त्रिपुरसुन्दरीमानसपुजास्तोत्रम्

त्रिपुरसुन्दरीमानसपुजास्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

॥ त्रिपुरसुन्दरीमानसपूजास्तोत्रम् ॥


मम न भजनशक्तिः पादयोस्ते न भक्ति-
 र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः ।
इति मनसि सदाहं चिन्तयन्नाद्यशक्ते
 रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥ १॥

व्याप्तं हाटकविग्रहर्जलचरैरारूढदेवव्रजै:
 पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।
आरक्तामृतसिन्धुमुद्धुरचलद्वीचीचयव्याकुल-
 व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव ॥२॥

तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं
 कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः ।
उच्चैःशृङ्गनिषण्णदिव्यवनितावृन्दाननप्रोल्लस-
 द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥ ३ ॥


जातीचम्पकपाटलादिसुमनःसौरभ्यसंभावितं
 ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् ।
आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं
 चञ्चच्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥४॥

परिपतितपरागैः पाटलक्षोणिभागो
 विकसितकुसुमोच्चैः पीतचन्द्रार्करश्मिः ।
अलिशुकपिकराजीकूजितैः श्रोत्रहारी
 स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५ ॥

रम्यद्वारपुरप्रचारतमसा संहारकारिप्रभ
 स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते ।
क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद
 प्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ।।६॥

उद्यत्कान्तिकलापकल्पितनभःस्फूर्जद्वितानप्रभः
 सत्कृष्णागरुधूपवासितवियत्काष्ठान्तरे विश्रुतः ।
सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं
 सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ।। ७॥


क्वापि प्रोद्भटपद्मरागकिरणव्रातेन संध्यायितं
 कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् ।
मध्यालम्बिविशालमौक्तिकरूचा ज्योत्स्नायितं कुत्रचि-
 न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥

उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-
 न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया ।
नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते-
 र्वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥

मणिसदनसमुद्यत्कान्तिधारानुरक्ते
 वियति चरमसंध्याशङ्किनो भानुरथ्याः ।
शिथिलितगतकुप्यत्सूतहुंकारनादैः
 कथमपि मणिगेहादुच्चकैरुच्चलन्ति ॥ १० ॥

भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना
 किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् ।
आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते
 शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥


विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै-
 र्निबद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः ।
विरिञ्चिविष्णुशंकरादिभिर्मुदा तवाम्बिके
 प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ॥ १२ ॥

ध्वनन्मृदङ्गकाहल: प्रगीतकिंनरीगण:
 प्रनृत्तदिव्यकन्यक: प्रवृत्तमङ्गलक्रमः ।
प्रकृष्ट सेवकव्रज: प्रह्रष्टभक्तमण्डलो
 मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥ १३ ॥

प्रवेशनिर्गमाकुलैः स्वकृत्यरक्तमानसै-
 र्बहि:स्थितामरावलीविधीयमानभक्तिभिः ।
विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः
 सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४ ॥

सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि-
 र्गृहीतहेमयष्टिभिर्निरूद्धसर्वदैवतैः ।
असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो
 मदीयमेतु मानसं त्वदीयतुङ्गतोरण: ॥ १५॥


इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा-
  न्योषिद्रूपधरान्स्वादिक्षु निहितान्संचिन्त्य हृत्पङ्कजे ।
शङ्खे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर-
  न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥

गायन्ती: कलवीणयातिमधुरं हुंकारमातन्वती-
  र्द्वाराभ्यासकृतस्थितीरिह सरस्वत्यादिकाः पूजयन् ।
द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां
  मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥

कस्तूरिकाश्यामलकोमलाङ्गीं
  कादम्बरीपानमदालसाङ्गीम् ।
वामस्तनालिङ्गितरत्नवीणां
 मातङ्गकन्यां मनसा स्मरामि ॥ १८ ।।

विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे
  मदाकुलितलोचने विमलभूषणोद्भासिनि ।
तिरस्करिणि तावकं चरणपङ्कजं चिन्तय-
  न्करोमि पशुमण्डलीमलिकमोहदुग्धाशयाम् ।। १९ ।।

प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः
  प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः ।
उपोढकज्जलच्छविच्छटाविराजिविग्रहा:
  कपालशूलधारिणी: स्तुवे त्वदीयदूतिकाः ॥ २० ॥

स्फूर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुरः स्थापितै-
  र्दीपोद्भासिशरावशोभितमुखैः कुम्भैर्नवैः शोभिना ।
स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया
  युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥ २१ ॥

आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारान्वितं
  दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् ।
धूपोद्गारिसुगन्धिसंभ्रममिलद्भृङ्गावलीगुञ्जितं
  कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ।।२२।।

कनकरचिते पञ्चप्रेतासनेन विराजिते
  मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे ।
कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे
  हृदयकमले प्रादुर्भूतां भजे परदेवताम् ।। २३ ।।


सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां
 जृम्भामञ्जुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् ।
सेवायातसमस्तसंनिधिसखी: संमानयन्तीं दृशा
 संपश्यन्परदेवतां परमहो मन्ये कृतार्थं जनुः ॥ २४ ॥

उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते
 भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते ।
नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां
 प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥

पाद्यं ते परिकल्पयामि पदयोरर्घ्यं तथा हस्तयोः
 सौधीभिर्मधुपर्कमम्ब मधुरं धाराभिरास्वादय ।
तोयेनाचमनं विधेहि शुचिना गाङ्गेन मत्कल्पितं
 साष्टाङ्गं प्रणिपातमीशदयिते दृष्टया कृतार्थी कुरु ।।

मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे
 देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् ।
सुप्रक्षालितमाननं विरचयस्निग्धाम्बरपोञ्छनं
 द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय ॥२७॥


निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना-
 लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम् ।
महेशि करुणानिधे तव दृगन्तपातोत्सुका-
 न्विलोकय मनागमूनुभयसंस्थितान्दैवतान् ॥ २८ ॥

हेमरत्नवरणेन वेष्टितं
 विस्तृतारुणवितानशोभितम् ।
सज्जसर्वपरिचारिकाजनं
 पश्य मज्जनगृहं मनो मम ॥२९॥

कनककलशजालस्फाटिकस्नानपीठा-
 द्युपकरणविशालं गन्धमत्तालिमालम् ।
स्फुरदरुणवितानं मञ्जुगन्धर्वगानं
 परमशिवमहेले मज्जनागारमेहि ।। ३० ।।

पीनोत्तुङ्गपयोधरा: परिलसत्संपूर्णचन्द्रानना
 रत्नस्वर्णविनिर्मिता: परिलसत्सूक्ष्माम्बरप्रावृताः ।
हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं
 तैलं कङ्कतिकऻ करेषु दधतीर्वन्देऽम्ब ते दासिकाः ॥

8. S. 13


तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति-
 र्नीचैरुज्झितकञ्चुकोपरिहितारक्तोत्तरीयाम्बरा ।
वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना-
 क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ।।

अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितं
 काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय ।
गीते किंनरकामिनीभिरभितो वादो मुदा वादिते
 नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ।।

कृतपरिकरबन्धास्तुङ्गपीनस्तनाढ्या
 मणिनिवहनिबद्धा हेमकुम्भीर्दधानाः ।
सुरभिसलिलनिर्यद्गन्धलुब्धालिमाला:
 सविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥ ३४ ॥

उद्गन्धैरगरुद्रवैः सुरभिणा कस्तूरिकावारिणा
 स्फूर्जत्सौरभयक्षकर्दमजलै: काश्मीरनीरैरपि ।
पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथीभरैः
 स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु ।।


प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनं
 कुर्वे केशकलापमायततरं धूपोत्तमैर्धूपितम् ।
आलीबृन्दविनिर्मितां यवनिकामास्थाप्य रत्नप्रभं
 भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम् ॥३६॥

पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके
 सूक्ष्मं स्निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम् ।
मुक्तारत्नविचित्रमरचनाचारुप्रभाभास्वरं
 नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥

विलुलितचिकुरेण च्छादितांसप्रदेशे
 मणिनिकरविराजत्पादुकान्यस्तपादे।
सुललितमवलम्ब्य द्राक्सखीमंसदेशे
 गिरिशगृहिणि भूषामण्टपाय प्रयाहि ।। ३८ ॥

लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली-
 समुल्लसितकान्तिभिः कलितशक्रचापव्रजे
महाभरणमण्डपे निहितहेमसिंहासनं
 सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥ ३९ ॥


स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं
 सीमन्तं विरचय चारु विमलं सिन्दूररेखान्वितम ।
मुक्ताभिग्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं
 प्रान्ते मौक्तिकगुच्छकोपलतिकां प्रश्नामि वेणीमिमाम् ।।

विलम्बिवेणीमुजगोत्तमाङ्ग-
 स्फुरन्मणिभ्रान्तिमुपानयन्तम् ।
स्वरोचिषोल्लासितकेशपाशं
 महेशि चूडामणिमर्पयामि ॥ ४१ ॥

त्वामाश्रयद्भिः कबरीतमिस्रै-
 र्बन्दीकृतं द्रागिव भानुबिम्बम् ।
मृडानि चूडामणिमादधानं
 वन्दामहे तावकमुत्तमाङ्गम् ॥ ४२ ॥

स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं
 विलम्बिमौक्तिकच्छटाविराजितं समन्ततः ।
निबद्धलक्षचक्षुषा भवेन भूरि भावितं
 समर्पयामि भास्वरं भवानि फालभूषणम ।। ४३ ॥


मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके
 कुर्वाणे किल कामवैरिमनसः कंदर्पबाणप्रभाम् ।
माध्वीपानमदारुणेऽतिचपले दीर्घे दृगम्भोरुहे
 देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ।।

मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां
 देवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् ।
उत्सिक्ताधरबिम्बकान्तिविसरैर्भौमीभवन्मौक्तिकां
 महत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥४५॥

उडुकृतपरिवेषस्पर्धया शीतभानो-
 रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् ।
अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं
 श्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् ॥ ४६ ।।

मरकतवरपद्मरागहीरो-
 त्थितगुलिकात्रितयावनद्धमध्यम् ।
विततविमलमौक्तिकं च
 कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७ ।।


नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल-
 व्याप्तैराभरणैर्विराजितगलां मुक्ताच्छटालंकृताम् ।
मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल-
 व्रातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय ।।

अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः
 कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी ।
मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै-
 र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः ॥

करसरसिजनाले विस्फुरत्कान्तिजाले
 विलसदमलशोभे चञ्चदीशाक्षिलोभे ।
विविधमणिमयूखोद्भासितं देवि दुर्गे
 कनककटकयुग्मं बाहुयुग्मे निधेहि ।। ५० ॥

व्यालम्बमानसितपट्टकगुच्छशोभि
 स्फूर्जन्मणीघटितहारविरोचमानम् ।
मातर्महेशमहिले तव बाहुमूले
 केयूरकद्वयमिदं विनिवेशयामि ॥ ५१ ॥

विततनिजमयूखैर्निर्मितामिन्द्रनीलै-
 विजितकमलनालालीनमत्तालिमालाम् ।
मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां
 कलय वलयराजी हस्तमूले महेशि ।। ५२ ॥

नीलपट्टमृदुगुच्छशोभिता-
 बद्धनैकमणिजालमञ्जुलाम् ।
अर्पयामि वलयात्पुर:सरे
 विस्फुरत्कनकतैतृपालिकाम् ।। ५३ ॥

आलवालमिव पुष्पधन्वना
 बालविद्रुमलतासु निर्मितम् ।
अङ्गुलीषु विनिधीयतां शनै-
 रङ्गुलीयकमिदं मदर्पितम् ॥ ५४॥

विजितहरमनोभूमत्तमातङ्गकुम्भ-
 स्थलविलुलितकूजत्किङ्किणीजालतुल्याम् ।
अविरतकलनादैरीशचेतो हरन्तीं
 विविधमणिनिबद्धां मेखलामर्पयामि ॥ ५५ ॥

व्यालम्बमानवरमौक्तिकगुच्छशोभि
 विभ्राजिहाटकपुटद्वयरोचमानम् ।
हेम्ना विनिर्मितमनेकमाणिप्रबन्धं
 नीवीनिबन्धनगुणं विनिवेदयामि ॥ ५६ ।।

विनिहतनवलाक्षापङ्कबालातपौधे
 मरकतमणिराजीमञ्जुमञ्जीरघोषे ।
अरुणमणिसमुद्यत्कान्तिधाराविचित्र-
 स्तव चरणसरोजे हंसकः प्रीतिमेतु ।। ५७ ॥

निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां
 कलक्कणितमञ्जुलां गिरिशचित्तसंमोहनीम् ।
अमन्दमणिमण्डलीविमलकान्तिकिम्मीरितां
 निधेहि पदपङ्कजे कनकघुङ्घुरुमम्बिके ।। ५८ ।।

विस्फुरत्सहजरागरञ्जिते
 शिञ्जितेन कलितां सखीजनैः ।
पद्मरागमणिनूपुरद्वयी-
 मर्पयामि तव पादपङ्कजे ॥ ५९॥

पदाम्बुजमुपासितुं परिगतेन शीतांशुना
 कृतां तनुपरम्परामिव दिनान्तरागारुणाम् ।
महेशि नवयावकद्रवभरेण शोणीकृतां
 नमामि नखमण्डलीं चरणपङ्कजस्थां तव ॥ ६०॥

आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै-
 र्देवस्त्रीभिः प्रयत्नादगरुसमुदितैर्धूपितां दिव्यधूपैः ।
उद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां
 चञ्चत्कल्हारमाला परशिवरसिके कण्ठपीठेऽर्पयामि ॥

गृहाण परमामृतं कनकपात्रसंस्थापितं
 समर्पय मुखाम्बुजे विमलवीटिकामम्बिके ।
विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले
 निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि ।। ६२ ।।

आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता
 कूजन्मन्दमरालमञ्जुलगतिप्रोल्लासिभूषाम्बरा ।
आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा
 मच्चित्ते स्थिरतामुपैतु गिरिजा यान्ती सभामण्डपम् ।।

चलन्त्यामम्बायां प्रचलति समस्ते परिजने
 सवेगं संयाते कनकलतिकालंकृतिभरे ।
समन्तादुत्तालस्फुरितपदसंपातजनितै-
 र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम् ।। ६४ ॥

चञ्चद्वेत्रकराभिरङ्गविलसद्भूषाम्बराभिः पुरो-
 यान्तीभिः परिचारिकाभिरमरत्राते समुत्सारिते ।
रुद्धे निर्जरसुन्दरीभिरभित: कक्षान्तरे निर्गतं
 वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ।। ६५ ।।

बेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रत:
 शंभुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय ।
इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती
 दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यै मम ।। ६६ ।।

मन्दं चारणसुन्दरीभिरभितो यान्तीभिरुत्कण्ठया
 नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् ।
वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै-
 र्दित्सन्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया ।।

अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता
 आकाशे समवस्थिता: कतिपये दिक्षु स्थिताश्चापरे ।
संभर्दं शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः
 कुर्वाणा: कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते ॥

अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै-
 रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः ।
कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्याङ्गना
 गच्छन्त: परितः स्तुवन्ति निगमस्तुत्या विरिञ्च्यादयः ।।

कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा-
 देकस्मै भवनिःस्पृहाय परमानन्दस्वरूपां गतिम् ।
अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं
 द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीम् ॥७॥

नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने
 मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोधत्रये ।
नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं
 व्याचक्षाणमुदग्रकान्ति कलये यत्किंचिदाद्यं महः ॥

तव दहनसदृक्षैरीक्षणैरेव चक्षु-
 र्निखिलपशुजनानां भीषयद्भीषणास्यम् ।
कृतवसति परेशप्रेयसि द्वारि नित्यं
 शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि ॥ ७२ ।।

कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभां
 रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् ।
कर्पूरागरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं
 श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम् ।।

स्वस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितं
 नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम् ।
चञ्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्टितं
 नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम् ।।

बदद्भिरभितो मुदा जय जयेति बृन्दारकैः
 कृताञ्जलिपरम्परा विदधती कृतार्थाा दशा ।
अमन्दमणिमण्डलीखचितहेमसिंहासनं
 सखीजनसमावृतं समधित्तिष्ठ दाक्षायणि ।। ७५ ॥

कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारकं
 ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम् ।
विस्फूर्जन्मणिपादुके च दधती: सिंहासनस्याभित-
 स्तिष्ठन्ती: परिचारिकास्तव सदा वन्दामहे सुन्दरि ॥ ७६ ॥

त्वदमलवपुरुद्यत्कान्तिकल्लोलजालैः
 स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् ।
मुहुरपि च विधूते चामरग्राहिणीभिः
 सितकरकरशुभ्रे चामरे चालयामि ॥ ७७ ॥

प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं
 चञ्चन्महामणिविचित्रितहेमदण्डम् ।
उद्यत्सहस्रकरमण्डलचारु हेम-
 च्छत्रं महेशमहिले विनिवेशयामि ॥ ७८ ॥

उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा-
 शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि ।
दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर-
 व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥ ७९ ॥

संतुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां
 पुष्पौधैरभिपूजितां भगवतीं त्वां वन्दमाना मुदा ।
स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदा:
 श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ।।

आधारशक्त्यादिकमाकलय्य
 मध्ये समस्ताधिकयोगिनीं च ।
मित्रेशनाथादिकमत्र नाथ-
 चतुष्टयं शैलसुते नतोऽस्मि ।। ८१ ॥

त्रिपुरासुधार्णवासन-
 मारभ्य त्रिपुरमालिनी यावत् ।
आवरणाष्टकसंस्थित-
 मासनषट्कं नमामि परमेशि ।। ८२ ॥

ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदं
 वायव्ये वटुकं च कजलरुचिं व्यालोपवीतान्वितम् ।
नैर्ऋत्ये महिषासुरप्रमथिनीं दुर्गा च संपूजय-
 न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥८३॥

उड्यानजालंधरकामरूप-
 पीठानिमान्पूर्णगिरिप्रसक्तान् ।
त्रिकोणदक्षाग्रिमसव्यभाग-
 मध्यस्थितान्सिद्धिकरान्नमामि ।। ८४ ।।

लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु-
 स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः ।
आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता-
 नेताश्चक्रबहि:स्थितान्सुरगणान्वन्दामहे सादरम् ।।

तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं
 त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् ।
रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं
 नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे ॥

हृदि भावितदैवतं प्रयत्ना-
 भ्युपदेशानुगृहीतभक्तसंघम् ।
स्वगुरुक्रमसंज्ञचक्रराज-
 स्थितमोघत्रयमानतोऽस्मि मूर्ध्ना ॥ ८७ ॥

हृदयमथ शिरः शिखाखिलाद्ये
 कवचमथो नयनवयं च देवि ।
मुनिजनपरिचिन्तितं तथास्त्रं
 स्फुरतु सदा हृदये षडङ्गमेतत् ॥ ८८ ॥

त्रैलोक्यमोहनमिति प्रथिते तु चक्रे
 चञ्चद्विभूषणगणत्रिपुराधिवासे ।
रेखात्रये स्थितवतीरणिमादिसिद्धी-
 र्मुद्रा नमामि सततं प्रकटाभिधास्ताः ॥ ८९ ।।

सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते
 विस्फूर्जत्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः ।
कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्याम्बरा
 योगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः ।।

महेशि वसुभिर्दलैर्लसति सर्वसंक्षोभणे
 विभूषणगणस्फुरत्रिपुरसुन्दरीसद्मनि ।
अनङ्गकुसुमादयो विविधभूषणोद्भासिता
 दिशन्तु मम काङ्क्षितऺ तनुतराश्च गुप्ताभिधाः ॥९१||

लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे
 शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे ।
स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी-
 मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः ॥९२॥

बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः ।
 कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ।। ९३ ॥

अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे
 मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः ।
नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं
 सर्वज्ञादिकशक्तिबृन्दमनिशं वन्दे निगर्भाभिधम् ॥५४॥

सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते ।
 रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् ।। ९५ ॥

चूताशोकविकासिकेतकरज:प्रोद्भासिनीलाम्बुज-
 प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् ।
रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुशं
 वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ॥१६॥

s S. 14

त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे
 युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी ।
तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी
 करोतु भगमालिनी स्फुरतु मामके चेतसि ॥ ९७ ।।

सर्वानन्दमये समस्तजगतामाकाङ्क्क्षिते बैन्दवे
 भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी ।
आनन्दोल्लसितेक्षणा मणिगणभ्राजिष्णुभूषाम्बरा
 विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी ॥ ९८ ॥

उल्लसत्कनककान्तिभासुरं
 सौरभस्फुरणवासिताम्बरम् ।
दूरत: परिहृतं मधुव्रतै-
 रर्पयामि तव देवि चम्पकम् ॥ ९९ ॥

वैरमुद्धतमपास्य शंभुना
 मस्तके विनिहितं कलाच्छलात् ।
गन्धलुब्धमधुपाश्रितं सदा
 केतकीकुसुममर्पयामि ते ॥ १०० ।।

चूर्णीकृतं द्रागिव पद्मजेन
 त्वदाननस्पर्धिसुधांशुबिम्बम् ।
समर्पयामि स्फुटमञ्जलिस्थं
 विकासिजातीकुसुमोत्करं ते ।। १०१ ॥

अगरुबहलधूपाजस्रसौरभ्यरम्यां
 मरकतमणिराजीराजिहारिस्रगाभाम् ।
दिशि विदिशि विसर्पद्गन्धलुब्धालिमालां
 वकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ।।

ईऺकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ
 त्रैलोक्ये गुरुगम्यमेतदखिलं हार्दऺ च रेखात्मकम् ।
इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय-
 न्नानन्दाम्बुधिमज्जने प्रलभतामानन्दथुं सज्जनः ।।१०३॥
 
धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्धुरं
 दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् ।
रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं
 नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ॥१०४॥

जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं
 शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः ।
प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ-
 क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ॥ १०५ ॥

शिम्बीसूरणशाकबिम्बबृहतीकूश्माण्डकोशातकी-
 वृन्ताकानि पटोलकानि मृदुना संसाधितान्यग्निना।
संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता- .
 न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे ॥१०६।।

निम्बूकार्द्रकचूतकन्दकदलीकौशातकीकर्कटी-
 धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे ।
राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये
 संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ॥

सितयाञ्चितलड्डुकव्रजा-
 न्मृदुपूपान्मृदुलाश्च पूरिकाः । .
परमान्नमिदं च पार्वति
 प्रणयेन प्रतिपादयामि ते ॥ १०८ ॥

 
दुग्धमेतदनले सुसाधितं
 चन्द्रमण्डलनिभं तथा दधि ।
फाणितं शिखरिणी सितासितां
 सर्वमम्ब विनिवेदयामि ते ॥ १०९ ।।

अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं
 ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः ।
देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं
 शक्तिभ्यः समुपाहारामि सकलं देवेशि शंभुप्रिये ।।

वामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णां दधाना-
 मन्येन स्वर्णदर्वीं निजजनहृदयाभीष्टदां धारयन्तीम् ।
सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गीं
 तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णाऺ नमामि ।।

पङ्क्त्योपविष्टान्परितस्तु चक्रं
 शक्त्या स्वयालिङ्गितवामभागान् ।
सर्वोपचारैः परिपूज्य भक्त्या
 तवाम्बिके पारिषदान्नमामि ॥ ११२ ॥

परमामृतमत्तसुन्दरी.
 गणमध्यस्थितमर्कभासुरम् ।
परमामृतधूणितेक्षणं
 किमपि ज्योतिरुपास्महे परम् ॥ ११३ ।।

दृश्यते तव मुखाम्बुजं शिवे
 श्रूयते स्फुटमनाहतध्वनिः ।
अर्चने तव गिरामगोचरे
 न प्रयाति विषयान्तरं मनः || ११४ ॥

त्वन्मुखाम्बुजविलोकनोल्लस-
 त्प्रेमनिश्चलविलोचनद्वयीम् ।
उन्मनीमुपगतां सभामिमां
 भावयामि परमेशि तावकीम् ।। ११५ ।।

चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु
 श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्शं समालम्बताम् ।
जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते
 नित्यानन्दविघूर्णमाननयने नित्यं मनो मज्जतु ॥११६॥

यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं
 मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् ।
यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो
 यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ॥

गणाधिनाथं वटुकं च योगिनी:
 क्षेत्राधिनाथं च विदिक्चतुष्टये ।
सर्वोपचारैः परिपूज्य भक्तितो
 निवेदयामो बलिमुक्तयुक्तिभिः ॥ ११८ ॥

वीणामुपान्ते खलु वादयन्त्यै
 निवेद्य शेषं खलु शेषिकायै ।
सौवर्णभृङ्गारविनिर्गतेन
 जलेन शुद्धाचमनं विधेहि ॥ ११९॥

ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका-
 जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् ।
स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै-
 दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यताम् ॥ १२० ॥

 
काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी
 रम्भा नृत्यति केलिमञ्जुलपदं मात: पुरस्तात्तव ।
कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं
 नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति हृष्यन्ति च ।।

ताम्बूलोद्भासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै-
 श्चक्रस्थैः शक्तिसंधैः परिहृतविषयासङ्गमाकर्ण्यमानम् ।
गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि-
 वीणाझंकारनादं कलय परशिवानन्दसंधानहेतोः ।।

अर्चाविधौ ज्ञानलवोऽपि दूरे
 दूरे तदापादकवस्तुजातम् ।
प्रदक्षिणीकृत्य ततोऽर्चनं ते
 पञ्चोपचारात्मकमर्पयामि ।। १२३ ।।

यथेप्सितमनोगतप्रकटितोपचारार्चिता
 निजावरणदेवतागणवृतां सुरेशस्थिताम् ।
कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै-
 र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥ १२४ ॥

विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं
 प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु ।
चित्तं त्वत्पदभावने व्यभिचरेदृग्वाक्च मे जातु चे-
 त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ।।

क्वाहं मन्दमतिः क्व चेदमखिलैरेकान्तभक्तैः स्तुतं
 ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् ।
कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं
 स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ॥

 नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया ।
 निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ॥ १२७ ॥

    इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
   श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
    श्रीमच्छंकरभगवतः कृतौ
   त्रिपुरसुन्दरीमानसपूजास्तोत्रं
    संपूर्णम् ॥