प्रमुखा विकल्पसूचिः उद्घाट्यताम्

तैत्तिरीयारण्यकम्(विस्वर)/प्रपाठकः ६

< तैत्तिरीयारण्यकम्(विस्वर)

अथ कृष्णयजुर्वेदीय तैत्तिरीयारण्यके षष्ठप्रपाठकस्यारम्भः

सं त्वा सिञ्चामि यजुषा प्रजामायुर्धनं च ।।

ॐ शान्तिः शान्तिः शान्तिः ॐ ।।

6.1 अनुवाक १

परे युवाꣳसं प्रवतो महीरनु बहुभ्यः पन्थामनपस्पशानम् । वैवस्वतꣳ संगमनं जनानां यमꣳ राजानꣳ हविषा दुवस्यत, इति । इदं त्वा वस्त्रं प्रथमं न्वागन्, इति । अपैतदूह यदिहाबिभः पुरा । इष्टापूर्तमनुसंपश्य दक्षिणां यथा ते दत्तं बहुधा वि बन्धुषु, इति । इमौ युनज्मि ते वह्नी असुनीथाय वोढवे । याभ्यां यमस्य सादनꣳ सुकृतां चापि गच्छतात् । पूषा त्वेतश्च्यावयतु प्र विद्वाननष्टपशर्भुवनस्य गोपाः । सं त्वैतेभ्यः परिददात्पितृभ्योऽग्निर्देवेभ्यः सुविदत्रेभ्यः । पूषेमा आशा अनुवेद सर्वाः सो अस्माꣳ अभयतमेन नेषत् । स्वस्तिदा अघृणिः सर्ववीरोऽप्रयुच्छन्पुर एतु प्रविद्वान् ( १) । आयुर्विश्वायुः परिपासति त्वा पूषा त्वा पातु प्रपथे पुरस्तात् । यत्राऽऽसते सुकृतो यत्र ते ययुस्तत्र त्वा देवः सविता दधातु । भुवनस्य पत इदꣳ हविः, इति । अग्नये रयिमते स्वाहा । पुरुषस्य सयावर्यपेदघानि मृज्महे । यथा नो अत्र नापरः पुरा जरस आयति, इति । पुरुषस्य सयावरि वि ते प्राणमसिस्रसम् । शरीरेण महीमिहि स्वधयेहि पितॄनुप प्रजयाऽस्मानिहाऽऽवह । मैवं माꣳस्ता प्रियेऽहं देवी सती पितृलोकं यदैषि । विश्ववारा नमसा(नभसा?) संव्ययन्त्युभौ नो लोकौ पयसाऽभ्याववृत्स्व ( २) । इयं नारी पतिलोकं वृणाना निपद्यत उप त्वा मर्त्य प्रेतम् । विश्वं पुराणमनुपालयन्ती तस्मै प्रजां द्रविणं चेह धेहि । उदीर्ष्व नार्यभि जीवलोकमितासुमेतमुपशेष एहि । हस्तग्राभस्य दिधिषोस्त्वमेतत्पत्युर्जनित्वमभिसंबभूव । सुवर्णꣳ हस्तादाददाना मृतस्य श्रियै ब्रह्मणे तेजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम ।

धनुर्हस्तादाददाना मृतस्य श्रियै क्षत्त्रायौजसे बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम । मणिꣳ हस्तादाददाना मृतस्य श्रियै विशे पुष्ट्यै बलाय । अत्रैव त्वमिह वयꣳ सुशेवा विश्वा स्पृधो अभिमातीर्जयेम ( ३) । इममग्ने चमसं मा विजीह्वरः प्रियो देवानामुत सोम्यानाम् । एष यश्चमसो देवपानस्तस्मिन्देवा अमृता मादयन्ताम् । अग्नेर्वर्म परि गोभिर्व्ययस्व संप्रोर्णुष्व मेदसा पीवसा च । नेत्त्वा धृष्णुर्हरसा जर्हृषाणो दधद्विधक्ष्यन्पर्यङ्खयातै । मैनमग्ने विदहो माऽभिशोचो माऽस्य त्वचं चिक्षिपो मा शरीरम् । यदा शृतं करवो जातवेदोऽथेमेनं प्रहिणुतात्पितृभ्यः । शृतं यदाऽकरसि जातवेदोऽथेमेनं परिदत्तात्पितृभ्यः । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति । सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः । अजोऽभागस्तपसा तं तपस्व तं ते शोचिस्तपतु तं ते अर्चिः । यास्ते शिवास्तनुवो जातवेदस्ताभिर्वहेमꣳ सुकृतां यत्र लोकाः । अयं वै त्वमस्मादधि त्वमेतदयं वै तदस्य योनिरसि । वैश्वानरः पुत्रः पित्रे लोककृज्जातवेदो वहेमꣳ सुकृतां यत्र लोकाः ( ४) ।। विद्वानभ्याववृत्स्वाभिमातीर्जयेम शरीरैश्चत्वारि च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके प्रथमोऽनुवाकः ।। १ ।।

6.2 अनुवाक २

य एतस्य पथो गोप्तारस्तेभ्यः स्वाहा य एतस्य पथो रक्षितारस्तेभ्यः स्वाहा य एतस्य पथोऽभि रक्षितारस्तेभ्यः स्वाहा ख्यात्रे स्वाहाऽपाख्यात्रे स्वाहाऽभिलालपते स्वाहाऽपलालपते स्वाहाऽग्नये कर्मकृते स्वाहा यमत्र नाधीमस्तस्मै स्वाहा, इति ।

यस्त इध्मं जभरत्सिष्विदानो मूर्धानं वा ततपते त्वाया । दिवो विश्वस्मात्सीमघायत उरुष्यः, इति । अस्मात्त्वमधि जातोऽसि त्वदयं जायतां पुनः । अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा ( १), इति । य एतस्य त्वत्पञ्च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके द्वितीयोऽनुवाकः ।। २ । ।

6.3 अनुवाक ३

प्र केतुना बृहता भात्यग्निराविर्विश्वानि वृषभो रोरवीति । दिवश्चिदन्तादुप मामुदानडपामुपस्ये महिषो ववर्ध, इति । इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तनुवै चारुरेधि प्रियो देवानां परमे सधस्थे, इति ।

नाके सुपर्णमुप यत्पतन्तꣳ हृदा वेनन्तो अभ्यचक्षत त्वा । हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युम्, इति । अतिद्रव सारमेयौ श्वानौ चतुरक्षौ शबलौ साधुना पथा । अथा पितॄन्त्सुविदत्राꣳ अपीहि यमेन ये सधमादं मदन्ति, इति । यौ ते श्वानौ यम रक्षितारौ चतुरक्षौ पथिरक्षी नृचक्षसा । ताभ्याꣳ राजन्परिदेह्येनꣳ स्वस्ति चास्मा अनमीवं च धेहि ( १), इति । उरुणसावसुतृपावुलुंबलौ यमस्य दूती चरतोऽवशाꣳ अनु । तावस्मभ्यं दृशये सूर्याय पुनर्दत्तावसुमद्येह भद्रम्, इति ।

सोम एकेभ्यः पवते घृतमेक उपासते । येभ्यो मधु प्रधावति ताꣳश्चिदेवापि गच्छतात्, इति । ये युध्यन्ते प्रधनेषु शूरासो ये तनुत्यजः । ये वा सहस्रदक्षिणास्ताꣳश्चिदेवापि गच्छतात्, इति । तपसा ये अनाधृष्यास्तपसा ये सुवर्गताः । तपो ये चक्रिरे महत्ताꣳश्चिदेवापि गच्छतात्, इति । अश्मन्वती रेवतीः सꣳरभध्वमुत्तिष्ठत प्रतरता सखायः । अत्रा जहाम ये असन्नशेवाः शिवान्वयमभि वाजानुत्तरेम ( २), इति । यद्वै देवस्य सवितुः पवित्रꣳ सहस्रधारं विततमन्तरिक्षे । येनापुनादिन्द्रमनार्तमार्त्यै तेनाहं माꣳ सर्वतनुं पुनामि । या राष्ट्रात्पन्नादपयन्ति शाखा अभिमृता नृपतिमिच्छमानाः । धातुस्ताः सर्वाः पवनेन पूताः प्रजयाऽस्मान्रय्या वर्चसा सꣳसृजाथ । उद्वयं तमसस्परिपश्यन्तो ज्योतिरुत्तरम् । देवं देवत्रा सूर्यमगन्म ज्योतिरुत्तमम्, इति । धाता पुनातु सविता पुनातु । अग्नेस्तेजसा सूर्यस्य वर्चसा ( ३) ।। धेह्युत्तरेमाष्टौ च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके तृतीयोऽनुवाकः ।। ३ ।।

6.4 अनुवाक ४

यं ते अग्निममन्थाम वृषभायेव पक्तवे । इमं तꣳ शमयामसि क्षीरेण चोदकेन च, इति । यं त्वमग्ने समदहस्त्वमु निर्वापया पुनः । क्याम्बूरत्र जायतां पाकदूर्वाव्यल्कशा, इति । शीतिके शीतिकावति ह्रादुके ह्रादुकावति । मण्डूक्यासु संगमयेमꣳ स्वग्निꣳ शमय, इति । शं ते धन्वन्या आपः शमु ते सन्त्वनूक्याः । शं ते समुद्रिया आपः शमु ते सन्तु वर्ष्याः, इति । शं ते स्रवन्तीस्तनुवे शमु ते सन्तु कूप्याः । शं ते नीहारो वर्षतु शमु पृष्वाऽवशीयताम् (१), इति । अवसृज पुनरग्ने पितृभ्यो यस्त आहुतश्चरति स्वधाभिः । आयुर्वसान उपयातु शेषꣳ संगच्छतां तनुवा जातवेदः, इति । संगच्छस्व पितृभिः सꣳ स्वधाभिः समिष्टापूर्तेन परमे व्योमन् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु, इति । यत्ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अग्निष्टद्विश्वादनृणं कृणोतु सोमश्च यो ब्राह्मणमाविवेश, इति । उत्तिष्ठातस्तनुवꣳ संभरस्व मेह गात्रमवहा मा शरीरम् । यत्र भूम्यै वृणसे तत्र गच्छ तत्र त्वा देवः सविता दधातु । इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तुनवै चारुरेधि प्रियो देवानां परमे सधस्थे, इति । उत्तिष्ठ प्रेहि प्रद्रवौकः कृणुष्व परमे व्योमन् । यमेन त्वं यम्या संविदानोत्तमं नाकमधिरोहेमम् । अश्मन्वती रेवतीर्यद्वै देवस्य सवितुः पवित्रं या राष्ट्रात्पन्नादुद्वयं तमसस्परि धाता पुनातु, इति। अस्मात्त्वमधिजातोऽस्ययं त्वदधिजायताम् । अग्नये वैश्वानराय सुवर्गाय लोकाय स्वाहा (२), इति ।। अवशीयताꣳ सधस्थे पञ्च च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्टप्रपाठके चतुर्थोऽनुवाकः ।। ४ ।।

6.5 अनुवाक ५

आयातु देवः सुमनाभिरूतिभिर्यमो ह वेह प्रयताभिरक्ता । आसीदताꣳ सुप्रयते ह बर्हिष्यूर्जाय जात्यै मम शत्रुहत्यै । यमे इव यतमाने यदैतं प्र वां भरन्मानुषा देवयन्तः । आसीदतꣳ स्वमु लोकं विदाने स्वासस्थे भवतमिन्दवे नः, इति । यमाय सोमꣳ सुनुत यमाय जुहुता हविः । यमꣳ ह यज्ञो गच्छत्यग्निदूतो अरंकृतः । यमाय घृतवद्धविर्जुहोत प्र च तिष्ठत । स नो देवेष्वायमद्दीर्घमायुः प्रजीवसे । यमाय मधुमत्तमꣳ राज्ञे हव्यं जुहोतन । इदं नम ऋषिभ्यः पूर्वजेभ्यः पूर्वेभ्यः पथिकृद्भ्यः (१) । योऽस्य कौष्ठ्य जगतः पार्थिवस्यैक इद्वशी । यमं भङ्ग्यश्रवो गाय यो राजाऽनपरोध्यः, इति । यमं गाय भङ्ग्यश्रवो यो राजाऽनपरोध्यः । येनाऽऽपो नद्यो धन्वानि येन द्यौः पृथिवी दृढा, इति । हिरण्यकक्ष्यान्त्सुधुरान्हिरण्याक्षानयःशफान् । अश्वाननश्यतो दानं यमो राजाऽभितिष्ठति, इति । यमो दाधार पृथिवीं यमो विश्वमिदं जगत् । यमाय सर्वमित्रस्थे यत्प्राणद्वायुरक्षितम्, इति । यथा पञ्च यथा षड्यथा पञ्चदशर्षयः । यमं यो विद्यात्स ब्रूयाद्यथैक ऋषिर्विजानते (२), इति । त्रिकद्रुकेभिः पतति षडु्र्वीरेकमिद्बृहत् । गायत्री त्रिष्टुप्छन्दाꣳसि सर्वा ता यम आहिता, इति । अहरहर्नयमानो गामश्वं पुरुषं जगत् । वैवस्वतो न तृप्यति पञ्चभिर्मानवैर्यमः, इति । वैवस्वते विविच्यन्ते यमे राजनि ते जनाः । ये चेह सत्येनेच्छन्ते य उ चानृतवादिनः, इति । ते राजन्निह विविच्यन्तेऽथा यन्ति त्वामुप । देवाꣳश्च ये नमस्यन्ति ब्राह्मणाꣳश्चापचित्यति, इति । यस्मिन्वृक्षे सुपलाशे देवैः संपिबते यमः । अत्रा नो विश्पतिः पिता पुराणा अनुवेनति (३), इति ।। पथिकृद्भ्यो विजानतेऽनुवेनति ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके पञ्चमोऽनुवाकः ।। ५ ।।

6.6 अनुवाक ६

वैश्वानरे हविरिदं जुहोमि साहस्रमुत्सꣳ शतधारमेतम् । तस्मिन्नेष पितरं पितामहं प्रपितामहं बिभरत्पिन्वमाने, इति । द्रप्सश्चस्कन्द पृथिवीमनु द्यामिमं च योनिमनु यश्च पूर्वः । तृतीयं योनिमनु संचरन्तं द्रप्सं जुहोम्यनु सप्त होत्राः, इति । इमꣳ समुद्रꣳ शतधारमुत्सं व्यच्यमानं भुवनस्य मध्ये । घृतं दुहानामदितिं जनायाग्ने मा हिꣳसीः परमे व्योमन्, इति । अपेत वीत वि च सर्पतातो येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तं यमो ददात्ववसानमस्मै, इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिर्युज्यन्तामघ्नियाः ( १ ), इति । शुनं वाहाः शुनं नाराः शुनं कृषतु लाङ्गलम् । शुनं वरत्रा बध्यꣳन्ताꣳ शुनमष्ट्रामुदिङ्गय शुनासीरा शुनमस्मासु धत्तम्, इति । शुनासीराविमां वाचं यद्दिवि चक्रथुः पयः । तेनेमामुपसिञ्चतम्, इति । सीते वन्दामहे त्वाऽर्वाची सुभगे भव । यया नः सुभगा ससि यथा नः सुफला ससि, इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभिरदिते शं भव, इति । विमुच्यध्वमघ्निया देवयाना अतारिष्म तमसस्पाꣳरमस्य । ज्योतिरापाम सुवरगन्म ( २), इति । प्र वाता वान्ति पतयन्ति विद्युत उदोषधीर्जिꣳहते पिन्वते सुवः । इरा विश्वस्मै भुवनाय जायते यत्पर्जन्यः पृथिवीꣳ रेतसाऽवति, इति । यथा यमाय हार्म्यमवपन्पञ्च मानवाः । एवं वपामि हार्म्यं यथाऽसाम जीवलोके भूरयः, इति । चितः स्थ परिचित ऊर्ध्वचितः श्रयध्वं पितरो देवता । प्रजापतिर्वः सादयतु तया देवतया, इति। आप्यायस्व, सं ते ( ३), इति ।। अघ्निया अगन्म सप्त च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके षष्ठोऽनुवाकः ।। ६ ।।

6.7 अनुवाक ७

उत्ते तभ्नोमि पृथिवीं त्वत्परीमं लोकं निदधन्मो अहꣳ रिषम् । एताꣳ स्थूणां पितरो धारꣳयन्तु तेऽत्रा यमः सादनात्ते मिनोतु, इति । उपसर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीꣳ सुशेवाम् । ऊर्णम्रदा युवतिर्दक्षिणावत्येषा त्वा पातु निर्ऋत्या उपस्थे, इति । उच्छ्मञ्चस्व पृथिवि मा विबाधिथाः सूपायनाऽस्मै भव सूपवञ्चना । माता पुत्रं यथा सिचाऽभ्येनं भूमि वृणु. इति । उच्छ्रमञ्चमाना पृथिवी हि तिष्ठसि सहस्रं मित उप हि श्रयन्ताम् । ते गृहासो मधुश्चुतो विश्वाहाऽस्मै शरणाः सन्त्वत्र, इति । एणीर्धाना हरिणीरर्जुनीः सन्तु धेनवः । तिलवत्सा ऊर्जमस्मै दुहाना विश्वाहा सन्त्वनपस्फुरन्तीः ( १), इति । एषा ते यमसादने स्वधा निधीयते गृहे । अक्षितिर्नाम ते असौ, इति । इदं पितृभ्यः प्रभरेम बर्हिर्देवेभ्यो जीवन्त उत्तरं भरेम । तत्त्वमारोहासो मेध्यो भवं(भव?) यमेन त्वं यम्या संविदानः, इति । मा त्वा वृक्षौ संबाधिष्टां मा माता पृथिवि त्वम् । पितॄन्ह्यत्र गच्छास्येधांसं यमराज्ये, इति । मा त्वा वृक्षौ संबाधेथां मा माता पृथिवी मही । वैवस्वतꣳ हि गच्छासि यमराज्ये विराजसि, इति । नळं प्लवमारोहैतं नळेन पथोऽन्विहि । स त्वं नळप्लवो भूत्वा संतर प्रतरोत्तर ( २), इति । सवितैतानि शरीराणि पृथिव्यै मातुरुपस्थ आदधे । तेभ्यः पृथिवि शं भव, इति । षड्ढोता सूर्यं ते चक्षुर्गच्छतु वातमात्मा द्यां च गच्छ पृथिवीं च धर्मणा । अपो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः, इति । परं मृत्यो अनुपरेहि पन्थां यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजाꣳ रीरिषो मोत वीरान्, इति । शं वातः शꣳ हि ते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां मे दिशः शग्माः, इति । पृथिव्यास्त्वा लोके सादयाम्यमुष्य शर्मासि पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया, इति । अन्तरिक्षस्य त्वा दिवस्त्वा दिशां त्वा नाकस्य त्वा पृष्ठे ब्रध्नस्य त्वा विष्टपे सादयाम्यमुष्य शर्मासि पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया ( ३), इति ।। अनपस्फुरन्तीरुत्तर देवतया द्वे च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके सप्तमोऽनुवाकः ।। ७ ।।

6.8 अनुवाक ८

अपूपवान्घृतवाꣳश्चरुरेह सीदतूत्तभ्नुवन्पृथिवीं द्यामुतोपरि । योनिकृतः पथिकृतः सपर्यत ये देवानां घृतभागा इह स्थ । एषा ते यमसादने स्वधा निधीयते गृहेऽसौ । दशाक्षरा ताꣳ रक्षस्व तां गोपायस्व तां ते परिददामि तस्यां त्वा मा दभन्पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया, इति । अपूपवाञ्शृतवान्क्षीरवान्दधिवान्मधुमाꣳश्चरुरेह सीदतूत्तभ्नुवन्पृथिवीं द्यामुतोपरि। योनि कृतः पथिकृतः सपर्यत ये देवानाꣳ शृतभागाः क्षःइ(?)भागा दधिभागा (?)भागा इह स्थ। एष ते यमुसादने स्वधा निधीयते गृहेऽसौ । शताक्षरा सहस्राक्षराऽयुताक्षराऽच्युताक्षरा ताꣳ रक्षस्व तां गोपायस्व तां ते परिददामि तस्यां त्वामादभन्पितरो देवता । प्रजापतिस्त्वा सादयतु तया देवतया ( १), इति ।। अपूपवानसौ दश ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठकेऽष्टमोऽनुवाकः ।। ८ ।।

6.9 अनुवाक ९

एतास्ते स्वधा अमृताः करोमि यास्ते धानाः परिकिराम्यत्र । तास्ते यमः पितृभिः संविदानोऽत्र धेनूः कामदुघाः करोतु, इति । त्वामर्जुनौपधीनां पयो ब्रह्माण इद्विदुः । तासां त्वा मध्यादाददे चरुभ्यो अपिधातवे, इति । दूर्वाणाꣳ स्तम्बमाहरैतां प्रियतमां मम । इमां दिशं मनुष्याणां भूयिष्ठाऽनु विरोहतु इति । काशानाꣳ स्तम्बमाहर रक्षसामपहत्यै । य एतस्यै दिशः पराभवन्नघायवो यथा ते नाभवान्पुनः, इति । दर्भाणाꣳ स्तम्बमाहर पितृणामोषधीं प्रियाम् । अन्वस्यै मूलं जीवादनु काण्डमथो फलम्, इति । लोकं पृण ता अस्य सूददोहसः इति । शं वातः शꣳ हि ते घृणिः शमु ते सन्त्वोषधीः । कल्पन्तां ते दिशः सर्वाः, इति । इदमेव मेतोऽपरामार्तिमाराम कांचन । तथा तदश्विभ्यां कृतं मित्रेण वरुणेन च, इति । वरणो वारयादिदं देवो वनस्पतिः । आर्त्यै निर्कत्यै द्वेषाच्च वनस्पतिः, इति । विधृतिरसि विधारयास्मदघा द्वेषाꣳसि, इति । शमि शमयास्मदघा द्वेषाꣳसि, इति । यव यवयास्मदघा द्वेषाꣳसि, इति । पृथिवीं गच्छान्तरिक्षं गच्छ दिवं गच्छ दिशो गच्छ सुवर्गच्छ सुवर्गच्छ दिशो गच्छ दिवं गच्छान्तरिक्षं गच्छ पृथिवीं गच्छापो वा गच्छ यदि तत्र ते हितमोषधीषु प्रतितिष्ठा शरीरैः, इति । अश्मन्वती रेवतीर्यद्वै देवस्य सवितुः पवित्रं या राष्ट्रात्पन्नादुद्वयं तमसस्परि धाता पुनातु(२), इति ।। अथो फलं पुनातु ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके नवमोऽनुवाकः ।। ९ ।।

6.10 अनुवाक १०

आरोहताऽऽयुर्जरसं गृणाना अनुपूर्वं यतमाना यतिष्ट । इह त्वष्टा सुजनिमा सुरत्नो दीर्घमायुः करतु जीवसे वः, इति । यथाऽहान्यनुपूर्वं भवन्ति यथर्तव ऋतुभिर्यन्ति क्लृप्ताः । यथा न पूर्वमपरो जहात्येवा धातरायूꣳषि कल्पयैषाम्, इति । न हि ते अग्ने तनुवै क्रूरं चकार मर्त्यः । कपिर्बभस्ति तेजनं पुनर्जरायु गौरिव । अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघं मृत्यवे स्वाहा । अनड्वाहमन्वारभामहे स्वस्तये । स न इन्द्र इव देवेभ्यो वह्निः संपारणो भव ( १), इति । इमे जीवा वि मृतैराववर्तिन्नभूद्भद्रा देवहूतिं नो अद्य । प्राञ्जोऽगामा नृतये हसाय द्रघीय आयुः प्रतरां दधानाः, इति । मृत्योः पदं योपयन्तो यदैम द्राघीय आयुः प्रतरां दधानाः । आप्यायमानाः प्रजया धनेन शुद्धाः पूता भवथ यज्ञियासः, इति । इमं जीवेभ्यः परिधिं दधामि मा नोऽनुगाद परो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीस्तिरो मृत्युं दद्महे पर्वतेन, इति । इमा नारीरविधवाः सुपत्नीराञ्जनेन सर्पिषा समृशन्ताम् । अनश्रवो अनमीवा सुशेवा आरोहन्तु जनयो योनिमग्रे, इति । यदाञ्जनं त्रैककुदं जातꣳ हिमवतस्परि । तेनामृतस्य मूलेनारातीर्जम्भयामसि, इति । यथा त्वमुद्भिनत्स्योषधे पृथिव्या अधि । एवमिम उद्भिन्दन्तु कीर्त्या यशसा ब्रह्मवर्चसेन, इति । अजोऽस्यजास्मदघा द्वेषाꣳसि, इति । यवोऽसि यवयास्मदघा द्वेषाꣳसि ( २), इति ।। संपारणो भव जम्भयामसि त्रीणि च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके दशमोऽनुवाकः ।। १० ।।

6.11 अनुवाक ११

अप नः शोशुचदघमग्ने शुशुध्या रयिम् । अप नः शोशुचदघम्, इति । सुक्षेत्रिया सुगातुया वसूया च यजामहे । अप नः शोशुचदघम्, इति । प्र यद्भन्दिष्ठ एषां प्राऽऽस्माकासश्च सूरयः । अप नः शोशुचदघम्, इति । प्र यदग्नेः सहस्वतो विश्वतो यन्ति सूरयः । अप नः शोशुचदघम्, इति । प्र यत्ते अग्ने सूरयो जायेमहि प्र ते वयम् । अप नः शोशुचदघम् ( १), इति । त्वꣳ हि विश्वतोमुख विश्वतः परिभूरसि । अप नः शोशुचदघम्, इति । द्विषो नो विश्वतो मुखाऽति नावेव पारय । अप नः शोशुचदघम्, इति । स नः सिन्धुमिव नावयाऽतिपर्षा स्वस्तये । अप नः शोशुचदघम्, इति । आपः प्रवणादिव यतीरपास्मत्स्यन्दतामघम् । अप नः शोशुचदघम्, इति । उद्वनादुदकानीवापास्मत्स्यन्दतामघम् । अप नः शोशुचदघम्, इति । आनन्दाय प्रमोदाय पुनरागाꣳ स्वान्गृहान् । अप नः शोशुचदघम्, इति । न वै तत्र प्रमीयते गौरश्वः पुरुषः पशुः । यत्रेदं ब्रह्म क्रियते परिधिर्जीवनाय कमप नः शोशुचदघम् (२),इति ।। अघमघं चत्वारि च ।।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठक एकादशोऽनुवाकः ।। ११ ।।

6.12 अनुवाक १२

अपश्याम युवतिमाचरन्तीं मृताय जीवां परिणीयमानाम् । अन्धेन या तमसा प्रावृताऽसि प्राचीमवाचीमवयन्नरिष्ट्यै, इति । मयैतां माꣳस्तां भ्रियमाणा देवी सती पितृलोकं यदैषि । विश्ववारा नभसा संव्ययन्त्युभौ नो लोकौ पयसाऽऽवृणीहि, इति । रयिष्ठामग्निं मधुमन्तमूर्मिणमूर्जः सन्तं त्वा पयसोपसꣳसदेम । सꣳ रय्या समु वर्चसा सचस्वा नः स्वस्तये, इति । ये जीवा ये च मृता ये जाता ये च जन्त्याः । तेभ्यो घृतस्य धारयितुं मधुधारा व्युन्दती, इति । माता रुद्राणां दुहिता वसूनाꣳ स्वसाऽऽदित्यानाममृतस्य नाभिः । प्र णु वोचं चिकितुषे जनाय मा गामनागामदितिं वधिष्ट, इति । पिबतूदकं तृणान्यत्तु । ओमुत्सृजत ( १) इति ।। वधिष्ट द्वे च ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठप्रपाठके द्वादशोऽनुवाकः ।। १२ ।। ॐ शान्तिः शान्तिः शान्तिः । हरिः ॐ ।

इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके षष्ठः प्रपाठकः समाप्तः ।। ६ ।।

Credits ( For prapathaka 1.1 to 1.6, prapathaka 4 and prapathaka 5): Sources: 1. The Taittiriya Ìraöyaka of the Black Yajur Veda with the Commentary of SŒyaöŒcŒrya, edited by RŒjendralŒla Mitra, Calcutta 1872. 2. The Taittir´yŒraöyaka with the Commentary of BhaÿÿabhŒskara Mi§ra, edited by A. MahŒdeva êŒstri and K. Ra‹gŒcŒrya, originally appeared as vols. 26, 27 and 29 of The Government Oriental Library Series, Bibliotheca Sanskrita, Mysore 19001902, reprinted Delhi 1985. 3. K¨•öayajurved´yaµ Taittir´yŒraöyakam êr´matSŒyaöŒcŒryaviracitaBhŒ•yaSametam (Sapari§i•ÿam.) ... etat Pustakam ve. êŒ. RŒ. RŒ. "BŒbŒ§Œstr´ Pha¶ake" ity etaiú saµ§odhitaµ. Tacca Hari NŒrŒyaöa Œpaÿe ityanena puöyŒkhyapattane ÌnandŒ§ramaMudraöŒlaye ÌyasŒk•arair MudrayitvŒ PrakŒ§itam. (=ÌnandŒ§ramaSaµsk¨taGranthŒvaliú, GranthŒ‹kaú 36) Poona 1897 2 vols.

Typescript: Edited by Arlo Griffiths and J.E.M. Houben Conversion to Devanagari using Vedapad Software by Ralph Bunker

Formatted for Maharishi University of Management Vedic Literature Collection