प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

दर्पदलनम्/तृतीयो विचारः

< दर्पदलनम्

दर्पदलनम्

संसारदोषप्रशमैकहेतुः करोति विद्या यदि दर्पमोहम् ।
तदन्दकाराय भवत्यवश्यं साभ्रे नभस्यंशुमतोंशुमाला ॥ १ ॥

शिक्षाभ्यासेन सुव्यक्तं पठन्त्यपि विहंगमाः ।
क एष विद्यया दर्पः कष्टप्राप्तैकदेशया ॥ २ ॥

सा विद्या या मदं हन्ति सा श्रीर्यार्थिषु वर्षति ।
धर्मानुसारिणी या च सा बुद्धिरभिधीयते ॥ ३ ॥

यो विद्यागुरुरायाति लघुतां शीलविप्लवात् ।
तस्मै पण्डितमूर्खाय विपरीतात्मने नमः ॥ ४ ॥

विद्यां प्राप्य कृतं येन विद्वेषकलुषं मनः ।
तेनात्मा हन्त मूर्खेण स्नात्वा पांसूत्करैर्वृतः ॥ ५ ॥

विद्या श्रीरिव लोभेन द्वेषेणायाति निन्द्यताम् ।
भाति नम्रतयैवैषा लज्जयेव कुलाङ्गना ॥ ६ ॥

स्पृहणीय़ा सतां तावद्विद्या संतोषशालिनी ।
यावन्न पार्थिवास्थानपण्यस्थाने प्रसारिता ॥ ७ ॥

सद्गुणाः शुचयस्तावद्यावद्वादेन शोधकैः ।
प्रक्षाल्य न परीक्ष्यन्ते खलैर्भूपालसंसदि ॥ ८ ॥

अश्माप्यहृदयो यस्य गुणसारं परीक्षते ।
उचितैव सुवर्णस्य तस्याग्निपतने रुचिः ॥ ९ ॥

कविभिर्नृपसेवासु चित्रालंकारहारिणी ।
वाणी वेश्येव लोभेन परोपकरणीकृता ॥ १० ॥

वादिभिः कलहोदर्कतर्कसंपर्ककर्कशा ।
वाणी क्रकचधारेव धर्ममूले निपातिता ॥ ११ ॥

साधुतेजोवधायैव तार्किकैः कर्कशीकृता ।
वाणी विवादिभिः क्रूरैः सौनिकैरिव कर्तरी ॥ १२ ॥

शीलं नैव बिभर्ति कीर्तिविमले धत्ते न धर्मे धियं
मात्सर्येण मनीषिणां प्रतनुते पारुष्यदोषं गिरा ॥
तर्कोक्त्या परलोककर्म नयति प्रायेण संदिग्धतां
यस्तस्याफलशास्त्रपाटनपटोर्मूढस्य किं विद्यया ॥ १३ ॥

ये संसत्सु विवादिनः परयशःशल्येन शूलाकुलाः ।
कुर्वन्ति स्वगुणस्तवेन गुणिनां यत्नाद्गुणाच्छादनम् ।
तेषां रोषकषायितोदरदृशां द्वेषोष्णनिःश्वासिनां
दीप्ता रत्नशिखेव कृष्णफणिनां विद्या जनोद्वेगभूः ॥ १४ ॥

शोच्यतां यात्यशीलेन विद्वेषेणापवित्रताम् ।
दर्पशापहता विद्या नश्यत्येव सहायुषा ॥ १५ ॥

तपोवने मुनिवरौ मान्यौ मुनिमनीषिणाम् ।
पुरा रैभ्यभरद्वाजौ सुहृदौ चक्रतुः स्थितिम् ।। १६ ॥

पुत्रावभूतां रैभ्यस्य विद्याविमलदर्पणौ ।
स्पृहणीयौ गुणज्ञानां सर्वावसुपरावसू ॥ १७ ॥

भरद्वाजस्य पुत्रोऽभूद्यवक्रीताभिधः सुताः ।
भवन्तविद्याः प्रायेण पितृप्रणयलालिताः ॥ १८ ॥

स युवा रैभ्यतनयौ सर्वत्र श्रुतिविश्रुतौ ।
पश्यन्नात्मनि सासूयः पश्चात्तापाकुलोऽभवत् ।। १९ ॥

स गत्वा जाह्नवीतीरं निराहारकृशश्चिरम् ।
चचार निश्चलतनुस्तीव्रं विद्याप्तये तपः ॥ २० ॥

तं तपस्तापितात्मानं स्वयमेत्य शतक्रतुः ।
उवाच मिथ्यानिर्बन्धः कोऽयं ते मुनिपुत्रक ॥ २१ ॥

अनधीता गुरुमुखात्कथं विद्याधिगम्यते ।
अनभ्यासेन पाण्डित्यं नभःकुसुमशेखरः ॥ २२ ॥

अधुना विद्यया किं ते विद्यार्हं शैशवं गतम् ।
यत्फलं किल विद्यायास्तस्मिन्नवहितो भव ॥ २३ ॥

शीलं परहितासक्तिरनुत्सेकः क्षमा धृतिः ।
अलोभश्चेति विद्यायाः परिपाकोज्ज्वलं फलम् ॥ २४ ॥

विवेकरहिता विद्या द्वेषरोषोष्मशोषिता ।
दर्पाशनिनिपातेन हता वल्लीव निष्फला ॥ २५ ॥

एतदर्थं श्रुते बुद्धिं करोति द्वेषदूषितः ।
यद्विवादैः करिष्यामि मानम्लानिं मनीषिणाम् ॥ २६ ॥

त्यक्त्वा प्रशमसंतोषौ विद्यायाः प्रथमं फलम् ।
नानाविपर्ययपथैर्गच्छन्त्यर्थफलार्थिनः ॥ २७ ॥

उपकाराय या पुंसां न परस्य न चात्मनः ।
पत्रसंचयसंभारैः किं तया भारविद्यया ॥ २८ ॥

अन्यायः प्रौढवादेन नीयते न्यायतां यया ।
न्यायश्चान्यायतां लोभत्किं तया क्षद्रविद्यया ॥ २९ ॥

स्वजिह्वास्तुतिभिर्नित्यं पत्नीवोद्घाटितांशुका ।
क्रियते या सभामध्ये किं तया धृष्टविद्यया ॥ ३० ॥

अनुष्ठानेन रहिता पाठमात्रेण केवलम् ।
रञ्जत्येव या लोकं किं तया शुकविद्यया ॥ ३१ ॥

गोप्यते या श्रुतज्ञस्य मूर्खस्याग्रे प्रकाश्यते ।
न दीयते च शिष्येभ्यः किं तया शठविद्यया ॥ ३२ ॥

परोत्कर्षं समाच्छाद्य विक्रयाय प्रसार्यते ।
या मुहुर्धनिनामग्रे किं तया पण्यविद्यया ॥ ३३ ॥

न तीर्यते यया घोरः संसारमकराकरः ।
नित्यं चित्तानुबन्धिन्या किं तया मोहविद्यया ॥ ३४ ॥

नित्याभ्यासप्रयासेन जीवितं क्षीयते यया ।
त्रिवर्गस्योपरोधेन किं तया कष्टविद्यया ॥ ३५ ॥

न विवेकोचितां बुद्धिं न वैराग्यमयं मनः ।
संपादयति या पुंसां किं तया जडविद्यया ॥ ३६ ॥

शौचाशौचविवादेन त्यक्ता (?) श्रोत्रियता यया ।
मिथ्याभिमानयोगिन्या किं तया दम्भविद्यया ॥ ३७ ॥

परमात्सर्यशल्येन व्यथा संजायते यया ।
सुखनिद्रापहारिण्या किं तया शूलविद्यया ॥ ३८ ॥

परसूक्तापहारेण स्वसृभाषितवादिना ।
उत्कर्षः ख्याप्यते यस्याः किं तया चौरविद्यया ॥ ३९ ॥

अनभ्यासहतोत्साहा परेण परिभूयते ।
या लज्जाजननी जाड्यात्किं तया मन्दविद्यया ॥ ४० ॥

लोभः प्रभूतवित्तस्य रागः प्रव्रजितस्य च ।
न यया शान्तिमायाति किं तयालीकविद्यया ॥ ४१ ॥

यया भूपतिमाश्रित्य परेषां गुणनिन्दकः ।
दानमानोन्नतिं हन्ति किं तया दोषविद्यया ॥ ४२ ॥

गृहे धाराधिरुढापि सभायां न प्रवर्तते ।
प्रतिभाभङ्गसङ्गाद्या किं तया मूकविद्यया ।। ४३ ॥

चण्डं पिण्डार्थिनां द्वेषपिशुनानां शुनामिव ।
यया संजायते युद्धं किं तया वधविद्यया ॥ ४४ ॥

विस्मृता यावलिप्तस्य कण्ठे कृतगतागता ।
जीववृत्तिरिव क्षीणा किं तया मृतविद्यया ॥ ४५ ॥

रसायनी जराजीर्णश्चिररोगी यया भिषक् ।
धातुवादी दरिद्रश्च किं तया हास्यविद्यया ॥ ४६ ॥

यया मुग्धमृगाः कूटैः पीड्यन्ते तीव्रमार्गणैः ।
आशापाशावलम्बिन्या किं तया लुब्धविद्यया ॥ ४७ ॥

परोपतापः क्रियते वश्यादिकुहकैर्यया ।
यन्त्रतन्त्रानुसारिण्या किं तया व्याजविद्यया ॥ ४८ ॥

गुरुर्गर्वात्कविर्द्वेषाद्यतिर्भोगपरिग्रहात् ।
नृपः पापाद्द्विजः क्रोधात्सा विद्या वार्यते यया ॥ ४९ ॥

विद्यागुणास्ते विदुषां ये विवेकनिबन्धनम् ।
स्वल्पशिल्पकलातुल्याः शेषा जीवितहेतवः ॥ ५० ॥

वीणेव श्रोत्रहीनस्य लोलाक्षीव विचक्षुषः ।
व्यसोः कुसुममालेव विद्या स्तब्धस्य निष्फला ॥ ५१ ॥

द्वेषदर्पहता विद्या कामक्रोधहता मतिः ।
लोभमोहहता वृत्तिर्येषां तेषां किमायुषा ॥ ५२ ॥

दूरे व्याकरणं कुरुष्व विषमं धातुक्षयक्षोभितं
मीमांसा विरसा न शोषयति किं तर्कैरलं कर्कशैः ।
न क्षीबः पतति स्मरभ्रमकरैः किं नव्यकाव्यासवै-
स्तस्मान्नित्यहिताय शान्तमनसां वैराग्यमारोग्यदम् ॥ ५३ ॥

इत्युक्तः सुरराजेन निश्चयान्न चचाल सः ।
अभिमानगृहीतानां दुर्निवारो हि दुर्ग्रहः ॥ ५४ ॥

अथ वृद्धद्विजो भूत्वा सिकतामुष्टिभिः शनैः ।
शक्रः प्रचक्रमे कर्तुं गङ्गायां सेतुबन्धनम् ॥ ५५ ॥

तं दृष्ट्वा निष्फलक्लेशविफलोद्योगनिश्चलम् ।
मुनिसूनुः कृपाविष्टः पप्रच्छाभ्येत्य सस्मितः ॥ ५६ ॥

ब्रह्मन्क एष निर्बन्धस्तव वन्ध्यसमुद्यमे ।
निष्फलं विपुलायासं न प्राज्ञाः कर्म कुर्वते ॥ ५७ ॥

अस्मिन्कुटिलकल्लोलदोलाविक्षोभितेऽम्भसि ।
हास्यहेतुः कथं सेतुः सिकतामुष्टिभिर्भवेत् ॥ ५८ ॥

इत्युक्ते मुनिपुत्रेण ब्राह्मणस्तमभाषत ।
अहो परोपदेशेषु सर्वो भवति पण्डितः ।। ५९ ॥

अनधीतां बलाद्विद्यां तपसा प्राप्तुमिच्छसि ।
यथा त्वं निष्फलारम्भस्तथाहमपरो जडः ॥ ६० ॥

एतद्द्विजवचः श्रुत्वा यथार्थं स्थगितोत्तरः ।
तथापि दृढसंकल्पः स्वकृत्यान्न चचाल सः ।। ६१ ॥

अथास्य तीव्रतपसा शक्रः प्रादाद्वरं वरम् ।
सर्वविद्यानिधिर्येन सहसैव बभूव सः ॥ ६२ ॥

प्राप्तविद्यः स सोत्साहस्तूर्णं गत्वा स्वमाश्रमम् ।
निजां तपःफलावाप्तिकथां पित्रे न्यवेदयत् ॥ ६३ ॥

तं मदाक्रान्तमश्रान्तवृत्तसंस्कृतवादिनम् ।
भरद्वाजः प्रमोदेऽपि स्वेदाकुल इवावदत् ॥ ६४ ॥

पुत्र प्राप्ता त्वया विद्या तपस्तापात्किमुच्यते ।
किं त्वागामिभयादेतन्न युक्तं प्रतिभाति मे ॥ ६५ ॥

इतः समीपे रैभ्यस्य कोपनस्य तपोवनम् ।
विद्यामदान्धौ तत्पुत्रावर्वावसुपरावसू ॥ ६६ ॥

तावश्रान्तश्रुतोन्मादौ त्वं चाभिनवपण्डितः ।
तत्संगमे द्वेषमयः सदा संनिहितः कलिः ॥ ६७ ॥

ग्रीवास्तम्भभृतः परोन्नतिकथामात्रे शिरःशूलिनः
सोद्वेगभ्रमणप्रलापविपुलक्षोभाभिभूतस्थितेः ।
अन्तर्द्वेषविषप्रवेशविषमक्रोधोष्णनिःश्वासिनः
कष्टा नूतनपण्डितस्य विकृतिर्भीमज्वरारम्भभूः ॥ ६८ ॥

तव तत्र प्रयातस्य युक्तायुक्तविवादिनः ।
भविष्यति मुनेः शापादवश्यं मदनिग्रहः ॥ ६९ ॥

शुक्तिकारजतज्ञाननीलपीतादिदर्शनैः ।
उन्मादं जनयत्येव विद्यादर्पपिशाचिका ॥ ७० ॥

एष विद्योपदेशेन विनाशः प्रार्थितस्त्वया ।
रैभ्याश्रमो न गन्तव्यः कर्तव्यं यदि मद्वचः ॥ ७१ ॥

इत्युक्तोऽप्यसकृत्पित्रा स गत्वा रैभ्यपुत्रयोः ।
व्यधाद्विवादनिर्वेदैः सदा विद्यामदक्षितिम् ॥ ७२ ॥

तं दर्पमत्तं साकोपभीमभ्रूभङ्गदुर्मुखौ ।
तावूचतुर्मनःसक्तविद्याविद्वेषशूलिनौ ।। ७३ ॥

कनीयानावयोर्यस्माद्वयसा त्वं श्रुतेन च ।
करोषि वादैराक्षेपं तस्मादायुःक्षयोऽस्तु ते ॥ ७४ ॥

इत्युक्तोऽपि क्रुधा ताभ्यां न दर्पाद्विरराम सः ।
न प्रसन्नं न च क्रुद्धं गणयन्ति मदोद्धताः ॥ ७५ ॥

अत्रान्तरे भ्रमद्भृङ्गमालाभ्रूभङ्गविभ्रमः ।
कालः प्रोषितकान्तानां पुष्पकालः समाययौ ।। ७६ ॥

क्षिप्तपत्त्राः सुमनसां रजःकलुषितेक्षणाः ।
सद्वेषा इव विद्वांसश्चेरुर्मलयमारुताः ॥ ७७ ॥

माधुर्यललितोदारवाणीविलसितैर्मुहुः ।
कवीनामिव संघर्षः कोकिलानामजायत ॥ ७८ ॥

रैभ्ये प्रयाते पुत्राभ्यां सह स्नातुं सरित्तटम् ।
भरद्वाजात्मजोऽभ्येत्य प्रविवेश तदाश्रमम् ।। ७९ ॥

तत्र पुष्पोच्चयव्यग्रां धर्मपत्नीं पुरावसोः ।
सोऽपश्यत्सुप्रभां नाम रूपदर्पापहां रतेः ॥ ८० ॥

उटजाङ्गनसक्तानां हरिणीनां विलोकने ।
विलासदीक्षां कुर्वाणां तरलापाङ्गमङ्गिभिः ॥ ८१ ॥

तां दृष्ट्वा चन्द्रवदनां मदनानन्ददेवताम् ।
बभूवोत्क्रान्तमर्यादः सहसैव मुनेः सुतः ॥ ८२ ॥

स ब्रह्मचारी कामेन नवेन तरलीकृतः ।
अभिलाषोचितं वक्तुमनभिज्ञोऽप्युवाच ताम् ॥ ८३ ॥

उन्मादनमिदं रूपमनुरूपं मनोभुवः ।
समुत्सिक्तमिवासक्तं करोति मम मानसम् ॥ ८४ ॥

विद्याविनयमुत्सृज्य संत्यज्य गुरुयन्त्रणाम् ।
त्वयि प्रवृत्तं चित्तं मे प्राग्जन्मप्रेमबन्धनम् ॥ ८५ ॥

जानामि यत्कृतस्यास्य विपाके कर्मणः फलम् ।
तथाप्यभिमतं धर्तुं न शक्नोमि करोमि किम् ॥ ८६ ॥

न श्रुतेन न वित्तेन न वृत्तेन न कर्मणा ।
प्रवृत्तं शक्यते रोद्धुं मनोभवपथे मनः ॥ ८७ ॥

इत्युक्त्वा तां भयोद्भ्रान्तनयनामाश्रमोन्मुखीम् ।
गन्तुं प्रवृत्तां सोऽभ्येत्य जग्राहांशुकपल्लवे ।। ८८ ॥

कदली कुञ्जरेणेव तरसा तेन निर्जने ।
कृष्यमाणा तमवदत्सा निषेधचलाङ्गुलिः ॥ ८९ ॥

मा मा मलिनय स्वच्छं शीलं मम तथात्मनः ।
विद्याया निरवद्यायाः किमेतदुचितं फलम् ॥ ९० ॥

शीलशुक्लांशुकां त्यक्त्वा लज्जां निजवधूमिव् ।
गृह्णासि परनारीणां पाणिना पटपल्लवम् ॥ ९१ ॥

किमेतदित्यनुचितं दृष्ट्वा नूनं कमण्डलुः ।
उद्ग्रीवः कौतुकेनेव मुखं तव निरीक्षते ॥ ९२ ॥

बिभ्रतोऽन्तर्गतरसां कुसुमेषुरुचिं नवाम् ।
जटावल्कलभारस्ते तरोरिव न शान्तये ॥ ९३ ॥

पापसंकल्पमात्रेण त्रपयाधोमुखी तव ।
पतिता स्पर्शभीत्येव कम्पलोलाक्षमालिका ॥ ९४ ॥

आसनाब्जे सरस्वत्या जपलोलरदच्छदे ।
दुर्नयोक्तिर्न युक्तेयं मुखे तव मनीषिणः ।। ९५ ॥

इयं तपोवनमही विवेकजननी कथम् ।
जनयत्यभिलाषं ते जननीवाजितात्मनः ॥ ९६ ॥

दुर्मदो (दुर्दमो) यौवनभरस्तुरङ्ग इव हारकः ।
सर्वथा शिथिलात्मानमवटे क्षिपति क्षणात् ॥ ९७ ॥

धिग्धियं किं विवेकेन दूरे विश्राम्यतु श्रुतम् ।
धार्यते यैर्न संसारविकारस्खलितं मनः ॥ ९८ ॥

क्व विद्या विदिताशेषकार्याकार्यविमर्शधीः ।
मूढता क्व च दुष्कर्ममहापापकुटुम्बिनी ॥ ९९ ॥

इत्युच्यमानोऽपि यदा न स तत्याज दुर्ग्रहम् ।
शीलापहारसंत्रस्ता सा तदा समचिन्तयत् ॥ १०० ॥

किं करोम्यजने लब्धा विवशाहं प्रमादिना ।
उत्सृष्टधर्मनिमयाः किं न कुर्वन्त्यवारिताः ॥ १०१ ॥

अयं स्मरातुरस्तावद्वचसा न निवर्तते ।
वञ्च्यन्ते सान्त्ववादेन कामक्रोधमदोद्धता ॥ १०२ ॥

इति ध्यात्वा तमवदत्सा शनैर्मृदुवादिनी ।
गच्छ त्वं स्वयमेष्यामि निशि शून्यलतागृहे ॥ १०३ ॥

स्नात्वा सपुत्रः कालेऽस्मिन्नायाति श्वशुरो मम ।
ज्वलज्ज्वलनतुल्यस्य तस्याग्रे किं करिष्यसि ॥ १०४ ॥

इत्युक्तः स तया प्रायात्सत्यं विज्ञाय तद्वचः ।
दुष्प्रापमपि मन्यन्ते सुलभं काममोहिताः ॥ १० ५ ॥

रैभ्यं ततः समायातमग्न्यागाराग्रतः स्थितम् ।
स्नुषा प्रोवाच कोपाग्निधूमेनेवाश्रुवर्षिणी ॥ १०६ ॥

भरद्वाजात्मजस्तात पापस्तव सुहृत्सुतः ।
ममाद्य विजने शीलविप्लवेऽभ्यर्थितां गतः ॥ १०७ ॥

स मया दुर्ग्रहग्रस्तः समेष्यामीति वञ्चितः ।
विमुच्ये नान्यथा हस्तात्तस्य स्वस्तिमती सती ॥ १०८ ॥

एतदाकर्ण्य सहसा प्रज्वलन्मन्युना मुनिः ।
बभूव दुर्निमित्तोल्कापातक्रूरे इवांशुमान् ॥ १०९ ॥

विद्यावतां स्फुरत्यन्तर्विवेकः स्वस्थचेतसाम् ।
विकारकाले संमोहश्चित्ते विद्या च पुस्तके ॥ ११० ॥

स निःश्वसन्नथ क्रोधज्वरारम्भारुणेक्षणः ।
अभिचारजपेनेव कम्पमानाधरोऽभ्यधात् ॥ १११ ॥

अहो बत भरद्वाजः पुत्रस्याध्ययने व्यधात् ।
धर्मोपदेशं यत्नेन नग्नीकर्तुं पराङ्गनः ॥ ११२ ॥

इत्युक्त्वामर्षसंरम्भादपरं वक्तुमक्षमः ।
स प्रविश्याग्निसदनं प्रतीकारपरोऽभवत् ॥ ११३ ॥

उत्पाट्य विकटाटोपकोपः प्रौढाग्निपिङ्गलम् ।
स जुहाव जटां वह्नौ क्रूरक्रोधसटामिव ॥ ११४ ॥

द्वितीयायां हुतायां च शूलभृद्घोरराक्षसः ।
कृत्यासखः समुद्भूतः प्रोवाच प्रणतो मुनिम् ॥ ११५ ॥

किं करोमि मुने कस्य विनाशायास्मि निर्मितः ।
त्रैलोक्यमपि निर्दग्धुं संनद्धोऽहं त्वदाज्ञया ॥ ११६ ॥

इति ब्रुवाणं तं रैभ्यः क्रूराकारमभाषत ।
भरद्वाजसुतं गच्छ कवलीकुर्वपण्डितम् ॥ ११७ ॥

इति तेन समादिष्टः स व्रजन्कम्पितावनिः ।
अर्धशौचं मुनिसुतं दृष्ट्वा दुरात्समाद्रवत् ॥ ११८ ॥

तस्मिन्नभिद्रुते वेगाद्दीप्तशूले निशाचरे ।
भयभग्नगतिः प्राप शरणं न मुनेः सुतः ॥ ११९ ॥

पलायमानः संप्राप्तः स जवात्पितुराश्रमत् ।
अग्न्यागारं विशन्रुद्धः शूद्रेणाशौचदूषितः ॥ १२० ॥

दासस्पृष्टः स निःशौचः पतितः संभ्रमात्क्षितौ ।
रक्षः शूलहतः पश्चात्सहसा भस्मसादभूत् ॥ १२१ ॥

अत्रान्तरे भरद्वाजः प्रविशन्निजमाश्रमम् ।
विध्वस्तच्छायमालोक्य सोद्वेगः समचिन्तयत् ॥ १२२ ॥

मम पुष्पफलादानप्रत्यावृत्तस्य वह्नयः ।
सदोत्तिष्ठन्ति पुरतस्तेऽद्य किं निश्चला इव ॥ १२३ ॥

इति संचिन्त्य दृष्ट्वाग्रे भस्मभीतं सुतं मुनिः ।
श्रुत्वा च दासकथितं वृत्तान्तं न्यपतद्भुवि ॥ १२४ ॥

स लब्धसंज्ञः शनकैरवदद्बाष्पगद्गदम् ।
रैभ्योऽपि विद्वान्कालेन प्राप्नोतु स्वसुताद्वधम् ॥ १२५ ॥

हा पुत्र रक्षितेनापि क्षणक्षयनिपातिना ।
न जीवामि सदोषेण कायेनेव त्वया विना ॥ १२६ ॥

इत्युक्त्वा पुत्रशोकेन चिताग्निमविशन्मुनिः ।
महत्स्वपि नवोत्सेकादभग्नप्रसराः शुचः ॥ १२७ ॥

अथ याते शनैः काले बृहद्युम्नस्य भूपतेः ।
याजकौ जग्मतुर्गेहमर्वावसुपरावसू ॥ १२८ ॥

प्रवृत्ते विधिवत्तस्य दीर्घसत्त्रे पृथुश्रियः ।
दानमानोदयः कोऽपि तयोर्याजकयोरभूत् ॥ १२९ ॥

कदाचिद्दिनपर्यन्तसंध्यायां निजमाश्रमम् ।
परावसुः समागच्छन्दृष्ट्वा पितरमग्रतः ।। १३० ॥

कृष्णाजिनोत्तरासङ्गं दण्डेन मृगशङ्कया ।
जघान शापविवशः स तेनाभूद्विचेतनः ॥ १३१ ॥

जनकं हतमालोक्य ब्रह्महत्याभयाकुलः ।
गत्वा यज्ञभुवं भ्रात्रे स तमर्थं न्यवेदयत् ॥ १३२ ॥

अर्वावसुस्तमवदद्भ्रातः किं क्रियते विधेः ।
भवन्ति यस्य संकल्पादेवंरूपा विपर्ययाः ॥ १३३ ॥

धर्मार्थी पापमाप्नोति शीलार्थी शीलविप्लवम् ।
विधौ विधुरतां याते द्रविणार्थी दरिद्रताम् ॥ १३४ ॥

ब्रह्महत्याव्रतं तीव्रं भवतोऽर्थे चराम्यहम् ।
त्वमस्य कुरु भूभर्तुः संपूर्णां याजनक्रियाम् ॥ १३५ ॥

उक्त्वेत्यर्वावसुर्भ्रातुः पापशान्त्यै धृतव्रतः ।
चकार सर्वतीर्थेषु तीव्रनिष्कृतिपारणम् ॥ १३६ ॥

तं समाप्तव्रतं प्राप्तं राज्ञो यज्ञवसुंधराम् ।
दूरात्परावसुर्ज्ञात्वा पितृघ्नः समचिन्तयत् ॥ १३७ ॥

अयं मे दक्षिणाकाले भागहर्ता समागतः ।
मदभाग्यैश्चिरं तीव्रव्रतक्लिष्टोऽपि जीवति ॥ १३८ ॥

इति संचिन्त्य सोऽभ्येत्य प्रोवाच पृथिवीपतिम् ।
लोभमात्सर्ययोरङ्के पतितः पातकेच्छया ॥ १३९ ॥

राजन्यज्ञमहीमेष किल्बिषी ब्रह्महत्यया ।
प्रविशत्यविकल्पेन मद्भ्राता वार्यतामितः ॥ १४० ॥

इत्युक्तस्तेन नृपतिः कृतघ्नेन विपर्ययात् ।
तस्य प्रवेशमज्ञानान्निष्पापस्य न्यवारयत् ॥ १४१ ॥

अन्धा इव न पश्यन्ति योग्यायोग्यं हिताहितम् ।
पथा तेनैव गच्छन्ति नीयन्ते येन पार्थिवाः ॥ १४२ ॥

मिथ्यापवाददानेन नैव भ्रात्रे चुकोप सः ।
निकारे कारणं दैवं मन्यन्ते हि मनीषिणः ॥ १४३ ॥

तेन तस्यानृशंस्येन निर्विकारतया तया ।
तुष्टाः क्रतुसमासीनास्तमूचुस्त्रिदिवौकसः ॥ १४४ ॥

प्रशमेन तवानेन प्रसन्नास्ते वयं मुने ।
वरार्होऽपि वराचार गृह्यतां प्रवरो वरः ॥ १४५ ॥

इत्युक्तः स सुरैः प्रीत्या तानुवाच कृताञ्जलिः ।
यदि युष्मद्वरार्होऽहं दीयतां यन्ममेप्सितम् ॥ १४६ ॥

मत्पित्रा योऽभिचारेण भरद्वाजात्मजो हतः ।
स जीवत्वस्मृतक्रूरनिकारः स च तत्पिता ॥ १४७ ॥

अस्मत्पिता मृगधिया यः परावसुना हतः ।
सोऽपि विस्मृततत्कोपः स्वस्थः प्राप्नोतु जीवितम् ॥ १४८ ॥

इत्यर्थिते वरे तेन तथेत्याख्यायि तैः सुरैः ।
यवक्रीतभरद्वाजरैभ्याः प्रापुः स्वजीवितम् ॥ १४९ ॥

इत्येते मुनयोऽपि दर्पविफले याते श्रुते शोच्यतां
क्रोधान्ध्येन पुनः प्रनष्टविमलालोके विवेके च्युते ।
शीले रागमहोष्मणा विगलिते द्वेषेण नाशं गताः
कस्यान्यस्य धनाभिमानमलिना विद्या विधत्ते गुणम् ॥ १५० ॥

चेतः शान्त्यै द्वेषदर्पोज्झितेन यत्नः कार्यः सर्वथा पण्डितेन ।
विद्यादीपः कामकोपाकुलाक्ष्णां दर्पान्धानां निष्फलालोक एव ॥ १५१ ॥

अलोभः परमं वित्तमहिंसा परमं तपः ।
अमाया परमा विद्या निरवद्या मनीषिणाम् ॥ १५२ ॥

शुक्रस्य विद्या धनदार्थहर्तुमार्याप्रपञ्चोपचितस्य शोच्या ।
कचस्य वाचस्पतिजन्मनोऽपि व्याजेन विद्या विफलीबभूव ॥ १५३ ॥

स्पृशति मतिं नहि तेषां द्वेषविषः कलिसर्पः ।
यदि शमविमलमतीनां स्वमनसि भवति न दर्पः ॥ १५४ ॥