दक्षिणामूर्तिनवरत्नमालिकास्तोत्रम्

दक्षिणामूर्तिनवरत्नमालिकास्तोत्रम्
अज्ञातः
१९५३

॥ दक्षिणामूर्तिनवरत्नमालिकास्तोत्रम् ॥

   तेजःकिंचित्काञ्चनटङ्कीकपिशाभान् बिभ्रद्बभ्रूतु-
द्भटकापर्दकलापान् । भस्मालेपस्मेरललाटं वटमूले
दृष्टं दुष्टापस्मृतिहारि स्मरहन्तृ ॥ १
   न्यग्रोधाधो धिक्कृतधाराधरधीर ग्रीवाभोगं भो-
गिकुलाकल्पमनल्पम् । मुग्धाकारं मुग्धनिशानाथ-
वतंसं मुग्धस्मेरं मोहविरामं विमृशामः ॥ २
   नासादत्तालोकनयानाध्यसरोरुट्किञ्जल्काळि -
पिङ्गाजटाजूटकवत्या। प्रौढापस्मारस्मयिताघस्मरशक्त्या
चित्रीभूतं चित्कळया मामकमन्तः ॥ ३
   विद्यारूपे वेदगिरामे कविमृग्ये नद्यामौळौ नर्तन-
शीलालकचूडे । आलीनं मे मानसमालीढमनोभू-
गाढाहङ्काराङ्कुरलालाटकृशानौ ॥ ४
   वैयाघ्रत्वक्चित्रपटीक्लृप्तकटीका टीकाकारज्ञान-
समुद्रानिगमोक्तेः । मुक्तेर्माता मूलमपारस्य महिम्न-
श्चिद्वैदग्ध्री कांचन चित्ते मम भाति ॥ ५

 इन्दूत्तंसं काळिमकण्ठं शिखिनेत्रं सिन्दूरोष्ठं-
शुद्धतनुं बद्धफणीन्द्रम् । भाधीशाभाभासुरहासं भव-
मन्तश्शार्दूलत्वग्वाससमीशं वरिवस्ये ।। ६

 मुद्रा काचित् ज्ञानमयी यं मुनिशंसन्मोहध्वां-
तोत्कर्तनवैकर्तनिमूर्तेः । आर्ति भिन्द्यादाशयलग्ना-
मनिशं नो नैयग्रोधीं मूलभुवं चाधिशयाना ।। ७

 नीहारांभो हारसितैरावतगङ्गा पाटीराळी
भूतिसुधातधौवळक्षम्।सद्रुद्राक्षस्रग्धरमुद्राक्षमनक्षस्पं-
दं मन्दस्मेरमनादिं गुरुमन्तः ।। ८

 घोरापस्मृत्युत्कटपृष्ठे विनिविष्टो यस्यैकोङ्घ्रि स्तत्त्पृधु-
लोरु स्थितिरन्यः । वस्तुध्यानादुद्धृतनिष्पन्दशरीरं
शान्तं तेजस्तन्महिमानं समुपासे ॥ ९

 एतां मालां नवमणिरूपामादिगुरोर्भक्त्या नित्यं
पठति च यो जाड्यविमुक्तः । अष्टाचत्वारिंशति
साहस्रसमत्वं गत्वा तस्मिन् विलयमुपैत्येव स धन्यः॥

॥इति श्री नवनाथसिद्धकृत दक्षिणामूर्ति नवरत्नमालिकास्तोत्रम्॥