दक्षिणामूर्तिवर्णमालास्तोत्रम्

दक्षिणामूर्तिवर्णमालास्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

दक्षिणामूर्ति-

वर्णमालास्तोत्रम् ॥



ॐमित्येतद्यस्य बुधैर्नाम गृहीतं
 यद्भासेदं भाति समस्तं वियदादि ।
यस्याज्ञातः स्वस्वपदस्था विधिमुख्या-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥१॥

नम्राङ्गाणां भक्तिमतां य: पुरुषार्था-
 न्दत्वा क्षिप्रं हन्ति च तत्सर्वविपत्तीः ।
पादाम्भोजाधस्तनितापस्मृतिमीशं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥२॥

मोहध्वस्त्यै वैणिकवैयासिकिमुख्या:
 संविन्मुद्रापुस्तकवीणाक्षगुणान्यम् ।
हस्ताम्भोजैर्बिभ्रतमाराधितवन्त-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ३ ॥

भद्रारूढं भद्रदमाराधयितॄणां
 भक्तिश्रद्धापूर्वकमीशं प्रणमन्ति ।
आदित्या यं वाञ्छितसिद्धथै करुणाब्धिं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ४ ॥

गर्भान्त:स्था: प्राणिन एते भवपाश-
 च्छेदे दक्षं निश्चितवन्तः शरणं यम् ।
आराध्याङ्घ्रि प्रस्फुरदम्भोरुहयुग्मं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ५ ॥

वक्त्रं धन्याः संसृतिवार्धेरतिमात्रा-
 द्भीताः सन्तः पूर्णशशाङ्कद्युति यस्य ।
सेवन्तेऽध्यासीनमनन्तं वटमूलं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ६॥

तेजःस्तोमैरङ्गदसंघट्टितभास्व-
 न्माणिक्योत्थैर्भासितविश्वो रुचिरैर्यः ।
तेजोमूर्तिं खानिलतेज:प्रमुखाब्धिं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ७॥

दध्याज्यादिद्रव्यककर्माण्यखिलानि
 त्यक्त्वा काङ्क्षां कर्मफलेष्वत्र करोति ।
यज्जिज्ञासां रूपफलार्थी क्षितिदेव-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ८॥

क्षिप्रं लोके यं भजमानः पृथुपुण्यः
 प्रध्वस्ताधिः प्रोज्झितसंसृत्यखिलार्तिः
प्रत्यग्भूतं ब्रह्म परं संरमते य-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ९॥

णानेत्येवं यन्मनुमध्यस्थितवर्णा-
 न्भक्ताः काले वर्णगृहीत्यै प्रजपन्त: ।
मोदन्ते संप्राप्तसमस्तश्रुतितन्त्रा-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १०॥

मूर्तिश्छायानिर्जितमन्दाकिनिकुन्द-
 प्रालेयाम्भोराशिसुधाभूतिसुरेभा ।
यस्याभ्राभा हासविधौ दक्षशिरोधि-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ ११ ॥

तप्तस्वर्णच्छायजटाजूटकटाह-
 प्रोद्यद्वीचीवल्लिविराजत्सुरसिन्धुम् ।
नित्यं सूक्ष्मं नित्यनिरस्ताखिलदोषं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १२ ॥

येन ज्ञातेनैव समस्तं विदितं स्या-
 द्यास्मादन्यद्वस्तु जगत्यां शशशृङ्गम् ।
यं प्राप्तानां नास्ति परं प्राप्यमनादिं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १३ ॥

मत्तो मारो यस्य ललाटाक्षिभवाग्नि-
 स्फूर्जत्कीलप्रोषितभस्मीकृतदेहः ।।
तद्भस्मासीद्यस्य सुजात: पटवास-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १४ ॥

ह्यम्भोराशौ संसृतिरुपे लुठतां त.
 त्पारं गन्तुं यत्पदभक्तिर्दृढनौका ।
सर्वाराध्यं सर्वगमानन्दपयोधिं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १५ ॥

मेधावी स्यादिन्दुवतंसं धृतवीणं
 कर्पूराभं पुस्तकहस्तं कमलाक्षम् ।
चित्ते ध्यायन्यस्य वपुर्द्राङ्निमिषार्धं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ।। १६ ॥

धाम्नां धाम प्रौढरुचीनां परमं य-
 त्सूर्यादीनां यस्य स हेतुर्जगदादेः ।
एतावान्यो यस्य न सर्वेश्वरमीड्यं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १७ ॥

प्रत्याहारप्राणनिरोधादिसमर्थै-
 भक्तैर्दान्तैः संयतचित्तैर्यतमानैः ।
स्वात्मत्वेन ज्ञायत एव त्वरया य-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १८ ॥

ज्ञांशीभूतान्प्राणिन एतान्फलदाता
 चित्तान्तःस्थः प्रेरयति स्वे सकलेऽपि ।
कृत्ये देवः प्राक्तनकर्मानुसर: सं-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ १९ ॥

प्रज्ञामात्रं प्रापितसंविन्निजभक्तं
 प्राणाक्षादेः प्रेरयितारं प्रणवार्थम् ।
प्राहुः प्राज्ञा यं विदितानुश्रवतत्त्वा-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २० ॥

यस्यान्ज्ञानादेव नृणां संसृतिबोधो
 यस्य ज्ञानादेव विमोक्षो भवतीति ।
स्पष्टं ब्रूते वेदशिरो देशिकमाद्यं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥२१॥

छन्नेऽविद्यारूपपटेनैव च विश्वं
 यत्राध्यस्तं जीवपरेशत्वमपीदम।
भानोर्भानुष्वम्बुवदस्ताखिलभेदं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २२ ।।

स्वापस्वप्नौ जाग्रदवस्थापि न यत्र
 प्राणश्चेतः सर्वगतो यः सकलात्मा ।
कूटस्थो य: केवलसन्चित्सुखरूप-
 स्तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि || २३ ॥

हा हेत्येवं विस्मयमीयुर्मुनिमुख्या
 ज्ञाते यस्मिन्स्वात्मतयानात्मविमोहः ।
प्रत्यग्भूते ब्रह्मणि यातः कथमित्थं
 तं प्रत्यञ्चं दक्षिणवक्त्रं कलयामि ॥ २४ ॥

यैषा रम्यैर्मत्तमयूराभिधवृत्तै-
 रादौ क्लृप्ता यन्मनुवर्णैर्मुनिभङ्गी ।
तामेवैतां दक्षिणवक्त्रः कृपयासा-
 वूरीकुर्याद्देशिकसम्राट परमात्मा ॥ २५ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
श्रीदक्षिणामूर्तिवर्णमालास्तोत्रं संपूर्णम् ॥