प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

दशकुमारचरितम्/पूर्वपीठिका/प्रथमोच्छ्वासः

< दशकुमारचरितम्‎ | पूर्वपीठिका
दशकुमारचरितम्
प्रथमोच्छ्वासः
दण्डिनः
द्वितीयोच्छ्वासः →

ब्रह्माण्डच्छत्रदण्डः शतधृतिभवनाम्भोरुहो नालदण्डः
क्षोणीनौकूपदण्डः क्षरदमरसरित्पट्टिकाकेतुदण्डः ।
ज्योतिश्चक्राक्षदण्डस्त्रिभुवनविजयस्तम्भदण्डोऽङ्घ्रिदण्डः
श्रेयस्त्रैविक्रमस्ते वितरतु विबुधद्वेषिणां कालदण्डः ।।
अस्ति समस्तनगरीनिकषायमाणा शश्वदगण्यपण्यविस्तारितमणिगणादिवस्तुजातव्याख्यातरत्नाकरमाहात्म्या मगधदेशशेखरीभूता पुष्पपुरी नाम नगरी ।। १,१.१ ।।

तत्र वीरभटपटलोत्तरङ्ग-तुरङ्ग-कुञ्जर-मकर-भीषण-सकल-रिपुगण-कटकजलनिधि-मथन-मन्दरायमाण-समुद्दण्ड-भुजदण्डः, पुरन्दर-पुराङ्गण-वनविहरण-परायण-तरुणगणिकागण-जेगीयमानयातिमानया शरदिन्दु-कुन्द-घनसार-नीहार-हार-मृणाल-मराल-सुरगज-नीरक्षीर-गिरिशाट्टहास-कैलास-काशनीकाश-मूर्त्या रचित-दिगन्तरालपूर्त्या कीर्त्याभितः सुरभितः स्वर्लोक-शिखरोरुरुचिर-रत्नरत्नाकर-वेला-मेखलायित-धरणी-रमणी-सौभाग्यभोग-भाग्यवान्, अनवरत-याग-दक्षिणा-रक्षित-शिष्ट-विशिष्ट-विद्या-सम्भार-भासुर-भूसुरनिकरः, विरचिताराति-संतापेन प्रतापेन सतत-तुलितवियन्मध्यहंसः, राजहंसो नाम घन-दर्प-कन्दर्प-सौन्दर्य-सोदर्य-हृद्यनिरवद्यरूपो भूपो बभूव ।। १,१.२ ।।

तस्य वसुमती नाम सुमती लीलावतीकुलशेखरमणी रमणी बभूव ।। १,१.३ ।।

रोषरूक्षेण निटिलाक्षेण भस्मीकृतचेतने मकरकेतने तदा भयेनानवद्या वनितेति मत्वा तस्य रोलम्बावली केशजालम्, प्रेमाकरो रजनीकरो विजितारविन्द-वदनम्, जयध्वजायमानो मीनो जायायुतोऽक्षियुगलम्, सकलसैनिकाङ्गवीरो मलयसमीरो निःश्वासः, पथिकहृद्दलन-करवालः प्रवालश्चाधरबिम्बम्, जयशङ्खो बन्धुरा लावण्यधरा कन्धरा, पूर्णकुम्भौ चक्रवाकानुकारौ पयोधरौ;ज्यायमाने मार्दवासमाने बिसलते च बाहूर्-इषदुत्फुल्ल-लीलावतंस-कह्लार-कोरकौ गङ्गावर्तसनाभिर्नाभिः, दूरीकृतयोगिमनोरथो जैत्ररथोऽतिघनं जघनम्, जयस्तम्भभूते सौन्दर्यभूते विघ्नितयतिजनारम्भे रम्भे चोरुयुगम्, आतपत्रसहस्रपत्रं पादद्वयं अस्त्रभूतानि प्रसूनानि तानीतराण्यङ्गानि च समभूवन्निव ।। १,१.४ ।।

विजितामरपुरे पुष्पपुरे निवसता सानन्तभोगलालिता वसुमती वसुमतीव मगधराजेन यथासुखमन्वभावि ।। १,१.५ ।।

तस्य राज्ञः परमविधेया धर्मपाल-पद्मोद्भव-सितवर्म-नामधेया धीरधिषणावधीरित-विबुधाचार्य-विचार्यकार्य-साहित्याः कुलामात्यास्त्रयोऽभूवन् ।। १,१.६ ।।

तेषां सितवर्मणः सुमती-सत्यवर्माणौ, धर्मपालस्य सुमन्त्र-सुमित्र-कामपालाः पद्मोद्भवस्य सुश्रुत-रत्नोद्भवाविति तनयाः समभूवन् ।। १,१.७ ।।

तेषु धर्मशीलः सत्यवर्मा संसारासारतां बुद्ध्वा तीर्थयात्राभिलाषी देशान्तरमगमत् ।। १,१.८ ।।

विट-नट-वार-नारी-परायणो दुर्विनीतः कामपालो जनकाग्रजन्मनोः शासनमतिक्रम्य भुवं बभ्राम ।। १,१.९ ।।

रत्नोद्भवोऽपि वाणिज्यनिपुणतया पारावारतरणमकरोत् ।। १,१.१० ।।

इतरे मन्त्रिसूनवः पुरन्दरपुरातिथिषु पितृषु यथापूर्वमन्वतिष्ठन् ।। १,१.११ ।।

ततः कदाचिन्नानाविध-महदायुध-नैपुण्य-रचितागण्य-जन्यराजन्य-मौलिपालि-निहित-निशित-सायको मगधनायको मालवेश्वरं प्रत्यग्रसङ्ग्रामघस्मरं समुत्कटमानसारं मानसारं प्रति सहेलं न्यक्कृतजलधिनिर्घोषाहङ्कारेण भेरीझङ्कारेण हठिकाकर्णनाक्रान्त-भयचण्डिमानं दिग्दन्तावलवलयं विघूर्णन्निजभरनमन्मेदिनीभरेणाक्रान्तभुजगराजमस्तकबलेन चतुरङ्गबलेन संयुतः सङ्ग्रामाभिलाषेण रोषेण महताविष्टो निर्ययौ ।। १,१.१२ ।।

मालवनाथोऽप्यनेकानेक-यूथप-सनाथो विग्रहः सविग्रह इव साग्रहोऽभिमुखीभूय भूयो निर्जगाम ।। १,१.१३ ।।

तयोरथ रथतुरगखुरक्षुण्णक्षोणीसमुद्भूते करिघटाकटस्रवन्मदधाराधौतमूले नव्यवल्लभवरणागतदिव्यकन्याजनजवनिकापटमण्डप इव वियत्तलव्याकुले धूलीपटले दिविषद्ध्वनि धिक्कृतान्यध्वनिपटहध्वानबधिरिताशेषदिगन्तरालं शस्त्राशस्त्रि हस्ताहस्ति परस्पराभिहतसैन्यं जन्यमजनि ।। १,१.१४ ।।

तत्र मगधराजः प्रक्षीणसकलसैन्यमण्डलं मालवराजं जीवग्राहमभिगृह्य कृपालुतया पुनरपि स्वराज्ये प्रतिष्ठापयामास ।। १,१.१५ ।।

ततः स रत्नाकरमेखलामिलामनन्यशासनां शासदनपत्यतया नारायणं सकललोकैककारणं निरन्तरमर्चयामास ।। १,१.१६ ।।

अथ कदाचित्तदग्रमहिषी "देवि! देवेन कल्पवल्लीफलमाप्नुहिऽ इति प्रभातसमये सुस्वप्नमवलोकितवती ।। १,१.१७ ।।

सा तदा दयितमनोरथपुष्पभूतं गर्भमधत्त ।। १,१.१८ ।।

राजापि सम्पन्न्यक्कृताखण्डलः सुहृन्नृपमण्डलं समाहूय निजसम्पन्यनोरथानुरूपं देव्याः सीमन्तोत्सवं व्यधत्त ।। १,१.१९ ।।

एकदा हितैः सुहृन्मन्त्रिपुरोहितैः सभायां सिंहासनासीनो गुणैरहीनो ललाटतटन्यस्ताञ्जलिना द्वारपालेन व्यज्ञापि-"देव! देवसन्दर्शनलालसमानसः कोऽपि देवेन विरच्यार्चनार्हे यतिर्द्वारदेशमध्यास्तेऽइति ।। १,१.२० ।।

तदनुज्ञातेन तेन संयमी नृपसमीपमनायि ।। १,१.२१ ।।

भूपतिरायान्तं तं विलोक्य सम्यग्ज्ञाततदीयगूढचारभावो निखिलमनुचरनिकरं विसृज्य मन्त्रिजनसमेतः प्रणतमेनं मन्दहासमभाषत-"ननु तापस! देशं सापदेशं भ्रमन्भवांस्तत्र तत्र भवदभिज्ञातं कथयतुऽइति ।। १,१.२२ ।।

तेनाभाषि भूभ्रमणबलिना प्राञ्जलिना-"देव! शिरसि देवस्याज्ञामादायैनं निर्देषं वेषं स्वीकृत्य मालवेन्द्रनगरं प्रविश्य तत्र गूढतरं वर्तमानस्तस्य राज्ञः समस्तमुदन्तजातं विदित्वा प्रत्यागमं ।। १,१.२३ ।।

मानी मानसारः स्वसैनिकायुष्मत्तान्तराये संपराये भवतः पराजयमनुभूय वैलक्ष्यलक्ष्यहृदयो वीतदयो महाकालनिवासिनं कालीविलासिनमनश्वरं महेश्वरं समाराध्य तपः प्रभावसन्तुष्टादस्मादेकवीरारातिघ्नीं भयदां गदां लब्ध्वात्मानमप्रतिभटं मन्यमानो महाभिभानो भवन्तमभियोक्तुमुद्युङ्क्ते ।
ततः परं देव एव प्रमाणम्ऽ इति ।। १,१.२४ ।।

तदालोच्य निश्चिततत्कृत्यैरमात्यै राजा विज्ञापितोऽभूत्-देव, निरुपायेन देवसहायेन योद्धुमरातिरायाति ।
तस्मादस्माकं युद्धं सांप्रतमसाम्प्रतं ।
सहसा दुर्गसंश्रयः कार्यःऽइति ।। १,१.२५ ।।

तैर्बहुधा विज्ञापितोऽप्यखर्वेण गर्वेण विराजमानो राजा तद्वाक्यमकृत्यमित्यनादृत्य प्रतियोद्धुमना बभूव ।। १,१.२६ ।।

शितिकण्ठदत्तशक्तिसारो मानसारो योद्धुमनसामग्रीभूय सामग्रीसमेतोऽक्लेशं मगधदेशं प्रविवेश ।। १,१.२७ ।।

तदा तदाकर्ण्य मन्त्रिणो भूमहेन्द्रं मगधेन्द्रं कथञ्चिदनुनीयरिपुभिरसाध्ये विन्ध्याटवीमध्येऽवरोधान्मूलबलरक्षितान्निवेशयामासुः ।। १,१.२८ ।।

राजहंसस्तु प्रशस्तवीतदैन्यसैन्यसमेतस्तीव्रगत्या निर्गत्याधिकरुषं द्विषं रुरोध ।। १,१.२९ ।।

परस्परबद्धवैरयोरेतयोः शूरयोस्तदा तदालोकनकुतूहलागतगगनचराश्चर्यकारणे रणे वर्तमाने जयाकाङ्क्षी मालवदेशरक्षी विविधायुधस्थैर्यचर्याञ्चितसमरतुलितामरेश्वरस्य मगधेश्वरस्य तस्योपरि पुरा पुरारातिदत्तां गदां प्राहिणोत् ।। १,१.३० ।।

निशितशरनिकरशकलीकृतापि सा पशुपतिशासनस्यावन्ध्यतया सूतं निहत्य रथस्थं राजानं मूर्छितमकार्षीत् ।। १,१.३१ ।।

ततो वीतप्रग्रहा अक्षतविग्रहा वाहा रथमादाय दैवगत्यान्तःपुरशरण्यं महारण्यं प्राविशन् ।। १,१.३२ ।।

मालवनाथो जयलक्ष्मीसनाथो मगधराज्यं प्राज्यं समाक्रम्य पुष्पपुरमध्यतिष्ठत् ।। १,१.३३ ।।

तत्र हेतिततिहतिश्रान्ता अमात्या दैवगत्यानुत्क्रान्तजीविता निशान्तवातलब्धसंज्ञाः कथञ्चिदाश्वस्य राजानं समन्तादन्वीक्ष्यानवलोकितवन्तो दैन्यवन्तो देवीमवापुः ।। १,१.३४ ।।

वसुमती तु तेभ्यो निखिलसैन्यक्षतिं राज्ञोऽदृश्यत्वं चाकर्ण्योद्विग्ना शोकसागरमग्ना रमणानुगमने मतिं व्यधत्त ।। १,१.३५ ।।

कल्याणि, भूरमणमरणमनिश्चितं ।
किञ्च दैवज्ञकथितो मथितोद्धतारातिः सार्वभ्ॐओऽभिरामो भविता सुकुमारः कुमारस्त्वदुदरे वसति ।
तस्मादद्य तव मरणमनुचितम्ऽ इति भूषितभाषितैरमात्यपुरोहितैरनुनीयमानया तया क्षणं क्षणहीनया तूष्णीमस्थायि ।। १,१.३६ ।।

अथार्धरात्रे निद्रानिलीननेत्रे परिजने विजने शोकपारावारमपारमुत्तर्तुमशक्नुवती सेनानिवेशदेशं निःशब्दलेशं शनैरतिक्रम्य यस्मिन्रथस्य संसक्ततया तदानयनपलायनश्रान्ता गन्तुमक्षमाः क्षमापतिरथ्याः पथ्याकुलाः पूर्वमतिष्ठंस्तस्य निकटवटतरोः शाखायां मृतिरेखायामिव क्वचिदुत्तरीयार्द्धेन बन्धनं मृतिसाधनं विरच्य मर्तुकामाभिरामा वाङ्माधुरीविरसीकृतकल-कण्ठ-कण्ठा साश्रुकण्ठा व्यलपत्-"लावण्योपमितपुष्पसायक, भूनायक, भवानेव भाविन्यपि जन्मनि वल्लभो भवतुऽ इति ।। १,१.३७ ।।

तदाकर्ण्य नीहारकरकिरणनिकरसंपर्कलब्धावबोधो मागधोऽगाधरुधिरविक्षरणनष्टचेष्टो देवीवाक्यमेव निश्चिन्वानस्तन्वानः प्रियवचनानि शनैस्तामाह्वयत् ।। १,१.३८ ।।

सा ससंभ्रममागत्यामन्दहृदयानन्दसंफुल्लवदनारविन्दा तमुपोषिताभ्यामिवानिमिषिताभ्यां लोचनाभ्यां पिबन्ती विकस्वरेण स्वरेण पुरोहितामात्यजनमुच्चैराहूय तेभ्यस्तमदर्शयत् ।। १,१.३९ ।।

राजा निटिलतटचुम्बितनिजचरणाम्बुजैः प्रशंसितदैवमाहात्म्यैरमात्यैरभाणि-"देव, रथ्यचयः सारथ्यपगमे रथं रभसादरण्यमनयत्ऽइति ।। १,१.४० ।।

तत्र निहतसैनिकग्रामे संग्रामे मालवपतिनाराधितपुरारातिना प्रहितया गदया दयाहीनेन ताडितो मूर्छामागत्यात्र वने निशान्तपवनेन बोधितोऽभवम्ऽ इति महीपतिरकथयत् ।। १,१.४१ ।।

ततो विरचितमहेन मन्त्रिनिवहेन विरचितदैवानुकूल्येन कालेन शिविरमानीयापनीताशेषशल्यो विकसित-निजाननारविन्दो राजा सहसा विरोपितव्रणोऽकारि ।। १,१.४२ ।।

विरोधिदैवधिक्कृतपुरुषकारो दैन्यव्याप्ताकारो मगधाधिपतिरधिकाधिरमात्यसंमत्या मृदुभाषितया तया वसुमत्या मत्या कलितया च समबोधि ।। १,१.४३ ।।

देव, सकलस्य भूपालकुलस्य मध्ये तेजोवरिष्ठो गरिष्ठो भवानद्य विन्ध्यवनमध्यं निवसतीति जलबुद्बुदसमाना विराजमाना सम्पत्तडिल्लतेव सहसैवोदेति नश्यति च ।
तन्निखिलं दैवायत्तमेवावधार्य कार्यं ।। १,१.४४ ।।

किञ्च पुरा हरिश्चन्द्ररामचन्द्रमुख्या असंख्या महीन्द्रा ऐश्वर्योपमितमहेन्द्रा दैवतन्त्रं दुःखयन्त्रं सम्यगनुभूय पश्चादनेककालं निजराज्यमकुर्वन् ।
तद्वदेव भवान्भविष्यति ।
कञ्चन कालं विरचितदैवसमाधिर्विगलिताधिस्तिष्ठतु तावतिति ।। १,१.४५ ।।

ततः सकलसैन्यसमन्वितो राजहंसस्तपोविभ्राजमानं वामदेवनामानं तपोधनं निजाभिलाषावाप्तिसाधनं जगाम ।। १,१.४६ ।।

तं प्रणम्य तेन कृतातिथ्यस्तस्मै कथितकथ्यस्तदाश्रमे दूरीकृतश्रमे कञ्चन कालमुषित्वा निजराज्याभिलाषी मितभाषी स्ॐअकुलावतंसो राजहंसो मुनिमभाषत-"भगवन्, मानसारः प्रबलेन दैवबलेन मां निर्जित्य मद्भोग्यं राज्यमनुभवति ।
तद्वदहमप्युग्रं तपो विरच्य तमरातिमुन्मूलयिष्यामि लोकशरण्येन भवत्कारुण्येनेति नियमवन्तं भवन्तं प्राप्नवम्ऽ इति ।। १,१.४७ ।।

ततस्त्रिकालज्ञस्तपोधनो राजानमवोचत्-सखे! शरीरकार्श्यकारिणा तपसालं ।
वसुमतीगर्भस्थः सकलरिपुकुलमर्दनो राजनन्दनो नूनं सम्भविष्यति, कञ्चन कालं तूष्णीमास्स्वऽइति ।। १,१.४८ ।।

गगनचारिण्यापि वाण्या "सत्यमेतत्ऽ इति तदेवावाचि ।
राजापि मुनिवाक्य मङ्गीकृत्यातिष्ठत् ।। १,१.४९ ।।

ततः सम्पूर्णगर्भदिवसा वसुमती सुमुहूर्ते सकललक्षणलक्षितं सुतमसूत ।
ब्रह्मवर्चसेन तुलितवेधसं पुरोधसं पुरस्कृत्य कृत्यविन्महीपतिः कुमारं सुकुमारं जातसंस्कारेण बालालङ्कारेण च विराजमानं राजवाहननामानं व्यधत्त ।। १,१.५० ।।

तस्मिन्नेव काले सुमतिसुमित्रसुमन्त्रसुश्रुतानां मन्त्रिणां प्रमतिमित्रगुप्तयन्त्रगुप्तविश्रुताख्या महाभिख्याः सूनवो नवोद्यदिन्दुरुचश्चिरायुषः समजायन्त ।
राजवाहनो मन्त्रिपुत्रैरात्ममित्रैः सह बालकेलीरनुभवन्नवर्धत ।। १,१.५१ ।।

अथ कदाचिदेकेन तापसेन रसेन राजलक्षणविराजितं कच्चिन्नयनानन्दकरं सुकुमारं कुमारं राज्ञे समर्प्यावोचि-भूवल्लभ, कुशसमिदानयनाय वनं गतेन मया काचिदशरण्या व्यक्तकार्पण्याश्रु मुञ्चन्ती वनिता विलोकिता ।। १,१.५२ ।।

निर्जने वने किंनिमित्तं रुद्यते त्वया इति पृष्टा सा करसरोरुहैरश्रु प्रमृज्य सगद्गदं मामवोचत्-मुने, लावण्यजितपुष्पसायके मिथिलानायके कीर्तिव्याप्तसुधर्मणि निजसुहृदो मगधराजस्य सीमन्तिनीसीमन्तमहोत्सवाय पुत्रदारसमन्विते पुष्पपुरमुपेत्य कञ्चन कालमधिवसति समाराधितगिरीशो मालवाधीशो मगधराजं योद्धुमभ्यगात् ।। १,१.५३ ।।

तत्र प्रख्यातयोरेतयोरसङ्ख्ये सङ्ख्ये वर्तमाने सुहृत्साहाय्यकं कुर्वाणो निजबले सति विदेहे विदेहेश्वरः प्रहारवर्मा जयवता रिपुणाभिगृह्य कारुण्येन पुण्येन विसृष्टो हतावशेषेण शून्येन सैन्येन सह स्वपुरगमनमकरोत् ।। १,१.५४ ।।

ततो वनमार्गेण दुर्गेण गच्छन्नधिकबलेन शबरबलेन रभसादभिहन्यमानो मूलबलाभिरक्षितावरोधः स महानिरोधः पलायिष्ट ।
तदीयार्भकयोर्यमयोर्धात्रीभावेन परिकल्पिताहं मद्दुहितापि तीव्रगतिं भूपतिमनुगन्तुमक्षमे अभूव ।
तत्र विवृतवदनः कोऽपि रूपीकोप इव व्याघ्रः शीघ्रं मामाघ्रातुमागतवान् ।
भीताहमुदग्रग्राव्णि स्खलन्ती पर्यपतं ।
मदीयपाणिभ्रष्टो बालकः कस्यापि कपिलाशवस्य क्रोडमभ्यलीयत ।। १,१.५५ ।।

तच्छवाकर्षिणोऽमर्षिणो व्याघ्रस्य प्राणान्बाणो बाणासनयन्त्रमुक्तोऽपाहरत् ।
लोलालको बालकोऽपि शबरैरादाय कुत्रचिदुपानीयत ।
कुमारमपरमुद्वहन्ती मद्दुहिता कुत्र गता न जाने ।
साहं मोहं गता केनापि कृपालुना वृष्णिपालेन स्वकुटीरमावेश्य विरोपितव्रणाभवं ।
ततः स्वस्थीभूय क्ष्माभर्तुरन्तिकमुपतिष्ठासुरसहायतया दुहितुरनभिज्ञतया च व्याकुलीभवामि-इत्यभिदधाना "एकाकिन्यपि स्वामिनं गमिष्यामिऽ इति सा तदैव निरगात् ।। १,१.५६ ।।

अहमपि भवन्मित्रस्य विदेहनाथस्य विपन्निमित्तं विषादमनुभवंस्तदन्वयाङ्कुरं कुमारमन्विष्यंस्तदैकं चण्डिकामन्दिरं सुन्दरं प्रागां ।। १,१.५७ ।।

तत्र संततमेवंविधविजयसिद्धये कुमारं देवतोपहारं करिष्यन्तः किराताः "महारुहशाखावलम्बितमेनमसिलतया वा, सैकततले खनननिक्षिप्तचरणं लक्षीकृत्य शितशरनिकरेण वा, अनेकचरणैः पलायमानं कुक्कुरबालकैर्वा दंशयित्वा संहनिष्यामःऽ इति भाषमाणा मया समभ्यभाषन्त "ननु किरातोत्तमाः, घोरप्रचारे कान्तारे स्खलितपथः स्थविरभूसुरोऽहं मम पुत्रकं क्वचिच्छायायां निक्षिप्य मार्गान्वेषणाय किञ्चिदन्तरमगच्छं ।। १,१.५८ ।।

स कुत्र गतः, केन वा गृहीतः, परीक्ष्यापि न वीक्ष्यते तन्मुखावलोकनेन विनानेकान्यहान्यतीतानि ।
किं कर्ॐइ, क्व यामि भवद्भिर्न किमदर्शि इति ।। १,१.५९ ।।

द्विजोत्तम! कश्चिदत्र तिष्ठति ।
किमेष तव नन्दनः सत्यमेव ।
तदेनं गृहाणऽ इत्युक्त्वा दैवानुकूल्येन मह्यं तं व्यतरन् ।। १,१.६० ।।

तेभ्यो दत्ताशीरहं बालकमङ्गीकृत्य शिशिरोदकादिनोपचारेणाश्वास्य निःशङ्कं भवदङ्कं समानीतवानस्मि ।
एनमायुष्मन्तं पितृरूपो भवानभिरक्षतात्ऽइति ।। १,१.६१ ।।

राजा सुहृदापन्निमित्तं शोकं तन्नन्दनविलोकनसुखेन किञ्चिदधरीकृत्य तमुपहारवर्मनाम्नाहूय राजवाहनमिव पुपोष ।। १,१.६२ ।।

जनपतिरेकस्मिन्पुण्यदिवसे तीर्थस्नानाय पक्वणनिकटमार्गेण गच्छन्नबलया कयाचिदुपलालितमनुपमशरीरं कुमारं कञ्चिदवलोक्य कुतूहलाकुलस्तामपृच्छत्-"भामिनि! रुचिरमूर्तिः सराजगुणसंपूर्तिरसावर्भको भवदन्वयसंभवो न भवति कस्य नयनानन्दः, निमित्तेन केन भवदधीनो जातः कथ्यतां याथातथ्येन त्वयाऽ इति ।। १,१.६३ ।।

प्रणतया तया शबर्या सलीलमलापि-"राजन्! आत्मपल्लीसमीपे पदव्यां वर्तमानस्य शक्रसमानस्य मिथिलेश्वरस्य सर्वस्वमपहरति शबरसैन्ये मद्दयितेनापहृत्य कुमार एष मह्यमर्पितो व्यवर्धत इति ।। १,१.६४ ।।

तदवधार्य कार्यज्ञो राजा मुनिकथितं द्वितीयं राजकुमारमेव निश्चित्य सामदानाभ्यां तामनुनीयापहारवर्मेत्याख्याय देव्यै "वर्धयऽ इति समर्पितवान् ।। १,१.६५ ।।

कदाचिद्वामदेवशिष्यः स्ॐअदेवशर्मा नाम कञ्चिदेकं बालकं राज्ञः पुरो निक्षिप्याभाषत-देव! रामतीर्थे स्नात्वा प्रत्यागच्छता मया काननावनौ वनितया कयापि धार्यमाणमेनमुज्ज्वलाकारं कुमारं विलोक्य सादरमभाणि--"स्थविरे! का त्वम्? एतस्मिन्नटवीमध्ये बालकमुद्वहन्ती किमर्थमायासेन भ्रमसिऽ इति ।। १,१.६६ ।।

वृद्धयाप्यभाषि-"मुनिवर! कालयवननाम्नि द्वीपे कालगुप्तो नाम धनाढ्यो वैश्यवरः कश्चिदस्ति ।
तन्नन्दिनीं नयनानन्दकारिणीं सुवृत्तां नामैतस्माद्द्वीपादागतो मगधनाथमन्त्रिसंभवो रत्नोद्भवो नाम रमणीयगुणालयो भ्रान्तभूवलयो मनोहारी व्यवहार्युपयम्य सुवस्तुसंपदा श्वशुरेण संमानितोऽभूत् ।
कालक्रमेण नताङ्गी गर्भिणी जाता ।। १,१.६७ ।।

ततः सोदरविलोकनकौतूहलेन रत्नोद्भवः कथञ्चिच्छ्वशुरमनुनीय चपललोचनया सह प्रवहणमारुह्य पुष्पपुरमभिप्रतस्थे ।
कल्लोलमालिकाभिहतः पोतः समुद्राम्भस्यमज्जत् ।। १,१.६८ ।।

गर्भभरालसां तां ललनां धात्रीभावेन कल्पिताहं कराभ्यामुद्वहन्ती फलकमेकमधिरुह्य दैवगत्या तीरभूमिमगमं ।
सुहृज्जनपरिवृतो रत्नोद्भवस्तत्र निमग्नो वा केनोपायेन तीरमगमद्वा न जानामि ।
क्लेशस्य परां काष्ठामधिगता सुवृत्तास्मिन्नटवीमध्येऽद्य सुतमसूत ।
प्रसववेदनया विचेतना सा प्रच्छायशीतले तरुतले निवसति ।
विजने वने स्थातुमशक्यतया जनपदगामिनं मार्गमन्वेष्टुमुद्युक्तया मया विवशायास्तस्याः समीपे बालकं निक्षिप्य गन्तुमनुचितमिति कुमारोऽप्यनायि इति ।। १,१.६९ ।।

तस्मिन्नेव क्षणे वन्यो वारणः कश्चिददृश्यत ।
तं विलोक्य भीता सा बालकं निपात्य प्राद्रवत् ।
अहं समीपलतागुल्मके प्रविश्य परीक्षमाणोऽतिष्ठम्, निपतितं बालकं पल्लवकवलमिवाददति गजपतौ कण्ठीरवो महाग्रहेण न्यपतत् ।
भयाकुलेन दन्तावलेन झटिति वियति समुत्पात्यमानो बालको न्यपतत् ।
चिरायुष्मत्तया स चोन्नततरुशाखासमासीनेन वानरेण केनचित्पक्वफलबुद्ध्या परिगृह्य फलेतरतया विततस्कन्धमूले निक्षिप्तोऽभूत् ।
सोऽपि मर्कटः क्वचिदगात् ।। १,१.७० ।।

बालकेन सत्त्वसंपन्नतया सकलक्लेशसहेनाभावि ।
केसरिणा करिणं निहत्य कुत्रचिदगामि ।
लतागृहान्निर्गतोऽहमपि तेजःपुञ्जं बालकं शनैरवनीरुहादवतार्य वनान्तरे वनि तामन्विष्याविलोक्यैनमानीय गुरवे निवेद्य तन्निदेशेन भवन्निकटमानीतवानस्मिऽइति ।। १,१.७१ ।।

सर्वेषां सुहृदामेकदैवानुकूलदैवाभावेन महदाश्चर्यं विभ्राणो राजा "रत्नोद्भवः कथमभवत्ऽ इति चिन्तयंस्तन्नन्दनं पुष्पोद्भवनामधेयं विधाय तदुदन्तं व्याख्याय सुश्रुताय विषादसंतोषावनुभवंस्तदनुजतनयं समर्पितवान् ।। १,१.७२ ।।

अन्येद्युः कञ्चन बालकमुरसि दधती वसुमतीवल्लभमभिगता ।
तेन "कुत्रत्योऽयं इति पृष्टा समभाषत-"राजन्! अतीतायां रात्रौ काचन दिव्यवनिता मत्पुरतः कुमारमेनं संस्थाप्य निद्रामुद्रितां मां विबोध्य विनीताब्रवीत्-"देवि! त्वन्मन्त्रिणो धर्मपालनन्दनस्य कामपालस्य वल्लभा यक्षकन्याहं तारावली नाम, नन्दिनी मणिभद्रस्य ।
यक्षेश्वरानुमत्या मदात्मजमेतं भवत्तनूजस्याम्भोनिधिवलयवेष्टितक्षोणीमण्डलेश्वरस्य भाविनो विशुद्धयशोनिधे राजवाहनस्य परिचर्याकरणायानीतवत्यस्मि ।
त्वमेनं मनोजसंनिभमभिवर्धय, इति विस्मयविकसितनयनया मया सविनयं सत्कृता स्वक्षी यक्षी साप्यदृश्यतामयासीत्ऽ इति ।। १,१.७३ ।।

कामपालस्य यक्षकन्यासंगमे विस्मयमानमानसो राजहंसो रञ्जितमित्रं सुमित्रं मन्त्रिणमाहूय तदीयभ्रातृपुत्रमर्थपालं विधाय तस्मै सर्वं वार्तादिकं व्याख्यायादात् ।। १,१.७४ ।।

ततः परस्मिन्दिवसे वामदेवान्तेवासी तदाश्रमवासी समाराधितदेवकीर्तिं निर्भर्त्सितमारमूर्तिं कुसुमसुकुमारं कुमारमेकमवगमय्य नरपतिमवादीत्"देव! विलोलालकं बालकं निजोत्सङ्गतले निधाय रुदतीं स्थविरामेकां विलोक्यावोचं "स्थविरे! का त्वम्, अयमर्भकः कस्य नयनानन्दकरः कान्तारं किमर्थमागता, शोककारणं किम्ऽइति ।। १,१.७५ ।।

सा करयुगेन वाष्पजलमुन्मृज्य निजशोकशङ्कूत्पाटनक्षममिव मामवलोक्य शोकहेतुमवोचत्-द्विजात्मज! राजहंसमन्त्रिणः सितवर्मणः कनीयानात्मजः सत्यवर्मा तीर्थयात्रामिषेण देशमेनमागच्छत् ।
स कस्मिंश्चिदग्रहारे कालीं नाम कस्यचिद्भूसुरस्य नन्दिनीं विवाह्य तस्या अनपत्यतया गौरीं नाम तद्भगिनीं काञ्चनकान्तिं परिणीय तस्यामेकं तनयमलभत ।
काली सासूयमेकदा धात्र्या मया सह बालमेनमेकेन मिषेणानीय तटिन्यामेतस्यामक्षिपत् ।
करेणैकेन बालमुद्धृत्यापरेण प्लवमाना नदीवेगागतस्य कस्यचित्तरोः शाखामवलम्ब्य तत्र शिशुं निधाय नदीवेगेनोह्यमाना केनचित्तरुलग्नेन कालभोगिनाहमदंशि ।
मदवलम्बीभूतो भूरुहोऽयमस्मिन्देशे तीरमगमत् ।
गरलस्योद्दीपनतया मयि मृतायामरण्ये कश्चन शरण्यो नास्तीति मया शोच्यते इति ।। १,१.७६ ।।

ततो विषमविषज्वालावलीढावयवा सा धरणीतले न्यपतत् ।
दयाविष्टहृदयोऽहं मन्त्रबलेन विषव्यथामपनेतुमक्षमः समीपकुञ्जेष्वौषधिविशेषमन्विष्य प्रत्यागतो व्युत्क्रान्तजीवितां तां व्यलोकयं ।। १,१.७७ ।।

तदनु तस्याः पावकसंस्कारं विरच्य शोकाकुलचेताः बालमेनमगतिमादाय सत्यवर्मवृत्तान्तवेलायां तन्निवासाग्रहारनामधेयस्याश्रुततया तदन्वेषणमशक्यमित्यालोच्य भवदमात्यतनयस्य भवानेवाभिरक्षितेति भवन्तमेनमानयम्ऽ इति ।। १,१.७८ ।।

तन्निशम्य सत्यवर्मस्थितेः सम्यगनिश्चिततया खिन्नमानसो नरपतिः सुमतये मन्त्रिणे स्ॐअदत्तं नाम तदनुजतनयमर्पितवान् ।
सोऽपि सोदरमागतमिव मन्यमानो विशेषेण पुपोष ।। १,१.७९ ।।

एवं मिलितेन कुमारमण्डलेन सह बालकेलीरनुभवन्नधिरूढानेकवाहनो राजवाहनोऽनुक्रमेण चौलोपनयनादिसंस्कारजातमलभत ।
ततः सकललिपिज्ञानं निखिलदेशीयभाषापाण्डित्यषडङ्गसहितवेदसमुदायकोविदत्वं काव्यनाटकाख्यानकाख्यायिकेतिहासचित्रकथासहितपुराणगणनैपुण्यं धर्मशब्दज्योतिस्तर्कमीमांसादि समस्तशास्त्रनिकरचातुर्यं कौटिल्यकामन्दकीयादिनीतिपटलकौशलं वीणाद्यशेषवाद्यदाक्ष्यं संगीतसाहित्यहारित्वं मणिमन्त्रौषधादिमायाप्रपञ्चचुञ्चुत्वं मातङ्गतुरङ्गादिवाहनारोहणपाटवं विविधायुधप्रयोगचणत्वं चौर्यदुरोदरादिकपटकलाप्रौढत्वं च तत्तदाचार्येभ्यः सम्यग्लब्ध्वा यौवनेन विलसन्तं कुमारनिकरं निरीक्ष्य महीवल्लभः सः "अहं शत्रुजनदुर्लभःऽ इति परमानन्दममन्दमविन्दत ।। १,१.८० ।।

इति श्रीदण्डिनः कृतौ दशकुमारचरिते कुमारोत्पत्तिर्नाम प्रथम उच्छ्वासः ।।