प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

दशकुमारचरितम्/पूर्वपीठिका/तृतीयोच्छ्वासः

< दशकुमारचरितम्‎ | पूर्वपीठिका
← द्वितीयोच्छ्वासः दशकुमारचरितम्
तृतीयोच्छ्वासः
दण्डिनः
चतुर्योच्छ्वासः →

देव, भवच्चरणकमलसेवाभिलाषीभूतोऽहं भ्रमन्नेकस्यां वनावनौ पिपासाकुलो लतापरिवृतं शीतलं नदसलिलं पिबन्नुज्ज्वलाकारं रत्नं तत्रैकमद्राक्षं ।
तदादाय गत्वा कञ्चनाध्वानमम्बरमणेरत्युष्णतया गन्तुमक्षमो वनेऽस्मिन्नेव किमपि देवतायतनं प्रविष्टो दीनाननं बहुतनयसमेतं स्थविरमहीसुरमेकमवलोक्य कुशलमुदितदयोऽहमपृच्छं ।। १,३.१ ।।

कार्पण्यविवर्णवदनो मदाशापूर्णमानसोऽवोचदग्रजन्मा-"महाभाग सुतानेतान्मातृहीनाननेकैरुपायै रक्षन्निदानीमस्मिन्कुदेशे भैक्ष्यं संपाद्य दददेतेभ्यो वसामि शिवालयेऽस्मिन्ऽइति ।। १,३.२ ।।

भूदेव, एतत्कटकाधिपती राजा कस्य देशस्य, किं नामधेयः, किमत्रागमनकारणमस्यऽ इति पृष्टोऽभाषत महीसुरः-"स्ॐय, मत्तकालो नाम लाटेश्वरो देशस्यास्य पालयितुर्वीरकेतोस्तनयां वामलोचनां नाम तरुणीरत्नमसमानलावण्यां श्रावं श्रावमवधूतदुहितृप्रार्थनस्य तस्य नगरीमरौत्सीत् ।
वीरकेतुरपि भीतो महदुपायनमिव तनयां मत्तकालायादात् ।
तरुणीलाभहृष्टचेता लाटपतिः "परिणेया निजपुर एवऽ इति निश्चित्य गच्छन्निजदेशं प्रति संप्रति मृगयादरेणात्र वने सैन्यावासमकारयत् ।। १,३.३ ।।

कन्यासारेण नियुक्तो मानपालो नाम वीरकेतुमन्त्री मानधनश्च्तुरङ्गबल समन्वितोऽन्यत्र रचितशिबिरस्तं निजनाथावमानखिन्नमानसोऽन्तर्बिभेद इति ।। १,३.४ ।।

विप्रोऽसौ बहुतनयो विद्वान्निर्धनः स्थविरश्च दानयोग्य इति तस्मै करुणापूर्णमना रत्नमदां ।
परमाह्लादविकसिताननोऽभिहितानेकाशीः कुत्रचिदग्रजन्मा जगाम ।
अध्वश्रमखिन्नेन मया तत्र निरवेशि निद्रासुखं ।
तदनु पश्चान्निगडितबाहुयुगलः स भूसुरः कशाघातचिह्नितगात्रोऽनेकनैस्त्रिंशिकानुयातोऽभ्येत्य मां "असौ दस्युःऽ इत्यदर्शयत् ।। १,३.५ ।।

परित्यक्तभूसुरा राजभटा रत्नावाप्तिप्रकारं मदुक्तमनाकर्ण्य भयरहितं मां गाढं नियम्य रज्जुभिरानीय कारागारं "एते तव सखायःऽ इति निगडितान्कांश्चिन्निर्दिष्टवन्तो मामपि निगडितचरणयुगलमकार्षुः ।
किड्कर्तव्यतामूढेन निराशक्लेशानुभवेनावाचि मया-"ननु पुरुषा वीर्यपरुषाः, निमित्तेन केन निविशथ कारावासदुःखं दुस्तरं ।
यूयं वयस्या इति निर्दिष्टमेतैः, किमिदं इति ।। १,३.६ ।।

तथाविधं मामवेक्ष्य भूसुरान्मया श्रुतं लाटपतिवृत्तान्तं व्याख्याय चोरवीराः पुनरवोचन्-"महाभाग! वीरकेतुमन्त्रिणो मानपालस्य किङ्करा वयं ।
तदाज्ञया लाटेश्वरमारणाय रात्रौ सुरङ्गद्वारेण तदगारं प्रविश्य तत्र राजाभावेन विषण्णा बहुधनमाहृत्य महाटवीं प्राविशाम ।
अपरेद्युश्च पदान्वेषिणो राजानुचरा बहवोऽभ्येत्य धृतधनचयानस्मान्परितः परिवृत्य दृढतरं बद्ध्वा निकटमानीय समस्तवस्तुशोधनवेलायामेकस्यानर्घ्यरत्नस्याभावेनास्मद्वधाय माणिक्यादानादस्मान्किलाशृङ्खलयनिति ।। १,३.७ ।।

श्रुतरत्नरत्नावलोकस्थानोऽहं "इदं तदेव माणिक्यम्ऽ इति निश्चित्य भूदेवदाननिमित्तां दुरवस्थामात्मनो जन्म नामधेयं युष्मदन्वेषणपर्यटनप्रकारं चाभाष्य समयोचितैः संलापैर्मैत्रीमकार्षं ।
ततोर्ऽधरात्रे तेषां मम च शृङ्खलाबन्धनं निर्भिद्य तैरनुगम्यमानो निद्रितस्य द्वाःस्थगणस्यायुधजालमादाय पुररक्षान्पुरतोऽभिमुखागतान्पटुपराक्रमलीलयाभिद्राव्य मानपालशिबिरं प्राविशं ।
मानपालो निजकिङ्करेभ्यो मम कुलाभिमानवृत्तान्तं तत्कालीनं विक्रमं च निशम्य मामार्चयत् ।। १,३.८ ।।

परेद्युर्मत्तकालेन प्रेषिताः केचन पुरुषा मानपालमुपेत्य "मन्त्रिन्, मदीयराजमन्दिरे सुरङ्गया बहुधनमपहृत्य चोरवीरा भवदीयं कटकं प्राविशन्तानर्पय ।
नो चेन्महाननर्थः भविष्यति इति क्रूरतरं वाक्यमब्रुवन् ।
तदाकर्ण्य रोषारुणितनेत्रो मन्त्री लाटपतिः कः, तेन मैत्री का, पुनरस्य वराकस्य सेवया किं लभ्यं इति तान्निरभर्त्सयत्, ते च मानपालेनोक्तं विप्रलापं मत्तकालाय तथैवाकथयन् ।
कुपितोऽपि लाटपतिर्देर्वीर्यगर्वेणाल्पसैनिकसमेतो योद्धुमभ्यगात् ।
पूर्वमेव कृतरणनिश्चयो मानी मानपालः संनद्धयोधो युद्धकामो भूत्वा निःशङ्कं निरगात् ।
अहमपि सबहुमानं मन्त्रिदत्तानि बहुलतुरङ्गमोपेतं चतुरसारथिं रथं दृढतरं कवचं मदनुरूपं चापं च विविधबाणपूर्णं तूणीरद्वयं रणसमुचितान्यायुधानि गृहीत्वा युद्धसंनद्धो मदीयबलविश्वासेन रिपूद्धरणोद्युक्तं मन्त्रिणमन्वगां ।
परस्परमत्सरेण तुमुलसङ्गरकरमुभयसैन्यमतिक्रम्य समुल्लसद्भुजाटोपेन बाणवर्षं तदङ्गे विमुञ्चन्नरातीन्प्राहरं ।। १,३.९ ।।

ततोऽतिरयतुरङ्गमं मद्रथं तन्निकटं नीत्वा शीघ्रलङ्घनोपेततदीयरथोऽहमरातेः शिरःकर्तनमकार्षं ।
तस्मिन्पतिते तदवशिष्टसैनिकेषु पलायितेषु नानाविधहयगजादिवस्तुजातमादाय परमानन्दसंभृतो मन्त्री ममानेकविधां संभावनामकार्षीत् ।। १,३.१० ।।

मानपालप्रेषितात्तदनुचरादेनमखिलमुदन्तजातमाकर्ण्य सन्तुष्टमना राजाभ्युद्गतो मदीयपराक्रमे विस्मयमानः समहोत्सवममात्यबान्धवानुमत्या शुभदिने निजतनयां मह्यमदात् ।
ततो यौवराज्याभिषिक्तोऽहमनुदिनमाराधितमहीपालचित्तो वामलोचनयानया सह नानाविधं सौख्यमनुभवन्भवद्विरहवेदनाशल्यसुलभवैकल्यहृदयः सिद्धादेशेन सुहृज्जनावलोकनफलं प्रदेशं महाकालनिवासिनः परमेश्वरस्याराधनायाद्य पत्नीसमेतः समागतोऽस्मि ।
भक्तवत्सलस्य गौरीपतेः कारुण्येन त्वत्पदारविन्दसंदर्शनानन्दसंदोहो मया लब्धःऽ इति ।। १,३.११ ।।

तन्निशम्याभिनन्दितपराक्रमो राजवाहनस्तन्निरपराधदण्डे दैवमुपालभ्य तस्मै क्रमेणात्मचरितं कथयामास ।
तस्मिन्नवसरे पुरतः पुष्पोद्भवं विलोक्य ससंभ्रमं निजनिटिलतटस्पृष्टचरणाङ्गुलिमुदञ्जलिममुं गाढमालिङ्ग्यानन्दबाष्पसंकुलसंफुल्ललोचनः "स्ॐय स्ॐअदत्त, अयं सः पुष्पोद्भवःऽ इति तस्मै तं दर्शयामास ।। १,३.१२ ।।

तौ च चिरविरहदुःखं विसृज्यान्योन्यालिङ्गनसुखमन्वभूतां ।
ततस्तस्यैव महीरुहस्य छायायामुपविश्य राजा सादरहासमभाषत-"वयस्य, भूसुरकार्यं करिष्णुरहं मित्रगणो विदितार्थः सर्वथान्तरायं करिष्यतीति निद्रितान्भवतः परित्यज्य निरगां ।
तदनु प्रबुद्धो वयस्यवर्गः किमिति निश्चित्य मदन्वेषणाय कुत्र गतवान् ।
भवानेकाकी कुत्र गतःऽ इति ।
सोऽपि ललाटतटचुम्बदञ्जलिपुटः सविनयमलपत् ।। १,३.१३ ।।

इति श्रीदण्डिनः कृतौ दशकुमारचरिते स्ॐअदत्तचरितं नाम तृतीय उच्छ्वासः ।।