प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

दशकुमारचरितम्/पूर्वपीठिका/पञ्चमोच्छ्वासः

< दशकुमारचरितम्‎ | पूर्वपीठिका
← चतुर्योच्छ्वासः दशकुमारचरितम्
पञ्चमोच्छ्वासः
दण्डिनः

अथ मीनकेतनसेनानायकेन मलयगिरिमहीरुहनिरन्तरावासिभुजङ्गमभुक्तावशिष्टेनेव सूक्ष्मतरेण धृतहरिचन्दनपरिमलभरेणेव मन्दगतिना दक्षिणानिलेन वियोगिहृदयस्थं मन्मथानलमुज्ज्वलयन्, सहकारकिसलयमकरन्दास्वादनरक्तकण्ठानां मधुकरकलकण्ठानां काकलीकलकलेन दिक्चक्रं वाचालयन्मानिनीमानसोत्कलिकामुपनयन्माकन्दसिन्दुवाररक्ताशोककिंशुकतिलकेषु कलिकामुपपादयन्, मदनमहोत्सवाय रसिकमनांसि समुल्लासयन्, वसन्तसमयः समाजगाम ।। १,५.१ ।।

तस्मिन्नतिरमणीये कालेऽवन्तिसुन्दरी नाम मानसारनन्दिनी प्रियवयस्यया बालचन्द्रिकया सह नगरोपान्तरम्योद्याने विहारोत्कण्ठया पौरसुन्दरीसमवायसमन्विता कस्यचिच्चूतपोतकस्य छायाशीतले सैकततले गन्धकुसुमहरिद्राक्षतचीनाम्बरादिनानाविधेन परिमलद्रव्यनिकरेण मनोभवमर्चयन्ती रेमे ।। १,५.२ ।।

तत्र रतिप्रतिकृतिमवन्तिसुन्दरीं द्रष्टुकामः काम इव वसन्तसहायः पुष्पोद्भवसमन्वितो राजवाहनस्तदुपवनं प्रविश्य तत्र तत्र मलयमारुतान्दोलितशाखानिरन्तरसमुद्भिन्नकिसलयकुसुमफलसमुल्लसितेषु रसालतरुषु कोकिलकीरालिकुलमधुकराणामालापाञ्श्रावं श्रावं किञ्चिद्विकसदिन्दीवरकह्लारकैरवराजीवराजीकेलिलोल-कलहंस-सारस-कारण्डव-चक्रवाक-चक्रवाल-कलरवव्याकुलविमलशीतलसलिलललितानि सरांसि दर्शन्दर्शममन्दलीलया ललनासमीपमवाप ।। १,५.३ ।।

बालचन्द्रिकयाऽनिःशङ्कमित आगम्यताम्ऽ इति हस्तसंज्ञया समाहूतो निजतेजोनिर्जितपुरुहूतो राजवाहनः कृशोदर्या अवन्तिसुन्दर्या अन्तिकं समाजगाम ।। १,५.४ ।।

या वसन्तसहायेन समुत्सुकतया रते केलीशालभञ्जिकाविधित्सया कञ्चन नारीविशेषं विरच्यात्मनः क्रीडाकासारशारदारविन्दसौन्दर्येण पादद्वयम्, उद्यानवनदीर्घिकामत्तमरालिकागमनरीत्या लीलालसगतिविलासम्, तूणीरलावण्येन जङ्घे, लीलामन्दिरद्वारकदलीलालित्येन मनोज्ञमूरुयुगम्, जैत्ररथचातुर्येण घनं जघनं किञ्चिद्विकसल्लीलावतंसकह्लारकोरककोटरानुवृत्त्या गङ्गावर्तसनाभिं नाभिम्, सौधारोहणपरिपाट्या वलित्रयम्, मौर्वीमधुकरपङ्क्तिनीलिमलीलया र्ॐआवलिं पूर्णसुवर्णकलशशोभया कुचद्वन्द्वम्,(लतामण्डपसौकुमार्येण बाहू), जयशङ्खाभिख्यया कण्ठम्, कमनीयकर्णपूरसहकारपल्लवरागेण प्रतिबिम्बीकृतबिम्बं रदनच्छदनं बाणायमानपुष्पलावण्येन शुचि स्मितम्, अग्रदूतिकाकलकण्ठिकाकलालापमाधुर्येण वचनजातम्, सकलसैनिकनायकमलयमारुतसौरभ्येण निःश्वासपवनं जयध्वजमीनदर्पेण लोचनयुगलम्, चापयष्टिश्रिया भ्रूलते, प्रथमसुहृदसुधाकरस्यापनीतकलङ्कया कान्त्या वदनम्, (लीलामयूरबर्हभङ्ग्या केशपाशं) च विधाय समस्तमकरन्दकस्तूरिकासम्मितेन मलयजरसेन प्रक्षाल्य कर्पूरपरागेण सम्मृज्य निर्मितेव रराज ।। १,५.५ ।।

सा मूर्तिमतीव लक्ष्मीर्मालवेशकन्यका स्वेनैवाराध्यमानं सङ्कल्पितवरप्रदानायाविर्भूतं मूर्तिमन्तं मन्मथमिव तमालोक्य मन्दमारुतान्दोलिता लतेव मदनावेशवती चकम्पे ।
तदनु क्रीडाविश्रम्भान्निवृत्ता लज्जया कानि कान्यपि भावान्तराणि व्यधत्त ।। १,५.६ ।।

ललनाजनं सृजता विधात्रा नूनमेषा घुणाक्षरन्यायेन निर्मिता ।
नो चेदब्जभूरेवंविधो निर्माणनिपुणो यदि स्यात्तर्हि तत्समानलावण्यामन्यां तरुणीं किं न करोतिऽ इति सविस्मयानुरागं विलोकयतस्तस्य समक्षं स्थातुं लज्जिता सती किञ्चित्सखीजनान्तरितगात्रा तन्नयननाभिमुखैः किञ्चिदाकुञ्चितभ्रूलतैरपाङ्गवीक्षितैरात्मनःकुरङ्गस्यानायमानलावण्यं राजवाहनं विलोकयन्त्यतिष्ठत् ।। १,५.७ ।।

सोऽपि तस्यास्तदोत्पादितभावरसानां सामग्र्या लब्धबलस्येव विषमशरस्य शरव्यायमाणमानसो बभूव ।। १,५.८ ।।

सा मनसीत्थमचिन्तयत्-"अनन्यसाधारणसौन्दर्येणानेन कस्यां पुरि भाग्यवतीनां तरुणीनां लोचनोत्सवः क्रियते ।
पुत्ररत्नेनामुना पुरन्ध्रीणां पुत्रवतीनां सीमन्तिनीनां का नाम सीमन्तमौक्तिकीक्रियते ।
कास्य देवी ।
किमत्रागमनकारणमस्य ।
मन्मथो मामपहसितनिजलावण्यमेनं विलोकयन्तीमसूययेवातिमात्रं मथ्नन्निजनाम सान्वयं करोति ।
किं करोमि ।
कथमयं ज्ञातव्यऽ इति ।। १,५.९ ।।

ततो बालचन्द्रिका तयोरन्तरङ्गवृत्तिं भावविवेकैर्ज्ञात्वा कान्तासमाजसन्निधौ राजनन्दनोदन्तस्य सम्यगाख्यानमनुचितमिति लोकसाधारणैर्वाक्यैरभाषत-"भर्तृदारिके, अयं सकलकलाप्रवीणो देवतासान्निध्यकरण आहवनिपुणो भूसुरकुमारो मणिमन्त्रौषधिज्ञः परिचर्यार्हे भवत्या पूज्यताम्ऽ इति ।। १,५.१० ।।

तदाकर्ण्य निजमनोरथमनुवदन्त्या बालचन्द्रिकया सन्तुष्टान्तरङ्गा तरङ्गावली मन्दानिलेनेव सङ्कल्पजेनाकुलीकृता राजकन्या जितमारं कुमारं समुचितासीनं विधाय सखीहस्तेन शस्तेन गन्धकुसुमाक्षतघनसारताम्बूलादिनानाजातिवस्तुनिचयेन पूजां तस्मै कारयामास ।
राजवाहनोऽप्येवमचिन्तयत्-"नूनमेषा पूर्वजन्मनि मे जाया यज्ञवती ।
नो चेदेतस्यामेवंविधोऽनुरागो मन्मनसि न जायेत ।
शापावसानसमये तपोनिधिदत्तं जातिस्मरत्वमावयोः समानमेव ।
तथापि कालजनितविशेषसूचकवाक्यैरस्या ज्ञानमुत्पादयिष्यामिऽइति ।। १,५.११ ।।

तस्मिन्नेव समये कोऽपि मनोरमो राजहंसः केलीविधित्सया तदुपकण्ठमगमत् ।
समुत्सुकया राजकन्यया मरालग्रहणे नियुक्तां बालचन्द्रिकामवलोक्य समुचितो वाक्यावसर इति सम्भाषणनिपुणो राजवाहनः सलीलमलपत्--"सखि, पुरा शाम्बो नाम कश्चिन्महीवल्लभो मनोवल्लभया सह विहारवाञ्छया कमलाकरमवाप्य तत्र कोकनदकदम्बसमीपे निद्राधीनमानसं राजहंसं शनैर्गृहीत्वा बिसगुणेन तस्य चरणयुगलं निगडयित्वा कान्तामुखं सानुरागं विलोकयन्मन्दस्मितविकसितैककपोलमण्डलस्तामभाषत-"इन्दुमुखि, मया बद्धो मरालः शान्तो मुनिवदास्ते ।
स्वेच्छयानेन गम्यताम्ऽइति ।। १,५.१२ ।।

सोऽपि राजहंसः शाम्बमशपत्-"महीपाल, यदस्मिन्नम्बुजखण्डेऽनुष्ठानपरायणतया परमानन्देन तिष्ठन्तं नैष्ठिकं मामकारणं राज्यगर्वेणावमानितवानसि तदेतत्पाप्मना रमणीविरहसन्तापमनुभवऽ इति ।
विषण्णवदनः शाम्बो जीवितेश्वरीविरहसहिष्णुर्भूमौ दण्डवत्प्रणम्य सविनयमभाषत-"महाभाग, यदज्ञानेनाकरवं तत्क्षमस्वऽ इति ।
स तापसः करुणाकृष्टचेतास्तमवदत्-"राजन्!इह जन्मनि भवतः शापफलाभावो भवतु ।
मद्वचनस्यामोघतया भाविनि जनने शरीरान्तरं गतायाः अस्याः सरसिजाक्ष्या रसेन रमणो भूत्वा मुहूर्तद्वयं मच्चरणयुगलबन्धकारितया मासद्वयं शृङ्खलानिगडितचरणो रमणीवियोगविषादमनुभूय पश्चादनेककालं वल्लभया सह राज्यसुखं लभस्वऽइति ।। १,५.१३ ।।

तदनु जातिस्मरत्वमपि तयोरन्वगृह्णात् ।
"तस्मान्मरालबन्धनं न करणीयं त्वयाऽ इति ।
सापि भर्तृदारिका तद्वचनाकर्णनाभिज्ञातस्वपुरातनजननवृत्तान्ता नूनमयं मत्प्राणवल्लभःऽ इति मनसि जानती रागपल्लवितमानसा समन्दहासमवोचत्--"स्ॐय, पुरा शाम्बो यज्ञवतीसन्देशपरिपालनाय तथाविधं हंसबन्धनमकार्षीत् ।
तथाहि लोके पण्डिता अपि दाक्षिण्येनाकार्यं कुर्वन्तिऽ इति ।
कन्याकुमारावेवमन्योन्यपुरातनजनननामधेये परिचिते परस्परज्ञानाय साभिज्ञमुक्त्वा मनोजरागपूर्णमानसौ बभूवतुः ।। १,५.१४ ।।

तस्मिन्नवसरे मालवेन्द्रमहिषी परिजनपरिवृता दुहितृकेलीविलोकनाय तं देशमवाप ।
बालचन्द्रिका तु तां दूरतो विलोक्य ससम्भ्रमं रहस्यनिर्भेदभिया हस्तसंज्ञया पुष्पोद्भवसेव्यमानं राजवाहनं वृक्षवाटिकान्तरितगात्रमकरोत् ।
सा मानसारमहिषी सखीसमेताया दुहितुर्नानाविधां विहारलीलामनुभवन्ती क्षणं स्थित्वा दुहित्रा समेता निजागारगमनायोद्युक्ता बभूव ।
मातरमनुगच्छन्ती अवन्तिसुन्दरी राजहंसकुलतिलक, विहारवाञ्छया केलिवने मदन्तिकमागतं भवन्तमकाण्डे एव विसृज्य मया समुचितमिति जनन्यनुगमनं क्रियते--तदनेन भवन्मनोरागोऽन्यथा मा भूत्ऽ इति मरालमिव कुमारमुद्दिश्य समुचितालापकलापं वदन्ती पुनः पुनः परिवृत्तदीननयना वदनं विलोकयन्ती निजमन्दिरमगात् ।। १,५.१५ ।।

तत्र हृदयवल्लभकथाप्रसङ्गे बालचन्द्रिकाकथिततदन्वयनामधेया मन्मथबाणपतनव्याकुलमानसा विरहवेदनया दिने दिने बहुलपक्षशशिकलेव क्षामक्षामाहारादिसकलं व्यापारं परिहृत्य रहस्यमन्दिरे मलयजरसक्षालितपल्लवकुसुमकल्पिततल्पलतावर्तितनुलता बभूव ।। १,५.१६ ।।

तत्र तथाविधावस्थामनुभवन्तीं मन्मथानलसन्तप्तां सुकुमारीं कुमारीं निरीक्ष्य खिन्नो वयस्यगणः काञ्चनकलशसञ्चितानि हरिचन्दनोशीरघनसारमिलितानि तदभिषेककल्पितानि सलिलानि बिसतन्तुमयानि वासांसि च नलिनीदलमयानि तालवृन्तानि च सन्तापहरणानि बहूनि संपाद्य तस्याः शरीरमशिशिरयत् ।
तदपि शीतलोपचरणं सलिलमिव तप्ततैले तदङ्गदहनमेव समन्तादाविश्चकार ।
किङ्कर्तव्यतामूढां विषण्णां बालचन्द्रिकामीषदुन्मीलितेन कटाक्षवीक्षितेन बाष्पकणाकुलेन विरहानलोष्णनिःश्वासग्लपिताधरया नताङ्ग्या शनैः शनैः सगद्गदं व्यलापि-"प्रियसखि !ऽ कामः कुसुमायुधः पञ्चबाण इति नूनमसत्यमुच्यते ।
इयमहमय्ॐअयैरसंख्यैरिषुभिरनेन हन्ये ।
सखि, चन्द्रमसं वडवानलादतितापकरं मन्ये ।
यदस्मिन्नन्तःप्रविशति शुष्यति पारावारः, सति निर्गते तदैव वर्धते ।
दोषाकरस्य दुष्कर्म किं वर्ण्यते मया ।
यदनेन निजसोदर्याः पद्मालयायाः गेहभूतमपि कमलं विहन्यते ।। १,५.१७ ।।

विरहानलसंतप्तहृदयस्पर्शेन नूनमुष्णीकृतः स्वल्पीभवति मलयानिलः ।
नवपल्लवकल्पितं तल्पमिदमनङ्गाग्निशिखापटलमिव सन्तापं तनोस्तनोति ।
हरिचन्दनमपि पुरा निजयष्टिसंश्लेषवदुरगरदनलिप्तोल्वणगरलसंकलितमिव तापयति शरीरं ।
तस्मादलमलमायासेन शीतलोपचारे ।
लावण्यजितमारो राजकुमार एवागदङ्कारो मन्मथज्वरापहरणे ।
सोऽपि लब्धुमशक्यो मया ।
किं करोमिऽ इति ।। १,५.१८ ।।

बालचन्द्रिका मनोजज्वरावस्थापरमकाष्ठां गतां क्ॐअलाङ्गीं तां राजवाहनलावण्याधीनमानसामनन्यशरणामवेक्ष्यात्मन्यचिन्तयत्-- "कुमारः सत्वरमानेतव्यो मया ।
नो चेदेनां स्मरणीयां गतिं नेष्यति मीनकेतनः ।
तत्रोद्याने कुमारयोरन्योन्यावलोकनवेलायामसमसायकः समं मुक्तसायकोऽभूत् ।
तस्मात्कुमारानयनं सुकरम्ऽ इति ।
ततोऽवन्तिसुन्दरीरक्षणाय समयोचितकरणीयचतुरं सखीगणं नियुज्य राजकुमारमन्दिरमवाप ।
पुष्पबाणबाणतूणीरायमानमानसोऽनङ्गतप्तावयवसंपर्कपरिम्लानपल्लवशयनमधिष्ठितो राजवाहनः प्राणेश्वरीमुद्दिश्य सह पुष्पोद्भवेन संलपन्नागतां प्रियवयस्यामालोक्य पादमूलमन्वेषणीया लतेव बालचन्द्रिकागतेति संतुष्टमना निटिलतटमण्ङनीभवदम्बुजकोरकाकृतिलसदञ्जलिपुटां "इतो निषीदऽ इति निर्दिष्टसमुचितासनासीनामवन्तिसुन्दरीप्रेषितं सकर्पूरं ताम्बूलं विनयेन ददतीं तां कान्तावृत्तान्तमपृच्छत् ।
तया सविनयमभाणि-"देव, क्रीडावने भवदवलोकनकालमारभ्य मन्मथमथ्यमाना पुष्पतल्पादिषु तापशमनमलभमाना वामनेनेवोन्नततरुफलमलभ्यं त्वदुरः स्थलालिङ्गनसौख्यं स्मरान्धतया लिप्सुः सा स्वयमेव पत्रिकामालिख्य "वल्लभायैनामर्पयऽ इति मां नियुक्तवतीऽ ।
राजकुमारः पत्रिकां तामादाय पपाठ- ।। १,५.१९ ।।

सुभग कुसुमसुकुमारं जगदनवद्यं विलोक्य ते रूपं ।
मम मानसमभिलषति त्वं चित्तं कुरु तथा मृदुलम्ऽ ।। १,५.२० ।।

इति पठित्वा सादरमभाषत-"सखि, छायावन्मामनुवर्तमानस्य पुष्पोद्भवस्य वल्लभा त्वमेव तस्या मृगीदृशो बहिश्चराः प्राणा इव वर्तसे ।
त्वच्चातुर्यमस्यां क्रियालतायामालवालमभूत् ।
यत्तवाभीष्टं येन प्रियामनोरथः फलिष्यति तदखिलं करिष्यामि ।
नताङ्ग्या मन्मनः काठिन्यमाख्यातं ।
यदा केलिवने कुरङ्गलोचना लोचनपथमवर्तत तदैषापहृतमदीयमानसा सा स्वमन्दिरमगात् ।
सा चेतसो माधुर्यकाठिन्ये स्वयमेव जानाति ।
दुष्करः कन्यान्तःपुरप्रवेशः ।
तदनुरूपमुपायमुपपाद्य श्वः परश्वो वा मताङ्गीं सङ्गमिष्यामि ।
मदुदन्तमेवमाख्याय शिरीषकुसुमसुकुमाराया यथा शरीरबाधा न जायेत तथाविधमुपायमाचरऽ इति ।। १,५.२१ ।।

बालचन्द्रिकापि तस्य प्रेमगर्भितं वचनमाकर्ण्य संतुष्टा कन्यापुरमगच्छत् ।
राजवाहनोऽपि यत्र हृदयवल्लभावलोकनसुखमलभत तदुद्यानं विरहविनोदाय पुष्पोद्भवसमन्वितो जगाम ।
तत्र चकोरलोचनावचितपल्लवकुसुमनिकुरम्बं महीरुहसमूहं शरदिन्दुमुख्या मन्मथसमाराधनस्थानं च नताङ्गीपदपङ्क्तिचिह्नितं शीतलसैकततलं च सुदतीभुक्तमुक्तं माधवीलतामण्डपान्तरपल्लवतल्पं च विलोकयंल्ललनातिलकविलोकनवेलाजनितशेषाणि स्मारंस्मारं मन्दमारुतकम्पितानि नवचूतपल्लवानि मदनाग्निशिखा इव चकितो दर्शन्दर्शं मनोजकर्णेजपानामिव कोकिलकीरमधुकराणां क्वणितानि श्रावं श्रावं मारविकारेण क्वचिदप्यवस्थातुमसहिष्णुः परिबभ्राम ।। १,५.२२ ।।

तस्मिन्नवसरे धरणीसुर एकः सूक्ष्मचित्रनिवसनं स्फुरन्मणिकुण्डलमण्डितो मुण्डितमस्तकमानवसमेतश्चतुरवेशमनोरमो यदृच्छया समागतः समन्ततोऽभ्युल्लसत्तेज्ॐअण्डलं राजवाहनमाशीर्वादपूर्वकं ददर्श ।
राजवाहनः सादरं को भवान्, कस्यां विद्यायां निपुणःऽ इति तं पप्रच्छ ।
स च "विद्येश्वरनामधेयोऽहमैन्द्रजालिकविद्याकोविदो विविधदेशेषु राजमनोरञ्जनाय भ्रमन्नुज्जयिनीमद्यागतोऽस्मिऽ इति शशंस ।
पुनरपि राजवाहनं सम्यगालोक्य "अस्यां लीलावनौ पाण्डुरतानिमित्तं किम्ऽ इति साभिप्रायं विहस्यापृच्छत् ।
पुष्पोद्भवश्च निजकार्यकरणं तर्कयन्नेनमादरेण बभाषे-"ननु सतां सख्यस्याभाषणपूर्वतया चिरं रुचिरभाषणो भवानस्माकं प्रियवयस्यो जातः ।
सुहृदामकथ्यं च किमस्ति? केलिवनेऽस्मिन्वसन्तमहोत्सवायागताया मालवेन्द्रसुताया राजनन्दनस्यास्य चाकस्मिकदर्शनेऽन्योन्यानुरगातिरेकः समजायत ।
सततसंभोगसिद्ध्यपायाभावेनासावीदृशीमवस्थामनुभवति इति ।
विद्येश्वरो लज्जाभिरामं राजकुमारमुखमभिवीक्ष्य विरचितमन्दहासो व्याजहार-"देव !भवदनुचरे मयि तिष्ठति तव कार्यमसाध्यं किमस्ति ।
अहमिन्द्रजालविद्यया मालवेन्द्रं मोहयन्पौरजनसमक्षमेव तत्तनयापरिणयं रचयित्वा कन्यान्तःपुरप्रवेशं कारयिष्यामीति वृत्तान्त एष राजकन्यकायै सखीमुखेन पूर्वमेव कथयितव्यःऽ इति ।
संतुष्टमना महीपतिरनिमित्तं मित्रं प्रकटीकृतकृत्रिमक्रियापाटवं विप्रलम्भकृत्रिमप्रेमसहजसौहार्दवेदिनं तं विद्येश्वरं सबहुमानं विससर्ज ।। १,५.२३ ।।

अथ राजवाहनो विद्येश्वरस्य क्रियापाटवेन फलितमिव मनोरथं मन्यमानः पुष्पोद्भवेन सह स्वमन्दिरमुपेत्य सादरं बालचन्द्रिकामुखेन निजवल्लभायै महीसुरक्रियमाणं संगमोपायं वेदयित्वा कौतुकाकृष्टहृदयः "कथमिमां क्षपां क्षपयामिऽ इत्यतिष्ठत् ।
परेद्युः प्रभाते विद्येश्वरो रसभावरीतिगतिचतुरस्तादृशेन महता निजपरिजनेन सह राजभवनद्वारान्तिकमुपेत्य दौवारिकनिवेदितनिजवृत्तान्तः सहसोपगम्य सप्रणामं "ऐन्द्रजालिकः समागतःऽ इति द्वास्थैर्विज्ञापितेन तद्दर्शनकुतूहलाविष्टेन समुत्सुकावरोधसहितेन मालवेन्द्रेण समाहूयमानो विद्येश्वरः कक्षान्तरं प्रविश्य सविनयमाशिषं दत्त्वा तदनुज्ञातः परिजनताड्यमानेषु वाद्येषु नदत्सु गायकीषु मदनकलकोकिलामञ्जुलध्वनिषु, समधिकरागरञ्जितसामाजिकमनोवृत्तिषु पिच्छिकाभ्रमणेषु, सपरिवारं परिवृत्तं भ्रामयन्मुकुलितनयनः क्षणमतिष्ठत् ।
तदनु विषमं विषमुल्बणं वमन्तः फणालङ्करणा रत्नराजिनीराजितराजमन्दिराभोगा भोगिनो भयं जनयन्तो निश्चेरुः ।
गृध्राश्च बहवस्तुण्डैरहिपतीनादाय दिवि समचरन् ।। १,५.२४ ।।

ततोऽग्रजन्मा नरसिंहस्य हिरण्यकशिपोर्दैत्येश्वरस्य विदारणमभिनीय महाश्चर्यान्वितं राजानमभाषत-राजन्!अवसानसमये भवता शुभसूचकं द्रष्टुमुचितं ।
ततः कल्याणपरम्परावाप्तये भवदात्मजाकारायास्तरुण्या निखिललक्षणोपेतस्य राजनन्दनस्य विवाहः कार्यःऽ इति ।
तदवलोकनकुतूहलेन महीपालेनानुज्ञातः सः संकल्पितार्थसिद्धिसंभावनसम्फुल्लवदनः सकलमोहजनकमञ्जनं लोचनयोर्निक्षिप्य परितो व्यलोकयत् ।
सर्वेषु "तदैन्द्रजालिकमेव कर्मऽ इति साद्भुतं पश्यत्सु रागपल्लवितहृदयेन राजवाहनेन पूर्वसङ्केतसमागतामनेकभूषणभूषिताङ्गीमवन्तिसुन्दरीं वैवाहिकमन्त्रतन्त्रनैपुण्येनाग्निं साक्षीकृत्य संयोजयामास ।
क्रियावसाने सति "इन्द्रजालपुरुषाः, सर्वे गच्छन्तु भवन्तःऽ इति द्विजन्मनोच्चैरुच्यमाने सर्वे मायामानवा यथायथमन्तर्भावं गताः ।
राजवाहनोऽपि पूर्वकल्पितेन गूढोपायचातुर्येणेन्द्रजालिकपुरुषवत्कन्यान्तःपुरं विवेश ।
मालवेन्द्रोऽपि तदद्भुतं मन्यमानस्तस्मै वाडवाय प्रचुरतरं धनं दत्त्वा विद्येश्वरं "इदानीं साधयऽ इति विसृज्य स्वयमन्तर्मन्दिरं जगाम ।
ततोऽवन्तिसुन्दरी प्रियसहचरीवरपरिवारा बल्लभोपेता सुन्दरं मन्दिरं ययौ ।
एवं दैवमानुषबलेन मनोरथसाफल्यमुपेतो राजवाहनः सरसमधुरचेष्टाभिः शनैःशनैर्हरिणलोचनाया लज्जामपनयन्सुरतरागमुपनयन्रहो विश्रम्भमुपजनयन्संलापे तदनुलापपीयूषपानलोलश्चित्रचित्रं चित्तहारिणं चतुर्दशभुवनवृत्तान्तं श्रावयामास ।। १,५.२५ ।।

इति श्रीदण्डिनः कृतौ दशकुमारचरितेऽवन्तिसुन्दरीपरिणयो नाम पञ्चम उच्छ्वासः ।।

इति पूर्वपीठिका ।।