मेघदूतस्य प्रथमस्य श्लोकस्य दण्डान्वयः खण्डान्वयः च तद्यथा - कश्चित् कान्ता विरहगुरुणा स्वाधिकारात्प्रमत्तः

   शापेनास्तङ्गमितमहिमा वर्षभोग्येण भर्तुः ।

यक्षश्चक्रे जनक-तनया-स्नान-पुण्योदकेषु

   स्निग्धच्छाया-तरुषु वसतिं रामगिर्याश्रमेषु ।।1।।

पूर्वम् पदच्छेदः विभक्तिपरिचयः च - 1. कश्चित् (1.1), 2. कान्ताविरहगुरुणा (3.1) 3. स्वाधिकारात् (5.1), 4. प्रमत्तः (1.1), 5. शापेन (1.1) 6. अस्तंगमितमहिमा (1.1), 7. वर्षभोग्येण (3.1) 8. भर्तुः (6.1), 9. यक्षः (1.1), 10. चक्रे (कृ धातु, परोक्ष भूतकाल 3.1), 11. जनकतनयास्नानपुण्योदकेषु (7.3), 12. स्निग्धच्छायातरुषु (7.3), 13. वसतिम् (2.1), 14. रामगिर्याश्रमेषु (7.3) ।। दण्डान्वयः – 1. कश्चित् स्वाधिकारात् प्रमत्तः भर्तुः कान्ताविरहगुरुणा वर्षभोग्येण शापेन अस्तंगमितमहिमा यक्षः जनकतनया-स्नान-पुण्योदकेषु स्निग्धच्छायातरुषु रामगिर्याश्रमेषु वसतिम् चक्रे ।। खण्डान्वयः – मुख्यम् वाक्यम् - 1. कश्चित् यक्षः वसतिम् चक्रे ।। 2. कीदृशः यक्षः ?

  प्रमत्तः यक्षः । 

3. कस्मात् प्रमत्तः ?

  स्वाधिकारात् प्रमत्तः।

4. पुनः कीदृशः यक्षः ?

  अस्तंगमितमहिमा यक्षः  । 

5. यक्षः केन अस्तंगमितमहिमा (जातः) ?

  शापेन ।

6. कीदृशेन शापेन ?

  कान्ताविरहगुरुणा शापेन ।

7. पुनः कीदृशेन शापेन ?

 वर्षभोग्येण शापेन ।

8. कस्य शापेन ?

  भर्तुः शापेन । 

9. कुत्र वसतिम् चक्रे ?

  रामगिर्याश्रमेषु वसतिम् चक्रे ।

10 कीदृशेषु रामगिर्याश्रमेषु ?

  स्निग्धच्छायातरुषु रामगिर्याश्रमेषु । 

11. पुनः कीदृशेषु रामगिर्याश्रमेषु ?

  जनकतनयास्नानपुण्योदकेषु रामगिर्याश्रमेषु ।।
"https://sa.wikisource.org/w/index.php?title=दण्डान्वयः&oldid=41088" इत्यस्माद् प्रतिप्राप्तम्