दक्षसंहिता ।

प्रथमोऽध्यायः ।

सर्व्वधर्म्मार्थतत्त्वज्ञः सर्व्ववेदविदां वरः ।
पारगः सर्व्वविद्यानां दक्षो नाम प्रजापतिः ।। 1.1 ।।
उत्‌पत्तिः प्रलयश्चैव स्थितिः संहार एव च ।
आत्मा चात्मनि तिष्ठेत आत्मा ब्रह्मण्यवस्थितः ।। 1.2 ।।
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा ।
एतेषान्तु हितार्थाय दक्षः शास्त्रमकल्पयत् ।। 1.3 ।।
जातमात्रः शिशुस्तावद्यावदष्टौ समा वयः ।
स हि गर्भसमो ज्ञेयो व्यक्तिमात्रप्रदर्शितः ।। 1.4 ।।
भक्ष्याभक्ष्ये तथाः पेये वाच्यावाच्ये तथानृते ।
तस्मिन् काले न दोषोऽस्ति स यावन्नोपनीयते ।। 1.5 ।।
उपनीतस्य दोषोऽस्ति क्रियमाणैर्विगर्हितैः ।
अप्राप्तव्यवहारोऽसौ यावत् षोड़शवार्षिकः ।। 1.6 ।।
स्वीकरोति यदा वेदं चरेद्वेदव्रतानि च ।
ब्रह्मचारी भवेत् तावदूर्द्धं स्नातो भवेद्‌गृही ।। 1.7 ।।
द्विविधो ब्रह्मचारौ तु स्मृतः शास्त्रे मनीषिभिः ।
उपकुर्व्वाणकस्त्वाद्यो द्वितीयो नैष्ठिकः स्मृतः ।। 1.8 ।।
यो गृहाश्रममास्थाय ब्रह्मचारी भवेत् पुनः ।
न यतिर्न वनस्थश्च सर्व्वाश्रमविवर्ज्जितः ।। 1.9 ।।
अनाश्रमी न तिष्ठेत्तु दिनमेकमपि द्विजः ।
आश्रमेण विना तिष्ठन् प्रायश्चित्तीयते हि सः ।। 1.10 ।।
जपे होमे तथा दाने स्वाध्याये चरतेस्तु यः ।
नासो तत्फलमाप्नाति कुर्व्वाणोऽप्याश्रमाच्च्युतः ।
त्रयाणामानुलोम्यं हि प्रातिलोम्यं न विद्यते ।। 1.11 ।।
प्रातिलाम्येन यो याति न तस्मात पापकृत्तमः ।
मेखलाजिनदण्डेन ब्रह्यचारी तु लक्ष्यते ।। 1.12 ।।
गृहस्थो देवयज्ञाद्यैर्नखलोम्ना वनाश्रितः ।
त्रिदण्डेन यतिश्चैव लक्षणानि पृथक् पृथक् ।। 1.13 ।।
यस्येतल्लक्षणं नास्ति प्रायश्चिती न चाश्रमी ।
उक्तकर्म्मक्रमेणोक्तो न कालोमुनिभिः स्मृतः ।। 1.14 ।।
द्विजानान्तु हितार्थायः दक्षस्तु स्वयमव्रवीत् ।। 1.15 ।।
इति दाक्षे धर्म्मशास्त्रे प्रथमोऽध्यायः ।। 1 ।।

द्वितीयोऽध्यायः ।

प्रातरूत्थाय कर्त्तव्यं यद्द्विजेन दिने दिने ।
तत् सर्व्वं सम्प्रवक्ष्यामि द्विजानामुपकारकम् ।। 2.1 ।।
उदयास्तमयं यावन्न विप्रः क्षणिको भवेत् ।
नित्यनैमित्तिकैर्मुक्तः काम्यैश्चान्यैरगर्हितः ।। 2.2 ।।
यः स्वकर्म्म परित्यज्य यदन्यत् कुरूते द्विजः ।
अज्ञानाद्यदि वा माहात् स तेन पतितो भवेत् ।। 2.3 ।।
दिवसस्याद्यभागे तु कृत्यं तस्योपदिश्यते ।
द्वितीये च तृताये च चतुर्थे पञ्चमे तथा ।। 2.4 ।।
षष्ठे च सप्तमे चैव अष्टमे च पृथक् पृथक् ।
विभागेष्वेषु यत् कर्म्म तत् प्रवक्ष्याम्यशेषतः ।। 2.5 ।।
उषः काले तु सम्प्राप्ते शौच कृत्वा यथार्थवत् ।
ततः स्नानं प्रकुर्व्वीत दन्तधावनपूर्व्वकम् ।। 2.6 ।।
अत्यन्तमलिनः कायो नवच्छिद्रसमन्वितः ।
स्रवत्येष दिवारात्रौ प्रातः स्नानं विशोधनम् ।। 2.7 ।।
क्लिद्यन्ति हि प्रसुप्तस्य इन्द्रियाणि स्रवन्ति च ।
अङ्गानि समतां यान्ति उत्तमान्यधमैः सह ।। 2.8 ।।
नानास्वेदसमाकीर्णः शयनादुप्त्यितः पुमान् ।
अस्नात्वा नाचरेत् कर्म्म जपहोमादि किञ्चन ।। 2.9 ।।
प्रातरूत्थाय यो विप्रः प्रातःस्नायी भवेत् सदा ।
समस्तजन्मजं पापं त्रिभिर्ब्बर्षैर्व्व्यपोहति ।। 2.10 ।।
उषस्युषसि यत् स्नानं सन्ध्यायामुदिते रवौ ।
प्राजापत्येन तत्तुल्यं महापातकनाशनम् ।। 2.11 ।।
प्रातः स्थानं प्रशंसन्ति दृष्टाट्टष्टकरं हि तत् ।
सर्व्वमर्हति पूतात्मा प्रातः स्नायौ जपादिकम् ।। 2.12 ।।
स्नानादनन्तरं तावदुपस्पर्शनमुच्यते ।
अनेन तु विधानेन आचान्तः शुचितामियात् ।। 2.13 ।।
प्रक्षाल्य पादौ हस्तौ च त्रिः पिवेदम्वु वीक्षितम् ।
संवृत्याङ्गुष्ठमूलेन द्विः प्रमृज्यात्ततो मुखम् ।। 2.14 ।।
संहत्य तिसृभिः पूर्व्वमास्ययमेवमुपस्पृशेत् ।
ततः पादौ समभ्युक्ष्य अङ्गानि समुस्पृशेत् ।। 2.15 ।।
अङ्गुष्ठेन प्रदेशिन्या घ्राण पश्चादनन्तरम् ।
अङ्गुष्ठानामिकाभ्याञ्च चक्षुः श्रोत्रे पुनः पुनः ।। 2.16 ।।
कनिष्ठाङ्गुष्ठया नाभिं हृदयञ्च तलेन वै ।
सर्व्वाभिस्तु शिरः पश्चाद्वाहू चाग्रेण संस्पृशेत् ।। 2.17 ।।
सन्ध्यायाञ्च प्रभाते च मध्याह्ने च ततः पुनः ।
सन्ध्यां नोपासते यस्तु ब्राक्षणो हि विशेषतः ।
स जीवन्नेव शूद्रः स्यान्मृतः श्वा चैव जायते ।। 2.18 ।।
सन्ध्याहौनोऽशुचिर्नित्यमनर्हः सर्व्वकर्म्मसु ।
यदन्यत् कुरूते कर्म्म न तस्य फलमश्रुते ।। 2.19 ।।
सन्ध्याकर्म्मावसाने तु स्वयं होमो विधीयते ।
स्वयं होमे फलं यत्तु तदन्येन न जायते ।। 2.20 ।।
ऋत्विक्पुत्रो गुरूर्भ्राता भागिनेयोऽथ विट्‌पतिः ।
एभिरेव हुतं यत्तु तद्धुतं स्वयमेव हि ।। 2.21 ।।
देवकार्य्यं ततः कृत्वा गुरूमङ्गलवीक्षणम् ।
देवकार्य्याणि पूर्व्वाह्ने मनुष्याणाञ्च मध्यमे ।। 2.22 ।।
पितॄणामपराह्ने च कार्य्याण्येतानि यत्नतः ।। 2.23 ।।
पौर्व्वाह्निकन्तु यत् कर्म्म यदि तत् सायमाचरेत् ।
न तस्य फलमाप्नोति वन्ध्यास्त्रीमैथुनं यथा ।। 2.24 ।।
दिवसस्याद्यभागे तु सर्व्वमेतद्विधीयते ।
द्वितीये च तथा भागे वेदाभ्यासो बिधीयते ।। 2.25 ।।
वेदाभ्यासो हि विप्राणां परमं तप उच्यते ।
ब्रह्मयज्ञः स विज्ञेयः ष़ड़ङ्गसहितस्तु सः ।। 2.26 ।।
वेदस्वीकरणं पूर्व्वः विचारोऽभ्यसनं जपः ।
ततो दानञ्च शिष्येभ्यो वेदाभ्यासो हि पञ्चधा ।। 2.27 ।।
समित् पुष्पकुशादीनां स कालः समुदाहृतः ।
तृतीये चैव भागे तु प्योष्यवर्गार्थसाधनम् ।। 2.28 ।।
पिता माता गुरूर्भार्या प्रजा दीनाः समाश्रिताः ।
अभ्यागतोऽतिथिश्चान्यः पोष्यवर्ग उदाहृतः ।। 2.29 ।।
ज्ञातिर्वन्धुजनः क्षीणस्तथानाथः समाश्रितः ।
अन्येऽप्यधनयुक्ताश्च पोष्यवर्ग उदाहृतः ।। 2.30 ।।
भरणं पोष्यवर्गस्य प्रशस्तं स्वर्गसाधनम् ।
नरकं पोड़ने चास्य त्समाद्यन्तेन तं भरेत् ।। 2.31 ।।
सार्व्वभौतिकमन्नाद्यं कर्त्तवन्तु विशेषतः ।
ज्ञानविद्भ्यः प्रदातव्यमन्यथा नरके व्रजेत् ।। 2.32 ।।
स जीवति य एवैको बहुभिश्चोपजीव्यते ।
जीवन्तो मृतकाश्चान्ये य आत्मम्भरयो नराः ।। 2.33 ।।
वह्वर्थे जीव्यते कश्चित् कुटुम्बार्थे तथा पराः ।
आत्मार्थेऽन्यो न शक्लोति स्वोदरेणापि दुःखितः ।। 2.34 ।।
दीनानाथविशिष्टेभ्यो दातव्यं भूतिमिच्छता ।
अदत्तदाना जायन्ते परभाग्योपजीविनः ।। 2.35 ।।
यद्ददाति विशिष्टेभ्यो यज्जुहोति दिने दिने ।
तत्तु वित्तमहं मन्ये शेषं कस्यापि रक्षति ।
चतुर्थे च तथा भागे स्नानार्थं मृदमाहरेत् ।। 2.36 ।।
तिलपुष्पकुशादीनि स्नानञ्चाकृत्रिमे जले ।
नित्यं नैमित्तिकं काम्यं त्रिविधं स्नानमुच्यते ।। 2.37 ।।
तेषां मध्ये तु यन्नित्यं तत् पुनर्भिद्यते त्रिधा ।
मलापहरणं पश्चान्मन्त्र वत्तु जले स्मृतम् ।। 2.38 ।।
सन्धअयास्नानमुभाभ्याञ्च स्नानभेदाः प्रकीर्त्तिताः ।
मार्ज्जनं जलमध्ये तु प्राणायामो यतस्ततः ।। 2.39 ।।
उपस्थानं ततः पश्चात् सावित्र्या जप उच्यते ।
सविता देवता यस्या मुखमग्निस्त्रिधा स्थितः ।। 2.40 ।।
विश्वामित्र ऋषिश्छन्दो गायत्री सा विशिष्यते ।
पञ्चमे च तथा भागे संविभागो यथार्हतः ।। 2.41 ।।
पितृदेवमनुष्याण्यं कीटानाञ्चोपदिश्यते ।
देवैश्चैव मनुष्यैश्च तिर्य्यगभिश्चोपजीव्यते ।। 2.42 ।।
गृहस्थः प्रत्यहं यस्मात्तस्माज्येष्ठाश्रमौ गृहौ ।
त्रयाणामाश्रमाणन्तु गृहस्थो योनिरूच्यते ।। 2.43 ।।
तेनैव सोदमानेन सीदन्तौहेतरे त्रयः ।
मूलप्राणो भवेत् स्कन्धः स्कन्धाच्छाखाः सपल्लवाः ।। 2.44 ।।
मूलेनैव विनष्टेन सर्व्वमेतद्विनश्यति ।
तस्मात् सर्व्व प्रयत्नेन रक्षितव्यो गृहाश्रमौ ।। 2.45 ।।
राज्ञा चान्यैस्त्रिभिः पूज्या माननीयश्च सर्व्वदा ।
गृहस्थोऽपि क्रियायुक्तो न गृहेण गृहाश्रमी ।। 2.46 ।।
न चैव पुत्रदारेण स्वकर्म्मपरिवर्ज्जितः ।
अम्नात्वा चाप्यहुत्वा चाजप्त्वादत्त्वा च मानवः ।। 2.47 ।।
देवादोनामृणी भूत्वा नरकं प्रतिपद्यते ।
एक एव हि भुङ्‌क्तेऽन्नमपरोऽन्नेन भुज्यते ।। 2.48 ।।
न भुज्यते स एवैको यो भुङ्‌क्तोऽन्नं स साक्षिणा ।
विभागशौलो यो नित्यं क्षमायुक्तो दयापरः ।। 2.49 ।।
देवतातिथिभक्तश्च गृहस्थः स तु धार्म्मिकः ।
दया लज्जा क्षमा श्रद्धा प्रज्ञा योगः कृतज्ञता ।। 2.50 ।।
एते यस्य गुणाः सन्ति स गृहौ मुख्य उच्यते ।
संविभागं ततः कृत्वा गृहस्थः शेषभुग्‌भवेत् ।। 2.51 ।।
भुक्त्वा तु सुखमास्थाय तदन्नं परिणामयेत् ।
इतिहासपुराणाद्यैः षष्ठञ्च सप्तमं नयेत् ।। 2.52 ।।
अष्टमे लोकयात्रा तु बहिः सन्ध्या ततः पुनः ।
होमो भोजनकञ्चेव यच्चान्यद्‌गृहकृत्यकम् ।। 2.53 ।।
कृत्वा चैवं ततः पश्चात् स्वाध्यायं किञ्चिदाहरेत् ।
प्रदोषपश्चिमौ यामौ वेदाभ्यासेन तौ नयेत् ।। 2.54 ।।
यामद्वयं शयानो हि ब्रह्मभूयाय कल्पते ।
नैमित्तिकानि काम्यानि निपतन्ति यथा यथा ।। 2.55 ।।
तथा तथैव कार्य्याणि न कालस्तुः विधीयते ।
अस्मिन्नेव प्रयुञ्जानो ह्यास्मिन्नेव तु लीयते ।। 2.56 ।।
तस्मात् सर्व्वप्रयत्नेन कर्त्तव्यं सुखमिच्छता ।
सर्व्वत्र मध्यमौ यामौ हुतशेषं हबिश्च यत् ।। 2.57 ।।
भुञ्जानश्च शयानश्च ब्राह्मणो नावसौदति ।। 2.58 ।।
इति दाक्षे धर्म्मशास्त्रे द्वितीयोऽध्यायः ।। 2 ।।

तृतीयोऽध्यायः ।

सुधा नव गृहस्थस्य शब्दयामि नवैव तु ।
तथैव नव कर्म्माणि विकर्म्माणि तथा नव ।। 3.1 ।।
प्रच्छन्नानि नवान्यानि प्रकाश्यानि तथा नव ।
मफलानि नवान्यानि निष्फलानि नवैव तु ।। 3.2 ।।
अटेयानि नवान्यानि वस्तुजातानि सर्व्वदा ।
नवका नव निर्द्दिष्टा गृहस्थोन्नतिकारकाः ।। 3.3 ।।
सुधावस्तूनि वक्ष्यामि विशिष्टे गृहमागते ।
मनश्चक्षुर्म्मुखं वाक्यं सौम्यं दद्याच्चतुष्टयम् ।। 3.4 ।।
अभ्युप्त्यानमिहागच्छ पृच्छालापप्रियान्वितः ।
उपासनमनुव्रज्या कार्य्याण्येतानि यत्नतः ।। 3.5 ।।
ईषद्दानानि चान्यानि भूमिरापस्तृणानि च ।
पादशौचं तथाभ्यङ्गमाश्रयः शयनं तथा ।। 3.6 ।।
किञ्चिच्चान्नं यथाशक्ति नास्यानश्रन् गृहे वसेत् ।
मृज्जलञ्चार्थिने देयमेतान्यपि सदा गृहे ।। 3.7 ।।
सन्ध्या स्नानं जपो होमः स्वाध्यायो देवतार्च्चनम् ।
वैश्वदेवं तथातिथ्यमुद्धतञ्चापि शक्तितः ।। 3.8 ।।
पितृदेवमनुष्याणां दीनानाथतपस्विनाम् ।
मातापितृगुरूणाञ्च संविभागो यथार्हतः ।। 3.9 ।।
एतानि नव कर्म्माणि विकर्म्माणि तथा पुनः ।
अनृतं पारदार्य्यञ्च तथाभक्षस्यः भक्षणम् ।। 3.10 ।।
अगम्यागमनापेयपानं स्तेयञ्च हिंसनम् ।
अश्रौतकर्म्माचरणं मित्रधर्म्मवहिष्कृतम् ।। 3.11 ।।
नवैतानि विकर्म्माणि तानि सर्व्वाणि वर्ज्जयेत् ।
आयुर्व्वित्तं गृहच्छिद्रं मन्त्रमैथुनभेषजम् ।। 3.12 ।।
तपो दानावमानौ च नव गोप्यानि यत्नतः ।
आरोग्यमृणशुद्धिश्च दानाध्ययनविक्रयाः ।। 3.13 ।।
कन्यादानं वृषोत्‌सर्गो रहः पापमकुत्‌सनम् ।
प्रकाश्यानि नवैतानि गृहस्थाश्रमिणस्तथा ।। 3.14 ।।
मातापित्रोर्गुरौ मित्रे विनीते चोपकारिणि ।
दीनानाथविशिष्टेभ्यो दत्तन्तु सफलं भवेत् ।। 3.15 ।।
धूर्त्ते वन्दिनि मन्दे च कुवैद्ये कितवे शठे ।
चाटुचारणचौरेभ्यो दत्तं भवति निष्फलम् ।। 3.16 ।।
सामान्यं याजितं न्यास आधिर्द्दाराश्चः तद्धनम् ।
क्रमायातञ्च निक्षेपः सर्व्वस्वञ्चान्वये सति ।। 3.17 ।।
आपत्‌स्त्रपि न देयानि नव वस्तूनि सर्व्वदा ।
यो ददाति स मूढ़ात्मा प्रायश्चित्तीयते नरः ।। 3.18 ।।
नवनवकवेत्तारमनुष्ठानपरं नरम् ।
इहलोके परे च श्रीः स्वर्गस्थञ्च न मुञ्चति ।। 3.19 ।।
यथैवात्मा परस्तद्वद्द्रष्टव्यः सुखमिच्छता ।
सुखदुःखानि तुल्यानि यथात्मनि तथा परे ।। 3.20 ।।
सुखं वा यदि वा दुःखं यत् किञ्चित् क्रियते परे ।
ततस्तत्तु पुनः पश्चात् सर्व्व मात्मनि जायते ।। 3.21 ।।
न क्लेशेन विना द्रव्यं द्रव्यहीने कुतः क्रिया ।
क्रियाहीने न धर्म्मः स्याद्धर्म्महीने कुतः सुखम् ।। 3.22 ।।
सुखं वाञ्छन्ति सर्व्वे हि तच्च धर्म्मसमुद्भवम् ।
तस्माद्धर्म्मः सदा कार्य्यः सर्ब्बवर्णैः प्रयत्नतः ।। 3.23 ।।
न्यायागतेन द्रव्येण कर्त्तव्य पारलौकिकम् ।
दानञ्च विधिना देयं काले प्रात्रे गुणान्विते ।। 3.24 ।।
समद्विगुणसाहस्रमानन्त्यञ्च यथाक्रमम् ।
दाने फलविशेषः स्याद्धिंसायां तावदेव तु ।। 3.25 ।।
सममब्राह्मणे दानं द्विगुणं ब्राह्मणव्रुवे ।
सहस्रगुणमाचार्य्ये त्वनन्तं वेदपारगे ।। 3.26 ।।
विधिहीने तथा पात्रे यो ददाति प्रतिग्रहम् ।
न केवलं तद्विनश्येच्छेषमप्यस्य नश्यति ।। 3.27 ।।
व्यसनप्रतिकाराय कुटुम्बार्थञ्च याचते ।
एवमन्विष्य दातव्यमन्यथा न फलं भवेत् ।। 3.28 ।।
मातापितृबिहीनन्तु संस्कारोद्वहनादिभिः ।
यः स्थापयति तस्येह पुण्यसङ्ख्या न विद्यते ।। 3.29 ।।
न तच्छ्रेयाऽग्निहोत्रेण नाग्निष्टोमेन लभ्यते ।
यच्छ्रेयः प्राप्यते पुंसा विप्रेण स्थापितेन तु ।। 3.30 ।।
यद्यदिष्टतमं लोके यच्चापि दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ।। 3.31 ।।
इति दाक्षे धर्म्मशास्त्रे तृतीयोऽध्यायः ।। 3 ।।

चतुर्थोऽध्यायः ।

पत्रोमूलं गृहं पुंसां यदि च्छन्दोऽनुवर्त्तिनी ।
गृहाश्रमसमं नास्ति यदा भार्य्या वशानुगा ।। 4.1 ।।
तया धर्म्मार्थकामानां त्रिवर्गफलमश्रुते ।
प्राकाम्ये वर्त्तमाना तु स्नेहान्न तु निवारिता ।। 4.2 ।।
अवश्या सा भवेत् पश्याद्यथा व्याधिरूपेक्षितः ।
अनुकूला न वाग्दुष्टा दक्षा साध्वौ प्रियंवदा ।। 4.3 ।।
आत्मगुप्ता स्वामिभक्ता देवता सा न मानुषौ ।। 4.4 ।।
अनुकूलकलत्रो यस्तस्य स्वर्ग इहैव हि ।
प्रतिकूलकलत्रस्य नरको नात्र संशयः ।। 4.5 ।।
स्वर्गेऽपि दुर्लभं ह्येतदनुरागः परस्परम् ।
रक्त एको विरक्ताऽन्यस्तस्मात् कष्टतरं नु किम् ।। 4.6 ।।
गृहवासः सुखार्थाय पत्नीमूलं गृहे सुखम् ।
सा पत्नी या विनौता स्याच्चित्तज्ञा वशवर्त्तिनी ।। 4.7 ।।
दुःखा ह्यन्ना सदा खिन्ना चित्तभदः परस्परम्
प्रतिकूलकलत्रस्य द्विदारस्य विशेषतः ।। 4.8 ।।
योषित् सर्व्वा जलौकेव भुषणाच्छादनाशनैः ।
सुभूत्यापि कृता नित्यं पुरूषं ह्यपकर्षतिः ।। 4.9 ।।
जलौका रक्तमादत्ते केवलं सा तपस्विनी ।
इतरा तु धनं वित्तं मांसं वीर्य्यं वल मुखम् ।। 4.10 ।।
सशङ्का वालभावे तु यौवने विमुखी भवेत् ।
भृत्यवन्मन्यते पश्चाद्वृद्धभावे स्वकं पतिम् ।। 4.11 ।।
अनुकूला न वाग्दुष्टा दक्षा साध्वी पतिव्रता ।
एभिरेव गुणैर्युक्ता श्रीरेव स्त्रौ न संशयः ।। 4.12 ।।
या हृष्टमनसाः नित्य स्थानमानविचक्षणा ।
भर्त्तुः प्रीतिकरौ नित्यं सा भार्य्या हौतरा जरा ।। 4.13 ।।
शिष्यो भार्य्या शिशुर्भ्राता पुत्रो दासः समाश्रितः ।
यस्यैतानि विनौतानि तस्य लोके हि गौरवम् ।। 4.14 ।।
प्रथमा धर्म्मपत्नी च द्वितीया रतिवर्द्धिनी ।
दृष्टमेव फलं तत्र नाट्टष्टमुपजायते ।। 4.15 ।।
धर्म्मपत्नी समाख्याता निर्द्दोषा यदि सा भवेत् ।
दोषे सति न दोषः स्यादन्या भार्य्या गुणान्विता ।। 4.16 ।।
अदुष्टांपतितां भार्य्यां यौवने यः परित्यजेत् ।
स जीवनान्ते स्त्रौत्वञ्च वन्ध्यत्वञ्च समाप्नुयात् ।। 4.17 ।।
दरिद्रं व्याधितञ्चैव भर्त्तारं यावमन्यते ।
शुनौ गृध्रौ च मकरी जायते सा पुनः पुनः ।। 4.18 ।।
मृते भर्त्तरि या नारौ समारोहेद्धुताशनम् ।
सा भवेत्तु शुभाचारा स्वर्गलोके महीयते ।। 4.19 ।।
व्यालग्राही यथा ब्यालं बलादुद्धरते विलात् ।
तथा सा पतिमुद्धृत्य तेनैव सह मोदते ।। 4.20 ।।
इति दाक्षे धर्म्मशास्त्रे चतुर्थोऽध्यायः ।। 4 ।।

पञ्चमोऽध्यायः ।

उक्तं शौचमशौचञ्च कार्य्यं त्याज्यं मनीषिभिः ।
विशेषार्थं तयोः किञ्चिद्वक्ष्यामि हितकाम्यया ।। 5.1 ।।
शौचे यत्नः सदा कार्य्यः शौचमूलो द्विजः स्मृतः ।
शौचाचारबिहीनस्य समस्ता निष्फलाः क्रियाः ।। 5.2 ।।
शौचञ्च द्विविधं प्रोक्तं बाह्यमाभ्यन्तरं तथा ।
मृज्जलाम्यां स्मृतं बाह्यं भावशुद्धिस्तथान्तरम् ।। 5.3 ।।
अशौचाद्धि वरं बाह्यंतस्मादाभ्यन्तरं वरम् ।
उभाभ्याञ्च शुचिर्यस्तु स शुचिर्नेतरः शुचिः ।। 5.4 ।।
एका लिङ्गे गुदे तिस्रो दश वामकरे तथा ।
उभयोः सप्त दातव्या मृदस्तिस्रस्तु पादयोः ।। 5.5 ।।
गृहस्थशौचमाख्यातं त्रिष्वन्येषु यथाक्रमम् ।
द्विगुणं त्रिगुणञ्चैव चतुर्थस्य चतुर्गुणम् ।। 5.6 ।।
अर्द्धप्रसृतिमात्रन्तु प्रथमा मृत्तिका स्मृता ।
द्वितीया च तृतीया च तदर्द्धं परिकीर्त्तिता ।। 5.7 ।।
लिङ्गेऽप्यत्र समाख्याता त्रिपर्व्वी पूर्य्यते यया ।
एतच्छौचं गृहस्थानां द्विगुणं ब्रह्मचारिणाम् ।। 5.8 ।।
त्रिगुणन्तु वनस्थानां यतीनाञ्च चतुर्गुणम् ।
दातव्यमुदकं तावन्मृदभावो यथा भवेत् ।। 5.9 ।।
नृदा जलेन शुद्धिः स्यान्न क्लेशो न धनव्ययः ।
यस्य शौचेऽपि शैष्टिल्यं चित्तं तस्य परीक्षितम् ।। 5.10 ।।
एतदेव दिवा शौचः रात्रावन्यद्बिधीयते ।
अन्यदापत्सु विप्राणामन्यदेव ह्यनापदि ।। 5.11 ।।
दिवोदितस्य शौचस्य रात्राबर्द्धं बिधीयते ।
तदर्द्धमातुरस्याहुस्त्वरायामर्द्धमध्वनि ।। 5.12 ।।
न्यूनाधिकं न कर्त्तव्यं शौचे शुद्धिमभौप्सता ।
प्रायश्चित्ते न युज्येत विहितातिक्रमे कृते ।। 5.13 ।।
इति दाक्षे धर्म्मशास्त्रे पञ्चमोऽध्यायः ।। 5 ।।

षष्ठोऽध्यायः ।

सूतकन्तु प्रवक्ष्यामि जन्ममृत्युसमुद्धवम् ।
यावज्जोवं तृतीयन्तु यथावदनुपूर्व्वशः ।। 6.1 ।।
सद्यः शौचं तथैकाहो द्वित्रिचतुरहस्तथा ।
दशाहो द्वादशाहश्च पक्षो मासस्तथैव च ।। 6.2 ।।
मरणान्तं तथा चान्यद्दशपक्षन्तु सूतके ।
उपन्यस्तक्रमेणैव वक्ष्याम्यहमशेषतः ।। 6.3 ।।
ग्रन्थार्थतो विजानाति वेदमङ्गैः समन्वितम् ।
सकल्पं सरहस्यञ्च क्रियावांश्चेन्न सूतकौ ।। 6.4 ।।
राजर्त्विग्दीक्षितानाञ्च वाले देशान्तरे तथा ।
व्रतिनां सत्रिणाञ्चैव सद्यः शौचं बिधीयते ।। 6.5 ।।
एकाहस्तु समाख्यातो योऽग्निवेदसमन्वितः ।
हीने हौनतरे चैव द्वित्रिचतुरहस्तथा ।। 6.6 ।।
जातिविप्रो दशाहेन द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ।। 6.7 ।।
अस्नात्वा चाप्यहुत्वा च भुङ्‌क्तेऽदत्त्वा च यः पुनः ।
एवंबिधस्य सर्व्वस्य सूतकं समुदाहृतम् ।। 6.8 ।।
ब्याधितस्य कदर्य्यस्य मृणग्रस्तस्य सर्व्वदा ।
क्रियाहीनस्य मूर्खस्य स्त्रीजितस्य विशेषतः ।। 6.9 ।।
व्यमनासक्तचित्तस्य पराधीनस्य नित्यशः ।
श्रद्धात्यागविहीनस्य भस्मान्तं सूतकं भवेत् ।। 6.10 ।।
न सूतकं कदाचित् स्याद्यावज्जीवन्तु सूतकम् ।
एवं गुणविशेषेण सूतकं समुदाहृतम् ।। 6.11 ।।
सूतके मृतके चैव तथा च मृतसूतके ।
एतत्संहतशौचानां मृतशौचेन शुध्यति ।। 6.12 ।।
दानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्त्तते ।
दशाहात्तु परं शौचं विप्रोऽर्हति च धर्म्मवित् ।। 6.13 ।।
दानञ्च बिधिना देयमशुभात्तारकं हि तत् ।
मृतकान्ते मृतो यस्तु सूतकान्ते च सूतकम् ।। 6.14 ।।
एतत् संहतशौचानां पूर्व्वाशौचेन शुध्यति ।
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ।। 6.15 ।।
चतुर्थेहनि कर्त्तव्यमस्थिसञ्चयनं द्विजैः ।
ततः सञ्चयनादूर्द्धमङ्गस्पर्शी बिधीयते ।। 6.16 ।।
वर्णानामानुलौम्येन स्त्रीणामेका यदा पतिः ।
दशष्टत्र्यहमेकाहः प्रसवे सूतकं भवेत् ।। 6.17 ।।
यज्ञकाले विवाहे च देशभङ्गे तथैव च ।
हूयमाने तथाग्नौ च नाशौचं मृतसूतके ।। 6.18 ।।
सुस्थकाले त्विदं सर्व्वमशौचं परिकौर्त्तितम् ।
आपद्गतस्य सर्व्वस्य सूतके न तु सूतकम् ।। 6.19 ।।
इति दाक्षे धर्म्मशास्त्रे षष्ठोऽध्यायः ।। 6 ।।

सप्तमोऽध्यायः ।

लाको वशीकृतो येन येन चात्मा वशीकृतः ।
इन्द्रियार्थी जितो येन तं योगं प्रव्रवीम्यहम् ।। 7.1 ।।
प्राणायामस्तथा ध्यानं प्रत्याहारस्तु धारणा ।
तर्कश्चैव समाधिश्च षड़ङ्गो योग उच्यते ।। 7.2 ।।
नारण्यसेवनाद्योगो नानेकग्रन्थचिन्तनात् ।
व्रतैर्यज्ञैस्तपोभिश्च न योगः कस्यचिद्भवेत् ।। 7.3 ।।
न च पथ्याशनाद्योगो न नासाग्रनिरीक्षणात् ।
न च शास्त्रातिरिक्तेन शौचेन स भवेत् क्वचित् ।। 7.4 ।।
न मौनमन्त्रकुहकैरनेकैः सुकृतैस्तथा ।
लोकयात्रावियुक्तस्य योगो भवति कस्यचित् ।। 7.5 ।।
अभियोगात्तथाभ्यासात्तस्मिन्नेव तु निश्चयात् ।
पुनःपुनश्च निर्व्वेदाद्योगः सिध्यति नान्यथा ।। 7.6 ।।
आत्मचिन्ताविनोदेन शौचक्रौड़नकेन च ।
सर्व्वभूतसमत्वेन योगः सिध्यति नान्यथा ।। 7.7 ।।
यश्चात्मनिरतो नित्यमात्मक्रौड़स्तथैव च ।
आत्मनिष्ठश्च सततमात्मन्येव स्वभावतः ।। 7.8 ।।
रतश्चैव स्वयं तुष्टः सन्तुष्टो नान्यमानसः ।
आत्मन्येव सुतृप्तोऽसौ योगस्तस्य प्रसिध्यति ।। 7.9 ।।
सुप्तोऽपि योगयुक्तः स्याज्जाग्रच्चापि विशेषतः ।
ईट्टक्‌चेष्टः स्मृतः श्रेष्टो गरिष्ठो ब्रह्यवादिनाम् ।। 7.10 ।।
य आत्मव्यतिरेकेणः द्वितीयं नैव पश्यति ।
ब्रह्मीभूय स एवं हि दक्षपक्ष पदाहृतः ।। 7.11 ।।
विषयासक्तचित्ता हि यतिर्म्मोक्षं न विन्दति ।
यत्नेन विषयासक्तिं तस्माद्योगौ विवर्ज्जयेत् ।। 7.12 ।।
विषयेन्द्रियसंयोगं केचिद्योगं वदन्ति हि ।
अधर्म्मो धऱ्म्मरुपेन गृहीतस्तैरपण्डितैः ।। 7.13 ।।
मनसश्चात्मनश्चैव संयोगञ्च तथापरे ।
उक्तानामधिका ह्येते केवलं योगवञ्चिताः ।। 7.14 ।।
वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि ।
एकौकृत्य विमुच्येत योगोऽयं मुख्य उच्यते ।। 7.15 ।।
कषायमाहविक्षेप लज्जाशङ्गादिचेतसः ।
व्यापारास्तु समाख्यातास्तान् जित्वा वशमानयेत् ।। 7.16 ।।
कुटुम्वैः पञ्चभिर्ग्राम्यैः षष्ठस्तत्र महत्तरः ।
देवासुरमनुष्यैस्तु म जेतुं नै शक्यते ।। 7.17 ।।
बलेन परराष्ट्रानि गृह्नन् शूरस्तु नोच्यते ।
जितो येनेन्द्रियग्रामः स शूरः कथ्यते बुधैः ।। 7.18 ।।
बहिर्मुखानि सर्व्वाणि कृत्वा चाभिमुखानि वै ।
सर्व्वञ्चैवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ।। 7.19 ।।
सर्व्वभावविनिर्म्मुक्तः क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।
एतद्ध्यानञ्च योगश्च शेषाः स्युर्ग्रन्थविस्तराः ।। 7.20 ।।
त्यक्त्वा विषयभोगांश्च मनो निश्चलतां गतम् ।
अत्मशक्तिस्वरुपेण समाधिः परिकीर्त्तितः ।। 7.21 ।।
चतुर्णां सन्निकर्षेण पदं यत्तदशाश्वतम् ।
द्वयोस्तु सन्निकर्षेण शाश्वतं ध्रुवमक्षयम् ।। 7.22 ।।
यन्नास्ति सर्व्वलोकस्य तदस्तीति विरूध्यते ।
कथ्यमानं तथान्यस्य हृदये नावतिष्ठते ।। 7.23 ।।
स्वसंवेद्यं हि तद्ब्रह्म कुमारी मैथुनं यथा ।
अयोगौ नैव जानाति जातोन्धो हि यथा घटम् ।। 7.24 ।।
नित्याभ्यसनशौलस्य सुसंवेद्यं हि तद्भवेत् ।
तत् सूक्ष्मत्वादनिर्द्देश्यं परं ब्रह्म सनातनम् ।। 7.25 ।।
बुधस्त्वाभरणं भावं मनसालोचनं यथा ।
मन्यते स्त्री च मूर्खश्च तदेव बहु मन्यते ।। 7.26 ।।
सत्त्वोत्कटाः सुराश्चापि विषयेण वशीकृताः ।
प्रमादिभिः क्षुद्रसत्त्वैर्म्मानुषैरत्र का कथा ।। 7.27 ।।
तस्मात् त्यक्तकषायेण कर्त्तव्यं दण्डधारणम् ।
इतरस्तुन शक्नोति विषयैरभिभूयते ।। 7.28 ।।
न स्थिरं क्षणमप्येकमुदकं हि यथोर्म्मिभिः ।
वाताहतं तथा चित्तं तस्मात् तस्य न विश्वसेत् ।। 7.29 ।।
त्रिदण्डव्यपदेशेन जीवन्ति बहवो नराः ।
यो हि ब्रह्म न जानाति न त्रिदण्डार्ह एव सः ।। 7.30 ।।
ब्रह्मचर्य्यं सदा रक्षेदष्टधा मैथुनं पृथक् ।
स्मरणं कौर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम् ।। 7.31 ।।
सङ्कल्पोऽध्यवसायश्च क्रियानिष्पत्तिरेव च ।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः ।। 7.32 ।।
न ध्यातव्यं न वक्तव्यं न कर्त्तव्यं कदाचन ।
एतैः सर्व्वैः सुसम्पन्नो यतिर्भवति नेतरः ।। 7.33 ।।
पारिव्रज्यं गृहीत्वा च यो धर्म्म नावतिष्ठति ।
श्वपदेनाङ्कयित्वा तं राजा शीघ्रं प्रवासयेत् ।। 7.34 ।।
एको भिक्षुर्यथोक्तस्तु द्बौ चैव मिथुनं स्मृतम् ।
त्रयो ग्रामस्तथा ख्यात ऊर्द्धन्तु नगरायते ।। 7.35 ।।
नगरं हि न कर्त्तव्यं ग्रामो वा मिथुनं तथा ।
एतत्रयं प्रकुर्व्वाणः स्वधर्म्माच्च्यवते यतिः ।। 7.36 ।।
राजवार्त्तादि तेषान्तु भिक्षावार्त्ता परस्परम् ।
स्नेहपैशुन्यमात्सर्य्यं सन्निकर्षादसंशयम् ।। 7.37 ।।
लाभपूजानिमित्तं हि व्याख्यानं शिष्यसंग्रहः ।
एते चान्ये च बहवः प्रपञ्चाः कुतपस्विनाम् ।। 7.38 ।।
ध्यानं शौचं तथा भिक्षा नित्यमेकान्तशीलता ।
भिक्षोश्चत्वारि कर्म्माणि पञ्चमो नोपपद्यते ।। 7.39 ।।
तपोजपैः कृशौभूतो व्याधितोऽवथाबहः ।
वृद्धो ग्रहगृहीतश्च यश्चान्यो विकलेन्द्रियः ।। 7.40 ।।
नीरूजश्च युवा चैव भिक्षुर्नावसथाबहः ।
स दूषयति तत् स्थानं पशून् पौड़यतौति च ।। 7.41 ।।
नीरूडश्च युवा चैव ब्रह्मचर्य्याद्विनश्यति ।
ब्र्हमचर्य्याविनष्टन्तु कुलञ्चैव तु नाशयेत् ।। 7.42 ।।
वसन्नावसथे भिक्षुर्म्मैथुनं यदि सेवते ।
तस्यावसथनाथस्य मूलान्यपि निकृन्तति ।। 7.43 ।।
आश्रमे तु यतिर्यस्य मूहूर्त्तमपि विश्रमेत् ।
किं तस्यान्येन धर्म्मेण कृतकृत्योऽभिजायते ।। 7.44 ।।
सञ्चितं यद्गृहस्थेन पापमामरणान्तिकम् ।
स निर्द्दहति तत् सर्व्वमेकरात्राषितो यतिः ।। 7.45 ।।
योगाश्रमपरिश्रान्तं यस्तु भोजयते यतिम् ।
निखिलं भोजितं तेन त्रैलोक्यं सचराचरम् ।। 7.46 ।।
यस्मिन् देशे वसेद्योगी ध्यानयोगविचक्षणः ।
सोऽपि देशो भवेत् पूतः किं पुनस्तस्य वान्धवाः ।। 7.47 ।।
द्वैतञ्चैव तथाद्वैतं द्वैताद्वैतं तथैव च ।
न द्वैतं नापि चाद्वैतमितो तत् परमार्थिकम् ।। 7.48 ।।
नाहं नैवान्यसम्बन्धो ब्रह्मभावेण भावितः ।
ईट्टशायामवस्थायामवाप्यं परमं पदम् ।। 7.49 ।।
द्वैतपक्षे समास्था ये अद्वैते तु व्यवस्थिताः ।
अद्वैतिनां प्रवक्ष्यामि यथा धर्म्मः सुनिश्चितः ।। 7.50 ।।
तत्रात्मव्यतिरेकेण द्वितीयं यदि पश्यति ।
ततः शास्त्राण्यधीयन्ते ङूयन्ते ग्रन्थसञ्चयाः ।। 7.51 ।।
दक्षशास्त्रं यथा प्रोक्तमशेषाश्रममुत्तमम् ।
अधीयन्ते तु ये विप्रास्ते यान्त्यमरलोकताम् ।। 7.52 ।।
इदन्तु यः पठेद्भक्त्या शृणुयादधमोऽपि वा ।
स पुत्रपौत्रपशुमान् कीर्त्तिञ्च समवाप्नुयात् ।। 7.53 ।।
श्रावयित्वा त्विदं शास्त्रं श्राद्धकालेऽपि वा द्विजः ।
अक्षयं भवति श्राद्धं पितृभ्यश्चोपजायते ।। 7.54 ।।
इति दाक्षे धर्म्मशास्त्रे सप्तमोऽध्यायः ।। 7 ।।


***************--------------
"https://sa.wikisource.org/w/index.php?title=दक्षसंहिता&oldid=399581" इत्यस्माद् प्रतिप्राप्तम्