त्रिस्वभावनिर्देशः
[[लेखकः :|]]


॥ नमो मञ्जुश्रिये कुमारभूताय ॥

आचार्यवसुबन्धुप्रणीतः


त्रिस्वभावनिर्देशः

कल्पितः परतन्त्रश्च परिनिष्पन्न एव च ।
त्रयः स्वभावा धीराणां गम्भीरज्ञेयमिष्यते ॥ १ ॥
यत्ख्याति परतन्त्रोऽसौ यथा ख्याति स कल्पितः ।
प्रत्ययाधीनवृत्तित्वात्कल्पनामात्रभावतः ॥ २ ॥
तस्य ख्यातुर्यथाख्यानं या सदाविद्यमानता ।
ज्ञेयः स परिनिष्पन्नस्वभावोऽनन्यथात्वतः ॥ ३ ॥
तत्र किं ख्यात्यसत्कल्पः कथं ख्याति द्वयात्मना ।
तस्य का नास्तिता तेन या तत्राद्वयधर्मता ॥ ४ ॥
असत्कल्पोऽत्र कश्चित्तं यतस्तेन हि कल्प्यते ।
यथा च कल्पयत्यर्थ तथात्यन्तं न विद्यते ॥ ५ ॥
तद्धेतुफलभावेन चित्तं द्विविधमिष्यते ।
यदालयाख्यं विज्ञानं प्रवृत्त्याख्यं च सप्तधा ॥ ६ ॥
संक्लेशवासनाबीजैश्चितत्वाच्चित्तमुच्यते ।
चित्तमाद्यं द्वितीयं तु चित्राकारप्रवृत्तितः ॥ ७ ॥
समासतोऽभूतकल्पः स चैष त्रिविधो मतः ।
वैपाकिकस्तथा नैमित्तिकोऽन्यः प्रातिभासिकः ॥ ८ ॥
प्रथमो मूलविज्ञानं तद्विपाकात्मकं यतः ।
अन्यः प्रवृत्तिविज्ञानं दृश्यदृग्वित्तिवृत्तितः ॥ ९ ॥
सदसत्त्वाद्द्वयैकत्वात्संक्लेशव्यवदानयोः ।
लक्षणाभेदतश्चेष्टा स्वभावानां गंभीरता ॥ १० ॥
सत्त्वेन गृह्यते यस्मादत्यन्ताभाव एव च ।
स्वभावः कल्पितस्तेन सदसल्लक्षणो मतः ॥ ११ ॥
विद्यते भ्रान्तिभावेन यथाख्यानं न विद्यते ।
परतन्त्रो यतस्तेन सदसल्लक्षणो मतः ॥ १२ ॥
अद्वयत्वेन यच्चास्ति द्वयस्याभाव एव च ।
स्वभावस्तेन निष्पन्नः सदसल्लक्षणो मतः ॥ १३ ॥
द्वैविध्यात्कल्पितार्थस्य तदसत्त्वैकभावतः ।
स्वभावः कल्पितो बालैर्द्वयैकत्वात्मको मतः ॥ १४ ॥
प्रख्यानाद्द्वयभावेन भ्रान्तिमात्रैकभावतः ।
स्वभावः परतन्त्राख्यो द्वयैकत्वात्मको मतः ॥ १५ ॥
द्वयाभावस्वभावत्वादद्वयैकस्वभावतः ।
स्वभावः परिनिष्पन्नो द्वयैकत्वात्मको मतः ॥ १६ ॥
कल्पितः परतन्त्रश्च ज्ञेयं संक्लेशलक्षणम् ।
परिनिष्पन्न इष्टस्तु व्यवदानस्य लक्षणम् ॥ १७ ॥
असद्द्वयस्वभावत्वात्तदभावस्वभावतः ।
स्वभावात्कल्पिताज्ज्ञेयो निष्पन्नोऽभिन्नलक्षणः ॥ १८ ॥
अद्वयत्वस्वभावत्वाद्द्वयाभावस्वभावतः ।
निष्पन्नात्कल्पितश्चैव विज्ञेयोऽभिन्नलक्षणः ॥ १९ ॥
यथाख्यानमसद्भावात्तथासत्त्वस्वभावतः ।
स्वभावात्परतन्त्राख्यान्निष्पन्नोऽभिन्नलक्षणः ॥ २० ॥
असद्द्वयस्वभावत्वाद्यथाख्यानास्वभावतः ।
निष्पन्नात्परतन्त्रोऽपि विज्ञेयोऽभिन्नलक्षणः ॥ २१ ॥
क्रमभेदः स्वभावानां व्यवहाराधिकारतः ।
तत्प्रवेशाधिकाराच्च व्युत्पत्त्यर्थं विधीयते ॥ २२ ॥
कल्पितो व्यवहारात्मा व्यवहर्त्रात्मकोऽपरः ।
व्यवहारसमुच्छेदस्वभावश्चान्य इष्यते ॥ २३ ॥
द्वयाभावात्मकः पूर्वं परतन्त्रः प्रविश्यते ।
ततः प्रविश्यते तत्र कल्पमात्रमसद्द्वयम् ॥ २४ ॥
ततो द्वयाभावभावो निष्पन्नोऽत्र प्रविश्यते ।
तथा ह्यसावेव तदा अस्तिनास्तीति चोच्यते ॥ २५ ॥
त्रयोऽप्येते स्वभावा हि अद्वयालम्बलक्षणाः ।
अभावादतथाभावात्तदभावस्वभावतः ॥ २६ ॥
मायाकृतं मन्त्रवशात्ख्याति हस्त्यात्मना यथा ।
आकारमात्रं तत्रास्ति हस्ती नास्ति तु सर्वथा ॥ २७ ॥
स्वभावः कल्पितो हस्ती परतन्त्रस्तदाकृतिः ।
यस्तत्र हस्त्यभावोऽसौ परिनिष्पन्न इष्यते ॥ २८ ॥
असत्कल्पस्तथा ख्याति मूलचित्ताद्द्वयात्मना ।
द्वयमत्यन्ततो नास्ति तत्रास्त्याकृतिमात्रकम् ॥ २९ ॥
मन्त्रवन्मूलविज्ञानं काष्ठवत्तथता मता ।
हस्त्याकारवदेष्टव्यो विकल्पो हस्तिवद्द्वयम् ॥ ३० ॥
अर्थतत्त्वप्रतिवेधे युगपल्लक्षणत्रयम् ।
परिज्ञा च प्रहाणं च प्राप्तिश्चेष्टा यथाक्रमम् ॥ ३१ ॥
परिज्ञानुपलम्भोऽत्र हानिरख्यानमिष्यते ।
उपलम्भनिमित्ता तु प्राप्तिः साक्षात्क्रियापि सा ॥ ३२ ॥
द्वयस्यानुपलम्भेन द्वयाकारो विगच्छति ।
विगमात्तस्य निष्पन्नो द्वयाभावोऽधिगम्यते ॥ ३३ ॥
हस्तिनोऽनुपलम्भश्च विगमश्च तदाकृतेः ।
उपलम्भश्च काष्ठस्य मायायां युगपद्यथा ॥ ३४ ॥
विरुद्धधीवारणत्वाद्बुद्ध्या वैयर्थ्यदर्शनात् ।
ज्ञानत्रयानुवृत्तेश्च मोक्षापत्तिरयत्नतः ॥ ३५ ॥
चित्तमात्रोपलम्भेन ज्ञेयार्थानुपलम्भता ।
ज्ञेयार्थानुपलम्भेन स्याच्चित्तानुपलम्भता ॥ ३६ ॥
द्वयोरनुपलम्भेन धर्मधातूपलभ्भता ।
धर्मधातूपलम्भेन स्याद्विभुत्वोपलम्भता ॥ ३७ ॥
उपलब्धविभुत्वश्च स्वपरार्थप्रसिद्धितः ।
प्राप्नोत्यनुत्तरां बोधिं धीमान् कायत्रयात्मिकाम् ॥ ३८ ॥

इति त्रिस्वभावनिर्देशः समाप्तः ॥
कृतिराचार्यवसुबन्धुपादानामिति ॥

"https://sa.wikisource.org/w/index.php?title=त्रिस्वभावनिर्देशः&oldid=396741" इत्यस्माद् प्रतिप्राप्तम्