त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् (शङ्कराचार्यविरचितम्)

त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम्
शङ्कराचार्यः

श्रीमच्छंकराचार्यभगवत्पादविरचितं त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । मम न भजनशक्तिः पादयोस्ते न भक्ति- र्न च विषयविरक्तिर्ध्यानयोगे न सक्तिः । इति मनसि सदाहं चिन्तयन्नाद्यशक्ते रुचिरवचनपुष्पैरर्चनं संचिनोमि ॥ १ ॥ व्यासं हाटकविग्रहैर्जलचरैरारूढदेवव्रजैः पोतैराकुलितान्तरं मणिधरैर्भूमीधरैर्भूषितम् ।। आरक्तामृतसिन्धुमुद्धरचलद्वीचीचयव्याकुल- व्योमानं परिचिन्त्य संततमहो चेतः कृतार्थीभव ॥ २ ॥ तस्मिन्नुज्ज्वलरत्नजालविलसत्कान्तिच्छटाभिः स्फुटं कुर्वाणं वियदिन्द्रचापनिचयैराच्छादितं सर्वतः । उच्चैः शृङ्गनिषण्णदिव्यवनितावृन्दाननप्रोल्लस- द्गीताकर्णननिश्चलाखिलमृगं द्वीपं नमस्कुर्महे ॥३॥ जातीचम्पकपाटलादिसुमनःसौरभ्यसंभावितं ह्रींकारध्वनिकण्ठकोकिलकुहूप्रोल्लासिचूतद्रुमम् आविर्भूतसुगन्धिचन्दनवनं दृष्टिप्रियं नन्दनं चञ्चञ्चञ्चलचञ्चरीकचटुलं चेतश्चिरं चिन्तय ॥४॥ 'शक्तिः' कः 'भक्तिः' ग. २. 'कुल' क. त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । परिपतितपरागैः पाटलक्षोणिभागो विकसितकुसुमोच्चैः पीतचन्द्राकरश्मिः । अलिशुकपिकराजीकूजितैः श्रोत्रहारी स्फुरतु हृदि मदीये नूनमुद्यानराजः ॥ ५॥ रम्यद्वारपुरप्रचारतमसां संहारकारिप्रभ- स्फूर्जत्तोरणभारहारकमहाविस्तारहारद्युते । क्षोणीमण्डलहेमहारविलसत्संसारपारप्रद- श्रोद्यद्भक्तमनोविहार कनकप्राकार तुभ्यं नमः ॥ ६॥ उद्यत्कान्तिकलापकल्पितनभः स्फूर्जद्वितानप्रभः सत्कृष्णागुरुधूपवासितवियत्काष्ठान्तरे विश्रुतः । सेवायातसमस्तदैवतगणैरासेव्यमानोऽनिशं सोऽयं श्रीमणिमण्डपोऽनवरतं मच्चेतसि द्योतताम् ॥ ७ ॥ क्वापि प्रोद्भटपद्मरागकिरणव्रातेन संध्यायितं कुत्रापि स्फुटविस्फुरन्मरकतद्युत्या तमिस्रायितम् मध्यालम्बिविशालमौक्तिकरुचा ज्योत्स्नायितं कुत्रचि- न्मातः श्रीमणिमन्दिरं तव सदा वन्दामहे सुन्दरम् ॥ ८॥ उत्तुङ्गालयविस्फुरन्मरकतप्रोद्यत्प्रभामण्डला-- न्यालोक्याङ्कुरितोत्सवैर्नवतृणाकीर्णस्थलीशङ्कया नीतो वाजिभिरुत्पथं बत रथः सूतेन तिग्मद्युते- र्वल्गावल्गितहस्तमस्तशिखरं कष्टैरितः प्राप्यते ॥ ९ ॥ मणिसदनसमुद्यत्कान्तिधारानुरक्ते वियति चरमसंध्याशङ्किनो भानुरथ्याः । शिथिलितगतकुप्यत्सूतहुंकारनादैः । कथमपि मणिगेहादुच्चकैरुच्चलन्ति ॥ १० ॥ 1 'सुर'क-ग. 'धारक'क 'मण्डपं' क. ४. "मण्डलीमालो' क. काव्यमाला। भक्त्या किं नु समर्पितानि बहुधा रत्नानि पाथोधिना किं वा रोहणपर्वतेन सदनं यैर्विश्वकर्माकरोत् । आ ज्ञातं गिरिजे कटाक्षकलया नूनं त्वया तोषिते शंभौ नृत्यति नागराजफणिना कीर्णा मणिश्रेणयः ॥ ११ ॥ विदूरमुक्तवाहनैर्विनम्रमौलिमण्डलै- र्निर्बद्धहस्तसंपुटैः प्रयत्नसंयतेन्द्रियैः ।। विरञ्चिविष्णुशंकरादिभिर्मुदा तवाम्बिके प्रतीक्ष्यमाणनिर्गमो विभाति रत्नमण्डपः ।। १२ ।। ध्वनन्मृदङ्गकाहलः प्रगीतकिंनरीगणः प्रनृत्तदिव्यकन्यकः प्रवृत्तमङ्गलक्रमः । प्रकृष्टसेवकव्रजः प्रहृष्टभक्तमण्डलो मुदे ममास्तु संततं त्वदीयरत्नमण्डपः ॥ १३ ॥ प्रवेशनिर्गमाकुलैः स्वकृत्यरत्नमानसै- र्बहिःस्थितामरावलीविधीयमानभक्तिभिः। विचित्रवस्त्रभूषणैरुपेतमङ्गनाजनैः सदा करोतु मङ्गलं ममेह रत्नमण्डपः ॥ १४ ॥ सुवर्णरत्नभूषितैर्विचित्रवस्त्रधारिभि- र्गृहीतहेमयष्टिभिर्निरुद्धसर्वदैवतैः । असंख्यसुन्दरीजनैः पुरस्थितैरधिष्ठितो मदीयमेतु मानसं त्वदीयतुङ्गतोरणः ॥ १५ ॥ इन्द्रादींश्च दिगीश्वरान्सहपरीवारानथो सायुधा- न्योषिद्रूपधरान्त्वदिक्षु निहितान्संचिन्त्य हृत्पङ्गजे । शङ्खे श्रीवसुधारया वसुमतीयुक्तं च पद्मं स्मर- न्कामं नौमि रतिप्रियं सहचरं प्रीत्या वसन्तं भजे ॥१६॥ 'इन्द्रादीन्दिगधीश्वरा' क. २. नियत्ता' कु. ३. 'रक्तं' का त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । गायन्तीः कलवीणयातिमधुरं हुंकारमातन्वती- र्द्वाराभ्यासकृतस्थितीरिह सरखत्यादिकाः पूजयन् । द्वारे नौमि मदोन्मदं सुरगणाधीशं मदेनोन्मदां मातङ्गीमसिताम्बरां परिलसन्मुक्ताविभूषां भजे ॥ १७ ॥ कस्तूरिकाश्यामलकोमलाङ्गी कादम्बरीपानमदालसाङ्गीम् । वामस्तनालिङ्गितरत्नवीणां मातङ्गकन्यां मनसा स्मरामि ।। १८ ।। विकीर्णचिकुरोत्करे विगलिताम्बराडम्बरे मदाकुलितलोचने विमलभूषणोद्भासिनि । तिरस्करिणि तावकं चरणपङ्कजं चिन्तय- न्करोमि पशुमण्डलीमालिकमोहदुग्धाशयाम् ॥ १९ ।। प्रमत्तवारुणीरसैर्विघूर्णमानलोचनाः प्रचण्डदैत्यसूदनाः प्रविष्टभक्तमानसाः उपोढकज्जलच्छविच्छटाविराजिविग्रहाः कपालशूलधारिणीः स्तुवे त्वदीयदूतिकाः ॥ २० ॥ स्फुर्जन्नव्ययवाङ्कुरोपलसिताभोगैः पुरः स्थापितै- र्दीपोद्भासिशरावशोभितमुखैः कुम्मैर्नवैः शोभिना स्वर्णाबद्धविचित्ररत्नपटलीचञ्चत्कपाटश्रिया युक्तं द्वारचतुष्टयेन गिरिजे वन्दे मणीमन्दिरम् ॥ २१ ॥ आस्तीर्णारुणकम्बलासनयुतं पुष्पोपहारान्वितं दीप्तानेकमणिप्रदीपसुभगं राजद्वितानोत्तमम् । धूपोद्भारिसुगन्धिसंभ्रममिलद्भृङ्गावलीगुञ्जितं कल्याणं वितनोतु मेऽनवरतं श्रीमण्डपाभ्यन्तरम् ।। २२ ।। कनकरचिते पञ्चप्रेतासनेन विराजिते मणिगणचिते रक्तश्वेताम्बरास्तरणोत्तमे । कुसुमसुरभौ तल्पे दिव्योपधानसुखावहे हृदयकमले प्रादुर्भूतां सजे परदेवताम् ॥ २३ ।। "संधिकमोहमुग्धाशयाम् का ‘र्दीपोद्भा 'राश्चितम् क. तव० मु०११ काव्यमाला। सर्वाङ्गस्थितिरम्यरूपरुचिरां प्रातः समभ्युत्थितां जृम्भामञ्जुमुखाम्बुजां मधुमदव्याघूर्णदक्षित्रयाम् । सेवायातसमस्तसंनिधिसखीः संमानयन्तीं दृशा संपश्यन्परदेवतां परमहो मन्ये कृतार्थे जनुः ॥ २४ ॥ उच्चैस्तोरणवर्तिवाद्यनिवहध्वाने समुज्जृम्भिते भक्तैर्भूमिविलग्नमौलिभिरलं दण्डप्रणामे कृते । नानारत्नसमूहनद्धकथनस्थालीसमुद्भासितां प्रातस्ते परिकल्पयामि गिरिजे नीराजनामुज्ज्वलाम् ॥ २५ ॥ पाद्यं ते परिकल्पयामि पदयोरर्ध्ये तथा हस्तयोः सौधीमिर्मधुपर्कमम्ब मधुरं धाराभिराखादय । तोचेनाचमनं विधेहि शुचिना गाङ्गेनः मत्कल्पितं साष्टाङ्गं प्रणिपातमीशदयिते दृष्ट्या कृतार्थीकुरु ॥ २६ ॥ मातः पश्य मुखाम्बुजं सुविमले दत्ते मया दर्पणे देवि स्वीकुरु दन्तधावनमिदं गङ्गाजलेनान्वितम् । सुप्रक्षालितमाननं विरचयन्स्निग्धाम्बरप्रोञ्छनं द्रागङ्गीकुरु तत्त्वमम्ब मधुरं ताम्बूलमास्वादय ॥ २७॥ निधेहि मणिपादुकोपरि पदाम्बुजं मज्जना- लयं व्रज शनैः सखीकृतकराम्बुजालम्बनम् । महेशि करुणानिधे तव हगन्तपातोत्सुका- न्विलोकय मनागमूनुभयसंस्थितान्दैवताम् ॥ २८ ॥ हेमरत्नवरणेन वेष्टितं विस्तृतारुणवितानशोभितम् । सज्जसर्वपरिचारिकाजनं पश्य मज्जनगृहं मनो मम ॥ ३९ ॥ कनककलशजालस्फाटिकस्नानपीठा- द्युपकरणविशालं गन्धमत्तालिमालम् स्फुरदरुणवितानं मञ्जुगन्धर्वगानं परमशिवमहेले मज्जनागारमेहि ॥ ३०॥ 'समभ्युच्छितां' क त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । पीनोत्तुङ्गपयोधराः परिलसत्संपूर्णचन्द्रानना रत्नस्वर्णविनिर्मिताः परिलसत्सूक्ष्माम्बरप्रावृताः। हेमस्नानघटीस्तथा मृदुपटीरुद्वर्तनं कौसुमं तैलं कङ्कतिकां करेषु दधतीर्वन्देऽम्ब ते दासिकाः ॥ ३१॥ तत्र स्फाटिकपीठमेत्य शनकैरुत्तारितालंकृति- र्नीचैरुज्झितकञ्जुकोपरिहितारक्तोत्तरीयाम्बरा । वेणीबन्धमपास्य कङ्कतिकया केशप्रसादं मना- क्कुर्वाणा परदेवता भगवती चित्ते मम द्योतताम् ॥ ३२ ॥ अभ्यङ्गं गिरिजे गृहाण मृदुना तैलेन संपादितं काश्मीरैरगरुद्रवैर्मलयजैरुद्वर्तनं कारय । गीते किंनरकामिनीभिरभितो वाद्ये मुदा वादिते नृत्यन्तीमिह पश्य देवि पुरतो दिव्याङ्गनामण्डलीम् ॥ ३३ ॥ कृतपरिकरबन्धास्तुङ्गपीनस्तनाढ्या मणिनिवहनिबद्धा हेमकुम्भीर्दधानाः । सुरभिसलिलनिर्यद्गन्धलुब्धालिमाला: सविनयमुपतस्थुः सर्वतः स्नानदास्यः ॥ ३४॥ उद्गन्धैरगुरुद्रवैः सुरभिणा कस्तूरिकावारिणा स्फूर्जसौरभयक्षकर्दमजलैः काश्मीरनीरैरपि पुष्पाम्भोभिरशेषतीर्थसलिलैः कर्पूरपाथीभरैः स्नानं ते परिकल्पयामि गिरिजे भक्त्या तदङ्गीकुरु ॥३५॥ प्रत्यङ्गं परिमार्जयामि शुचिना वस्त्रेण संप्रोञ्छनं कुर्वे केशकलापमायततरं घूपोत्तमैर्धूषितम् । आलीवृन्दविनिर्मितां जवनिकामास्थाप्य रत्नप्रभं भक्तत्राणपरे महेशगृहिणि स्नानाम्बरं मुच्यताम् ३६ ।। पीतं ते परिकल्पयामि निबिडं चण्डातकं चण्डिके सूक्ष्मं निग्धमुरीकुरुष्व वसनं सिन्दूरपूरप्रभम् । १ 'हता' क २. 'स्थाय रम्यप्रभा क. ३. 'चन्द्रानकं' क. काव्यमाला। मुक्तारत्नविचित्रहेमरचनाचारुप्रभाभास्वरं नीलं कञ्चुकमर्पयामि गिरिशप्राणप्रिये सुन्दरि ॥ ३७ ।। विलुलितचिकुरेण च्छादितांसप्रदेशे मणिनिकरविराजत्पादुकान्यस्तपादे । सुललितमवलम्ब्य द्राक्सखीमंसदेशे गिरिशगृहिणि भूषामण्डपाय प्रयाहि ।। ३८ ॥ लसत्कनककुट्टिमस्फुरदमन्दमुक्तावली- समुल्लसितकान्तिभिः कलितशक्रचापव्रजे । महाभरणमण्डपे निहितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ कात्यायनि ॥ ३९ ॥ स्निग्धं कङ्कतिकामुखेन शनकैः संशोध्य केशोत्करं सीमन्तं विरचय्य चारु विमलं सिन्दूररेखान्वितम् मुक्ताभिर्ग्रथितालकां मणिचितैः सौवर्णसूत्रैः स्फुटं प्रान्ते मौक्तिकगुच्छकोपलतिकां नश्यामि वेणीमिमाम् ॥ ४० ॥ विलम्बिवेणीभुजगोत्तमाङ्गस्फुरन्मणिभ्रान्तिमुपानयन्तम् । स्वरोचिषोल्लासितकेशपाशं महेशि चूडामणिमर्पयामि ॥ ४१ ॥ त्वामाश्रयद्भिः कबरीतमिस्रैर्बन्दीकृतं द्रागिव भानुबिम्बम् । मृडानि चूडामणिमादधानं वन्दामहे तावकमुत्तमाङ्गम् ॥ ४२ ॥ स्वमध्यनद्धहाटकस्फुरन्मणिप्रभाकुलं विलम्बिमौक्तिकच्छटाविराजितं समन्ततः । निबद्धलक्षचक्षुषा भवेन भूरि भावितं समर्पयामि भास्वरं भवानि मालभूषणम् ॥ ४३ ॥ मीनाम्भोरुहखञ्जरीटसुषमाविस्तारविस्मारके कुर्वाणे किल कामवैरिमनसः कंदर्पबाणप्रभाम् । भाध्वीपानमदारुणेऽतिचपले दीर्घे दृगम्भोरुहे देवि स्वर्णशलाकयोर्जितमिदं दिव्याञ्जनं दीयताम् ॥४४॥ १ 'चिलसत्सिन्द' क २ 'खनद्धमध्यहाटक' क. त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । मध्यस्थारुणरत्नकान्तिरुचिरां मुक्तामुगोद्भासितां दैवाद्भार्गवजीवमध्यगरवेर्लक्ष्मीमधः कुर्वतीम् । उत्सिक्त्ताधरबिम्बकान्तिविसरैर्मौमीभवन्मौक्तिकां मद्देत्तामुररीकुरुष्व गिरिजे नासाविभूषामिमाम् ॥ ४५ ॥ उडुकृतपरिवेषस्पर्धया शीतभानो- रिव विरचितदेहद्वन्द्वमादित्यबिम्बम् । अरुणमणिसमुद्यत्प्रान्तविभ्राजिमुक्तं श्रवसि परिनिधेहि स्वर्णताटङ्कयुग्मम् ॥ ४६॥ मरकतवरपद्मरागहीरोत्थितगुलिकात्रितयावनद्धमध्यम् । विततविमलमौक्तिकं च कण्ठाभरणमिदं गिरिजे समर्पयामि ॥ ४७ ॥ नानादेशसमुत्थितैर्मणिगणप्रोद्यत्प्रभामण्डल- व्याप्तैराभरणैर्विराजितगलां मुक्ताछटालंकृताम् । मध्यस्थारुणरत्नकान्तिरुचिरां प्रान्तस्थमुक्ताफल- व्रातामम्ब चतुष्किकां परशिवे वक्षःस्थले स्थापय । ४८ ॥ अन्योन्यं प्लावयन्ती सततपरिचलत्कान्तिकल्लोलजालैः कुर्वाणा मज्जदन्तःकरणविमलतां शोभितेव त्रिवेणी । मुक्ताभिः पद्मरागैर्मरकतमणिभिर्निर्मिता दीप्यमानै- र्नित्यं हारत्रयी ते परशिवरसिके चेतसि द्योततां नः ॥ ४९ ॥ करसरसिजनाले विस्फुरत्कान्तिजाले विलसदमलशोभे चञ्चदीशाक्षिलोमे । विविधमणिमयूखोद्भासितं देवि दुर्गे कनककटकयुग्मं बाहुयुग्मे निधेहि ॥ ५० ॥ व्यालम्बमानसितपट्टकगुच्छशोभि स्फूर्जन्मणीघटितहारविरोचमानम् । मातर्महेशमहिले तक बाहुमूले केयूरकद्वयमिदं विनिवेशयामि ॥ ५१ ॥ काव्यमाला। विततनिजमयूखैर्निर्मितामिन्द्रनीलै- र्विजितकमलनालालीनमत्तालिमालाम् । मणिगणखचिताभ्यां कङ्कणाभ्यामुपेतां कलय वलयराजी हस्तमूले महेशिः ॥ ५२ ।। नीलपट्टमृदुगुच्छशोभिताबद्धनैकमणिजालमञ्जुलाम् । अर्पयामि बलंयात्पुरःसरे विस्फुरत्कनकतैतृपालिकाम् ॥ ५३ ।। आलबालमिव पुष्पधन्वना बालविद्रुमलतासु निर्मितम् । अङ्गुलीषु विनिधीयतां शनैरङ्गुलीयकमिदं मदर्पितम् ॥ ५४ ॥ विजितहरमनोभूमत्तमातङ्गकुम्भ- स्थलविलुलितकूजत्किङ्किणीजालतुल्याम् । अविरतकलनादैरीशचेतो हरन्तीं विविधमणिनिबद्धां मेखलामर्पयामि ॥ ५५ ॥ व्यालम्बमानवरमौक्तिकगुच्छशोभि- विभ्राजिहाटकपुटद्वयरोचमानम् । हेम्ना विनिर्मितमनेकमणिप्रबन्धं नीवीनिबन्धनगुणं विनिवेदयामि ॥ ५६ ॥ विनिहितनवलाक्षापङ्कबालातपौधे मरकतमणिराजीमञ्जुमञ्जीरघोषे । अरुणमणिसमुद्यत्कान्तिधाराविचित्र- स्तव चरणसरोजे हंसकः प्रीतिमेतु ।। ५७ ।। निबद्धशितिपट्टकप्रवरगुच्छसंशोभितां कलक्वणितमञ्जुलां गिरिशचित्तसंमोहनीम् । अमन्दमणिमण्डलीविमलकान्तिकिर्मीरितां निधेहि पदपङ्कजे कनकघुङ्घु रूमम्बिके ॥ ५८ ॥ विस्फुरत्सहजरागरञ्जिते शिञ्जितेन कलितां सखीजनैः। पद्मरागमणिनूपुरद्वयीमर्पयामि तव पादपङ्कजे ।। ५९ ॥ १ 'ललित' क्र. त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । पदाम्बुजमुपासितुं परिगतेन शीतांशुना कृतां तनुपरम्परामिव दिनान्तरागारुणाम् । महेशि नवयावकद्रवभरेण शोणीकृतां नमामि नखमण्डलीं चरणपङ्कजस्थां तव ।। ६० ॥ आरक्तश्वेतपीतस्फुरदुरुकुसुमैश्चित्रितां पट्टसूत्रै- देवस्त्रीभिः प्रयत्नादगुरुसमुदितैर्धूषितां दिव्यधूपैः उद्यद्गन्धान्धपुष्पंधयनिवहसमारब्धझांकारगीतां चञ्जत्कह्लारमालां परशिवरसिके कण्ठपीऽठेर्पयामि ॥ ६१ ॥ गृहाण परमामृतं कनकपात्रसंस्थापितं समर्पयः मुखाम्बुजे विमलवीटिकामम्बिके । विलोकय मुखाम्बुजं मुकुरमण्डले निर्मले निधेहि मणिपादुकोपरि पदाम्बुजं सुन्दरि ॥ ६२ ॥ आलम्ब्य स्वसखीं करेण शनकैः सिंहासनादुत्थिता कूजन्मन्दमरालमञ्ज्जुलगतिप्रोल्लासिमूषाम्बरा । आनन्दप्रतिपादकैरुपनिषद्वाक्यैः स्तुता वेधसा मच्चित्ते स्थिरतामुपैति(तु) गिरिजा यान्ती सभामण्डपम् ॥६३|| चलन्त्यामम्बायां प्रचलत्ति समस्ते परिजने सवेगं संयाते(१) कनकलतिकालंकृतिभरे । समन्तादुत्तालस्फुरितपदसंपातजनितै- र्झणत्कारैस्तारैर्झणझणितमासीन्मणिगृहम् ।। ६४ ॥ चञ्चद्वेत्रकराभिरङ्गविलसद्भूषाम्बराभिः पुरो- यान्तीभिः परिचारिकाभिरमरव्राते समुत्सारिते। रुद्धे निर्जरसुन्दरीभिरभितः कक्षान्तरे निर्गतं वन्दे नन्दितशंभु निर्मलचिदानन्दैकरूपं महः ॥६५॥ ३. 'र्दिव्यनीभिः' क २. 'कलितललितालंकृतितरे' क. ३ 'रणत्कारैस्तारैर्गु- णगुणितमा क. ४. 'समुद्गीरिते क. काव्यमाला। वेधाः पादतले पतत्ययमसौ विष्णुर्नमत्यग्रतः शंभुर्देहि दृगञ्चलं सुरपतिं दूरस्थमालोकय । इत्येवं परिचारिकाभिरुदिते संमाननां कुर्वती दृग्द्वन्द्वेन यथोचितं भगवती भूयाद्विभूत्यैः मम ॥ ६६ ॥ मन्दं चारणसुन्दरीभिरभितोयान्तीभिरुत्कण्ठया नामोच्चारणपूर्वकं प्रतिदिशं प्रत्येकमावेदितान् । वेगादक्षिपथं गतान्सुरगणानालोकयन्ती शनै- र्लिप्स(र्दित्स)न्ती चरणाम्बुजं पथि जगत्पायान्महेशप्रिया ॥६७॥ अग्रे केचन पार्श्वयोः कतिपये पृष्ठे परे प्रस्थिता आकाशे समवस्थिताः कतिपये दिक्षु स्थिताश्चापरे । संमर्दे शनकैरपास्य पुरतो दण्डप्रणामान्मुहुः कुर्वाणाः कतिचित्सुरा गिरिसुते दृक्पातमिच्छन्ति ते ॥ ६८॥ अग्रे गायति किंनरी कलपदं गन्धर्वकान्ताः शनै- रातोद्यानि च वादयन्ति मधुरं सव्यापसव्यस्थिताः । कूजन्नूपुरनादमञ्जु पुरतो नृत्यन्ति दिव्याङ्गना गच्छन्तः परितः स्तुवन्ति निगमस्तुत्या विरञ्च्यादयः ॥ ६९ ॥ कस्मैचित्सुचिरादुपासितमहामन्त्रौघसिद्धिं क्रमा- देकस्मै भवनिस्पृहाय परमानन्दस्वरूपां गतिम् । अन्यस्मै विषयानुरक्तमनसे दीनाय दुःखापहं द्रव्यं द्वारसमाश्रिताय ददतीं वन्दामहे सुन्दरीम् ॥ ७० ॥ नम्रीभूय कृताञ्जलिप्रकटितप्रेमप्रसन्नानने मन्दं गच्छति संनिधौ सविनयात्सोत्कण्ठमोघत्रये । नानामन्त्रगणं तदर्थमखिलं तत्साधनं तत्फलं व्याचक्षाणमुदग्रकान्ति कलये यत्किंचिदाद्यं महः ॥ ७१ ।। १. मन्दोच्चार ख-ग:-२. 'सानन्दं शनकैरपि स्वधुरतो' क. ३. 'किंनरीकुलमिदं' 'निलये' का त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् तव दहनसदृक्षैरीक्षणैरेव चक्षु- र्निखिलपशुजनानां भीषयद्भीषणास्यम् । कृतवसति परेशप्रेयसि द्वारि नित्यं शरभमिथुनमुच्चैर्भक्तियुक्तो नतोऽस्मि ।। ७२ ।। कल्पान्ते सरसैकदासमुदितानेकार्कतुल्यप्रभां रत्नस्तम्भनिबद्धकाञ्चनगुणस्फूर्जद्वितानोत्तमाम् । कर्पूरागुरुगर्भवर्तिकलिकाप्राप्तप्रदीपावलीं श्रीचक्राकृतिमुल्लसन्मणिगणां वन्दामहे वेदिकाम् ॥ ७३ ।। स्वस्थानस्थितदेवतागणवृते बिन्दौ मुदा स्थापितं नानारत्नविराजिहेमविलसत्कान्तिच्छटादुर्दिनम् । चश्चत्कौसुमतूलिकासनयुतं कामेश्वराधिष्ठितं नित्यानन्दनिदानमम्ब सततं वन्दे च सिंहासनम् ॥ ७४ ॥ वदद्भिरभितो भुदा जय जयेति वृन्दारकैः कृताञ्जलिपरम्परा विदधती कृतार्था दृशा । अमन्दमणिमण्डलीखचितहेमसिंहासनं सखीजनसमावृतं समधितिष्ठ दाक्षायणि ॥ ७९ ॥ कर्पूरादिकवस्तुजातमखिलं सौवर्णभृङ्गारकं ताम्बूलस्य करण्डकं मणिमयं चैलाञ्चलं दर्पणम् । विस्फूर्जन्मणिपादुके च दधतीः सिंहासनस्याभित- स्तिष्ठन्तीः परिचारिकास्तव सदा वन्दामहे सुन्दरि ।। ७६ ॥ त्वदमलबपुरुद्यत्कान्तिकल्लोलजालैः स्फुटमिव दधतीभिर्बाहुविक्षेपलीलाम् मुहुरपि च विधूते चामरग्राहिणीभिः सितकरकरशुभ्रे चामरे चालयामि ।। ७७ ॥ १ 'देवदहन' ख-ग. २. 'शलभ' क. ३. 'नमामि' क. ४. 'सरसै' ख ग. ५ 'दीप्र' क ६ 'कृतां तनु' क. ७ संबन्धसामान्यविवक्षया षष्टी, ८. 'यदमलपुनरुद्यत्का' क ९ 'अर्पयामि' क काव्यमाला. प्रान्तस्फुरद्विमलमौक्तिकगुच्छजालं चञ्चन्महामणिविचित्रितहेमदण्डम् । उद्यत्सहस्रकरमण्डल चारु हेम- छत्रं महेशमहिले विनिवेशयामि ॥ ७८ ॥ उद्यत्तावकदेहकान्तिपटलीसिन्दूरपूरप्रभा- शोणीभूतमुदग्रलोहितमणिच्छेदानुकारिच्छवि। दूरादादरनिर्मिताञ्जलिपुटैरालोक्यमानं सुर- व्यूहैः काञ्चनमातपत्रमतुलं वन्दामहे सुन्दरम् ॥ ७९ ॥ संतुष्टां परमामृतेन विलसत्कामेश्वराङ्कस्थितां पुष्पौधैरभिपूजितां भगवतीं त्वां बन्दमाना मुदा स्फूर्जत्तावकदेहरश्मिकलनाप्राप्तस्वरूपाभिदाः श्रीचक्रावरणस्थिताः सविनयं वन्दामहे देवताः ॥ ८० ॥ आधारशक्त्यादिकमाकलय्य मध्ये समस्ताधिकयोगिनीं च । मित्रेशनाथादिकमत्र नाथचतुष्टयं शैलसुते नतोऽस्मि ।। ८१ ॥ त्रिपुरासुधार्णवासनमारभ्य त्रिपुरमालिनी यावत् । आवरणाष्टकसंस्थितमासनषट्कं नमामि परमेशि ॥ ८२ ॥ ईशाने गणपं स्मरामि विचरद्विघ्नान्धकारच्छिदं वायव्ये बटुक च कज्जलरुचिं व्यालोपवीतान्वितम् । नैर्ऋत्ये महिषासुरप्रमथिनीं दुर्गा च संपूजय- न्नाग्नेयेऽखिलभक्तरक्षणपरं क्षेत्राधिनाथं भजे ॥ ८३ ॥ उड्यानजालंधरकामरूपपीठानिमान्पूर्णगिरिप्रसक्तान् । त्रिकोणदक्षाग्रिमसव्यभागमध्यस्थितान्सिद्धिकरान्नमामि ॥ ८४ ॥ लोकेशः पृथिवीपतिर्निगदितो विष्णुर्जलानां प्रभु- स्तेजोनाथ उमापतिश्च मरुतामीशस्तथा चेश्वरः । १. 'विनिवेदयामि' क.२ 'रपि' क. ३. 'विलस' क. ४. 'औढ्यान' क ५ 'पति' क त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । आकाशाधिपतिः सदाशिव इति प्रेताभिधामागता- नेतांश्चक्रबहिःस्थितान्सुरगणान्वन्दामहे सादरम् ॥ ८५ ॥ तारानाथकलाप्रवेशनिगमव्याजाद्गतासुप्रथं(जाद्भुताशप्रभं) त्रैलोक्ये तिथिषु प्रवर्तितकलाकाष्ठादिकालक्रमम् । रत्नालंकृतिचित्रवस्त्रललितं कामेश्वरीपूर्वकं नित्याषोडशकं नमामि लसितं चक्रात्मनोरन्तरे ।। ८६ ।। हृदि भावितदैवतं प्रयत्नाभ्युपदेशानुगृहीतभक्तसंघम् । स्वगुरुक्रमसंज्ञचक्रराजस्थितमोघत्रयमानतोऽस्मि मूर्ध्ना ।। ८७ ॥ हृदयमथ शिरः शिखाखिलाद्ये कवचमथो नयनत्रयं च देवि । मुनिजनपरिचिन्तितं तथास्त्रं स्फुरतु सदा हृदये षडङ्गमेतत् ॥ ८८ ॥ त्रैलोक्यमोहनमिति प्रथिते तु चक्रे चञ्चद्विभूषणगणत्रिपुराधिवासे। रेखात्रये स्थितवतीरणिमादिसिद्धी- र्मुद्रा नमामि सततं प्रकटामिधास्ताः ॥ ८९ ।। सर्वाशापरिपूरके वसुदलद्वन्द्वेन विभ्राजिते विस्फूर्जत्रिपुरेश्वरीनिवसतौ चक्रे स्थिता नित्यशः । कामाकर्षणिकादयो मणिगणभ्राजिष्णुदिव्यान्बरा योगिन्यः प्रदिशन्तु काङ्क्षितफलं विख्यातगुप्ताभिधाः ।। ९० ॥ महेशि वसुभिर्दलैर्लसति सर्वसंक्षोभणे विभूषणगणस्फुरत्रिपुरसुन्दरीसद्मनि । अनङ्गकुसुमादयो विविधभूषणोद्भासिता दिशन्तु मम काङ्क्षितं तनुतराश्च गुप्ताभिधाः ॥ ९१ ॥ लसद्युगदृशारके स्फुरति सर्वसौभाग्यदे शुभाभरणभूषितत्रिपुरवासिनीमन्दिरे । स्थिता दधतु मङ्गलं सुभगसर्वसंक्षोभिणी- मुखाः सकलसिद्धयो विदितसंप्रदायाभिधाः ॥ ९२ ॥ १ 'दुपदेशा' क २ 'चित्रितं' क. ३. 'भिधानाः' क. काव्यमाला। बहिर्दशारे सर्वार्थसाधके त्रिपुराश्रयाः। कुलकौलाभिधाः पान्तु सर्वसिद्धिप्रदायिकाः ॥ ९३ ॥ अन्तःशोभिदशारकेऽतिललिते सर्वादिरक्षाकरे मालिन्या त्रिपुराद्यया विरचितावासे स्थितं नित्यशः । नानारत्नविभूषणं मणिगणभ्राजिष्णु दिव्याम्बरं सर्वज्ञादिकशक्तिवृन्दमनिशं वन्दे निगर्भाभिधम् ॥ ९४ ॥ सर्वरोगहरेऽष्टारे त्रिपुरासिद्धयान्विते । रहस्ययोगिनीर्नित्यं वशिन्याद्या नमाम्यहम् ।। ९५ ॥ चूताशोकविकासिकेतकरजःप्रौद्भासिनीलाम्बुज- प्रस्फूर्जन्नवमल्लिकासमुदितैः पुष्पैः शरान्निर्मितान् । रम्यं पुष्पशरासनं सुललितं पाशं तथा चाङ्कुश वन्दे तावकमायुधं परशिवे चक्रान्तराले स्थितम् ।। ९६ ॥ त्रिकोण उदितप्रभे जगति सर्वसिद्धिप्रदे युते त्रिपुरयाम्बया स्थितवती च कामेश्वरी । तनोतु मम मङ्गलं सकलशर्म वज्रेश्वरी करोतु भगमालिनी स्फुरतु मामके चेतसि ॥ ९७ ।। सर्वानन्दमये समस्तजगतामाकाङ्क्षिते बैन्दवे भैरव्या त्रिपुराद्यया विरचितावासे स्थिता सुन्दरी । आनन्दोल्लसितेक्षणा भणिगणभ्राजिष्णुभूषाम्बरा विस्फूर्जद्वदना परापररहः सा पातु मां योगिनी ।। ९८ ॥ उल्लसत्कनककान्तिभासुरं सौरभस्फुरणवासिताम्बरम् । दूरतः परिहृतं मधुव्रतैरर्पयामि तव देवि चम्पकम् ॥ ९९ ॥ वैरमुद्धतमपास्य शंभुना मस्तके विनिहितं कलाच्छलात् । गन्धलुब्धमधुपाश्रितं सदा केतकीकुसुममर्पयामि ते ॥ १०० ।। चूर्णीकृतं द्रागिब पद्मजेन त्वदाननस्पर्धिसुधांशुबिम्बम् । समर्पयामि स्फुटमञ्जलिस्थं विकासिजातीकुसुमोत्करं ते ॥ १०१ ॥ १ त्रिपुरमालिन्या. २, त्रिपुरासिद्धया चक्रेश्वर्याः ३. त्रिपुरभैरव्या. त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । १२९ अगरुबहलधूपाजस्रसौरभ्यरम्यां मरकतमणिराजीराजिहारिस्रगाभाम् । दिशि विदिशि विसर्पद्गन्धलुब्धालिमालां बकुलकुसुममालां कण्ठपीठेऽर्पयामि ॥ १०२ ॥ ईकारोर्ध्वगबिन्दुराननमधोबिन्दुद्वयं च स्तनौ त्रैलोक्ये गुरुगम्यसेतदखिलं हार्द च रेखात्मकम् । इत्थं कामकलात्मिकां भगवतीमन्तः समाराधय- न्नानन्दाम्बुधिमजने प्रलभतामानन्दथुं सज्जनः ॥ १०३ ।। धूपं तेऽगरुसंभवं भगवति प्रोल्लासिगन्धोद्भुरं दीपं चैव निवेदयामि महसा हार्दान्धकारच्छिदम् । रत्नस्वर्णविनिर्मितेषु परितः पात्रेषु संस्थापितं नैवेद्यं विनिवेदयामि परमानन्दात्मिके सुन्दरि ।। १०४ ॥ जातीकोरकतुल्यमोदनमिदं सौवर्णपात्रे स्थितं शुद्धान्नं शुचि मुद्गमाषचणकोद्भूतास्तथा सूपकाः । प्राज्यं माहिषमाज्यमुत्तममिदं हैयंगवीनं पृथ- क्पात्रेषु प्रतिपादितं परशिवे तत्सर्वमङ्गीकुरु ।। १०५ ॥ दुर्गे रोहितखण्डमण्डजपलं कौर्माजखाङ्गं पृथ- क्षट्त्रिंशन्ति(? सुसाधितानि मृदुना सब्यञ्जनान्यग्रिना । संपन्नानि च वेसवारविसरैर्दिव्यानि भक्त्या कृता- न्यग्रे ते विनिवेदयामि गिरिजे सौवर्णपात्रव्रजे ॥ १०६ ।। माषव्यञ्जनजातमुत्तमतमं मुद्गप्रकारान्बहू- न्हारिद्रक्कथिकारसैर्विलुलितापूपांस्तथा चाणकान् । मांसं सर्पिषि साधितं बहुतरं शूलाकृतं मारिचं मत्स्यांश्चैव सुसंस्कृतान्परशिवे संस्थापयाम्यग्रतः ॥ १०७ ।। 'शिम्बीसूरणशाकबिम्बबृहतीकूष्माण्डकोशातकीवृन्ताकानि पटोलकानि मृदुना संसाधितान्याग्रेना' ख. नव० गु० काव्यमाला। निम्बूकार्द्रकचूतकन्दकदलीकौशातकीकर्कटी- धात्रीबिल्वकरीरकैर्विरचितान्यानन्दचिद्विग्रहे । राजीभिः कटुतैलसैन्धवहरिद्राभिः स्थितान्पातये संधानानि निवेदयामि गिरिजे भूरिप्रकाराणि ते ।। १०८॥ सितयाञ्चितलड्डुकव्रजान्मृदुपूपान्मृदुलाश्च पूरिकाः । परमान्नमिदं च पार्वति प्रणयेन प्रतिपादयामि ते ॥ १०९ ॥ दुग्धमेतदनले सुसाधितं चन्द्रमण्डलनिभं तथा दधि । फणितं शिखरिणीं सितासितां सर्वमम्ब विनिवेदयामि ते॥११०॥ अग्रे ते विनिवेद्य सर्वममितं नैवेद्यमङ्गीकृतं ज्ञात्वा तत्त्वचतुष्टयं प्रथमतो मन्ये सुतृप्तां ततः । देवीं त्वां परिशिष्टमम्ब कनकामत्रेषु संस्थापितं शक्तिभ्यः समुपाहरामि सकलं देवेशि शंभुप्रिये ॥१११॥ बामेन स्वर्णपात्रीमनुपमपरमान्नेन पूर्णां दधाना- मन्येन स्वर्णदवी निजजनहृदयाभीष्टदां धारयन्तीम् । सिन्दूरारक्तवस्त्रां विविधमणिलसद्भूषणां मेचकाङ्गीं तिष्ठन्तीमग्रतस्ते मधुमदमुदितामन्नपूर्णां नमामि ॥ ११२ ।। पङ्क्त्योपविष्टान्परितस्तु चक्रं शक्त्या खयालिङ्गितबामभागान् । सर्वोपचारैः परिपूज्य भक्त्या तवाम्बिके पारिषदान्नमामि ॥ ११३॥ परमामृतमत्तसुन्दरीगणमध्यस्थितमर्कभासुरम् । परमामृतधूर्णितेक्षणं किमपि ज्योतिरुपास्महे परम् ॥ ११४ ।। दृश्यते तव मुखाम्बुजं शिवे श्रूयते स्फुटमनाहतध्वनिः । अर्चने तव गिरामगोचरे न प्रयाति विषयान्तरं मनः ।। ११५ ॥ त्वन्मुखाम्बुजविलोकनोल्लसत्प्रेमनिश्चलविलोचनद्वयीम् । उन्मनीमुपगतां सभामिमां भावयामि परमेशि तावकीम् ॥ ११६ ॥ चक्षुः पश्यतु नेह किंचन परं घ्राणं न वा जिघ्रतु श्रोत्रं हन्त शृणोतु न त्वगपि न स्पर्श समालम्बताम् । त्रिपुरसुन्दरीमानसिकोपचारपूजास्तोत्रम् । जिह्वा वेत्तु न वा रसं मम परं युष्मत्स्वरूपामृते नित्यानन्दविधूर्णमाननयने नित्यं मनो मज्जतु ॥ ११७ ॥ यस्त्वां पश्यति पार्वति प्रतिदिनं ध्यानेन तेजोमयीं मन्ये सुन्दरि तत्त्वमेतदखिलं वेदेषु निष्ठां गतम् । यस्तस्मिन्समये तवार्चनविधावानन्दसान्द्राशयो यातोऽहं तदभिन्नतां परशिवे सोऽयं प्रसादस्तव ।। ११८ ॥ गणाधिनाथं बटुकं च योगिनीः क्षेत्राधिनाथं च विदिक्चतुष्टये । सर्वोपचारैः परिपूज्य भक्तितो निवेदयामो बलिमुक्तयुक्तिभिः ॥११९॥ वीणामुपान्ते खलु वादयन्त्यै निवेद्य शेषं खलु शेषिकायै । सौवर्णभृङ्गारविनिर्गतेन जलेन शुद्धाचमनं विधेहि ॥ १२० ।। ताम्बूलं विनिवेदयामि विलसत्कर्पूरकस्तूरिका- जातीपूगलवङ्गचूर्णखदिरैर्भक्त्या समुल्लासितम् । स्फूर्जद्रत्नसमुद्गकप्रणिहितं सौवर्णपात्रे स्थितै- र्दीपैरुज्ज्वलमन्नचूर्णरचितैरारार्तिकं गृह्यताम् ।। १२१ ॥ काचिद्गायति किंनरी कलपदं वाद्यं दधानोर्वशी रम्भा नृत्यति केलिमञ्जुलपदं मातः पुरस्तात्तव । कृत्यं प्रोज्झ्य सुरस्त्रियो मधुमदव्याघूर्णमानेक्षणं नित्यानन्दसुधाम्बुधिं तव मुखं पश्यन्ति हृष्यन्ति च ॥१२२॥ ताम्बूलोद्भासिवक्त्रैस्त्वदमलवदनालोकनोल्लासिनेत्रै- श्वक्रस्थैः शक्तिसंघैः परिहृतविषयासङ्गमाकर्ण्यमानम् । गीतज्ञाभिः प्रकामं मधुरसमधुरं वादितं किंनरीभि- र्वीणाझंकारनादं कलय परशिवानन्दसंधानहेतोः ॥ १२३ ।। अर्चाविधौ ज्ञानलवोऽपि दूरे दूरे तदापादकवस्तुजातम् । प्रदक्षिणीकृत्य ततोऽर्चनं ते पञ्चोपचारात्मकमर्पयामि ॥ १२४ ।। १ 'मुक्ताचित्रचतुष्कशालिनि महासौवर्णपात्रे स्थितैः' ख. २. 'सुस्थीकृत्य मनो- परा' ख. ३. 'हृष्यत्त्वचः' ख. ४. 'विमलीकृते मुहुश्चित्प्रतिविश्वानन्दनाथचरणेन । मम हृदयदर्पणेऽस्मिन्प्रतिपालिता भावना तेषाम् ॥' इत्यधिकाः काव्यमाला। यथेप्सितमनोगतप्रकटितोपचारार्चितां निजावरणदेवतागणवृतां सुरेशस्थिताम् । कृताञ्जलिपुटो मुहुः कलितभूमिरष्टाङ्गकै- र्नमामि भगवत्यहं त्रिपुरसुन्दरि त्राहि माम् ॥ १२५ ।। विज्ञप्तीरवधेहि मे सुमहता यत्नेन ते संनिधिं प्राप्तं मामिह कांदिशीकमधुना मातर्न दूरीकुरु । चित्तं त्वत्पदभावने व्यभिचरेदृग्वा च मे जातु चे- त्तत्सौम्ये स्वगुणैर्बधान न यथा भूयो विनिर्गच्छति ॥ १२६ ।। काहं मन्दमतिः क्व चेदमखिलरेकान्तभक्तैः स्तुतं ध्यातं देवि तथापि ते स्वमनसा श्रीपादुकापूजनम् । कादाचित्कमदीयचिन्तनविधौ संतुष्टया शर्मदं स्तोत्रं देवतया तया प्रकटितं मन्ये मदीयानने ।। १२७ ॥ नित्यार्चनमिदं चित्ते भाव्यमानं सदा मया । निबद्धं विविधैः पद्यैरनुगृह्णातु सुन्दरी ।। १२८ ॥ इति श्रीपरमहंसपरिव्राजकाचार्यश्रीमच्छंकराचार्यविरचितं श्रीत्रिपुरसुन्दरी- मानसिकोपचारपूजास्तोत्रं समाप्तम् ।