प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

दशकुमारचरितम्/उत्तरपीटिका/तृतीयोच्छ्वासः

< दशकुमारचरितम्‎ | उत्तरपीटिका
← द्वितीयोच्छ्वासः दशकुमारचरितम्
तृतीयोच्छ्वासः
दण्डिनः
चतुर्योच्छ्वासः →

एषोऽस्मि पर्यटन्नेकदा गतो विदेहेषु ।
मितिलामप्रविश्यैव बहिः क्वचिन्मठिकायां विश्रमितुमेत्य कयापि वृद्धतापस्या दत्तपाद्यः क्षणमलिन्दभूमाववास्थिषि ।
तस्यास्तु मद्दर्शनादेव किमप्याबद्धधारमश्रु प्रावर्तत ।
"किमेतदम्ब, कथय कारणम्ऽ इति पृष्टा सकरुणमाचष्ट--"जैवातृक, ननु श्रूयते पातिरस्या मिथिलायाः प्राहरवर्मा नामासीत् ।
तस्य खलु मगधराजो राजहंसः परं मित्रमासीत् ।
तयोश्च वल्लभे बलशम्बलयोरिव वसुमतीप्रियंवदे सख्यमप्रतिममधत्तां ।
अथ प्रथमगर्बाभिनन्दितां तां च प्रियसखीं दिदृक्षुः प्रियंवदा वसुमतीं सह भर्त्रा पुष्पपुरमगमत् ।
तस्मिन्नेव च समये मालवेन मगधराजस्य महज्जन्यमजनि ।
तत्र लेशतोऽपि दुर्लक्ष्यां गतिमगमन्मगधराजः, मैथिलेन्द्रस्तु मालवेन्द्रप्रयत्नप्राणितः स्वविषयं प्रतिनिवृत्तो ज्येष्ठस्य संहारवर्मणः सुतैर्विकटवर्मप्रभृतिभिर्व्याप्तं राज्यमाकर्ण्य स्वस्रीयात्सुह्यपतेर्दण्डावयवमादित्सुरटवीपदमवगाह्यलुब्धकलुप्तसर्वस्वोऽभूत् ।
तत्सुतेन च कनीयसा हस्तवर्तिना सहैकाकिना वनचरशरवर्षभयपलायिता वनमगाहिषि ।
तत्र च मे शार्दूलनखावलीझनिपतितायाः पाणिभ्रष्टः स बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत ।
तच्छवाकर्षिणश्च व्याघ्रस्यासूनिषुरिष्वसनयन्त्रमुक्तः क्षणादलिक्षत् ।
भिल्लदारकैःस बालोऽपाहारि ।
सात्वहं मोहसुप्ता केनापि वृष्णिपालेनोपनीय स्वं कुटीरमावेश्यकृपयोपक्रान्तव्रणा स्वस्थीभूय स्वभर्तुरन्तिकमुपतिष्ठासुरसहायतया यावद्व्याकुलीभवामि तावन्ममैव दुहीता सह यूना केनापि तमेवोद्देशमागमत् ।
सा भृशं रूरोद ।
रुदितान्ते च सा सार्थघाते स्वहस्तगतस्य राजपुत्रस्य किरातभर्तृहस्तगमनम्, आत्मनश्च केनापि वनचरेण व्रणविरोपणम्, स्वस्थायाश्च पुनस्तेनोपयन्तुं चिन्तिताया निकृष्टजातिसंसर्गवैक्लव्यात्प्रत्याख्यानपारुष्यम्, तदक्षणेण चामुना विविक्ते विपिने स्वशिरः- कर्तनोद्यमम्, अनेन यूना यदृच्छया दृष्टेन तस्य दुरात्मनो हननम्, आत्मनश्चोपयमनमित्यकथयत् ।
स तु पृष्टो मैथिलेन्द्रस्यैव कोऽपि सेवकः कारणविलम्बी तन्मार्गानुसारि जातः ।
सह तेन भर्तुरन्तिकमुपसृत्य पुत्रवृत्तान्तेन श्रोत्रमस्य देव्याः प्रियंवदायाश्चादहाव ।
स च राजा दिष्टदोषाज्ज्येष्ठपुत्रैश्चिरं विगृह्य पुनरसहिष्णुतयातिमात्रं चिरं प्रयुध्य बद्धः ।
देवी च बन्धनं गमिता ।
दग्धा पुनरहमस्मिन्नपिवार्धके हतजीवितमपारयन्ती हातुं प्रव्रज्यां किलाग्रहीपं ।
दुहीता तु मम हतजीविताकृष्टा विकटवर्ममहादेवी कल्पसुन्दरी किलाशिश्रियत् ।
तौ चेद्राजपुत्रौनिरुपद्रवावेवावर्धिष्येताम्, इयता कालेन तवेमां वयोवस्थामम्प्रक्ष्येतां ।
तयोश्च सतोर्न दायादा नरेन्द्रस्य प्रसह्यकारिणो भवेयुःऽ इति प्रमन्युरभिरुरोद ।
श्रुत्वा च तापसीगिरमहमपि प्रवृद्धवाप्पो निगृढमभ्यधाम्-"यद्येवमम्ब, समाश्वसिहि ।
नन्वन्ति कश्चिन्मुनिस्त्वया तदवस्थया पुत्राभ्युपपादनार्थं याचितस्तेन स लब्धो वर्धतश्च ।
वार्तेयमतिमहती ।
किमनया ।
सोऽहमस्मि ।
शक्यश्च मयासौ विकटवर्मा यताकथञ्चिदुपश्लिष्य व्यापादयितुं ।
अनुजाः पुनरतिबहवः, तैरपि घटन्ते पौरजानपदाः ।
मां तु न कश्चिदिहत्यरः इदृक्तया जनो जानाति ।
पितरावपि तावन्मां न संविदाते, किमुतेतरे तमेनमर्थमुपायेन साधयिष्यामिऽ इत्यगादिपं ।
सा तु हर्षनिर्भरनिपीडिता चिरं प्ररुद्य बहुं विलप्य शान्ता पुनः स्वमात्रा राजान्तःपुरवृत्तान्ताख्याने न्ययुज्यत ।
उक्तं च तया-"कुमार,कामरूपेश्वरस्य कलिन्दवर्मनाम्नः कन्या कल्पसुन्दरी कलासु रूपे चाप्सरसोऽपयतिक्रान्ता पतिमभिभूय वर्तते ।
तदेकवल्लभः, स तु बह्ववरोधोऽपि विकटवर्माऽ इति ।
तामवोचम्-"उपसर्पैनां मत्प्रयुक्तैर्गन्धमाल्यैः ।
उपजनयचासमानदोषनिन्दादिना स्वभर्तरि द्वेषं ।
अनुरूपभर्तृगामिनीनां च वासवदत्तादीनां वर्णनेन ग्राहयानुशयं ।
अवरोधनान्तरेषु च राज्ञो विलसितानि सुगूढान्यपि प्रयत्नेनान्विप्य प्रकाशयन्ती मानसस्या वर्धयऽ इति ।
पुनरिदमम्बामवोचम्-"इत्थमेव त्वयाप्यनन्यव्यापारया नृपाङ्गनासावुपस्थातव्या ।
प्रत्यहं च यद्यत्र वृत्तं तदस्मि त्वयैव बोध्यः, मदुक्ता पुनरियमुदर्कस्वादुनोऽस्मत्कर्मणः प्रसाधनाय च्छायेवानयायिनी कल्पसुन्दरीमनुवर्तताम्ऽ इति ।
तेन च तमर्थं तथैवान्वतिष्ठतां ।
केषुचिद्दिनेषु गतेष्वाचष्ट मां मदम्बा "वत्स, माधवीव पिचुमन्दाश्लेषिणी यथासौ शोच्यमात्मानं मन्येत तथोपपाद्य स्थापिता ।
किं भूयः कृत्यम्ऽ इति ।
पुनरहमभिलिख्यात्मनः प्रतिकृतं "इत्यममुष्यै नेया ।
नीतां चैनां निर्वर्ण्य सा नियतमेवं वक्ष्यति ।
"नन्वस्ति कश्चिदीदृशाकारः पुमान्ऽ इति ।
प्रतिब्रूह्येनाम्-"यदि स्यात्ततः किम्ऽ इति ।
तस्य यदुत्तरं सा दास्यति "तदहमस्मि प्रतिबोधनीयःऽ इति ।
सा "तथा इति राजकुलमुपसंक्रम्य प्रतिनिवृत्ता मामेकान्ते न्यवेदयत्-"वत्स, दर्शितोऽसौ चित्रपटस्तस्यै मत्तकाशिन्यै ।
चित्रीयमाणा चासौ भुवनमिदं सनाथीकृतं यद्देवेऽपि कुसुमधन्वनि नेदृशी वपुःश्रीः संनिधत्ते ।
चित्रमेतच्चित्रतरं ।
न च तमवैमि यरिदृशमिदमिहत्यो निर्मिमीते ।
केनेदमालिखितम्, इत्यादृतवती व्याहृतवती च ।
मया च स्मेरयोदीरितम्-"देवि, सदृशमाज्ञापयसि ।
भगवान्मकरकेतुरप्येवंसुन्दरं इति न शक्यमेव संभवायितुं ।
अथ च विस्तीर्णेयमर्णवनेमिः ।
क्वचिदीदृशमपि रूपं दैवशक्त्या संभवेत् ।
अथ तु यद्येवंरूपो रूपानुरूपशिल्पशीलविदयाज्ञानकौशलो युवा महाकुलीनश्च कश्चित्संनिहितः स्यात्, स किं लप्स्यतेऽ इति ।
तयोक्तम्-"अम्ब, किं ब्रवीमि ।
शरीरं हृदयं जीवितमिति सर्वमिदमल्पमनर्हं च ।
ततो न किञ्चिल्लप्स्यते न चेदयं विप्रलम्भस्तस्यामुप्य दर्शनानुभवेन यथेदं चक्षुश्चरितार्थं भवेत्तथानुग्रहः कार्यःऽ इति ।
भूयोऽपि मया दृढतरीकर्तुमुपन्यस्तम्-"अस्ति कोऽपि राजसूनुर्निगूढं चरन् ।
अमुप्य वसन्तोत्सवे सहसखीभिर्नगरोपवनविहारिणीरतिरिव विग्रहिणी यदृच्छया दर्शनपथं गतासि ।
गतश्चासौ कामशरैकलक्ष्यतां मामन्ववर्तिष्ट ।
मया च वामन्योन्यानुरूपैरन्यदुर्लभैराकारादिभिर्गुणातिशयैश्च प्रेर्यमाणया तद्रचितैरेव कुसुमशेखरस्रगनुलेपनादिभिश्चिरमुपासितासि ।
सादृश्यं च स्वमनेन स्वयमेवाभिलिख्य त्वत्समाधिगाढत्वदर्शनाय प्रेषितं ।
एष चेदर्थो निश्चितस्तस्यामुप्यातिमानुषप्राणसत्तवप्रज्ञाप्रकर्षस्य न किञ्चिद्दुष्करं नाम ।
तमद्यैव दर्शयेयं ।
संकेतो देयःऽ इति ।
तया तदु किञ्चिदिव ध्यात्वा पुनरभिहितम्--"अम्ब, तव नैतदिदानीं गोप्यतं ।
अतः कथयामि ।
मम तातस्य राज्ञ प्रहारवर्मणा सह महती प्रीतिरासीत् ।
मातुश्च मे मानवत्याः प्रियवयस्या देवी प्रियंवदासीत् ।
ताभ्यां पुनरजातापत्याभ्यामेवकृतः समयोऽभूत्--"आवयोः पुत्रमत्याः पुतराय दुहितृमत्या दुहिता देयाऽ इति ।
तातस्तु मां जातां प्रनष्टापत्या प्रियंवदेति प्रार्थयमानाय विकटवर्मणे दैवाद्दत्तवान् ।
अयं च निष्ठुरः पितृद्रोही नाप्युपपन्नसंस्थानः कामोपचारेष्वलब्धवैचक्षण्यः कलासु काव्यनाटकादिषु मन्दाभिनिवेशः सौर्योन्मादी दुर्विकत्थनोऽनृतवादी चास्थानवर्पी ।
नातिरोचते म एष भर्ता विशेषतश्चैषु वासरेषु यदयमुद्याने मदन्तरङ्गभूतां पुष्करिकामप्युपान्तवर्तिनीमनादृत्य मयि बद्धसापत्न्यमतसरामनात्मज्ञामात्मनाटकीयां रमयन्तिकां नामापत्यनिर्विशेषं मत्संवर्धितायाश्चम्पकलतायां स्वयमवचिताभिः सुमनोभिरलमकार्षित् ।
मदुपभुक्तमुक्ते चित्रकूटगर्भवेदिकागते रत्नतस्य तया सह व्यहार्षित् ।
अयोग्यश्च पुमानवज्ञातं च प्रवृत्तः ।
तत्किमित्यपेक्ष्यते परलोकभयं चैहिकेन दुःखेनान्तरितं ।
अविषह्यं हि योषितामनङ्गशरनिषङ्गीभूतचेतसामनिष्टजनसंवासयन्त्रणादुःखं ।
अतोऽमुना पुरुषेण ममाद्योद्यानमाधवीगृहे समागमय ।
तद्वार्थाश्रवणमात्रेणैव हि ममातिमात्रं मनोऽनुरक्तं ।
अस्ति चायमर्थराशिः ।
अनेनामुप्य पदे प्रतिष्ठाप्य तमेवात्यन्तमुपचर्य जीविष्यामिऽ इति ।
मयापि तदभ्युपेत्य प्रत्यागतं ।
अतः परं भर्तृदारकः प्रमाणम्ऽ इति ।
ततस्तस्या एव सकाशादन्तःपुरनिवेशमन्तर्वंशिकपुरुषस्थान्प्रमदवनप्रदेशानपि विभागेनावगम्य, अस्तगिरिकूटपातक्षुभितशोणित इव शोणीभवति भानुबिम्बे, पश्चिमाम्बुधिषयःपातनिर्वापितपतङ्गाङ्गारधूमसंभार इव भरितनभसितमसि विजृम्भते, परदारपरामर्शोन्मुखस्य ममाचार्यकमिव कर्तुमुत्थिते गुरुपरिग्रहश्लाघिनि ग्रहाग्रेसरे क्षपाकरे, कल्पसुन्दरीवदनपुण्डरीकेणेव मद्दर्शनातिरागप्रथमोपनतेन स्मयमानेन चन्द्रमण्डलेन संधुक्ष्यमाणतेजसि भुवनविजिगीषोद्यते देवे कुसुमधन्वनि, यतोचितं शयनीयमभजे ।
व्यचीचरं च-"सिद्धप्राय एवायमर्थः ।
किन्तु परकलत्रलङ्घानाद्धर्मपीडा भवेत्, साप्यर्थकामयोर्द्वयोरुपलम्भेशास्त्रकारैरनुमतैवेति ।
गुरुजनबन्धमोक्षोपायसंधिना मया चैप व्यतिक्रमः कृतः, तदपि पापं निर्हृत्य कियत्यापि धर्मकलया मां समग्रयेदिति ।
अपि त्वेतदाकर्ण्य देवो राजवाहनः सुहृदो वा किं नु वक्ष्यन्तिऽ इति चिन्तापराधीन एव निद्रया परामृश्ये ।
अदृस्यत च स्वप्नो हस्तिवक्रो भगवान् ।
आहस्म च-"स्ॐय उपहारवर्मन्, मा स्म ते दुर्विकल्पो भूत् ।
यतस्त्वमसि मदंशः ।
शङ्करजटाभारलालनोचिता सुरसरिदसौ वरवर्णिनी ।
सा च कदाचिन्मद्विलोडनासहिष्णुर्मामशपत्-"एहि मर्त्यत्वम्ऽ इति ।
अशप्यत मया च-"यथेह बहुभोग्या तथा प्राप्यापि मानुप्यकमनेकसाधारणी भवऽ इति ।
अब्यर्थितश्चानया "एकपूर्वा पुनस्त्वामेवोपचर्य यावज्जीवं रमेयम्ऽ इति ।
तदयमर्थो भव्य एव भवता निराशङ्क्यःऽ इति ।
प्रतिबुध्य च प्रीतियुक्तस्तदहरपि प्रियासंकेतव्यतिकरादिस्मरणेनाहमनैषं ।
अन्येद्युरनन्यथावृत्तिरनङ्गो मय्येवेषुवर्षमवर्षत् ।
अशुष्यच्च ज्योतिष्मतः प्रभामयं सरः ।
प्रासरच्च तिमिरमयः कर्दमः ।
कार्दमिकनिवसनश्च दृझतरपरिकरः खङ्गपाणिरुपहृतप्रकृतोपस्करः ।
स्मरन्मातृदत्तान्यभिज्ञानानि राजमन्दिरपरिखामुदम्भसमुपातिष्ठं ।
अथोपखातं मातृगृहद्वारे पुष्करिकया प्रथमसंनिधापितां वेमुयष्टिमादाय तया शायितया च परिखाम्, स्थापितया च प्राकारभित्तिमलङ्घयं ।
अधिरुह्य पक्वेष्टकचितेन गोपुरोपरितलाधिरोहेण सोपानपथेन भुवमवातरं ।
अवतीर्णश्च बकुलवीथीमतिक्रम्य चम्पकावलिवर्त्मना मनागिवोपसृत्योत्तराहि करुणं चक्रवाकमिथुनरवमशृणवं ।
पुनरुदीचा पाटलिपथेन स्पर्शलभ्यविशालसौधकुड्योदरेण शरक्षेपमिव गत्वा पुनः प्राचा पिण्डीभाण्डीरषण्डमण्डितोभयपार्श्वेन सैकतपथेन किञ्चिदुन्त्तरमतिक्रम्य पुनरवाचीं चूतवीथीमगाहिषि ।
ततश्च गहनतरमुदरोपचितरत्नवेदिकं माधवीलतामण्डपमीषद्विवृतसमुद्गकोन्मिषितभासा दीपवर्त्या न्यरूपयं ।
प्रविश्य चैकपार्श्वे फुल्लपुष्पनिरन्तरकुरण्टपोतपङ्क्तिभित्तिपरिगतं गर्भगृहम्, अवनिपतितारुणाशोकलतामयमभिनवकुसुमकोरकपुलकलाञ्छितं प्रत्यग्रप्रवालपटलपाटलं कपाटमुद्धाट्य प्राविक्षम्, तत्र चासीत्स्वास्तीर्णं कुसुमशयनम्, सुरतोपकरणवस्तुगर्भाश्चभृङ्गारकः ।
समुपविश्य मुहूर्तं विश्रान्तः परिमलमतिशयवन्तमाघ्रासिषं ।
अश्रौषं च मन्दमन्दं पदशब्दं ।
श्रुत्वैव संकेतगृहान्निर्गत्य रक्ताशोकस्कन्धपार्श्वव्यवहिताङ्गयष्टिः स्थितोऽस्मि ।
सा च सुभ्रूः सुषीमकामा शनैरुपेत्य तत्र मामदृष्ट्वा बलवदव्यथिष्ट ।
व्यसृजच्च मत्तराजहंसवि कण्ठरागवल्गुगद्गदां गिरम्-"व्यक्तमस्मि विप्रलब्धा ।
नास्त्युपायः प्राणितुं ।
अयि हृदय, किमिदमकार्यं कार्यवदध्यवसाय तदसंभवेन किमेवमुत्ताम्यसि ।
भगवन्पञ्चबाण, कस्तवापराधः कृतो मया यदेवं दहसि, न च भस्मीकरोषिऽ इति ।
अथाहमाविर्भूय विवृतदीपभाजनः "भामिनि, ननु बह्वपराद्धं भवत्या चित्तजन्मनो यदमुष्य जीवितभूता रतिराकृत्या कदर्थिता, धनुर्यष्टिर्भ्रूलताभ्याम्, भ्रमरमालामयी ज्या नीलालकद्युतिभिः, अस्त्राण्यपाङ्गवीक्षितवृष्टिभिः, महारजनरञ्जितध्वजपटांशुकं दन्तच्छदमयूखजालैः, प्रथमसुहृन्मलयमारुतः परिमलपटीयसा निःश्वासपवनेन, परभृतोऽतिमञ्जुलैः प्रलापैः, पुष्पमयी पताका भुजयष्टिभ्याम्, दिग्विजयारम्भपूर्णकुम्भमिथुनमुरोजकुम्भयुगलेन, क्रीजासरो नाबिमम्डलेन, संनाह्यरथः श्रोणिमण्डलेन, भवनरत्नतोरणस्तम्भयुगलमूरुयुगलेन, लीलाकर्णकिसलयं चरणतलप्रभाभिः ।
अतः स्थान एव त्वां दुनोति मीनकेतुः ।
मां पुनरनपराधमधिकमायासयतीत्येष एव तस्य दोषः ।
तत्प्रसीद सुन्दरि, जीवय मां जीवनौषधिभिरवापाङ्गैरनङ्गभुजङ्गदष्टम्ऽ इत्याश्लिष्टवान् ।
अरीरमं चानङ्गरागपेशलविशाललोचनां ।
अवसितार्थां चारक्तवलितेक्षणामीषत्स्वेदरेखोद्भेदजर्जरितकपोलमूलामनर्गलकलकलप्रलापिनीमकरुणदशनकररुहार्पणव्यतिकरामत्यर्थपरिश्लथाङ्गीमार्तामिव लक्षयित्वा मानसीं शारीरीं च धारणां शिथिलयन्नात्मानमपि तया समानार्थमापादयं ।
तत्क्षणविमुक्तसंगतौ रतावसानकं विधिमनुभवन्तौ चिरपरिचिताविवातिरूढविश्रम्भौ क्षणमवातिष्ठावहि ।
पुनरहमुष्णमायतं च निःश्वस्य किञ्चिद्दीन दृष्टिः सचकितप्रसारिताभ्यां भुजाभ्यामेनामनतिपीडं परिष्वज्य नातिविशदमचुम्बिषं ।
अश्रुमुखी तु सा "यदि प्रायासि नाथ, प्रयातमेव मे जीवितं गणय ।
नय मामपि ।
न चेदसौ दासजनो निष्प्रयोजनःऽ इत्यञ्जलिमवतंसतामनैषीत् ।
अवादिषं च ताम्--"अयि मुग्धे, कः सचेतनः स्त्रियमभिकामयमानां नाभिनन्दति ।
यदि मदनुग्रहनिश्चलस्तवाभिसंधिराचराविचारं मदुपदिष्टं ।
आदर्शय रहसि राज्ञे मत्सादृश्यगर्भं चित्रपटं ।
आचक्ष्व च किमियमाकृतिः पुरुषसौन्दर्यस्य पारमारूढा न वाऽ इति ।
"बाढमारूढाऽ इति नूनमसौ वक्ष्यति ।
ब्रूहि भूयः--"यद्येवम्, अस्ति कापि तापसी देशान्तरभ्रमणलब्धप्रागल्भ्या मम च मातृभूताऽ ।
तयेदमालेख्यरूपं पुरस्कृत्याहमुक्ता-"सोऽस्ति तादृशो मन्त्रो येन त्वमुपोषिता पर्वणि विविक्तायां भूमौ पुरोहितैर्हुतमुक्ते सप्तार्चिषि नक्तमेकाकिनी शतं चन्दनसमिधः, शतमगुरुसमिधः कर्पूरमुष्ठिः पट्टवस्त्राणि च प्रभूतानि हुत्वा भविष्यस्येवमाकृतिः ।
अथ चालयिष्यसि घण्टां ।
घण्टापुटक्वणिताहूतश्च भर्ता भवत्यै सर्वरहस्यमाख्याय निमीलिताक्षो यदि त्वामालिङ्गेत्, इयमाकृतिरमुमुपसंक्रामेत् ।
त्वं तु भविष्यसि यथापुराकारैव यदि भवत्यै भवत्प्रियाय चैवं रोचेत, न चास्मिन्विधौ विसंवादः कायःऽ इति ।
"वपुश्चोदिदं तवाभिमतं सह सुहृन्मन्त्रिभिरनुजैः पौरजानपदैश्च संप्रधार्य तेषामप्यनुमते कर्मण्यभिमुखेन स्तेयम्ऽ इति ।
स नियतमभ्युपैष्यति ।
पुनरस्यामेव प्रमदवनवाटीशृङ्गाटिकायामाथर्वणिकेन विधिना संज्ञपितपशुनाभिहुत्य मुक्ते हिरण्यरेतसि धूमपटेन संप्रविष्टेन मयास्मिन्नेव लतामण्डपे स्थातव्यं ।
त्वं पुनः प्रगाढायां प्रदोषवेलायामालपिष्यसि कर्णे कृतनर्मस्मिता विकटवर्माणम्--"धूर्तोऽसि त्वमकृतज्ञश्च ।
मदनुग्रहलब्धेनापि रूपेण लोकलोचनोत्सवायमानेन मत्सपत्नीरभिरमयिष्यसि ।
नाहमात्मविनाशाय वेतालोत्थापनमाचरेयम्ऽ इति ।
श्रुत्वेदं त्वद्वचः स यद्वदिष्यति तन्मह्यमेकाकिन्युपागत्य निवेदयिष्यसि ततः परमहमेव ज्ञास्यामि ।
मत्पदचिह्नानि चोपवने पुष्करिकया प्रमार्जयऽ इति ।
सा "तथाऽ इति शास्त्रोपदेशमिव मदुक्तमादृत्यातृप्तसुरतरागैव कथङ्कथमप्यगादन्तःपुरं ।
अहमपि यथाप्रवेशं निर्गत्य स्वमेवावासमयासिपं ।
अथ सा मत्तकाशिनी तथा तमर्थमन्वतिष्ठत् ।
अतिष्ठच्च तन्मते स दुर्मतिः ।
अभ्रमच्च पौरजानपदेष्वियमद्भुतायमाना वार्ता-"राजा किल विकटवर्मा देवीमन्त्रबलेन देवयोग्यं वपुरासादयिष्यति ।
नूनमेष विप्रलम्भो नातिकल्याण) ।
कैव कथा प्रमादस्य ।
स्वस्मिन्नेवान्तःपुरोपवने स्वाग्रमहिष्यैव संपाद्यः किलायमर्थः ।
तथाहि बृहस्पतिप्रतिमबुद्धिभिर्मन्त्रिभिरप्यभ्यूह्यानुमतः ।
यद्येवं भावि नान्यदतः परमस्ति किञ्चिदद्भुतं ।
अचिन्त्यो हि मणिमन्त्रौपधीनां प्रभावः इति प्रसृतेषु लोकप्रवादेषु प्राप्ते पर्वदिवसे, प्रगाढायां प्रौढतमसि प्रदोषवेलायामन्तःपुरोद्यानादुदैरयद्धूर्जटिकण्ठधूम्रो धूमोद्गमः ।
क्षीराज्यदधितिलगौरसर्पपवसामांसरुधिराहुतीनां च परिमलः पवनानुसारी दिशिदिशि प्रावात्सीत् ।
प्रशान्ते च सहसा धूमोद्गमे तस्मिन्नहमविशं ।
निशान्तोद्यानमगाच्च गजगामिनी ।
आलिङ्ग्य च मां सस्मितं समभ्यधत्त--"धूर्त, सिद्धं ते समीहेतं ।
अवसितश्च पशुरसौ ।
अमुष्य प्रलोभनाय त्वदादिष्टया दिशा मयोक्तम्-"कितव, न साधयामि ते सौन्दर्यं ।
एवं सुन्दरो हि त्वमप्सरसामपि स्पृहणीयो भविष्यसि, किमुत मानुषीणां ।
मधुकर इव निसर्गचपलो यत्र क्वचिदसज्जति भवादृशो नृशंसःऽ इति ।
तेन तु मे पादयोर्निपत्याभिहितम्-"रम्भोरु, सहस्व मत्कृतानि दुश्चरितानि ।
मनसापि न चिन्तयेयमितःपरमितरनारं ।
त्वरस्व प्रस्तुते कर्मणिऽ इति ।
तदहमीदृशेनवैवाहिकेननेपथ्येन त्वामभिसृतवती ।
प्रागपि रागाग्निसाक्षिकमनङ्गेन गुणरूपा दत्तैव तुभ्यमेषा जाया ।
पुनरपीमं जातवेदसं साक्षीकृत्य स्वहृदयेन दत्ता इति प्रपदेन चरणपृष्ठे निष्पीड्योत्क्षिप्तपादपार्प्णिरितरेतरव्यतिषक्तक्ॐअलाङ्गुलिदलेन भुजलताद्वयेन कन्धरां ममावेष्ट्य सलीलमाननमानमय्य स्वयमुन्नमितमुखकमला विभ्रान्तविशालदृष्टिरसकृदभ्यचुम्बत् ।
अथैनां "इहैव कुरण्टकगुल्मगर्भे तिष्ठ यावदहं निर्गत्य साधयेयं साध्यं सम्यक्ऽ इति विसृज्य तामुपसृत्य ह्ॐआनलप्रदेशमशोकशाखावलम्बिनीं घण्टामचालयं ।
अकूजचच सा तं जनं कृतान्तदृतीवाह्वयन्ती ।
प्रावर्तिषि चाहमगुरुचन्दनप्रमुखानि होतुं ।
आयासीच्च राजा यथोक्तं देशं ।
शङ्कापन्नमिव किञ्चित्सविस्मयं विचार्य तिष्ठन्तमब्रवम्--"ब्रूहि सत्यं भूयोऽपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य ।
न चेदनेन रूपेण मत्सपत्नीरभिरमयिष्यसि, ततस्त्वयीदं रूपं संक्रामयेयम्ऽ इति ।
स तदैव "देव्यैवेयम्, नोपधिःऽ इति स्फुटोपजातसंप्रत्ययः प्रावर्तत शपथाय ।
स्मित्वा पुनर्मयोक्तम्--"किं वा शपथेन ।
कैव हि मानुपी मां परिभविष्यति ।
यद्यप्सरोभिः संगच्छसे, संगच्छस्व कामं ।
कथय कानि ते रहस्यानि ।
तत्कथनान्ते हि त्वत्स्वरूपभ्रंशःऽ इति ।
सोऽब्रवीत्--"अस्ति बद्धो मत्पितुः कनीयान्भ्राता प्रहारवर्मा ।
तं विषान्नेन व्यापाद्याजीर्णदोषं ख्यापयेयमिति मन्त्रिभिः सहा ध्यवसितं ।
अनुजाय विशालवर्मणे दण्डचक्रं पुण्ड्रदेशाभिक्रमणाय दित्सितं ।
पौरवृद्धश्च पाञ्चालिकः परित्रातश्च सार्थवाहः स्वनतिनाम्नो यवनाद्वज्रमेकं वसुंधरामूल्यं लधीयसार्धेण लभ्यमिति ममैकान्तेऽमन्त्रयेतां ।
गृहपतिश्च ममान्तरङ्गभूतो जनपदमहत्तरः शतहलिरलीकवादशीलमवलेपवन्तं दुष्टग्रामण्यमनन्तसीरं जनपदकोपेन घातयेयमिति दण्डधरानुद्धारकर्मणि मत्प्रयोगान्नियोक्तुमभ्युपागमत् ।
इत्थमिदमचिरप्रस्तुतं रहस्यम्ऽ ।
इत्याकर्ण्य-तं "इयत्तवायुः ।
उपपद्यस्व स्वकर्मोचितां गतिम्ऽ इति च्छुरिकया द्विधाकृत्य कृत्तमात्रं तस्मिन्नेव प्रवृत्तस्फीतसर्पिषि हिरण्यरेतस्यजूहवं ।
अभूच्चासौ भस्मसात् ।
अथ स्त्रीस्वभावादीषद्विह्वलां हृदयवल्लभां समाश्वास्य हस्तकिसलयेऽवलम्ब्य गत्वा तद्गृहमनुज्ञयास्याः सर्वाण्यन्तःपुराण्याहूय सद्य एव सेवां दत्तवान् ।
सविस्मितविलासिनीसार्थमध्ये कञ्चिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहतोरूमूरूपपीडं भुजोपपीडं चोपगुह्य तल्पेऽभिरमयन्नल्पामिव तां निशामत्यनैषं ।
अलभे च तन्मुखात्तद्राजकुलस्य शीलं ।
उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे ।
तांश्चाब्रवम्--"आर्याः, रूपेणैव सह परिवृत्तौ मम स्वभावः ।
य एव विषान्नेन हन्तु चिन्तितः पता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव ग्राहयितव्यः ।
पितृवदमुष्मिन्वयं शुश्रूषयैव वर्तामहे ।
न ह्यस्ति पितृवधात्परं पातकम्ऽ इति ।
भ्रातरं च विशालवर्माणमाहूयोक्तवान्--"वत्स, न सुभिक्षाः सांप्रतं पुण्ड्राः ते दुःखमोहोपहतास्त्यक्तात्मानो राष्ट्रं नो न समृद्धमभिद्रवेयुः ।
अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदाभियास्यसि, नाद्य यात्रा युक्ताऽ इति ।
नगरवृद्धावप्यवलापिषम्--"अल्पीयसा मूल्येन महार्हं वस्तु मास्तु मे लभ्यं धर्मरक्षायै, तदनुगुणेनैव मूल्येनादः क्रीयताम्ऽ इति ।
शतहलिं च राष्ट्रमुख्यमाहूयाख्यातवान्--"योऽसावनन्तसीरः प्रहारवर्मणः पक्ष इति निनाशयिषितः, सोऽपि पितरि मे प्रकृतिस्थि किमिति नाश्येत, तत्त्वयापि तस्मिन्संरम्भो न कार्यःऽ इति ।
त इमे सर्वमाभिज्ञानिकमुपलभ्य "स एवायम्ऽ इति निश्चिन्वाना विस्मयमानाश्च मां महादेवीं च प्रशंसन्तो मन्त्रबलानि चोद्धोपयन्तो बन्धनात्पितरौ निष्क्रामय्य स्वं राज्यं प्रत्यपादयन् ।
अहं च तया मे धात्र्या सर्वमिदं ममाचेष्टितं रहसि पित्रोरवगमय्य प्रहर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे ।
अभज्ये च यौवराज्यलक्ष्म्या तदनुज्ञातया ।
प्रसाधितात्मा देवपादविरहृदुःखदुर्भगान्भोगान्निर्विशन्भूयोऽस्य पितृसखस्य सिंहवर्मणो लेख्याच्चण्डवर्मणश्चम्पाभियोगमवगम्य "शत्रुवधो मित्ररक्षा चोभयमपि करणीयमेवऽ इत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरं ।
अभवं च भूमित्स्वत्पादलक्ष्मीसाक्षात्क्रियामहोत्सवानन्दराशेःऽ इति ।
श्रुत्वैतद्देवो राजवाहनः सन्मितमवादीत्--"पश्यत पारतल्पिकमुपधियुक्तमपि गुरुजनून्धव्यसनमुक्तिहेतुतया दुष्टामित्रप्रमापणाभ्युपायतया राज्योपलब्धिमूलतया च पुष्कलावर्थधर्मावप्यरीरधत् ।
किं हि बुद्धिमत्प्रयुक्तं नाभ्युपैति शोभाम्ऽ इति ।
अर्थपालमुखे निधाय स्निग्धदीर्घां दृष्टिं "आचष्टां भवानात्मीयचरितम्ऽ इत्यादिदेश ।
सोऽपि बद्धाञ्जलिरभिदधे ।। २,३ ।।

इति श्रीदण्डिनः कतौ दशकुमारचरिते उपहारवर्मचरितं नाम तृतीय उच्छ्वासः