दशश्लोकीस्तुतिः
शङ्कराचार्यः
१९१०

॥ श्री।।

॥ दशश्लोकीस्तुतिः ॥



साम्बो न: कुलदैवतं पशुपते साम्ब त्वदीया वयं
 साम्बं स्तौमि सुरासुरोरगगणाः साम्बेन संतारिताः ।
साम्बायास्तु नमो मया विरचितं साम्बात्परं नो भजे
 साम्बस्यानुचरोऽस्म्यहं मम रतिः साम्बे परब्रह्मणि ।। १ ॥

विष्ण्वाद्याश्च पुरत्रयं सुरगणा जेतुं न शक्ता: स्वयं
 यं शंभुं भगवन्वयं तु पशवोऽस्माकं त्वमेवेश्वरः ।
स्वस्वस्थाननियोजिता: सुमनसः स्वस्था बभूवुस्तत-
 स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ २ ॥

क्षोणी यस्य रथो रथाङ्गयुगलं चन्द्रार्कबिम्बद्वयं
 कोदण्डः कनकाचलो हरिरभूद्बाणो विधि: सारथिः ।
तूणीरो जलधिर्हयाः श्रुतिचयो मौर्वी भुजंगाधिप-
 स्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ३ ॥

येनापादितमङ्गजाङ्गभसितं दिव्याङ्गरागैः समं
 येन स्वीकृतमब्जसंभवशिरः सौवर्णपात्रैः समम् ।
येनाङ्गीकृतमच्युतस्य नयनं पूजारविन्दैः समं
 तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ४ ॥

गोविन्दादधिकं न दैवतमिति प्रोच्चार्य हस्तावुभा-
 वुद्धृत्याथ शिवस्य संनिधिगतो व्यासो मुनीनां वरः ।
यस्य स्तम्भितपाणिरानतिकृता नन्दीश्वरेणाभव-
 त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ५ ॥

आकाशश्चिकुरायते दशदिशाभोगो दुकूलायते
 शीतांशुः प्रसवायते स्थिरतरानन्दः स्वरूपायते ।
वेदान्तो निलयायते सुविनयो यस्य स्वभावायते
 तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ६ ॥

विष्णुर्यस्य सहस्रनामनियमादम्भोरुहाण्यर्चय-
 न्नेकोनोपचितेषु नेत्रकमलं नैजं पदाब्जद्वये ।
संपूज्यासुरसंहतिऺ विदलयंस्त्रैलोक्यपालोऽभव-
 त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ७ ॥

शौरिऺ सत्यगिरं वराहवपुषं पादाम्बुजादर्शने
 चक्रे यो दयया समस्तजगतां नाथं शिरोदर्शने ।
मिथ्यावाचमपूज्यमेव सततं हंसस्वरूपं विधिं
 तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ८ ॥

यस्यासन्धरणीजलाग्निपवनव्योमार्कचन्द्रादयो
 विख्यातास्तनवोऽष्टधा परिणता नान्यत्ततो वर्तते ।
ओंकारार्थविवेचनी श्रुतिरियं चाचष्ट तुर्यं शिवं
 तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ॥ ९॥

विष्णुब्रह्मसुराधिपप्रभृतयः सर्वेऽपि देवा यदा
 संभूताज्जलधेर्विषात्परिभवं प्राप्तास्तदा सत्वरम् ।
तानार्ताञ्शरणागतानिति सुरान्योऽरक्षदर्धक्षणा-
 त्तस्मिन्मे हृदयं सुखेन रमतां साम्बे परब्रह्मणि ।।१०।।


इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य

श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य

श्रीमच्छंकरभगवतः कृतौ

दशश्लोकीस्तुतिः संपूर्णा ॥

"https://sa.wikisource.org/w/index.php?title=दशश्लोकीस्तुतिः&oldid=289321" इत्यस्माद् प्रतिप्राप्तम्