दशश्लोकी (बृहत्स्तोत्ररत्नाकरान्तर्गता)

दशश्लोकी
शङ्कराचार्यः
१९५३

॥ दशश्लोकी ॥

न भूमिर्न तोयं न तेजो न वायु-
र्न खं नेन्द्रियं वा न तेषां समूहः ।
अनेकान्तिकत्वात्सुषुप्यैकसिद्ध-
स्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥ १
न वर्णा न वर्णाश्रमाचारधर्मा
न मे धारणा ध्यानयोगादयोऽपि ।
अनात्माश्रयोऽहं ममाध्यासहाना-
त्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥ २
न माता पिता वा न देवा न लोका
न वेदा न यज्ञा न तीर्थ ब्रुवन्ति ।
सुषुप्तौ निरस्ताविशून्यात्मकत्वा-
तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥ ३
न साङ्ख्यं न शैवं न तत्पाञ्चरात्रं
न जैनं न मीमांसकादेर्मतं वा ।

विशिष्टानुभूत्या विशुद्धात्मकत्वा-
त्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥४
नचोर्ध्वं न चाधो न चान्तर्न बाह्यं
न मध्यं न तिर्यङ् न पूर्वापरा दिक् ।
वियद्य्वापकत्वादखण्डैकरूप-
स्तदेकोऽवशिष्ठश्शिवः केवलोऽहम् ॥५
न शुक्लं न कृष्णं न रक्तं न पीतं
न कुब्जं न पीनं न ह्रस्वं न दीर्घम् ।
अरूपं तथा ज्योतिराकारकत्वा-
त्तदेकोऽवशिष्ठश्शिवः केवलोऽहम् ॥६
न शास्ता न शास्त्रं न शिष्यो न शिक्षा
न च त्वं न चाहं नचायं प्रपञ्चः।
स्वरूपावबोधो विकल्पासहिष्णु-
स्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥७
न जाग्रन्न मे स्वप्नको वा सुषुप्ति-
र्न विश्वो न वा तेजसः प्राज्ञको वा ।

अविद्यात्मकत्वात्त्रयाणां तुरीय-
स्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥८
अपि व्यापकत्वाद्धि तत्वप्रयोगा-
त्स्वतस्सिद्धभावादनन्याश्रयत्वात् ।
जगत्तुच्छमेतत्समस्तं तदुस्या-
त्तदेकोऽवशिष्टश्शिवः केवलोऽहम् ॥९
न चैकं तदन्यद्द्वितीयं उत स्या-
न्न वा केवलत्वं न चाकेवलत्वम्
न शून्यं न चाशून्यमद्वैतकत्वात्-
कथं सर्ववेदान्तसिद्धिं ब्रवीमि॥१०
दशश्लोकवर्या इमे सम्यगुक्ता
अहो शङ्कराचार्यवक्त्रारविन्दात् ।
अजस्रं पठन्तीह सन्तोषबुद्ध्या
प्रयान्त्येव ते सच्चिदानन्दरूपम् ॥११

॥ इति श्रीमच्छङ्कराचार्यविरचिता दशश्लोकी सम्पूर्णा ॥