प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

दर्पदलनम्/चतुर्थो विचारः

< दर्पदलनम्

दर्पदलनम्

पद्मोपमानां दिनसुन्दराणां कोऽयं नृणामस्थिररूपदर्पः ।
रूपेण कान्तिः क्षणिकैव येषां हारिद्ररागेण यथांशुकानाम् ॥ १ ॥

पर्यन्तरेखाङ्गविभागहीनचित्रोपमं बालवपुः प्रकृत्या ।
तद्यौवनेनैव विकासमेति चैत्रोत्सवेनेव शिरीषपुष्पम् ॥ २ ॥

अलोमशं पूर्णशशाङ्कशोभं मुखं तु यूनां कतिचिद्दिनानि ।
जाते ततः श्मश्रुविशालजाले शेवाललीनाब्जतुलां बिभर्ति ॥ ३ ॥

धूमेन चित्रं तुहिनेन पद्मं तमिस्रपक्षेण सुधांशुबिम्बम् ।
शीतं निदाघेन न भाति तोयं जरावतारेण च चारुरूपम् ॥ ४ ॥

रूपं क्षणस्वीकृतरक्तमांसग्रासप्रसक्ताकृतकामदोषा ।
केशग्रहेणैव जरा जनानां वेश्येव वित्तं कवलीकरोति ॥ ५ ॥

पाकक्रमेणैव विचित्रकर्मा प्रतिक्षणं देहभृतामलक्ष्यः ।
करोति कालः परिणामशक्त्या रूपं विरूपं चतुरप्रवाहः ॥ ६ ॥

न लक्ष्यते कालगतिः सवेगचक्रभ्रमभ्रान्तिविधायिनीयम् ।
ह्यो यः शिशुः स स्फुटयौवनोऽद्य प्रातर्जराजीर्णतनुः स एव ॥ ७ ॥

पुंसामवस्थात्रितयत्रिभागे रूपप्रदं यौवनमेव नान्यत् ।
तस्मिन्मदोन्मादगदाङ्गभङ्गव्यङ्ग्यादिदोषोपहते क्व रूपम् ॥ ८ ॥

यदा नरः शोचति दुःखतप्तस्त्यक्ताशनः शोकविवर्णवक्त्रः ।
न स्नाति नोत्तिष्ठति नैव शेते तदा क्व रूपं क्व च यौवनश्रीः ॥ ९ ॥

यदा स्थितः प्रेत इवास्थिशेषः कारागृहे धूसरितोर्ध्वकेशः ।
प्रकीर्णयूकामलकालकायस्तदा क्व रूपस्य गतोऽभिमानः ॥ १० ॥

यदा सदाङ्गीकृतदैन्यदुःखसेवाप्रवासेन विनष्टकायः ।
नित्यप्रवासभ्रमभग्नजानुर्न रूपलब्धस्य तदास्ति रुपम् ॥ ११ ॥

यदा प्रहारैर्दलिताखिलाङ्गः खण्डोष्ठनासः स्फुटिताक्षिदन्तः ।
युवा पिशाचत्वमिवोपयाति तदापि रूपं विगतस्वरूपम् ॥ १२ ॥

यदा न धीमानरिषु प्रमाथी न वाक्पटुश्चित्रमनुष्यतुल्यः ।
तदा सुरूपादविचाररम्याद्वरं विरूपः स्पृहणीयरूपः ॥ १३ ॥

यदा दरिद्रः परिधानहीनस्त्रपानिलीनः कुरुतेऽतियाञ्चाम् ।
कपोलसंजातवलीविकारस्तदा सुरूपोऽपि परं विरूपः ॥ १४ ॥

विद्वत्संसदि वादिभिः कविवरैर्भाषानभिज्ञः परं
मूर्खः शंकरवाहनस्तुतिपदैर्यः संज्ञया हस्यते ।
विक्रीतः परदेशपण्यसदने धूर्तैरिवानुत्तरः ।
पुंसश्चित्रमयूरचारुवपुषः किं तस्य रूपश्रिया ॥ १५ ॥

कालं मुहूर्ताङ्गुलिमण्डलेन दिनत्रियामाञ्जलिना पिबन्तम् ।
रूपं विलोक्यैव वपुश्च केषां भङ्गेन नाङ्गान्यलसीभवन्ति ॥ १६ ॥

रूपं वयः शौर्यमनङ्गभोगं प्रज्ञाप्रभावं विभवं वपुश्च ।
अश्नाति कालभ्रमरः समन्तात्पुंसां नि किंजल्कमिवाम्बुजानाम् ॥ १७ ॥

कदाचित्सह गन्धर्वैः सभास्थाने शचीपतिम् ।
नृत्तेनाप्सरसः सर्वा गीतेन च सिषेविरे ॥ १८ ॥

तासां मध्ये बभौ कान्ता वृत्तीनामिव कैशिकी ।
उर्वशी स्वमुखे मैत्रीं वदन्तीवेन्दुपद्मयोः ॥ १९ ॥

शक्रसेवागतास्तत्र तां दृष्ट्वेन्दुमुखीं सुराः ।
मेनिरे धन्यमात्मानं शृङ्गारस्याङ्गतां गतम् ॥ २० ॥

नृत्यन्ती सा बभौ हारमध्यरत्नेषु बिम्बिता ।
युगपत्प्रविशन्तीव हृदयानि दिवौकसाम् ॥ २१ ॥

लीना देवविमानेषु हंसास्तद्गतिनिर्जिताः ।
तत्कटाक्षजितश्चक्रे निद्रां चन्द्रे मृगः क्षणम् ॥ २२ ॥

तस्याः सेर्ष्याप्सरोनेत्रमालेव पतिता बभौ ।
स्तनयोः शेखरस्रस्ता नीलोत्पलदलावली ॥ २३ ॥

उत्साहोद्धतविभ्रमभ्रमरकव्यावृत्तहारान्तर-
त्रुट्यत्सूत्रविमुक्तमौक्तिकभरः सक्तः स्तनोत्सङ्गयोः ।
वक्त्रेन्दुच्युतसंततामृतकणाकारश्चकार क्षणं
तस्या नृत्तरसश्रमोदितघनस्वेदाम्बुबिम्बश्रियम् ॥ २४ ॥

तस्या नृत्तविलोकने पुलकितं दृष्ट्वा रतिर्मन्मथं
निःश्वासाञ्चितचारुरूप(?)रजसा चक्रे पुरस्तात्पटम् ।
उद्वीक्ष्याक्षिपरम्परामपि हरेस्तत्रावसन्ना शची
कोपान्दोलितकेलिपद्ममधुपैर्मध्येऽन्धकारं व्यधात् ॥ २५ ॥

विघ्नं न चक्रुर्ननु नृत्तलीलासंदर्शने पुण्यवतां नराणाम् ।
तत्रोर्वशीरूपवशीकृतानां निमेषशून्यानि विलोचनानि ॥ २६ ॥

देवयोरश्विनोस्तत्र रूपमाधुर्यधुर्ययोः ।
मिथः कथा समभवत्तद्गुणाकृष्टचित्तयोः ॥ २७ ॥

एकोऽब्रवीदहो रूपमस्यास्तरलचक्षुषः ।
निमीलन्नियमा येन मुनयोऽप्याकुलीकृताः ॥ २८ ॥

अस्यां संसदि कस्यास्ये पतन्त्येताः सुजन्मनः ।
स्मरसंभोगसंवादलज्जाकुटिलिता दृशः ॥ २९ ॥

वृत्तसंगमयोरेव परस्परविलोकने ।
न्यासं शृङ्गारसर्वस्वमनङ्गेनार्पितं रहः ॥ ३० ॥

रणोत्सृष्टतनोः कण्ठे सोत्कण्ठा भुजबन्धनम् ।
कस्येयं तरलापाङ्गा रङ्गोत्तीर्णा करिष्यति ॥ ३१ ॥

इति ब्रुवाणमपरः सस्मितस्तमभाषत ।
अहो नु विस्मृतः किं ते भूतलेन्दुः पुरूरवाः ॥ ३२ ॥

विक्रमाभरणं दिक्षु लावण्यतिलकं भुवः ।
उर्वशीभोगसुभगं यस्यैतद्गीयते यशः ॥ ३३ ॥

तेन रूपगुणोत्साहैरुर्वशीयं वशीकृता ।
पुरः स्थितापि शक्रस्य मनसा तत्र तिष्ठति ॥ ३४ ॥

रूपसाम्येन शीतांशुवंशे जातः स लज्जते ।
न करोति रतेरग्रे तत्कथां मत्सरी स्मरः ॥ ३५ ॥

न जाने बत हेवाकः कोऽयं कुसुमधन्वनः ।
नैवार्पयति यत्पाणौ तस्यैव शरपञ्चकम् ॥ ३६ ॥

भुवः समस्ताम्बुधिमेखलाया वोढारमाजानुविलम्बिबाहुम् ।
लीलागुरुं तं हृदये वहन्ती तन्वी कथं नृत्यति नैव विद्मः ॥ ३७ ॥

द्रष्टव्यः स नृपस्तावदप्रस्तावेऽपि यत्नतः ।
को वेत्ति तद्विधं रत्नं पुण्यैरास्ते कियच्चिरम् ॥ ३८ ॥

इयुक्त्वा तौ कृतक्षोणीपतिदर्शननिश्चयौ ।
नृत्ते निवृत्ते जम्भारिं प्रणम्य ययतुर्भुवम् ॥ ३९ ॥

राजधानीं समासाद्य तौ पुरूरवसः क्षणात् ।
अवारितौ विविशतुर्वेत्रिभिः सुरगौरवात् ॥ ४० ॥

तौ तं ददृशतुः स्नानविहिताभ्यङ्गसंगमम् ।
पीयूषनवनीतेन लग्नस्नेहमिवोडुपम् ॥ ४१ ॥

स्नातोत्तारितकेयूरमहार्हमणिकंकणम् ।
लावण्याभरणं तस्य विरराजोर्जितं वपुः ॥ ४२ ॥

शून्यश्रवणपाशस्य तस्य कण्ठः समाययौ ।
निर्भूषणनिवेशोऽपि विशेषरमणीय़ताम् ॥ ४३ ॥

विचार्य तस्या मर्यादं सौन्दर्योदार्यमश्विनौ ।
प्रशशंसतुराश्चर्यनिर्माणातिशयं विधेः ।। ४४ ॥

स तौ कृताञ्जलिः प्रीत्या कृतासनपरिग्रहौ ।
पप्रच्छ स्वच्छहृदयस्त्वरागमनकारणम् ॥ ४५ ॥

तावूचतुः क्षितिपते महीकुसुमधन्वनः ।
त्रैलोक्याभरणं रूपं तवावां द्रष्टुमागतौ ॥ ४६ ॥

निसर्गेण जगत्सर्गनिरर्गलगुणादरात् ।
कौतुकालोकसारेव दृष्ट्वा सृष्टिः प्रजापतेः ॥ ४७ ।।
विलोकितस्त्वं वसुधासुधांशुः पूर्णमण्डलः ।
रूपपीयूषपानेन प्राप्ता प्रीतिः किमुच्यते ॥ ४८ ॥

इत्युक्तः प्रणयात्ताभ्यां किंचित्कुसुमितस्मितः ।
तावूचे नृपतिर्मान्यमानेनाभ्यधिकारः ॥ ४९ ॥

भवत्संदर्शनेनाहमस्म्यनुग्रहभाजनम् ।
द्रष्टव्या द्रष्टुमायान्ति पुण्यपुण्येन केवलम् ॥ ५० ॥

तीर्थाप्तिः साधुसंपर्कः पूज्यपूजामहोत्सवः ।
अस्मिन्विरसनिःसारे संसारे सारसंग्रहः ॥ ५१ ॥

स्नानाभ्यक्तेन न मया युवयोरुचितः कृतः ।
पुण्यसाफल्यनिःशल्यकल्याणायार्चनादरः ॥ ५२ ॥

अग्न्यागारान्तरे तावन्मुहूर्तं क्रियतां स्थितिः ।
कृतस्नानः समेष्यामि पूजाप्रणयपात्रताम् ॥ ५३ ॥

इयुक्तौ तेन ययतुस्तौ हुताशनमन्दिरम् ।
स्नातं विभूषितं भूपं द्रक्ष्याव इति कौतुकात् ॥ ५४ ॥

अथ राजा कृतस्नानः सर्वाभरणभूषितः ।
पुरोहितेन सहितस्तत्समीपमुपाययौ ॥ ५५ ॥

तौ दृष्ट्वा पृथिवीपालं तारहारं किरीटिनम् ।
क्षणं नैवोचतुः किंचिद्विषण्णौ विनताननौ ॥ ५६ ॥

कृतार्चने नरपतौ तौ पप्रच्छ पुरोहितः ।
अकस्माद्युवयोः कस्मादप्रसाद इवेक्ष्यते ॥ ५७ ॥

विनयातिक्रमोऽस्माकं यातः कचिन्न हेतुताम् ।
पृष्टौ पुरोहितेनेति तौ शनैस्तमभाषताम् ॥ ५८ ॥

आवयोर्नाप्रसन्नत्वं न युष्माकमतिक्रमः ।
किं तु कालगलत्सर्वभावालोकनविस्मयः ॥ ५९ ॥

अधुनैव नरेन्द्रोऽयं दृष्टोऽभ्यङ्गेऽपि यादृशः ।
क्षणपाकेन कालस्य दृश्यते नैव तादृशः ॥ ६० ॥

दिनेन्धनवने नित्यं दह्यमानेऽर्कवह्निना ।
नीयते कालधूमेन रूपचित्रमचित्रताम् ॥ ६१ ॥

निश्चित्य सर्वभावानां नित्यमेतामनित्यताम् ।
रूपेऽभिमानं कः कुर्यात्स्वप्नचित्रपटोपमे ॥ ६२ ॥

जराजीर्णानि रूपाणि रोगार्तानि वपूंषि च ।
आयूंषि काललीढानि दृष्ट्वा कस्य भवेन्मदः ॥ ६३ ॥

योऽयं विकोक्यते लोकः स्फाराकारविकारवान् ।
उच्छूनतामुपगतास्त एते शुक्रबिन्दवः ॥ ६४ ॥

अहो कालस्य सूक्ष्मोऽयं कोऽप्यलक्ष्यक्रमः क्रमः ।
यत्पाकपरिणामेन सर्वं यात्यन्यरूपताम् ॥ ६५ ॥

राज्ञः स्नानक्षणे याभूल्लावण्यलहरी तनोः ।
पीता क्षणेन सा तेन प्रवृत्तान्यक्षणोचिता ॥ ६६ ॥

संपूर्णस्यायुषो मात्रा रूपस्य विभवस्य च ।
होरायात्राम्बुधारेव गलत्येवानिशं नृणाम् ॥ ६७ ।।
कलाकाष्ठामुहुर्तानां कालस्य व्रजतां जवात् ।
न लक्ष्यते विभागेन दीपस्येवार्चिषां गतिः ॥ ६८ ॥

बालः प्रभाते मध्याह्ने तरुणः स्थविरोऽस्तगः ।
दिने दिने दिनेशोऽपि क्रियते काललीलया ॥ ६९ ॥

शुष्यन्त्यम्बुधयस्तरङ्गगहनैरालिङ्गिताशाङ्गना
गच्छन्त्युद्गततुङ्गशृङ्गमुकुटोदग्रा गिरीन्द्राः क्षयम् ।
भ्रश्यत्येव वसुंधरापि सहिता दिग्दन्तिभिर्यद्वशा-
त्सर्वाशी सततं प्रधावति महाकालः स कोऽप्याकुलः ॥ ७० ॥

इत्युक्त्वा नृपमामन्त्र्य दिवं जग्मतुरश्विनौ ।
नृपश्च तद्वचश्चिन्ताशान्तरूपमदोऽभवत् ॥ ७१ ॥

तस्मान्न कार्यः सुधिया विचार्य साश्चर्यसौन्दर्यविलासदर्पः ।
संसारमोहप्रसरे घनेऽस्मिन्विद्युल्लताविस्फुरितं हि रूपम् ॥ ७२ ॥

प्रातर्बालतरोऽथ कुद्मलतया कान्ताकुचाभः शनै-
र्हेलाहासविकाससुन्दररुचिः संपूर्णकोषस्ततः ।
पश्चान्म्लानवपुर्विलोलशिथिलः पद्मः प्रकीर्णेऽनिलै-
स्तस्मिन्नेव दिने स पङ्ककलिलक्लिन्नस्तटे शुष्यति ॥ ७३ ॥

वैरूप्यं सहजं जराहृतरुचिर्यातो ययातिः पुरा
कान्त्या तर्जितकामकीर्तिरभवद्दुर्दर्शमूर्तिर्नलः ।
सौदासस्य मनोहरं वपुरभूत्संत्रासनं देहिनां
रूपे कस्य भविष्यति प्रतिदिनम्लायिन्यनित्ये धृतिः ॥ ७४ ॥

तस्मादस्थिररूपं विचार्य रूपं भवस्वरूपं च ।
अनुरूपमदनशमनं स्थिरपदसंप्राप्तये सुधियाम् ॥ ७५ ॥