दक्षिणामूर्त्युपनिषत्

(दक्षिणामूर्ति उपनिषद् इत्यस्मात् पुनर्निर्दिष्टम्)


ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥


ब्रह्मावर्ते महाभाण्डीरवटमूले महासत्राय समेता महर्षयः शौनकादयस्ते ह समित्पाणयस्तत्त्वजिज्ञासवो मार्कण्डेयं चिरंजीविन- मुपसमेत्य पप्रच्छुः केन त्वं चिरं जीवसि केन वानन्दमनुभवसीति ॥१॥


परमरहस्यशिव-तत्त्वज्ञानेनेति स होवाच ॥२॥


किं तत्परमरहस्यशिवतत्त्वज्ञानम् ।
तत्र को देवः ।
के मन्त्राः ।
को जपः ।
का मुद्रा ।
का निष्ठा ।
किं तज्ज्ञानसाधनम् ।
कः परिकरः ।
को बलिः ।
कः कालः ।
किं तत्स्थानमिति ॥३॥


स होवाच ।
येन दक्षिणामुखः शिवोऽपरोक्षीकृतो भवति तत्परमरहस्यशिवतत्त्वज्ञानम् ॥४॥


यः सर्वोपरमे काले सर्वानात्मन्युपसंहृत्य स्वात्मानन्दसुखे मोदते प्रकाशते वा स देवः ॥५॥


अत्रैते मन्त्ररहस्यश्लोका भवन्ति ।
मेधा दक्षिणामूर्तिमन्त्रस्य ब्रह्मा ऋषिः ।
गायत्री छन्दः ।
देवता दक्षिणास्यः ।
मन्त्रेणाङ्गन्यासः ॥६॥


ॐ आदौ नम उच्चार्य ततो भगवते पदम् ।
दक्षिणेति पदं पश्चान्मूर्तये पदमुद्धरेत् ।
अस्मच्छब्दं चतुर्थ्यन्तं मेधां प्रज्ञां पदं वदेत् ।
समुच्चार्य ततो वायुबीजं च्छं च ततः पठेत् ।
अग्निजायां ततस्त्वेष चतुर्विंशाक्षरो मनुः ॥ ७ ॥

दक्षिणामूर्ति

:ध्यानम् ।
स्फटिकरजतवर्णं मौक्तिकीमक्षमालाममृतकलशविद्यां ज्ञानमुद्रां कराग्रे ।
दधतमुरगकक्ष्यं चन्द्रचूडं त्रिनेत्रं विधृतविविधभूषं दक्षिणामूर्तिमीडे ॥ ८ ॥


मन्त्रेण न्यासः ।
आदौ वेदादिमुच्चार्य स्वराद्यं सविसर्गकम् ।
पञ्चार्णं तत उद्धृत्य अन्तरं सविसर्गकम् ।
अन्ते समुद्धरेत्तारं मनुरेष नवाक्षरः ॥ ९ ॥


मुद्रां भद्रार्थदात्रीं स परशुहरिणं बाहुभिर्बाहुमेकं जान्वासक्तं दधानो भुजगबिलसमाबद्धकक्ष्यो वटाधः ।
आसीनश्चन्द्रखण्डप्रतिघटि जटाक्षीरगौरस्त्रिनेत्रो दद्यादाद्यः शुकाद्यैर्मुनिभिरभिवृतो भावशुद्धिं भवो नः ॥ १० ॥


मन्त्रेण न्यासः ब्रह्मर्षिन्यासः -तारं ब्रूंनम उच्चार्य मायां वाग्भवमेव च ।
दक्षिणापदमुच्चार्य ततः स्यान्मूर्तये पदम् ॥ ११ ॥


ज्ञानं देहि पदं पश्चाद्वह्निजायां ततो न्यसेत् ।
मनुरष्टादशार्णोऽयं सर्वमन्त्रेषु गोपितः ॥ १२ ॥


भस्मव्यापाण्डुरङ्गः शशिशकलधरो ज्ञानमृद्राक्षमालावीणापुस्तैर्विराजत्करकमलधरो योगपट्टाभिरामः ।
व्याख्यापीठे निषण्णो मुनिवरनिकरैः सेव्यमानः प्रसन्नः सव्यालः कृत्तिवासाः सततमवतु नो दक्षिणामूर्तिरीशः ॥ १३ ॥


मन्त्रेण न्यासः ।
[ब्रह्मर्षिन्यासः .]
तारं परं रमाबीजं वदेत्सांबशिवाय च ।
तुभ्यं चानलजायां मनुर्द्वादशवर्णकः ॥ १४ ॥


वीणां करैः पुस्तकमक्षमालां बिभ्राणमभ्राभगलं वराढ्यम् ।
फणीन्द्रकक्ष्यं मुनिभिः शुकाद्यैः सेव्यं वटाधः कृतनीडमीडे ॥ १५ ॥


विष्णू ऋषिरनुष्टुप् छन्दः ।
देवता दक्षिणास्यः ।
मन्त्रेण न्यासः ।
तारं नमो भगवते तुभ्यं वटपदं ततः ।
मूलेति पदमुच्चार्य वासिने पदमुद्धरेत् ॥ १६ ॥


वागीशाय तत: पश्र्चान्महाज्ञानपदं तत: ।
दायिने पदमुच्चार्य मायिने नम उद्धरेत् ॥ १७ ॥


आनुष्टुभो मन्त्रराजः सर्वमन्त्रोत्तमोतमः ॥ १८ ॥

ध्यानम् । मुद्रापुस्तकवह्निनागविलसद्बाहुं प्रसन्नाननं मुक्ताहारविभूषणं शशिकलाभास्वत्किरीटोज्ज्वलम् ।
अज्ञानापहमादिमादिमगिरामर्थं भवानीपतिं न्यग्रोधान्तनिवासिनं परगुरुं ध्यायाम्यभीष्टाप्तये ॥ १९ ॥


मौनमुद्रा ।
सोऽहमिति यावदास्थितिः सा निष्ठा भवति ॥२०॥


तदभेदेन मन्त्राम्रेडनं ज्ञानसाधनम् ॥२१॥


चित्ते तदेकतानता परिकरः ॥२२॥


अङ्गचेष्टार्पणं बलिः ॥२३॥


त्रीणि धामानि कालः ॥।२४॥


द्वादशान्तपदं स्थानमिति ॥२५॥


ते ह पुनः श्रद्दधानास्तं प्रत्यूचुः ।
कथं वाऽस्योदयः ।
किं स्वरूपम् ।
को वाऽस्योपासक इति ॥२६॥


स होवाच ।
वैराग्यतैलसंपूर्णे भक्तिवर्तिसमन्विते ।
प्रबोधपूर्णपात्रे तु ज्ञप्तिदीपं विलोकयेत् ॥ २७ ॥


मोहान्धकारे निःसारे उदेति स्वयमेव हि ।
वैराग्यमरणिं कृत्वा ज्ञानं कृत्वोत्तरारणिम् ॥ २८ ॥


गाढतामिस्रसंशान्त्यै गूढमर्थं निवेदयेत् ।
मोहभानुजसंक्रान्तं विवेकाख्यं मृकण्डुजम् ॥ २९ ॥


तत्त्वाविचारपाशेन बद्धं द्वैतभयातुरम् ।
उज्जीवयन्निजानन्दे स्वस्वरूपेण संस्थितः ॥ ३० ॥


शेमुषी दक्षिणा प्रोक्ता सा यस्याभीक्षणे मुखम् ।
दक्षिणाभिमुखः प्रोक्तः शिवोऽसौ ब्रह्मवादिभिः ॥ ३१ ॥


सर्गादिकाले भगवान्विरिञ्चिरुपास्यैनं सर्गसामर्थ्यमाप्य ।
तुतोष चित्ते वाञ्छितार्थांश्च लब्ध्वा धन्यः सोपास्योपासको भवति धाता ॥ ३२ ॥


य इमां परमरहस्यशिवतत्त्वविद्यामधीते स सर्वपापेभ्यो मुक्तो भवति ।
य एवं वेद स कैवल्यमनुभवतीत्युपनिषत् ॥३३॥

इति दक्षिणामुर्त्युपनिषत्समाप्त: ॥


ॐ सह नाववतु ।
सह नौ भुनक्तु ।
सह वीर्यं करवावहै ।
तेजस्विनावधीतमस्तु मा विद्विषावहै ॥
ॐ शान्तिः शान्तिः शान्तिः ॥