याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/दायविभागप्रकरणम्
विभागं चेत्पिता कुर्यादिच्छया विभजेत्सुतान् । |
यदि कुर्यात्समानंशान्पत्न्यः कार्याः समांशिकाः । |
शक्तस्यानीहमानस्य किंचिद्दत्त्वा पृथक्क्रिया । |
विभजेरन्सुताः पित्रोरूर्ध्वं रिक्थं ऋणं समम् । |
पितृद्रव्याविरोधेन यदन्यत्स्वयं अर्जितम् । |
क्रमादभ्यागतं द्रव्यं हृतं अप्युद्धरेत्तु यः । |
सामान्यार्थसमुत्थाने विभागस्तु समः स्मृतः । |
भूर्या पितामहोपात्ता निबन्धो द्रव्यं एव वा । |
विभक्तेषु सुतो जातः सवर्णायां विभागभाक् । |
पितृभ्यां यस्य तद्दत्तं तत्तस्यैव धनं भवेत् । |
असंस्कृतास्तु संस्कार्या भ्रातृभिः पूर्वसंस्कृतैः । |
चतुस्त्रिद्व्येकभागाः स्युर्वर्णशो ब्राह्मणात्मजाः । |
अन्योन्यापहृतं द्रव्यं विभक्ते यत्तु दृश्यते । |
अपुत्रेण परक्षेत्रे नियोगोत्पादितः सुतः । |
औरसो धर्मपत्नीजस्तत्समः पुत्रिकासुतः । |
गृहे प्रच्छन्न उत्पन्नो गूढजस्तु सुतः स्मृतः । |
अक्षतायां क्षतायां वा जातः पौनर्भवः सुतः । |
क्रीतश्च ताभ्यां विक्रीतः कृत्रिमः स्यात्स्वयंकृतः । |
उत्सृष्टो गृह्यते यस्तु सोऽपविद्धो भवेत्सुतः । |
सजातीयेष्वयं प्रोक्तस्तनयेषु मया विधिः । |
मृते पितरि कुर्युस्तं भ्रातरस्त्वर्धभागिकम् । |
पत्नी दुहितरश्चैव पितरौ भ्रातरस्तथा । |
एषां अभावे पूर्वस्य धनभागुत्तरोत्तरः । |
वानप्रस्थयतिब्रह्म चारिणां रिक्थभागिनः । |
संसृष्टिनस्तु संसृष्टी सोदरस्य तु सोदरः । |
अन्योदर्यस्तु संसृष्टी नान्योदर्यो धनं हरेत् । |
क्लीबोऽथ पतितस्तज्जः पङ्गुरुन्मत्तको जडः । |
औरसाः क्षेत्रजास्त्वेषां निर्दोषा भागहारिणः । |
अपुत्रा योषितश्चैषां भर्तव्याः साधुवृत्तयः । |
पितृमातृपतिभ्रातृ दत्तं अध्यग्न्युपागतम् । |
बन्धुदत्तं तथा शुल्कं अन्वाधेयकं एव च । |
अप्रजस्त्रीधनं भर्तुर्ब्राह्मादिषु चतुर्ष्वपि । |
दत्त्वा कन्यां हरन्दण्ड्यो व्ययं दद्याच्च सोदयम् । |
दुर्भिक्षे धर्मकार्ये च व्याधौ संप्रतिरोधके । |
अधिविन्नस्त्रियै दद्यादाधिवेदनिकं समम् । |
विभागनिह्नवे ज्ञाति बन्धुसाक्ष्यभिलेखितैः । |