः प्रजा निर् दहेयुः । अभितो दिवाकीर्त्यम् परःसामानो भवन्ति सुवर्ग एवैनाम्̐ लोक उभयतः परि गृह्णन्ति यजमाना वै दिवाकीर्त्यम् । संवत्सरः परःसामानः । अभितो दिवाकीर्त्यम् परःसामानो भवन्ति संवत्सर एवोभयतः
3 प्रति तिष्ठन्ति पृष्ठं वै दिवाकीर्त्यम् पार्श्वे परःसामानः । अभितो दिवाकीर्त्यम् परःसामानो भवन्ति तस्मादभितः पृष्ठम् पार्श्वे भूयिष्ठा ग्रहा गृह्यन्ते भूयिष्ठꣳ शस्यते यज्ञस्यैव तन् मध्यतो ग्रन्थिं ग्रथ्नन्त्य् अविस्रꣳसाय सप्त गृह्यन्ते सप्त वै शीर्षण्याः प्राणाः प्राणान् एव यजमानेषु दधति यत् पराचीनानि पृष्ठानि भवन्त्य् अमुम् एव तैर् लोकम् अभ्यारोहन्ति यद् इमं लोकं न
4 प्रत्यवरोहेयुर् उद् वा माद्येयुर् यजमानाः प्र वा मीयेरन् यत् प्रतीचीनानि पृष्ठानि भवन्ति । इमम् एव तैर् लोकम् प्रत्यवरोहन्ति । अथो अस्मिन्न् एव लोके प्रति तिष्ठन्त्य् अनुन्मादाय । इन्द्रो वा अप्रतिष्ठित आसीत् स प्रजापतिम् उपाधावत् तस्मा एतम् एकविꣳशतिरात्रम् प्रायच्छत् तम् आहरत् तेनायजत ततो वै स प्रत्य् अतिष्ठत् । ये बहुयाजिनो ऽप्रतिष्ठिताः
5 स्युस् त एकविꣳशतिरात्रम् आसीरन् द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविꣳशः । एतावन्तो वै देवलोकास् तेष्व् एव यथापूर्वम् प्रति तिष्ठन्ति । असाव् आदित्यो न व्यरोचत स प्रजापतिम् उपाधावत् तस्मा एतम् एकविꣳशति रात्रम् प्रायच्छत् तम् आहरत् तेनायजत ततो वै सो ऽरोचत य एवं विद्वाꣳस एकविꣳशतिरात्रम् आसते रोचन्त एव । एकविꣳशतिरात्रो भवति रुग् वा एकविꣳशः । रुचम् एव गच्छन्त्य् अथो प्रतिष्ठाम् एव प्रतिष्ठा ह्य् एकविꣳशः । अतिरात्राव् अभितो भवतो ब्रह्मवर्चसस्य परिगृहीत्यै ॥
 
7.3.11 अनुवाक 11 अश्वमेधगतमन्त्रकथनम्
1 अर्वाङ् यज्ञः सं क्रामत्व् अमुष्माद् अधि माम् अभि । ऋषीणां यः पुरोहितः । निर्देवं निर्वीरं कृत्वा विष्कन्धं तस्मिन् हीयतां यो ऽस्मान् द्वेष्टि शरीरं यज्ञशमलं कुसीदं तस्मिन्त् सीदतु यो ऽस्मान् द्वेष्टि । यज्ञ यज्ञस्य यत् तेजस् तेन सं क्राममाम् अभि । ब्राह्मणान् ऋत्विजो देवान् यज्ञस्य तपसा ते सवाहम् आ हुवे । इष्टेन पक्व प
2 ते हुवे सवाहम् । सं ते वृञ्जे सुकृतꣳ सम् प्रजाम् पशून् । प्रैषान्त् सामिधेनीर् आघाराव् आज्यभागाव् आश्रुतम् प्रत्याश्रुतम् आ शृणामि ते । प्रयाजानूयाजान्त् स्विष्टकृतम् इडाम् आशिष आ वृञ्जे सुवः । अग्निनेन्द्रेण सोमेन सरस्वत्या विष्णुना देवताभिः । याज्यानुवाक्याभ्याम् उप ते हुवे सवाहं यज्ञम् आ ददे ते वषट्कृतम् । स्तुतꣳ शस्त्रम् प्रतिगरं ग्रहम् इडाम् आशिषः ।
3 आ वृञ्जे सुवः । पत्नीसंयाजान् उप ते हुवे सवाहꣳ समिष्टयजुर् आ ददे तव ॥ पशून्त् सुतम् पुरोडाशान्त् सवनान्य् ओत यज्ञम् । देवान्त् सेन्द्रान् उप ते हुवे सवाहम् अग्निमुखान्त् सोमवतो ये च विश्वे ॥
 
7.3.12 अनुवाक 12 अश्वमेधगतमन्त्रकथनम्
1 भूतम् भव्यम् भविष्यद् वषट् स्वाहा नमः । ऋक् साम यजुर् वषट् स्वाहा नमः । गायत्री त्रिष्टुब् जगती वषट् स्वाहा नमः पृथिव्यन्तरिक्षं द्यौर् वषट् स्वाहा नमः । अग्निर् वायुः सूर्यो वषट् स्वाहा नमः प्राणो व्यानो ऽपानो वषट् स्वाहा नमः । अन्नं कृषिर् वृष्टिर् वषट् स्वाहा नमः पिता पुत्रः पौत्रो वषट् स्वाहा नमः । भूर् भुवः सुवर् वषट् स्वाहा नमः ॥
 
7.3.13 अनुवाक 13 अश्वमेधगतमन्त्रकथनम्
1 आ मे गृहा भवन्त्व् आ प्रजा म आ मा यज्ञो विशतु वीर्यावान् । आपो देवीर् यज्ञिया मा विशन्तु सहस्रस्य मा भूमा मा प्र हासीत् । आ मे ग्रहो भवत्व् आ पुरोरुक् स्तुतशस्त्रे मा विशताꣳ समीची । आदित्या रुद्रा वसवो मे सदस्याः सहस्रस्य मा भूमा मा प्र हासीत् । आ माग्निष्टोमो विशतूक्थ्यश् चातिरात्रो मा विशत्व् आपिशर्वरः । तिरोअह्निया मा सुहुता आ विशन्तु सहस्रस्य मा भूमा मा प्र हासीत् ॥

7.3.14 अनुवाक 14 अश्वमेधगतमन्त्रकथनम्
1 अग्निना तपो ऽन्व् अभवत् । वाचा ब्रह्म मणिना रूपाणि । इन्द्रेण देवान् वातेन प्राणान् । सूर्येण द्याम् । चन्द्रमसा नक्षत्राणि यमेन पितॄन् राज्ञा मनुष्यान् फलेन नादेयान् अजगरेण सर्पान् व्याघ्रेणाऽऽरण्यान् पशून् । श्येनेन पतत्रिणः । वृष्णाऽश्वान् ऋषभेण गाः । बस्तेनाजाः । वृष्णिनाऽवीः । व्रीहिणाऽन्नानि यवेनौषधीः । न्यग्रोधेन वनस्पतीन् उदुम्बरेणोर्जम् । गायत्रिया छन्दाꣳसि त्रिवृता स्तोमान् ब्राह्मणेन वाचम् ॥

7.3.15 अनुवाक 15 अश्वमेधगतमन्त्रकथनम्
1 स्वाहाऽऽधिम् आधीताय स्वाहा स्वाहाऽऽधीतम् मनसे स्वाहा स्वाहा मनः प्रजापतये स्वाहा काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहा । अदित्यै स्वाहा । अदित्यै मह्यै स्वाहा । अदित्यै सुमृडीकायै स्वाहा सरस्वत्यै स्वाहा सरस्वत्यै बृहत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वाहा त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहा विष्णवे स्वाहा विष्णवे निखुर्यपाय स्वाहा विष्णवे निभूयपाय स्वाहा ॥
 
7.3.16 अनुवाक 16 अश्वमेधगतमन्त्रकथनम्
1 दद्भ्यः स्वाहा हनूभ्याꣳ स्वाहा ओष्ठाभ्याꣳ स्वाहा मुखाय स्वाहा नासिकाभ्याꣳ स्वाहा । अक्षीभ्याꣳ स्वाहा कर्णाभ्याꣳ स्वाहा पार इक्षवो ऽवार्येभ्यः पक्ष्मभ्यः स्वाहा । अवार इक्षवः पार्येभ्यः पक्ष्मभ्यः स्वाहा शीर्ष्णे स्वाहा भ्रूभ्याꣳ स्वाहा ललाटाय स्वाहा मूर्ध्ने स्वाहा मस्तिष्काय स्वाहा केशेभ्यः स्वाहा वहाय स्वाहा ग्रीवाभ्यः स्वाहा स्कन्धेभ्यः स्वाहा कीकसाभ्यः स्वाहा पृष्टीभ्यः स्वाहा पाजस्याय स्वाहा पार्श्वाभ्याꣳ स्वाहा
2 अꣳसाभ्याꣳ स्वाहा दोषभ्याꣳ स्वाहा बाहुभ्याꣳ स्वाहा जङ्घाभ्याꣳ स्वाहा श्रोणीभ्याꣳ स्वाहा ऊरुभ्याꣳ स्वाहा अष्ठीवद्भ्याꣳ स्वाहा जङ्घाभ्याꣳ स्वाहा भसदे स्वाहा शिखण्डेभ्यः स्वाहा वालधानाय स्वाहा । आण्डाभ्याꣳ स्वाहा शेपाय स्वाहा रेतसे स्वाहा प्रजाभ्यः स्वाहा प्रजननाय स्वाहा पद्भ्यः स्वाहा शफेभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा लोहिताय स्वाहा माꣳसाय स्वाहा स्नावभ्यः स्वाहा । अस्थभ्यः स्वाहा मज्जभ्यः स्वाहा । अङ्गेभ्यः स्वाहा । आत्मने स्वाहा सर्वस्मै स्वाहा ॥
 
7.3.17 अनुवाक 17 अश्वमेधगतमन्त्रकथनम्
1 अञ्ज्येताय स्वाहा । अञ्जिसक्थाय स्वाहा शितिपदे स्वाहा शितिककुदे स्वाहा शितिरन्ध्राय स्वाहा शितिपृष्ठाय स्वाहा शित्यꣳसाय स्वाहा पुष्पकर्णाय स्वाहा शित्योष्ठाय स्वाहा शितिभ्रवे स्वाहा शितिभसदे स्वाहा श्वेतानूकाशाय स्वाहा । अञ्जये स्वाहा ललामाय स्वाहा । असितज्ञवे स्वाहा कृष्णैताय स्वाहा रोहितैताय स्वाहा । अरुणैताय स्वाहा । ईदृशाय स्वाहा कीदृशाय स्वाहा तादृशाय स्वाहा सदृशाय स्वाहा विसदृशाय स्वाहा सुसदृशाय स्वाहा रूपाय स्वाहा सर्वस्मै स्वाहा ॥

7.3.18 अनुवाक 18 अश्वमेधगतमन्त्रकथनम्
1 कृष्णाय स्वाहा श्वेताय स्वाहा पिशंगाय स्वाहा सारंगाय स्वाहा । अरुणाय स्वाहा गौराय स्वाहा बभ्रवे स्वाहा नकुलाय स्वाहा रोहिताय स्वाहा शोणाय स्वाहा श्यावाय स्वाहा श्यामाय स्वाहा पाकलाय स्वाहा सुरूपाय स्वाहा । अनुरूपाय स्वाहा विरूपाय स्वाहा सरूपाय स्वाहा प्रतिरूपाय स्वाहा शबलाय स्वाहा कमलाय स्वाहा पृश्नये स्वाहा पृश्निसक्थाय स्वाहा सर्वस्मै स्वाहा ॥

7.3.19 अनुवाक 19 अश्वमेधगतमन्त्रकथनम्
1 ओषधीभ्यः स्वाहा मूलेभ्यः स्वाहा तूलेभ्यः स्वाहा काण्डेभ्यः स्वाहा वल्शेभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहा गृहीतेभ्यः स्वाहा । अगृहीतेभ्यः स्वाहा । अवपन्नेभ्यः स्वाहा शयानेभ्यः स्वाहा सर्वस्मै स्वाहा ॥

7.3.20 अनुवाक 20 अश्वमेधगतमन्त्रकथनम्
1 वनस्पतिभ्यः स्वाहा मूलेभ्यः स्वाहा तूलेभ्यः स्वाहा स्कन्धोभ्यः स्वाहा शाखाभ्यः स्वाहा पर्णेभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहा गृहीतेभ्यः स्वाहा । अगृहीतेभ्यः स्वाहा । अवपन्नेभ्यः स्वाहा शयानेभ्यः स्वाहा शिष्टाय स्वाहा । अतिशिष्टाय स्वाहा परिशिष्टाय स्वाहा सꣳशिष्टाय स्वाहा । उच्छिष्टाय स्वाहा रिक्ताय स्वाहा । अरिक्ताय स्वाहा प्ररिक्ताय स्वाहा सꣳरिक्ताय स्वाहा । उद्रिक्ताय स्वाहा सर्वस्मै स्वाहा ॥


7.3.1 अनुवाक 1 पूर्वोक्तद्वादशाहशेष विशेषकथनम्
1
    प्रजवं वा एतेन यन्ति यद् दशमम् अहर् ।
    पापावहीयं वा एतेन भवन्ति यद् दशमम् अहर्
    यो वै प्रजवं यताम् अपथेन प्रतिपद्यते य स्थाणुꣳ हन्ति यो भ्रेषं न्येति स हीयते
    स यो वै दशमे ऽहन्न् अविवाक्य उपहन्यते स हीयते
    तस्मै य उपहताय व्याह तम् एवान्वारभ्य सम् अश्नुते ।
    अथ यो व्याह सः

2
    हीयते
    तस्माद् दशमे ऽहन्न् अविवाक्य उपहताय न व्युच्यम्
    अथो खल्व् आहुर्
    यज्ञस्य वै समृद्धेन देवाः सुवर्गं लोकम् आयन् यज्ञस्य व्यृद्धेनासुरान् पराऽभावयन्न् इति
    यत् खलु वै यज्ञस्य समृद्धं तद् यजमानस्य यद् व्यृद्धं तद् भ्रातृव्यस्य
    स यो वै दशमे ऽहन्न् अविवाक्य उपहन्यते स एवाति रेचयति
    ते ये बाह्या दृशीकवः

3
    स्युस् ते वि ब्रूयुः ।
    यदि तत्र न विन्देयुर् अन्तःसदसाद् व्युच्यम् ।
    तद् व्युच्यम् एव ।
    अथ वा एतत् सर्पराज्ञिया ऋग्भिः स्तुवन्ति ।
    इयं वै सर्पतो राज्ञी
    यद् वा अस्यां किं चार्चन्ति यद् आनृचुस् तेनेयꣳ सर्पराज्ञी
    ते यद् एव किं च वाचाऽऽनृचुर् यद् अतो ऽध्य् अर्चितारः

4
    तद् उभयम् आप्त्वाऽवरुध्योत् तिष्ठामेति
    ताभिर् मनसा स्तुवते
    न वा इमाम् अश्वरथो नाश्वतरीरथः सद्यः पर्याप्तुम् अर्हति
    मनो वा इमाꣳ सद्यः पर्याप्तुम् अर्हति मनः परिभवितुम्
    अथ ब्रह्म वदन्ति
    परिमिता वा ऋचः परिमितानि सामानि परिमितानि यजूꣳष्य् अथैतस्यैवान्तो नास्ति यद् ब्रह्म
    तत् प्रतिगृणत आ चक्षीत
    स प्रतिगरः ॥

अनुवाक 2 अहीनद्वादशाहकथनम्
1
    ब्रह्मवादिनो वदन्ति
    किं द्वादशाहस्य प्रथमेनाह्नर्त्विजां यजमानो वृङ्क्त इति
    तेज इन्द्रियम् इति
    किं द्वितीयेनेति
    प्राणान् अन्नाद्यम् इति
    किं तृतीयेनेति
    त्रीन् इमाँल्लोकान् इति
    किं चतुर्थेनेति
    चतुष्पदः पशून् इति
    किम् पञ्चमेनेति
    पञ्चाक्षराम् पङ्क्तिम् इति
   किꣳ षष्ठेनेति
   षड् ऋतून् इति
   किꣳ सप्तमेनेति
   सप्तपदाꣳ शक्वरीम् इति

2
    किम् अष्टमेनेति ।
    अष्टाक्षरां गायत्रीम् इति
    किं नवमेनेति
    त्रिवृतꣳ स्तोमम् इति
    किं दशमेनेति
    दशाक्षरां विराजम् इति
    किम् एकादशेनेति ।
    एकादशाक्षरां त्रिष्टुभम् इति
    किं द्वादशेनेति
    द्वादशाक्षरां जगतीम् इति ।
   एतावद् वा अस्ति यावद् एतत् ।
    यावद् एवास्ति तद् एषां वृङ्क्ते ॥

7.3.3 अनुवाक 3 त्रयोदशरात्रकथनम्
1
    एष वा आप्तो द्वादशाहो यत् त्रयोदशरात्रः
    समानꣳ ह्य् एतद् अहर् यत् प्रायणीयश् चोदयनीयश् च
    त्र्यतिरात्रो भवति
    त्रय इमे लोकाः ।
    एषां लोकानाम् आप्त्यै
    प्राणो वै प्रथमो ऽतिरात्रो व्यानो द्वितीयो ऽपानस् तृतीयः
    प्राणापानोदानेष्व् एवान्नाद्ये प्रति तिष्ठन्ति सर्वम् आयुर् यन्ति य एवं विद्वाꣳसस् त्रयोदशरात्रम् आसते
    तद् आहुः ।
    वाग् वा एषा वितता

2
    यद् द्वादशाहस्
    तां वि छिन्द्युर् यन् मध्ये ऽतिरात्रं कुर्युर् उपदासुका गृहपतेर् वाक् स्यात् ।
    उपरिष्टाच् छन्दोमानाम् महाव्रतं कुर्वन्ति संतताम् एव वाचम् अव रुन्द्धे ऽनुपदासुका गृहपतेर् वाग् भवति
    पशवो वै छन्दोमा अन्नम् महाव्रतम् ।
    यद् उपरिष्टाच् छन्दोमानाम् महाव्रतं कुर्वन्ति पशुषु चैवान्नाद्ये च प्रति तिष्ठन्ति ॥

7.3.4 अनुवाक 4 चतुर्दशरात्रकथनम्
1
    आदित्या अकामयन्त ।
    उभयोर् लोकयोर् ऋध्नुयामेति
    त एतं चतुर्दशरात्रम् अपश्यन्
    तम् आहरन्
    तेनायजन्त
    ततो वै त उभयोर् लोकयोर् आर्ध्नुवन्न् अस्मिꣳश् चामुष्मिꣳश् च
    य एवं विद्वाꣳसश् चतुर्दशरात्रम् आसत उभयोर् एव लोकयोर् ऋध्नुवन्त्य् अस्मिꣳश् चामुष्मिꣳश् च
    चतुर्दशरात्रो भवति
    सप्त ग्राम्या ओषधयः सप्तारण्या उभयीषाम् अवरुद्ध्यै
    यत् पराचीनानि पृष्ठानि

2
    भवन्त्य् अमुम् एव तैर् लोकम् अभि जयन्ति
    यत् प्रतीचीनानि पृष्ठानि भवन्तीमम् एव तैर् लोकम् अभि जयन्ति
    त्रयस्त्रिꣳशौ मध्यत स्तोमौ भवतः साम्राज्यम् एव गच्छन्ति ।
    अधिराजौ भवतो ऽधिराजा एव समानानाम् भवन्ति ।
    अतिरात्रावभितो भवतः
    परिगृहीत्यै ॥

7.3.5 अनुवाक 5 अन्यच्चतुर्दशरात्रकथनम्
1
    प्रजापतिः सुवर्गं लोकम् ऐत्
    तं देवा अन्व् आयन्
    तान् आदित्याश् च पशवश् चान्वायन्
    ते देवा अब्रुवन्
    यान् पशून् उपाजीविष्म त इमे ऽन्वाग्मन्न् इति
    तेभ्य एतं चतुर्दशरात्रम् प्रत्य् औहन्
    त आदित्याः पृष्ठैः सुवर्गं लोकम् आरोहन् त्र्यहाभ्याम् अस्मिम्̐ लोके पशून् प्रत्य् औहन्
    पृष्ठैर् आदित्या अमुष्मिम्̐ लोक आर्ध्नुवन् त्र्यहाभ्याम् अस्मिन्

2
    लोके पशवः ।
    य एवं विद्वाꣳसश् चतुर्दशरात्रम् आसत उभयोर् एव लोकयोर् ऋध्नुवन्त्य् अस्मिꣳश् चामुष्मिꣳश् च
    पृष्ठैर् एवामुष्मिम्̐ लोक ऋध्नुवन्ति त्र्यहाभ्याम् अस्मिम्̐ लोके
    ज्योतिर् गौर् आयुर् इति त्र्यहो भवति ।
    इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः ।
    इमान् एव लोकान् अभ्यारोहन्ति
    यद् अन्यतः पृष्ठानि स्युर् विविवधꣳ स्यात् ।
    मध्ये पृष्ठानि भवन्ति सविवधत्वाय ॥

3
    ओजो वै वीर्यम् पृष्ठानि ।
    ओज एव वीर्यम् मध्यतो दधते
    बृहद्रथंतराभ्यां यन्ति ।
    इयं वाव रथंतरम् असौ बृहत् ।
    आभ्याम् एव यन्ति ।
    अथो अनयोर् एव प्रति तिष्ठन्ति ।
    एते वै यज्ञस्याञ्जसायनी स्रुती
    ताभ्याम् एव सुवर्गं लोकं यन्ति
    पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति
    प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै ।
    उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति
    चतुर्दशैताः ।
    तासां या दश दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते
    याश् चतस्रश् चतस्रो दिशो दिक्ष्व् एव प्रति तिष्ठन्ति ।
    अतिरात्राव् अभितो भवतः परिगृहीत्यै ॥

7.3.6 अनुवाक 6 पञ्चदशरात्रकथनम्
1
    इन्द्रो वै सदृङ् देवताभिर् आसीत्
    स न व्यावृतम् अगच्छत्
    स प्रजापतिम् उपाधावत्
    तस्मा एतम् पञ्चदशरात्रम् प्रायच्छत्
    तम् आहरत्
    तेनायजत
    ततो वै सो ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छत् ।
    य एवं विद्वाꣳसः पञ्चदशरात्रम् आसते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छन्ति
    ज्योतिर् गौर् आयुर् इति त्र्यहो भवति ।
    इयं वाव ज्योतिर् अन्तरिक्षम्

2
    गौर् असाव् आयुः ।
    एष्व् एव लोकेषु प्रति तिष्ठन्ति ।
    असत्त्रं वा एतद् यद् अच्छन्दोमम् ।
    यच् छन्दोमा भवन्ति तेन सत्त्रम् ।
    देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः ।
    ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति
    पञ्चदशरात्रो भवति
    पञ्चदशो वज्रः ।
    वज्रम् एव भ्रातृव्येभ्यः प्र हरन्ति ।
    अतिरात्राव् अभितो भवतः ।
    इन्द्रियस्य परिगृहीत्यै ॥

7.3.7 अनुवाक 7 द्वितीयपञ्चदशरात्रकथनम्
1
    इन्द्रो वै शिथिल इवाप्रतिष्ठित आसीत्
    सो ऽसुरेभ्यो ऽबिभेत्
    स प्रजापतिम् उपाधावत्
    तस्मा एतम् पञ्चदशरात्रं वज्रम् प्रायच्छत्
    तेनासुरान् पराभाव्य विजित्य श्रियम् अगच्छत् ।
    अग्निष्टुता पाप्मानं निर् अदहत पञ्चदशरात्रेणौजो बलम् इन्द्रियं वीर्यम् आत्मन्न् अधत्त
    य एवं विद्वाꣳसः पञ्चदशरात्रम् आसते भ्रातृव्यान् एव पराभाव्य विजित्य श्रियं गच्छन्ति ।
    अग्निष्टुता पाप्मानं निः

2
    दहन्ते पञ्चदशरात्रेणौजो बलम् इन्द्रियं वीर्यम् आत्मन् दधते ।
    एता एव पशव्याः
    पञ्चदश वा अर्धमासस्य रात्रयः ।
    अर्धमासशः संवत्सर आप्यते
    संवत्सरम् पशवो ऽनु प्र जायन्ते
    तस्मात् पशव्याः ।
    एता एव सुवर्ग्याः
    पञ्चदश वा अर्धमासस्य रात्रयः ।
    अर्धमासशः संवत्सर आप्यते
    संवत्सरः सुवर्गो लोकस्
    तस्माद् सुवर्ग्याः ।
   ज्योतिर् गौर् आयुर् इति त्र्यहो भवति ।
    इयं वाव ज्योतिर् अन्तरिक्षम्

3
    गौर् असाव् आयुः ।
    इमान् एव लोकान् अभ्यारोहन्ति
    यद् अन्यतः पृष्ठानि स्युर् विविवधꣳ स्यात् ।
    मध्ये पृष्ठानि भवन्ति सविवधत्वाय ।
    ओजो वै वीर्यम् पृष्ठानि ।
    ओज एव वीर्यम् मध्यतो दधते
    बृहद्रथंतराभ्यां यन्ति ।
    इयं वाव रथंतरम् असौ बृहत् ।
    आभ्याम् एव यन्ति ।
    अथो अनयोर् एव प्रति तिष्ठन्ति ।
    एते वै यज्ञस्याञ्जसायनी स्रुती
    ताभ्याम् एव सुवर्गं लोकम्

4
    यन्ति
    पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति
    प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै ।
    उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति
    पञ्चदशैतास्
    तासां या दश दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते
    याः पञ्च पञ्च दिशः दिक्ष्व् एव प्रति तिष्ठन्ति ।
    अतिरात्राव् अभितो भवतः ।
    इन्द्रियस्य वीर्यस्य प्रजायै पशूनाम् परिगृहीत्यै ॥

7.3.8 अनुवाक 8 सप्तदशरात्रकथनम्
1
    प्रजापतिर् अकामयत ।
    अन्नादः स्याम् इति
    स एतꣳ सप्तदशरात्रम् अपश्यत्
    तम् आहरत्
    तेनायजत
    ततो वै सो ऽन्नादो ऽभवत् ।
    य एवं विद्वाꣳसः सप्तदशरात्रम् आसते ऽन्नादा एव भवन्ति
    पञ्चाहो भवति
    पञ्च वा ऋतवः संवत्सरः ।
   ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति ।
   अथो पञ्चाक्षरा पङ्क्तिः
    पाङ्क्तो यज्ञः ।
   यज्ञम् एवाव रुन्धते ।
    असत्त्रं वा एतत्

2
    यद् अच्छन्दोमम् ।
    यच् छन्दोमा भवन्ति तेन सत्त्रम् ।
    देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः ।
    ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति
    सप्तदशरात्रो भवति
    सप्तदशः प्रजापतिः
    प्रजापतेर् आप्त्यै ।
    अतिरात्राव् अभितो भवतः ।
    अन्नाद्यस्य परिगृहीत्यै ॥

7.3.9 अनुवाक 9 विंशतिरात्रकथनम्
1
    सा विराड् विक्रम्यातिष्ठद् ब्रह्मणा देवेष्व् अन्नेनासुरेषु
    ते देवा अकामयन्त ।
    उभयꣳ सं वृञ्जीमहि ब्रह्म चान्नं चेति
    त एता विꣳशतिꣳ रात्रीर् अपश्यन्
    ततो वै त उभयꣳ सम् अवृञ्जत ब्रह्म चान्नं च ब्रह्मवर्चसिनो ऽन्नादा अभवन्
    य एवं विद्वाꣳस एता आसत उभयम् एव सं वृञ्जते ब्रह्म चान्नं च ।

2
    ब्रह्मवर्चसिनो ऽन्नादा भवन्ति
    द्वे वा एते विराजौ
    तयोर् एव नाना प्रति तिष्ठन्ति
    विꣳशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पद्याः ।
    यावान् एव पुरुषस् तम् आप्त्वोत् तिष्ठन्ति
    ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति ।
    इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः ।
    इमान् एव लोकान् अभ्यारोहन्ति ।
    अभिपूर्वं त्र्यहा भवन्ति ।
    अभिपूर्वम् एव सुवर्गम्

3
    लोकम् अभ्यारोहन्ति
    यद् अन्यतः पृष्ठानि
    मध्ये पृष्ठानि भवन्ति सविवधत्वाय ॥
    ओजो वै वीर्यम् पृष्ठानि ।
    ओज एव वीर्यम् मध्यतो दधते
    बृहद्रथंतराभ्यां यन्ति ।
    इयं वाव रथंतरम् असौ बृहत् ।
    आभ्याम् एव यन्ति ।
    अथो अनयोर् एव प्रति तिष्ठन्ति ।
    एते वै यज्ञस्याञ्जसायनी स्रुती
    ताभ्याम् एव सुवर्गं लोकं यन्ति
   पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति
    प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै ।
    उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति ।
    अतिरात्राव् अभितो भवतः ।
   ब्रह्मवर्चसस्यान्नाद्यस्य परि गृहीत्यै ॥

7.3.10 अनुवाक 10 एकविंशतिरात्रकथनम्
1
    असाव आदित्यो ऽस्मिम्̐ लोक आसीत्
    तं देवाः पृष्ठैः परिगृह्य सुवर्गं लोकम् अगमयन्
    परैर् अवस्तात् पर्य् अगृह्णन् दिवाकीर्त्येन सुवर्गे लोके प्रत्य् अस्थापयन्
    परैः परस्तात् पर्य् अगृह्णन् पृष्ठैर् उपावारोहन् ।
    स वा असाव् आदित्यो ऽमुष्मिम्̐ लोके परैर् उभयतः परिगृहीतः ।
    यत् पृष्ठानि भवन्ति सुवर्गम् एव तैर् लोकं यजमाना यन्ति
    परैर् अवस्तात् परि गृह्णन्ति दिवाकीर्त्येन

2
    सुवर्गे लोके प्रति तिष्ठन्ति
    परैः परस्तात् परि गृह्णन्ति पृष्ठैर् उपावरोहन्ति
    यत् परे परस्तान् न स्युः पराञ्चः सुवर्गाल् लोकान् निष्पद्येरन्
    यद् अवस्तान् न स्युः प्रजा निर् दहेयुः ।
    अभितो दिवाकीर्त्यम् परःसामानो भवन्ति
    सुवर्ग एवैनाम्̐ लोक उभयतः परि गृह्णन्ति
    यजमाना वै दिवाकीर्त्यम् ।
    संवत्सरः परःसामानः ।
    अभितो दिवाकीर्त्यम् परःसामानो भवन्ति
    संवत्सर एवोभयतः

3
    प्रति तिष्ठन्ति
    पृष्ठं वै दिवाकीर्त्यम् पार्श्वे परःसामानः ।
    अभितो दिवाकीर्त्यम् परःसामानो भवन्ति
    तस्मादभितः पृष्ठम् पार्श्वे
    भूयिष्ठा ग्रहा गृह्यन्ते
    भूयिष्ठꣳ शस्यते
    यज्ञस्यैव तन् मध्यतो ग्रन्थिं ग्रथ्नन्त्य् अविस्रꣳसाय
    सप्त गृह्यन्ते
    सप्त वै शीर्षण्याः प्राणाः
    प्राणान् एव यजमानेषु दधति
    यत् पराचीनानि पृष्ठानि भवन्त्य् अमुम् एव तैर् लोकम् अभ्यारोहन्ति
    यद् इमं लोकं न

4
    प्रत्यवरोहेयुर् उद् वा माद्येयुर् यजमानाः प्र वा मीयेरन्
    यत् प्रतीचीनानि पृष्ठानि भवन्ति ।
    इमम् एव तैर् लोकम् प्रत्यवरोहन्ति ।
    अथो अस्मिन्न् एव लोके प्रति तिष्ठन्त्य् अनुन्मादाय ।
    इन्द्रो वा अप्रतिष्ठित आसीत्
    स प्रजापतिम् उपाधावत्
    तस्मा एतम् एकविꣳशतिरात्रम् प्रायच्छत्
    तम् आहरत्
    तेनायजत
    ततो वै स प्रत्य् अतिष्ठत् ।
    ये बहुयाजिनो ऽप्रतिष्ठिताः

5
    स्युस् त एकविꣳशतिरात्रम् आसीरन्
    द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविꣳशः ।
    एतावन्तो वै देवलोकास्
    तेष्व् एव यथापूर्वम् प्रति तिष्ठन्ति ।
    असाव् आदित्यो न व्यरोचत
    स प्रजापतिम् उपाधावत्
    तस्मा एतम् एकविꣳशति रात्रम् प्रायच्छत्
    तम् आहरत्
    तेनायजत
   ततो वै सो ऽरोचत
    य एवं विद्वाꣳस एकविꣳशतिरात्रम् आसते रोचन्त एव ।
    एकविꣳशतिरात्रो भवति
    रुग् वा एकविꣳशः ।
   रुचम् एव गच्छन्त्य् अथो प्रतिष्ठाम् एव
    प्रतिष्ठा ह्य् एकविꣳशः ।
    अतिरात्राव् अभितो भवतो ब्रह्मवर्चसस्य परिगृहीत्यै ॥

7.3.11 अनुवाक 11 अश्वमेधगतमन्त्रकथनम्
1
अर्वाङ् यज्ञः सं क्रामत्व् अमुष्माद् अधि माम् अभि । ऋषीणां यः पुरोहितः ।
निर्देवं निर्वीरं कृत्वा विष्कन्धं तस्मिन् हीयतां यो ऽस्मान् द्वेष्टि शरीरं यज्ञशमलं कुसीदं तस्मिन्त् सीदतु यो ऽस्मान् द्वेष्टि ।
यज्ञ यज्ञस्य यत् तेजस् तेन सं क्राममाम् अभि । ब्राह्मणान् ऋत्विजो देवान् यज्ञस्य तपसा ते सवाहम् आ हुवे ।
इष्टेन पक्व प

2
    ते हुवे सवाहम् । सं ते वृञ्जे सुकृतꣳ सम् प्रजाम् पशून् ।
प्रैषान्त् सामिधेनीर् आघाराव् आज्यभागाव् आश्रुतम् प्रत्याश्रुतम् आ शृणामि ते । प्रयाजानूयाजान्त् स्विष्टकृतम् इडाम् आशिष आ वृञ्जे सुवः ।
अग्निनेन्द्रेण सोमेन सरस्वत्या विष्णुना देवताभिः । याज्यानुवाक्याभ्याम् उप ते हुवे सवाहं यज्ञम् आ ददे ते वषट्कृतम् ।
स्तुतꣳ शस्त्रम् प्रतिगरं ग्रहम् इडाम् आशिषः ।

3
    आ वृञ्जे सुवः । पत्नीसंयाजान् उप ते हुवे सवाहꣳ समिष्टयजुर् आ ददे तव ॥
पशून्त् सुतम् पुरोडाशान्त् सवनान्य् ओत यज्ञम् । देवान्त् सेन्द्रान् उप ते हुवे सवाहम् अग्निमुखान्त् सोमवतो ये च विश्वे ॥

7.3.12 अनुवाक 12 अश्वमेधगतमन्त्रकथनम्
1
    भूतम् भव्यम् भविष्यद् वषट् स्वाहा नमः ।
    ऋक् साम यजुर् वषट् स्वाहा नमः ।
    गायत्री त्रिष्टुब् जगती वषट् स्वाहा नमः
    पृथिव्यन्तरिक्षं द्यौर् वषट् स्वाहा नमः ।
    अग्निर् वायुः सूर्यो वषट् स्वाहा नमः
    प्राणो व्यानो ऽपानो वषट् स्वाहा नमः ।
    अन्नं कृषिर् वृष्टिर् वषट् स्वाहा नमः
    पिता पुत्रः पौत्रो वषट् स्वाहा नमः ।
    भूर् भुवः सुवर् वषट् स्वाहा नमः ॥

7.3.13 अनुवाक 13 अश्वमेधगतमन्त्रकथनम्
1
आ मे गृहा भवन्त्व् आ प्रजा म आ मा यज्ञो विशतु वीर्यावान् । आपो देवीर् यज्ञिया मा विशन्तु सहस्रस्य मा भूमा मा प्र हासीत् ।
आ मे ग्रहो भवत्व् आ पुरोरुक् स्तुतशस्त्रे मा विशताꣳ समीची । आदित्या रुद्रा वसवो मे सदस्याः सहस्रस्य मा भूमा मा प्र हासीत् ।
आ माग्निष्टोमो विशतूक्थ्यश् चातिरात्रो मा विशत्व् आपिशर्वरः । तिरोअह्निया मा सुहुता आ विशन्तु सहस्रस्य मा भूमा मा प्र हासीत् ॥

7.3.14 अनुवाक 14 अश्वमेधगतमन्त्रकथनम्
1
    अग्निना तपो ऽन्व् अभवत् ।
    वाचा ब्रह्म
    मणिना रूपाणि ।
    इन्द्रेण देवान्
    वातेन प्राणान् ।
    सूर्येण द्याम् ।
    चन्द्रमसा नक्षत्राणि
    यमेन पितॄन्
    राज्ञा मनुष्यान्
    फलेन नादेयान्
    अजगरेण सर्पान्
    व्याघ्रेणाऽऽरण्यान् पशून् ।
    श्येनेन पतत्रिणः ।
    वृष्णाऽश्वान्
    ऋषभेण गाः ।
    बस्तेनाजाः ।
   वृष्णिनाऽवीः ।
    व्रीहिणाऽन्नानि
   यवेनौषधीः ।
   न्यग्रोधेन वनस्पतीन्
    उदुम्बरेणोर्जम् ।
    गायत्रिया छन्दाꣳसि
    त्रिवृता स्तोमान्
    ब्राह्मणेन वाचम् ॥

7.3.15 अनुवाक 15 अश्वमेधगतमन्त्रकथनम्
1
    स्वाहाऽऽधिम् आधीताय स्वाहा स्वाहाऽऽधीतम्
    मनसे स्वाहा स्वाहा मनः
    प्रजापतये स्वाहा
    काय स्वाहा
    कस्मै स्वाहा
    कतमस्मै स्वाहा ।
    अदित्यै स्वाहा ।
    अदित्यै मह्यै स्वाहा ।
    अदित्यै सुमृडीकायै स्वाहा
   सरस्वत्यै स्वाहा
    सरस्वत्यै बृहत्यै स्वाहा
    सरस्वत्यै पावकायै स्वाहा
    पूष्णे स्वाहा
    पूष्णे प्रपथ्याय स्वाहा
   पूष्णे नरंधिषाय स्वाहा
    त्वष्ट्रे स्वाहा
    त्वष्ट्रे तुरीपाय स्वाहा
    त्वष्ट्रे पुरुरूपाय स्वाहा
    विष्णवे स्वाहा
    विष्णवे निखुर्यपाय स्वाहा
   विष्णवे निभूयपाय स्वाहा ॥

7.3.16 अनुवाक 16 अश्वमेधगतमन्त्रकथनम्
1
    दद्भ्यः स्वाहा
    हनूभ्याꣳ स्वाहा
    ओष्ठाभ्याꣳ स्वाहा
    मुखाय स्वाहा
    नासिकाभ्याꣳ स्वाहा ।
    अक्षीभ्याꣳ स्वाहा
    कर्णाभ्याꣳ स्वाहा
    पार इक्षवो ऽवार्येभ्यः पक्ष्मभ्यः स्वाहा ।
    अवार इक्षवः पार्येभ्यः पक्ष्मभ्यः स्वाहा
    शीर्ष्णे स्वाहा
    भ्रूभ्याꣳ स्वाहा
   ललाटाय स्वाहा
   मूर्ध्ने स्वाहा
   मस्तिष्काय स्वाहा
    केशेभ्यः स्वाहा
   वहाय स्वाहा
   ग्रीवाभ्यः स्वाहा
    स्कन्धेभ्यः स्वाहा
   कीकसाभ्यः स्वाहा
   पृष्टीभ्यः स्वाहा
   पाजस्याय स्वाहा
    पार्श्वाभ्याꣳ स्वाहा

2
    अꣳसाभ्याꣳ स्वाहा
    दोषभ्याꣳ स्वाहा
    बाहुभ्याꣳ स्वाहा
    जङ्घाभ्याꣳ स्वाहा
    श्रोणीभ्याꣳ स्वाहा
    ऊरुभ्याꣳ स्वाहा
    अष्ठीवद्भ्याꣳ स्वाहा
    जङ्घाभ्याꣳ स्वाहा
    भसदे स्वाहा
   शिखण्डेभ्यः स्वाहा
   वालधानाय स्वाहा ।
   आण्डाभ्याꣳ स्वाहा
   शेपाय स्वाहा
   रेतसे स्वाहा
    प्रजाभ्यः स्वाहा
   प्रजननाय स्वाहा
   पद्भ्यः स्वाहा
   शफेभ्यः स्वाहा
   लोमभ्यः स्वाहा
   त्वचे स्वाहा
   लोहिताय स्वाहा
   माꣳसाय स्वाहा
   स्नावभ्यः स्वाहा ।
   अस्थभ्यः स्वाहा
   मज्जभ्यः स्वाहा ।
   अङ्गेभ्यः स्वाहा ।
   आत्मने स्वाहा
   सर्वस्मै स्वाहा ॥

7.3.17 अनुवाक 17 अश्वमेधगतमन्त्रकथनम्
1
    अञ्ज्येताय स्वाहा ।
    अञ्जिसक्थाय स्वाहा
    शितिपदे स्वाहा
    शितिककुदे स्वाहा
    शितिरन्ध्राय स्वाहा
    शितिपृष्ठाय स्वाहा
    शित्यꣳसाय स्वाहा
    पुष्पकर्णाय स्वाहा
    शित्योष्ठाय स्वाहा
    शितिभ्रवे स्वाहा
   शितिभसदे स्वाहा
    श्वेतानूकाशाय स्वाहा ।
   अञ्जये स्वाहा
   ललामाय स्वाहा ।
   असितज्ञवे स्वाहा
    कृष्णैताय स्वाहा
   रोहितैताय स्वाहा ।
   अरुणैताय स्वाहा ।
   ईदृशाय स्वाहा
    कीदृशाय स्वाहा
  तादृशाय स्वाहा
    सदृशाय स्वाहा
    विसदृशाय स्वाहा
    सुसदृशाय स्वाहा
   रूपाय स्वाहा
   सर्वस्मै स्वाहा ॥

7.3.18 अनुवाक 18 अश्वमेधगतमन्त्रकथनम्
1
    कृष्णाय स्वाहा
    श्वेताय स्वाहा
    पिशंगाय स्वाहा
    सारंगाय स्वाहा ।
    अरुणाय स्वाहा
    गौराय स्वाहा
    बभ्रवे स्वाहा
    नकुलाय स्वाहा
    रोहिताय स्वाहा
   शोणाय स्वाहा
   श्यावाय स्वाहा
   श्यामाय स्वाहा
   पाकलाय स्वाहा
   सुरूपाय स्वाहा ।
   अनुरूपाय स्वाहा
   विरूपाय स्वाहा
   सरूपाय स्वाहा
   प्रतिरूपाय स्वाहा
   शबलाय स्वाहा
   कमलाय स्वाहा
   पृश्नये स्वाहा
   पृश्निसक्थाय स्वाहा
   सर्वस्मै स्वाहा ॥

7.3.19 अनुवाक 19 अश्वमेधगतमन्त्रकथनम्
1
    ओषधीभ्यः स्वाहा
    मूलेभ्यः स्वाहा
    तूलेभ्यः स्वाहा
    काण्डेभ्यः स्वाहा
    वल्शेभ्यः स्वाहा
    पुष्पेभ्यः स्वाहा
    फलेभ्यः स्वाहा
    गृहीतेभ्यः स्वाहा ।
    अगृहीतेभ्यः स्वाहा ।
   अवपन्नेभ्यः स्वाहा
   शयानेभ्यः स्वाहा
   सर्वस्मै स्वाहा ॥

7.3.20 अनुवाक 20 अश्वमेधगतमन्त्रकथनम्
1
    वनस्पतिभ्यः स्वाहा
    मूलेभ्यः स्वाहा
    तूलेभ्यः स्वाहा
    स्कन्धोभ्यः स्वाहा
    शाखाभ्यः स्वाहा
    पर्णेभ्यः स्वाहा
    पुष्पेभ्यः स्वाहा
    फलेभ्यः स्वाहा
    गृहीतेभ्यः स्वाहा ।
   अगृहीतेभ्यः स्वाहा ।
  अवपन्नेभ्यः स्वाहा
   शयानेभ्यः स्वाहा
   शिष्टाय स्वाहा ।
   अतिशिष्टाय स्वाहा
   परिशिष्टाय स्वाहा
   सꣳशिष्टाय स्वाहा ।
   उच्छिष्टाय स्वाहा
   रिक्ताय स्वाहा ।
   अरिक्ताय स्वाहा
   प्ररिक्ताय स्वाहा
  सꣳरिक्ताय स्वाहा ।
   उद्रिक्ताय स्वाहा
   सर्वस्मै स्वाहा ॥