प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

दर्पदलनम्/प्रथमो विचारः

< दर्पदलनम्

दर्पदलनम्

प्रशान्ताशेषविघ्नाय दर्पसर्पापसर्पणात् ।
सत्यामृतनिधानाय स्वप्रकाशविकासिने ॥ १ ॥

संसारव्यतिरेकाय हृतोत्सेकाय चेतसः ।
प्रशमामृतसेकाय विवेकाय नमो नमः ॥ २ ॥ (युग्मम्)

क्षेमेन्द्रः सुहृदां प्रीत्या दर्पदोषचिकित्सकः ।
स्वासथ्याय कुरुते यत्नं मधुरैः सूक्तिभेषजैः ॥ ३ ॥

कुलं वित्तं श्रुतं रूपं शौर्यं दानं तपस्तथा ।
प्राधान्येन मनुष्याणां सप्तैते मदहेतवः ॥ ४ ॥

अहंकाराभिभूतानां भूतानामिव देहिनाम् ।
हिताय दर्पदलनं क्रियते मोहशान्तये ॥ ५ ॥

कुलं कुलं कलयतां मोहान्मिथ्याभिमानिनाम् ।
लग्नः कोऽयं न जानीमः स्तब्धग्रीवाग्रहग्रहः ॥ ६ ॥

कुलस्य कमलस्येव मूलमन्विष्यते यदि ।
दोषपङ्कप्रस्तान्तस्तदावश्यं प्रकाशते ।। ७ ॥

यथा जात्यतुरंगस्य न शक्यज्जात्य(?)मुच्यते ।
तथा गुणवतः सूनुर्निर्गुणस्तत्कुलोद्भवः ॥ ८ ॥

एकश्चेत्पूर्वपुरुषः कुले यज्वा बहुश्रुतः ।
अपरः पापकृन्मूर्खः कुलं कस्यानुर्वर्तताम् ।। ९ ॥

लोके कुलं कुलं तावद्यावत्पूर्वसमन्वयः ।
गुणप्रभावे विच्छिन्ने समाप्तं सकलं कुलम् ॥ १० ॥

कुलाभिमानः कस्तेषां जघन्यस्थानजन्मनाम् ।
कुलकूलंकषा येषां जनन्यो निम्नगाः स्त्रियः ।। ११ ॥

कुलीनस्य कुलीनस्य नवदारिद्र्यलज्जया ।
किं कुलेनाकुलीनाग्रे याञ्चादैन्यप्रलापिनः ॥ १२ ॥

गुणवत्कुलजातोऽपि निर्गुणः केन पूज्यते ।
दोग्ध्रीकुलोद्भवा धेनुर्वन्ध्या कस्योपयुज्यते ॥ १३ ॥

स्वयं कुलकृतस्तस्माद्विचार्य त्यज्यतां मदः ।
गुणाधीनं कुलं ज्ञात्वा गुणेष्वाधीयतां मतिः ॥ १४ ॥

मूलान्वेषणचिन्त्यमानमनिशं नास्त्येव पुंसां कुलं
स्त्रीणां यत्र परम्परैव तनुते संतानतन्तुक्रमम् ।
एतासां कृतकप्रपञ्चरचनालज्जावतीनां पुरः
संसक्तस्मररूढगूढचरितं तत्त्वेन जानाति कः ॥ १५ ॥

कुलाभिमानाभरणस्य माता पितामही वा प्रपितामही वा ।
योषित्स्वभावेन यदि प्रदुष्टा तदेष दोषः कुलमूलघातः ॥ १६ ॥

सूर्यवंशे त्रिशङ्कुर्यश्चण्डालोऽभून्महीपतिः ।
दिलीपरघुरामाद्याः क्षितिपास्तत्कुलोद्भवाः ॥ १७ ॥

भूभुजां सोमवंश्यानां यः पूर्वपुरुषो बुधः ।
गुरुतल्पे स चन्द्रस्य जातो जगति विश्रुतः ॥ १८ ॥

कन्यायास्तनयः कर्णः क्षेत्रजाः पाण्डुनन्दनाः ।
सामान्यकुलचर्चाभिः किमन्याभिः प्रयोजनम् ॥ १९ ॥

मथुरायामभूत्पूर्वं ब्राह्मणः श्रीमतां वरः ।
यज्वा श्रुतनिधिर्नाम श्रुतिमान्विश्रुतश्रुतः ॥ २० ॥

तस्य मुक्तालता नाम प्रांशुवंशसमुद्भवा ।
बभूव वल्लभा पत्नी लावण्यललिताकृतिः ॥ २१ ॥

तस्यां तस्याभवत्कान्तः सुवृत्तः सगुणाग्रणीः ।
पुत्रस्तेजोनिधिर्नाम विद्याविमलदर्पणः ॥ २२ ॥

स धीमान्वेदविद्वादी कविः सर्वकलालयः ।
सभासु विदुषां चक्रे लज्जयावनतं शिरः ॥ २३ ॥

तं दर्पदोषज्वरितं ग्रीवास्तम्भयुतं रहः ।
प्रशमाय पिता स्नेहात्पथ्यं वक्तुं प्रचक्रमे ॥ २४ ॥

पुत्र मिथ्याभिमानेन किं प्रयातोऽसि मूढताम् ।
यन्मदद्विरदारूढः पूज्यपूजासु लज्जसे ॥ २५ ॥

नास्त्युपायः स संसारे दर्पश्वभ्रनिपातिनाम् ।
मूढानां क्रियते येन क्षनं हस्तावलम्बनम् ॥ २६ ॥

कष्टं केनोपदिष्टस्ते विनष्टविनयस्मृतेः ।
मदः साधुजनाविष्टः कुलविद्याधनोद्भवः ॥ २७ ॥

अस्थिरः कुलसंबन्धः सदा विद्याविवादिनी ।
मदो मोहाय मिथ्यैव मुहूर्तनिधनं धनम् ॥ २८ ॥

एतदेव कुलीनत्वमेतदेव गुणार्जनम् ।
यत्सदैव सतां सत्सु विनयावनतं शिरः ॥ २९ ॥

दयैव विदिता विद्या सत्यमेवाक्षयं धनम् ।
अकलङ्कविवेकानां शीलमेवामलं कुलम् ॥ ३० ॥

अभोगसुभगा भूतिरदैन्यधवलं कुलम् ।
अदर्पविशदा विद्या भवत्युन्नतचेतसाम् ॥ ३१ ॥

द्वेषः कस्य न दोषाय प्रीतिः कस्य न भूतये ।
दर्पः कस्य न पाताय नोन्नत्यै कस्य नम्रता ॥ ३२ ॥

त्यागिना किं दरिद्रेण किं कुलीनेन पापिना ।
तुष्टेन किं कदर्येण दर्पान्धेन बुधेन किम् ॥ ३३ ॥

वैरायते सुहृद्भावः प्रदानं हरणायते ।
दर्पभूताभिभूतस्य विद्या मौर्ख्यशतायते ॥ ३४ ॥

गुणिनां मत्सरः शत्रुर्लुब्धानामतियाचकः ।
सर्व एव सदर्पाणां न कश्चित्प्रियवादिनाम् ॥ ३५ ॥

तस्मात्कार्यस्त्वया पुत्र नाहंकारः कदाचन ।
दर्पोद्ग्रीवः किलोग्रेण मोहग्राहेण गृह्यते ॥ ३६ ॥

वंशेनोन्नतिशालिना गुणगणेनान्तश्चमत्कारिणा
रूपेणातिमनोहरेण महता वित्तेन वृत्तेन वा ।
रोहन्मोहमहातरुर्मदमयः संजायते यः सदा
तस्यादौ दृढरूढमूलदलने कार्योऽभियोगस्त्वया ॥ ३७ ॥

गुणेष्वनादरं पुत्र प्राप्तश्रीरपि मा कृथाः ।
संपूर्णोऽपि घटः कूपाद्गुणच्छिन्नः पतत्यधः ॥ ३८ ॥

कुलाभिमानं त्यज संवृत्ताग्रं धनाभिमानं त्यज दृष्टनष्टम् ।
विद्याभिमानं त्यज पण्यरूपं रूपाभिमानं त्यज काललेह्यम् ॥ ३९ ॥

पुत्र प्रयत्नेन विबोधितोऽसि न मुञ्चसि त्वं यदि दर्पमोहम् ।
तदेष ते यास्यति शल्यभावं तीव्राभितापप्रसवोऽभिमानः ॥ ४० ॥

विभूतिनलिनीगजः सुजनमानभङ्गशनि-
निपातपथदैशिकः सुकृतचित्रधूमोद्गमः ।
पराशयनवज्वरश्चरितचन्द्रबिम्बाम्बुदः
सदा समदचेतसां गुणविनाशहेतुर्मदः ॥ ४१ ॥

अनित्यतेयं यदि नित्यता स्यात्सर्वं न पाके विरसं यदि स्यात् ।
कुलार्थविद्यादिकृतोऽभिमानस्तदैष ते स्यान्न विडम्बनीयः ॥ ४२ ॥

अहं वादी विद्यापरिचयगुरुः सर्वविदुषा-
महं मानी वाणीप्रसरपरिपाकेन सुकविः ।
अहं लीलाहंसः कुवलयदृशां मानसचरः
करोत्यन्तः पुंसामिति मदपिशाचः परिचयम् ॥ ४३ ॥

लक्ष्मीः क्षणक्षयवती परिरक्षितापि
कायोऽप्यपायनिचयस्य निकाय एव
संभोगयोगसुखसंगतिरप्यतथ्या
मिथ्याभिमानकलनाघन एष शापः ॥ ४४ ॥

इत्युक्तोऽप्यसकृत्पित्रा लीलामीलितलोचनः ।
स ययौ मत्तहस्तीव वेगादगणिताङ्कुशः ॥ ४५ ॥

पादेन क्षितिमालिखन्ति समदाः कोपोष्णनिःश्वासिन-
स्तिर्यग्जिह्मनिरीक्षणैर्विदधति भ्रूभङ्गभीमं मुखम् ।
सस्वेदाङ्गुलिकन्दलीनिकषणैस्ताम्यल्ललाटत्वचः
कम्पन्ते हितमन्त्रवादसमये भूताभिभूता इव ॥ ४६ ॥

स कदाचिद्वराश्वेषु स्थितेषु जवकौतुकात् ।
प्रतस्थे खरमारुह्य वयस्यगृहमुत्सवे ॥ ४७ ॥

तेन तीक्ष्णप्रतोदेन चोद्यमानः पुनः पुनः ।
खरस्तीव्रव्यथार्तोऽभूत्प्रक्षरत्क्षतजोक्षितः ।। ४८ ॥

स्रुताक्षः कथितक्लेशः स्वस्वनोचितसंज्ञया ।
सोऽवदत्संमुखायातां गर्दभीं जननीं निजाम् ॥ ४९ ॥

मातर्ब्राह्मणपुत्रोऽयं पश्य मामधमाशयः ।
विदारयन्प्रतोदेन वहन्तं हन्तुमुद्यतः ॥ ५० ॥

किं करोमि यमेनाहं लब्धोऽनेन दुरात्मना ।
अवटे पातयाम्येनं तनुं श्वभ्रे क्षिपामि वा ॥ ५१ ॥

इत्यार्तराविणं पुत्रं साश्रुनेत्राथ गर्दभी ।
तमुवाच ससंतापं स्नेहसंक्रन्ततद्यथा ॥ ५२ ॥

वहैन्ं दुर्मदं पुत्र सहस्व विषमां व्यथाम् ।
अस्य नास्त्येव हृदये दारुणे करुणाकणः ।। ५३ ॥

रौद्रः शूद्रेण जातोऽयं ब्राह्मण्यां ब्रह्मवर्जितः ।
परदुःखं न जानाति चण्डं चण्डालचेष्टितः ॥ ५४ ॥

दयादरिद्रं हृदयं वचः क्रकचकर्कशम् ।
योनिसंकरजातानामेतत्प्रत्यक्षलक्षणम् ॥ ५५ ॥

नवनीतोपमा वाणी करुणाकोमलं मनः ।
एकबीजप्रजातानां भवत्यवनतं शिरः ॥ ५६ ॥

रटति कटुकाटोपं कोपादकारणवैरवा-
न्स्पृशति न दयां दैन्यापन्ने विजातितया शठः ।
क्षणरसिकतालोलः सेवाश्रितानवमन्यते
गुणिषु कुरुते गर्वोद्गारानखर्वगलः खलः ॥ ५७ ॥

इति दुःसहमाकर्ण्य गर्दभीवचनं द्विजः ।
सर्वप्राणिस्वनाभिज्ञः संमोहाभिहतोऽपतत् ॥ ५८ ॥

स लब्धसंज्ञः सुचिरान्मेरुशृङ्गादिव च्युतः ।
तत्याज सहसा दर्पं नष्टाखिलकुलोन्नतिः ॥ ५९ ॥

संमूर्च्छितो विषेणेव स गत्वा मातुरन्तिकम् ।
यथाश्रुतं निवेद्यास्यै सर्वं पप्रच्छ तां रहः ॥ ६० ॥

तनुत्यागप्रवृत्तेन पृष्टा सा तेन शापिता ।
अधोमुखी तमवदद्वैलक्ष्यलुलिताक्षरैः ॥ ६१ ॥

लज्जाकरमसत्कर्म कथं तत्कथयामि ते ।
संसारादपि साश्चर्यं गहनं स्त्रीविचेष्टितम् ॥ ६२ ॥

अपि कुञ्जरकर्णाग्रादपि पिप्पलपल्लवात् ।
अपि विद्युद्विलसिताद्विलोलं ललनामनः ॥ ६३ ॥

न बाध्यन्ते गुणैः पत्युर्न लक्ष्यन्ते परीक्षकैः ।
न धनेन निवार्यन्ते शीलत्यागोद्यताः स्त्रियः ॥ ६४ ॥

धनयौवनसंजातदर्पकालुष्यविप्लवाः ।
केनोन्नतपरिभ्रष्टा वार्यन्ते निम्नगाः स्त्रियः ॥ ६५ ॥

देहप्रदाः प्राणहरा नराणां भीरुस्वभावाः प्रविशन्ति वह्निम् ।
क्रूराः परं पल्लवपेशलाङ्ग्यो मुग्धा विदग्धानपि वञ्चयन्ति ॥ ६६ ॥

अहं पुर रजःस्नाता काले कुसुमुलाञ्छने ।
एकाकिनी पुष्पवने यौवनोन्मादिनी स्थिता ॥ ६७ ॥

व्रतदीक्षापरे पत्यौ सेर्ष्येव विनतानना ।
उन्नतस्तनविन्यस्तहस्ता चिरमचिन्तयम् ॥ ६८ ॥

एताः श्वसनसोत्कम्पाः सजृम्भाः षट्पदस्वनैः ।
सोत्कण्ठमिव गायन्ति लताः पुष्परजखलाः ॥ ६९ ॥

उद्भिन्नयौवनाक्रान्ता प्रियभोगवियोगिनी ।
व्रतशेषजुषः पत्युर्दोषेणैवास्मि निष्फला ॥ ७० ॥

इति चिन्ताक्षणे तस्मिंल्लग्नाभिमुखदर्पणः ।
नापितः परिहासाख्यः शीलशत्रुरिवाययौ ॥ ७१ ॥

स मामेकाकिनीं दृष्ट्वा नष्टसंवृत्तिकातराम् ।
पस्पर्शोत्कम्पिनीं पादनखग्रहणलीलया ॥ ७२ ॥

तत्राहं वृत्तकर्तव्या नीचसंगमलज्जया ।
अधोमुखी च्युतं शीलं वीक्षमाणेव मूर्च्छिता ॥ ७३ ॥

अविदूरे चरन्ती सा खरी सर्वं ददर्श तत् ।
गूढगर्भप्रदं चैतत्कर्म मे कुलपातकम् ॥ ७४ ॥

आस्तां किमनया पुत्र गुप्तवृत्तान्तचर्चया ।
संवृत्तान्येव शोभन्ते शरीराणि कुलानि च ॥ ७५ ॥

इति मातुर्वचः श्रुत्वा यातः स सहसान्धताम् ।
जातिमानावपतनान्निर्जीवित इवाभवत् ॥ ७६ ॥

अथ गत्वा निराहारः स कैलासाट्टाहासिनीम् ।
आशां ब्राह्मण्यबद्धाशश्चचार सुचिरं तपः ॥ ७७ ॥

तस्योग्रतपसा तुष्टः स्वयमेव शतक्रतुः ।
ब्राह्मण्यं याचमानस्य न ददौ दुर्लभं भुवि ॥ ७८ ॥

पुनः पुनः स तपसा संतापितजगत्त्रयः ।
सहस्राक्षवरात्प्राप देवत्वं न तु विप्रताम् ॥ ७९ ॥

छन्दोदेवाभिधानोऽथ सोऽभवद्भुवि विश्रुतः ।
प्रत्यब्दमेकदिवसे ह्यर्चनीयो मृगीदृशाम् ॥ ८० ॥

संमोहपातालविशालसर्पस्तस्मान्न कार्यः कुलजातिदर्पः ।
शमक्षमादानदयाश्रयाणां शीलं विशालं कुलमामनन्ति ॥ ८१ ॥

माता न यस्यास्त्यविवेकराशिः पुनर्भवाब्धिर्जनको न यस्य ।
यस्य प्रसक्ता दयिता न तृष्णा स एव लोके कुशली कुलीनः ॥ ८२ ॥