प्रमुखा विकल्पसूचिः उद्घाट्यताम्

दर्पदलनम्/द्वितीयो विचारः

< दर्पदलनम्

दर्पदलनम्

धनेन दर्पः किमयं नराणां लक्ष्मीकटाक्षाञ्चलचञ्चलेन ।
यत्कंधराबद्धमपि प्रयाति नैकं पदं कालगतस्य पश्चात् ॥ १ ॥

सुरक्षितं तिष्ठति निर्निमित्तमरक्षितं तिष्ठति दैवयोगात् ।
स्थितं कदर्यस्य च चोपयुक्तमुन्मत्तनृत्तोपममेव वित्तम् ॥ २ ॥

कर्मोक्तिनर्मनिर्माणैः प्रातः प्रातः प्रधावताम् ।
धनं धनं प्रलपतां निधनं विस्मृतं नृणाम् ॥ ३ ॥

विच्छाययोर्निर्व्यययोः कष्टक्लिष्टकलत्रयोः ।
विशेषः क्लेशदोषस्य कः कदर्यदरिद्रयोः ॥ ४ ॥

ये धनादानसंनद्धा नेक्षन्ते निधनावधिम् ।
निन्दन्तो लुब्धतां तेषामन्तेऽन्ये भुञ्जते धनम् ॥ ५ ॥

उक्तं परस्यामिषतामनुक्तं यात्यदृश्यताम् ।
हृदये शल्यतां धत्ते निधने धनिनां धनम् ॥ ६ ॥

धनेन जीवितेनेव कण्ठस्थेन निरीक्षते ।
पर्यन्तेऽप्यप्रकाशेन बन्धूनां मुखमातुरः ॥ ७ ॥

यदर्जितं परिक्लेशैरर्जितं यन्न भुज्यते ।
विभज्यते यदन्तेऽन्यः कस्यचिन्मास्तु तद्धनम् ॥ ८ ॥

विद्या विवादाय धनं मदाय प्रज्ञाप्रकर्षः परवञ्चनाय ।
अत्युन्नतिर्लोकपराभवाय येषां प्रकाशस्तिमिरं हि तेषाम् ॥ ९ ॥

अशान्तान्तस्तृष्णा धनलवणवारिव्यतिकरै-
र्गतच्छायः कायश्चिरविरसरूक्षाशनतया ।
अनिद्रा मन्दोऽग्निर्नृपसलिलचौरानलभया-
त्कदर्याणां कष्टं स्फुटमधनकष्टादपि परम् ॥ १० ॥

श्रावस्त्यां सार्थवाहोऽभूदर्थनाथ इवापरः ।
नन्दो नाम निरानन्दः कीर्तनेनार्थिनामपि ॥ ११ ।।
स कदर्यः सदा सर्वजनस्योद्वेगदुःसहः ।
मूर्धशायी निधानानां कालव्याल इवाभवत् ॥ १२ ॥

कृत्वा समस्तं दिवसं धनानां निधानकुम्भीगणनाविधानम् ।
स लाजपेयापलमानशीलमश्नाति रात्रावुदरं सशूलम् (?) ॥ १३ ॥

निर्व्यञ्जनं निर्लवणं विनष्टममृष्टपाकं विनिविष्टकष्टम् ।
अदृष्टहासं व्ययसंनिरोधात्तस्याभवद्वेश्म सशोकमूकम् ॥ १४ ॥

विच्छायं निःसुखानन्दं निर्दीपं जलवर्जितम् ।
तस्य कष्टं कदर्यस्य परलोकमभूद्गृहम् ॥ १५ ॥

स भक्तसंचये नित्यमभक्तः संततामयैः ।
सुवर्णवान्विवर्णोऽभूत्संपूर्णश्चिन्तया कृशः ॥ १६ ॥

पुण्यप्राप्या मतिर्नाम धनर्द्धिरिव रूपिणी ।
भार्याभूत्तदयोग्यस्य तस्य दैवविपर्ययात् ॥ १७ ॥

सदा प्रच्छाद्य सा भर्तुश्चकारातिथिसत्क्रियाम् ।
तेन व्ययविवादेषु शोषिता कलहाग्निना ॥ १८ ॥

तस्यां तस्याभवत्सूनुः सगुणश्चन्दनाभिधः ।
पित्रा लोभान्धकारेण नीतः पद्म इवान्यताम् ॥ १९ ॥

कदाचित्स्वगृहद्वारि दृष्ट्वा लब्धान्नमर्थिनम् ।
चकार कलहं नन्दः पत्न्या शोणितपातनम् ॥ २० ॥

सोऽवदत्कोपदष्टौष्ठः श्वसन्भार्यामधोमुखीम् ।
तत्स्पर्सपापं स्तनयोः क्षाल्यन्तीमिवाश्रुभिः ॥ २१ ॥

मम दास्यति को भिक्षां त्वत्पाणिक्षीणसंपदः ।
दारिद्र्यजननी यस्य स्थिता त्वं दुर्भगा गृहे ॥ २२ ॥

स्त्रियो यत्र प्रगल्भन्ते भर्तुराच्छाद्य कर्तृताम् ।
गृहं भवत्यवश्यं तदास्पदं परमापदाम् ॥ २३ ॥

गृहमेकं गृहस्थस्य गृहाणां शतमर्थिनः ।
भार्याभर्जितवित्तस्य नष्टा गृहपतेर्गतिः ॥ २४ ॥

तृप्तिदं दर्शनेनापि जन्तोर्जीवितजीवितम् ।
द्रविणं येन रक्षन्ति स्वकायं भक्षयन्ति ते ॥ २५ ॥

जीवन्नप्यक्रियो निःस्वः शवोऽप्यर्थेन सक्रियः ।
दारिद्र्यं मरणं लोके धनमायुः शरीरिणाम् ॥ २६ ॥

एतदेवार्थसामर्थ्यं प्रत्यक्षेणोपलक्ष्यते ।
यत्स्कन्धबन्धे जीवद्भिः शवः शिबिकयोह्यते ॥ २७ ॥

प्रयच्छसि किमर्थिभ्यस्त्वमन्नं क्लेशसंचितम् ।
दीयते यत्किल प्राप्त्यै तत्प्राप्तं किं न रक्ष्यते ॥ २८ ॥

पुत्रदारादिसंबन्धः पुंसां धननिबन्धनः ।
क्षीणात्पुत्राः पलायन्ते दारा गच्छन्ति चान्यतः ॥ २९ ॥

पण्डिताः कवयः शूराः कलावन्तस्तपस्विनः ।
वैद्यस्येव सवित्तस्य वीक्षन्ते मुखमातुराः ॥ ३० ॥

इति तस्य वचः श्रुत्वा कृपणस्यार्थनिष्कृपम् ।
सा तमूचे समुचितं सत्त्वस्याभिजनस्य च ॥ ३१ ॥

सन्तः कुर्वन्ति यत्नेन धर्मस्यार्थे धनार्जनम् ।
धर्माचारविनीनानां द्रविणं मलसंचयः ॥ ३२ ॥

यत्करोत्यरुचिं क्लेशं तृष्णं मोहं प्रजागरम् ।
न तद्धनं कदर्याणां हृदयव्याधिरेव तत् ॥ ३३ ॥

वर्धते यो धनव्याधिः सुखभोगवियोगकृत् ।
तस्याशु शमनं पथं राजवैद्यचिकित्सया ॥ ३४ ॥

लोभान्नाभूद्गृहे यस्य कदाचित्कश्चिदुत्सवः ।
नृत्यन्ति पटहैस्तस्य निधने धनभागिनः ॥ ३५ ॥

कणाचामतुषाङ्गारान्यत्नेन परिरक्षसि ।
मूषकापहृतं कोषे रत्नराशिं न पश्यसि ॥ ३६ ॥

धनेन दर्पः को नाम यत्क्षणेन विनश्यति ।
रक्ष्यमाणं व्ययेनैव भक्ष्यमाणमुपप्लवैः ॥ ३७ ॥

विचार्यमाणस्तत्त्वेन दैवाधीनतया नृणाम् ।
न कस्यांचिदवस्थायां धनलोभः प्रशस्यते ॥ ३८ ॥

कलौ काले खले मित्रे पुत्रे दुर्व्यसनान्विते ।
तस्करेषु प्रवृद्धेषु लुब्धे राज्ञि धनेन किम् ॥ ३९ ॥

ॠणिकैः कलहैर्नित्यमच्छिन्नगुणनागतेः ।
दानद्विषोऽनपत्यस्य मन्दाग्नेश्च धनेन किम् ॥ ४० ॥

सहसासादितार्थस्य राजद्रोहादिपातकैः ।
भयादव्ययशीलस्य शल्येनेव धनेन किम् ॥ ४१ ॥

घोरप्रतिग्रहग्रामग्रस्तोदग्रगुणौजसः ।
तद्विभागानभिज्ञस्य धूर्ताप्तस्य धनेन किम् ॥ ४२ ॥

रात्रिसेवावसन्नस्य शीतवातातपस्थितेः ।
प्रभुदृष्टिप्रहृष्टस्य कष्टार्हस्य धनेन किम् ॥ ४३ ॥

प्रभूतलाभलोभेन प्रयुक्तार्थस्य सर्वतः ।
भूर्जदृष्टेन तुष्टस्य नष्टबुद्धेर्धनेन किम् ॥ ४४ ॥

मलशीलस्य वणिजस्थूत्कृतस्य जुगुप्सया ।
लशुनस्याशुचेः पाकगन्धेनेव धनेन किम् ॥ ४५ ॥

काङ्क्षितेनाप्यलब्धेन भोगार्हे नवयौवने ।
जराजीर्णशरीरस्य भारेणेव धनेन किम् ॥ ४६ ॥

प्रव्रज्यात्यक्तगेहस्य जनगौरवपूजया ।
धनसंघटितार्थस्य बन्धेनेव धनेन किम् ।। ४७ ॥

शिशोरङ्कुशशून्यस्य पातितस्यापथे विटैः ।
क्षणक्षयोपयोगेन स्वप्नेनेव धनेन किम् ॥ ४८ ॥

भार्यया स्वैरचारिण्या ग्रामस्थस्य नियोगिनः ।
प्रसभं भुज्यमानेन पापाप्तेन धनेन किम् ॥ ४९ ॥

शिष्यसंपादिताशेषभोगवस्त्रादिसंपदः ।
गुरोर्दम्भेन सिद्धस्य संचितेन धनेन किम् ॥ ५० ॥

राजकोषनियुक्तस्य चौर्यचिह्नेन केवलम् ।
व्ययेन शङ्कनीयस्य वधेनेव धनेन किम् ॥ ५१ ॥

अज्ञातभाविचौरादिदोषैर्नित्यविनाशिना ।
हास्यैकहेतुना लोके गणकस्य धनेन किम् ॥ ५२ ॥

पिटकस्येव पूर्णस्य पीडनीयस्य भूभुजा ।
निष्पाकशाकभोज्यस्य ग्रामीणस्य धनेन किम् ॥ ५३ ॥

कलमाक्रान्तविश्वस्य मषीकृष्णस्य भोगिनः ।
आसन्नबन्धनस्यान्ते दिविरस्य धनेन किम् ॥ ५४ ॥

गृहिणीविग्रहोग्रस्य मुहुस्तृण उपेक्षया (?) ।
कोपोपवासनिःश्वाससंतप्तस्य धनेन कि ॥ ५५ ॥

मलिनस्य कुवस्त्रस्य स्वल्पाशनपरस्य च ।
दारिद्र्याधिककष्टस्य कदर्यस्य धनेन किम् ॥ ५६ ॥

निर्धनाः सुखिनो दृष्टाः सधनाश्चातिदुःखिताः ।
सुखदुःखोदये जान्तोर्दैवाधीने धनेन किम् ॥ ५७ ॥

समानेषु व्यतीतेषु स्वजने शून्यचेतसः ।
विरसासारसंसारविरक्तस्य धनेन किम् ॥ ५८ ॥

यथावाप्तोपयुक्तार्थनिश्चिन्तस्य विपश्चितः ।
अत्यल्पपरितुष्टस्य संतुष्टस्य धनेन किम् ॥ ५९ ॥

बालस्तृणे च कनके च समानदृष्टि-
रिष्टं न वेत्ति विषयेष्वविशेषबुद्धिः ।
वित्तेन कोषपरिपोषसहेन तस्मि-
न्काले विवेकविकलो वद किं करोति ॥ ६० ॥

प्राणाधिकस्य सुहृदस्तरुणीजनस्य
पुत्रस्य वा गुणनिधेः सहसा वियोगे ।
शोकेन शोचति यदा विवशः शरीरी
रत्नाचलैरपि तदा वद किं करोति ॥ ६१ ॥

नार्थं शृणोति न पुनः स्थितिमीहते वा
स्पर्शं न वेत्ति न रसं न तथाधिवासम् ।
वृद्धः प्रयाति पवनेन यदा जडत्वं
भोगैर्धनेन च तदा वद किं करोति ॥ ६२ ॥

रोगार्दितः स्पृशति नैव दृशापि भोज्यं
तीव्रव्यथः स्पृहयते मरणाय जन्तुः ।
सर्वौषधेषु विफलेषु यदा विरौति
धान्यैर्धनेन च तदा वद किं करोति ॥ ६३ ॥

निद्राच्छेदसखेदबान्धवजनः सोद्वेगवैद्योज्झितः
पाकक्वाथकदर्थितः परिजनैस्तन्द्रीभयात्क्षोभितः ।
भग्नस्वास्थ्यमनोरथः प्रियतमावष्टब्धपादद्वयः
पर्यन्ते वपुषः करोति पुरुषः किं शल्यतुल्यैर्धनैः ॥ ६४ ॥

अलंकृतः काञ्चनकोटिमूल्यैर्महार्हरत्नैर्गजवाजिवाहैः ।
निमेषमात्रं लभते न जीवं कालेन काले शिखया गृहीतः ॥ ६५ ॥

निश्चेतनः काष्ठसमानकायस्त्यक्तः क्षणात्पुत्रकलत्रमित्रैः ।
भुभाशुभप्राक्तनकर्मभागी यत्नाप्तरत्नैर्वद किं करोति ॥ ६६ ॥

तस्मात्प्रभूतविभवोद्भवविभ्रमेण
भूताभिभूत इव मा भव साभिमानः ।
एताः श्रियः प्रबललोभघनान्धकार-
विद्युल्लतापरिचिताः सहसैव यान्ति ॥ ६७ ॥

नष्टे लज्जितवित्तनाथविभवे साम्राज्यभोगे पुरा
श्रूयन्ते नलरामपाण्डुतनयाः कष्टं प्रविष्टा वनम् ।
शक्रः श्रीविरहे विवेश नलिनीनालान्तरलं ह्रिया
कस्यास्था विविधावधानविधिना निःसंनिधाने धने ॥ ६८ ॥

इत्युक्तोऽप्यसकृत्पत्न्या स्वलोभान्न चचाल सः ।
स्वभावः सर्वभूतानां सहजः केन वार्यते ॥ ६९ ॥

ततः स काले लोभेन भिषग्भैषज्यवर्जितः ।
कोषे निधानकुम्भेषु लीनपृष्टो व्यपद्यत ॥ ७० ॥

अदत्तभुक्तमुत्सृज्य धनं सुचिररक्षितम् ।
मूषका इव गच्छन्ति कदर्याः स्वक्षये क्षयम् ॥ ७१ ॥

तस्य यातस्य निरयं निनाय नृपतिर्धनम् ।
पर्यन्ते राजगामिन्यो लुब्धानां धनसंपदः ॥ ७२ ॥

तत्सूनोश्चन्दनस्याथ शेषार्थेनापि भूयसा ।
बभूव भूरिसंभारभोगव्ययमहोत्सवः ॥ ७३ ॥

मा कश्चिन्नाम नन्दस्य मन्दाग्नेरिह भाषताम् ।
भोगभङ्गभयेनेति प्रातस्तत्राबवीज्जनः ॥ ७४ ॥

धिग्धिग्धनं कुनिधनं नन्दस्येवात्मबाधनम् ।
दीयतां भुज्यतां सर्वमित्यूचुः पुरवासिनः ॥ ७५ ॥

ततः काले मते बाह्यकोष्ठद्वारान्तवासिनी ।
वृद्धान्धा सुषुवे पुत्रं चण्डाली खण्डिकाभिधा ॥ ७६ ॥

अन्धः कुब्जः कृशः खञ्जः कुष्ठी स्थूलगलग्रहः ।
समूह इव दुःखानां स तस्यास्तनयोऽभवत् ॥ ७७ ॥

तदपुण्यैः परिक्षीणे मातुः क्षीरे स निश्चलः ।
कृपया बान्धवस्त्रीभिः शुनीक्षीरेण वर्धितः ॥ ७८ ॥

एतदेव विरुद्धानां वैचित्र्यं पूर्वकर्माणाम् ।
कृच्छ्रावसन्ना जीवन्तिं विपद्यन्ते यदीश्वराः ॥ ७९ ॥

व्रणैः स पूतिकलिलक्लाम्यत्कृमिकुलैर्वृतः ।
पक्वणे कुणपाकारस्तस्थौ क्लिन्नतृणास्तरे ॥ ८० ॥

तस्मिन्नप्यतिवात्सल्यात्पुत्रास्थां जननी स्थिराम् ।
बबन्ध वासनालीनः स्नेहमोहो हि दुःसहः ॥ ८१ ॥

स वर्धमानः शनकैः स्मशानाङ्गारधूसरः ।
पक्वणोग्रपिशाचानामप्युद्वेगकरोऽभवत् ॥ ८२ ॥

यष्टीनिषण्णगमनः कुष्टक्लेदजुगुप्सितः ।
स जगाम पथा येन प्रययौ तेन नापरः ॥ ८३ ॥

अत्रान्तरे चन्दनस्य पितुः श्राद्धदिने महान् ।
बभूवार्थिसमूहान्नदाने कलकलस्वनः ॥ ८४ ॥

ततः कर्परमादाय स चण्डालशिशुः शनैः ।
आचामयाचकः कृच्छ्राद्द्वाराग्रभुवमाययौ ॥ ८५ ॥

तं दृष्ट्वा चन्दनः सौधाद्विप्राणां मार्गदूषणम् ।
निवार्यतामयं प्राप्तस्तूर्णमित्यवदत्क्रुधा ॥ ८६ ॥

प्रभुभ्रूभङ्गभीतेन लगुडेनाहतस्ततः ।
द्वारपालेन सावर्तः स कपोत इवाभवत् ॥ ८७ ॥

स निर्भिन्नललाटास्थिप्रक्षरत्क्षतजोक्षितः ।
क्षणं संमूर्च्छितः प्राप क्लेशभोगाय जीवितम् ॥ ८८ ॥

अदूरवर्तिनी श्रुत्वा चण्डाली तद्यथारवम् ।
उपसृत्य शुशोचार्ता स्पृशन्ती तस्य शोणितम् ॥ ८९ ॥

केन निष्करुणेनेदं दर्शितं बत पौरुषम् ।
प्रक्लिन्नकायविकले येनास्मिन्सुभटायितम् ॥ ९० ॥

कायापापमयीं दुःखदशां दृष्ट्वास्य दुःसहाम् ।
वैराग्यावसरे केन क्रौर्यमेवंविधं कृतम् ॥ ९१ ॥

आर्तिमेवंविधामस्य हृदयक्लेदिनीमिमाम् ।
विलोक्य कुर्यात्कः पापं पापं हि पदमापदाम् ॥ ९२ ॥

यद्यनेन महत्पापं न कृतं पूर्वजन्मनि ।
तदुच्यतां स्फुरत्कष्टा दृष्टा कस्येदृशी दशा ॥ ९३ ॥

ये दृश्यन्ते विपत्क्लेशविशेषविषमव्यथाः ।
त एव गुरवः पापवापस्य (?) करणे नृणाम् ॥ ९४ ॥

करुणार्हेषु शूराणामुपकारिषु वैरिणाम् ।
वञ्चकानामपापेषु पापसंख्यां करोति कः ॥ ९५ ॥

तारं रोदिषि किं पुत्र सहस्वाघातजां रुजम् ।
अशर्मकर्मनिर्माणं मर्मच्छेदि शरीरिणाम् ॥ ९६ ॥

इति तस्यां प्रलापिन्यां प्रेक्षवाप्ते जने जिनः ।
अनाथबन्धुः करुणासिन्धुस्तेनाययौ पथा ॥ ९७ ॥

भवभ्रमासक्तपरिश्रमाणां रागादिदोषैरुपतापितानाम् ।
आश्वासनेनामृतसोदरेण लिम्पन्निव द्यां द्युतिचन्दनेन ॥ ९८ ॥

दृष्ट्वा तमापद्गतमुग्ररोगभग्नं निमग्नं व्यसने विविग्नम् ।
व्यलम्बतार्द्रः करुणारसेन तत्तापशान्त्यै भगवाञ्जिनेन्द्रः ॥ ९९ ॥

तत्संनिधानेन मुहूर्तमात्रं स निर्व्यथः स्वास्थ्यमिवाससाद ।
निहन्ति पापं कुशलं प्रसूते संदर्शनं सत्त्वहिताशयानाम् ॥ १०० ॥

ज्ञात्वाथ चन्दनः प्राप्तं भगवन्तं तथागतम् ।
विकसत्कुसुमस्मेरं पूजामादाय निर्ययौ ॥ १०१ ॥

भगवानपि साश्चर्यप्रभावादुद्गतं भुवः ।
हैमं कमलमारुह्य तस्थौ पर्यङ्कलीलया ॥ १०२ ॥

प्रणतं चरणालीनं पूजाव्यग्रकरं पुरः ।
बभाषे भगवान्प्रीतो भिक्षुसंसदि चन्दनम् ॥ १०३ ॥

किमयं याचमानोऽपि वराकस्ताडित्ः क्रुधा ।
कृतं न कृपणे कस्मात्करुणाकोमलं मनः ॥ १०४ ॥

दयार्द्राः सर्वसत्त्वेषु भवन्ति विमलाशयाः ।
एवंविधानां दुःखानां कारणं कलुषं मनः ॥ १०५ ॥

कृतक्रूरापकारेषु विद्वेषपरुषेष्वपि ।
भवन्ति सन्तः क्लेशोष्मशोषितेषु न कर्कशाः ॥ १०६ ॥

क्लिष्टः कष्टं कदर्योऽयं लोभेनापरजन्मनि ।
अप्रदानोद्यतेनाद्य कायक्लेशेन पीडितः ॥ १० ७ ॥

एष नन्दस्तव पिता पूर्णार्थमलसंचयात् ।
आवृतः पापरोगेण चण्डालत्वमुपागतः ॥ १०८ ॥

जन्मान्तरेऽप्यतोऽन्यस्मिन्रोगयोगान्मुमूर्षणा ।
सुवर्णं दत्तमेतेन तेनायं सधनोऽभवत् ॥ १०९ ॥

अन्त्यक्लेशदशायां यन्मुमूर्षुः संप्रयच्छति ।
तच्चाभोग्यं भवत्यस्य लोभादन्येषु जन्मसु (?) ॥ ११० ॥

दत्त न वित्तं करुणानिमित्तं लोभप्रवृत्तं कृतमेव चित्तम् ।
यैः संचयोसाहरसैः प्रनृत्तं शोचन्ति ते पातकमात्मवृत्तम् ॥ १११ ॥

इत्युक्त्वा भगवान्पुण्यां विदधे धर्मदेशनाम् ।
यया क्लेशप्रहाणार्हमर्हत्त्वं प्राप चन्दनः ॥ ११२ ॥

तस्मान्न दर्पः पुरुषेण कार्यः प्रवर्धमानेन धनोदयेन ।
अदानभोगोपहतं हि वित्तं पुंसां परत्रेह च दुर्निमित्तम् ॥ ११३ ॥