प्रमुखा विकल्पसूचिः उद्घाट्यताम्
दिव्यदृष्टिः (नारायणशास्त्री)
नारायणशास्त्री
१९३६

s) | ‘मास्टर'मणिमालाया एकपञ्चाशत्संख्यको मणिः (साहित्यविभागे २) // [ प्रथममध्यमपरीक्षाश्रेणिगतच्छात्रवृन् दस्यानुवाद | भ्यासेऽत्यन्तमुपयोगिनी ] | - --- -- - -- -- --


  • /'

-- --

2

- . --- --


..


ई० . --

->

--

-


- -- दिव्यदृष्टि


_

_ सन १९३६ __ . 5, 28 ___ [ श्रद्रुतरसमयी सत्ता लघुकथा ! ____ _ ____ । ७.

काशौस्थराजकीयसरस्वतीभवनपुस्तकालयोपाध्यक्षेण, साहित्योचार्येण, साहित्यवारिधिना, ‘विद्वचरित पञ्चक’ ‘अभिज्ञानशाकुन्तलटी कालक्ष्मी' दरेि द्राणां हृदयम्’ ‘अलङ्कारसारमञ्जरी' प्रभृत्य नेकअन्थप्रणेत्रा, ‘अमरभारती' स्मिादकेन ‘विस्ते'इत्युपाख्य नारायणशालिए: निबद्धा । । काशीस्थ ‘संस्कृतबुकडिपो’ इत्यस्याथ्अर्चेः........ ‘मास्टर खेलाडीलाल ऐण्ड सन्स मास्टरप्रिण्टिङ्गवक्र्स’ नाम्नि मुद्रणागारे संमुद्रय प्रकाशिता

| > | { ‘मास्टर'मणिमालाया एकपञ्चाशत्संख्यको मणिः (साहित्यविभागे २) [ प्रथममध्यमपरीक्षाश्रेणिगतच्छात्रवृन्दस्यानुवादा भ्यासेऽत्यन्तमुपयोगिनी ] दिव्यदृष्टिः [ श्रद्रुतरसमयी सरला लघुकथा ] काशीरथराजकीयसरवतीभवनपुस्तकालयोपाध्यक्षेण, साहित्याचार्येण, साहित्यवारिधिना, 'विद्वश्चरित पश्च क’ ‘अभिज्ञानशाकुन्तलटीकालक्ष्मी दुरि द्राणां हृदयम्’ ‘अलङ्कारसारमञ्जरी' प्रभृत्य ! नेकप्रन्थप्रणेत्रा, ‘अमरभारती सम्पाद्केन |‘खिस्ते'इत्युपाख्य नारायणशास्त्रिणा काशीस्थ ‘संस्कृतबुकडिपो’ इत्यस्याध्यचैः ‘मास्टर खेलाड़ीलाल ऐण्ड सन्स् ‘मास्टरप्रिण्टिङ्गवक्र्स नाम्नि मुद्रणागारे संमुद्रय प्रकाशिता मूल्यमाणकचतुष्ट्यम् ई० सन १९३६ दिव्यदृष्टि' रित्याख्यायाः सरलसंस्कृतलघुकथाया उपोद्घातं लिख तामस्माकं महान् प्रमोदो भवति । संस्कृतसाहित्ये किल श्रङ्गुलि परिगणनीया एव त्रिचतुरा गद्यनिबन्धाः सन्ति, दीर्घसमासान्वितश्ले षाद्यलङ्कारगम्भीरप्रौढभाषोपनिबद्धास्ते परिनिष्ठितानां विदुषामुत्तमवर्गी याणां छात्राणां वा मनोरञ्जनाय भाषाभ्यासपाटवाय च प्रभवन्ति । प्रथममध्यमपरीक्षाश्रेणिगतच्छात्राणां कृते नासीत्कोऽपि तथाविधो लघुः सरलश्च गद्यबन्धः, यः किल मनोरञ्जनपुरस्सरं तेषामनुवादाभ्यास पाटवमापादयत् । काशीस्थराजकीयसरस्वतीभवनोपाध्यक्षसाहित्याचार्यामरभारतीसंपा दक-खिस्तेनारायणशास्त्रिभिर्निबद्धा ‘दिव्यदृष्टि' नामान्डुतरसमयाय लघुकथा ऽश्लीलाद्यवद्यवर्जिता सरला संवाद्रूपा चास्तीत्येषा निःशङ्कम ल्पवयसामपरिपकबुद्धीनामपि छात्राणां हस्ते दातुं योग्याऽस्ति । भूयो भूयोऽभ्यस्तयां चानया छात्राणां संस्कृतलेखपाटवं स्फुरिष्यतीति बाढं वयं विमृशामः । यद्यप्यस्मिन् संस्करणे बहवो मुद्रणप्रमादाः सन्ति, तथाऽपि द्वितीय संस्करणे तन्निवारणं भविष्यति, पुस्तकं च कथाप्रसङ्गोपयुक्तचित्रादिभिर्विः भूषयिष्यत इति वयमाशास्महे । गवर्नमेण्ट संस्कृत कालेज सरस्वताभवन्नम् काशा । श्रीत्रिभुवनप्रसादोपाध्यायाः व्याकरणाचार्याः, एम० ए० ) इन्स्पेक्टर आफ संस्कृतपाठशालाजू

यू० पी०, बनारस ।

दिव्यदृष्टिः

त् कोऽपि पाखण्डी, ईदृशा बहवो धूर्ता द्रव्यमर्जयितुं साधु न हि, इदमेवैकं वैशिष्ट्यं तस्य पाखण्डितायां सन्देहं जनयति स कुतोऽपि द्रव्यं न गृह्णाति किंबहुना द्रव्यं स्पृशत्यपि न सः, केवलं भोज्यवस्तून्येव स गृह्णाति, तान्यपि न सञ्चिनोति स्वोद्रपूरणपर्या प्तानि संस्थाप्य ततोऽधिकानि भिक्षुकेभ्यो विभज्यार्पयति ।”

किं तस्य वक्तव्यमस्ति, स श्रात्मनि कं वा विशेषगुणं ख्यापयति ?

“कमपि न, स आत्मनः किमपि वैशिष्ट्यं तथाऽपि भवि न कथयात, हयद्वक्ता त्रिकालदश सिद्धोऽस्ति, लोकानां मनोगतमशेषं बोद्धुं शक्रोति । श्रसाध्या अपि रोगास्तस्य करस्पशदेव सद्यो नश्यन्ति । तेन यस्मै यद्वर दानं दीयते तद्वश्यं पूर्ण भवति ।’

“तस्यैते विशेषगुणा सन्ति केनाऽपि परीक्षिताः ?

“तैरसंख्यैः सञ्जनैः, ये तं परिवार्य तिष्ठन्तः शतशः प्रभ्रान् पृच्छन्ति विविधान् स्वमनोरथान् तस्य पुरः प्रकटयन्ति च ।”

‘स च नाधिकं भाषते केनापि । न च लोकानां पुर श्रात्मानं सविशेषं प्रदर्शयति । केनापि तस्य भत्तेन गङ्गाकूले तदर्थमेका कुटी निर्मापिता वर्तते, तत्रैव स सन्ततं निवसति । केवलं प्रातरष्टमहोरात एकादशहोरापर्यन्तं होरात्रयमेव स लोकेभ्यो दर्शनं ददाति । तावत्यवसर एव यः कोऽपि यत्किमपि पृच्छति, तदुत्तरं तेन दीयते।”

श्रपराह्वसमय श्रासीत्तदानीम्, अहं मम सुहृदो मेघश्यामस्य गोष्टी गृहे विशाले वेत्रासने ऽर्द्धशयान श्रासम् ।

मम पार्श्ववर्तेि उद्यानोपगं वातायनं विवृतद्वारमासीत् । जलधारासमु च्छसितभूसुरभिपरिमलेन सह समागच्छन् सुरभिकुसुमामोदो बाढं मद् यतिस्म मे मानसम् । गोष्टीगृहे तदानीमावां द्वावेव स्थिताबभूव ।

मयोक्तम्-“सखे ! मेघश्याम ! त्वं ऋजुरसि न जानासि वरूचका निमान्। इयमेषां वञ्चनाचातुरी, स खलु वव्ञ्चकः केनाप्युपायेन लोकानां मनोगतमर्थ विदित्वा तेषां पुर आत्मनस्रिकालदर्शित्वं नाटयति । यदुच्यते स लोकेभ्यो वरदानं ददाति, रोगिणां रोगांश्च दूरीकरोतीति, तच्छ द्वाजडानां विश्वासभूयिष्ठताविजम्भित मात्रमेव गभीरेण विश्वासेन दुःसाध्या अपि व्याधयो दूरीभवन्ति ! उत्कटा बहवो मनोरथा अपि विश्वासमात्रेणैव पूयन्ते । यदि तस्मिन् वास्तविकी कापि लोकोत्तरा शक्तिर्भविष्यत् स कदापि लोकालये जनसम्मर्देमध्ये निवासं नाकरिष्यत् तस्य तु निजनं वनमेव समुचितं स्थानम्, यत्र मनुजगन्धोऽपि न भवेत्। मेघश्यामो ऽबूत-“एकदा केनापिऽपि तस्मै पृष्टमासात्-“भगवन्! शान्ति मयमात्मन. एकान्तस्थानं परित्यज्यं लोकालयऽस्मिन् किमर्थमागतं भग वता ?' इति । स चाऽऽत्यन्तगभीराकतिरपि. प्रसन्नवदनी लक्ष्यते । रोषक पंथितः स नाद्यापि केनापि दृष्टः । प्रष्टारस्तु विविधान् कुटिलाननुचितानपि शक्षान् तन्वते, परंतु तस्य महात्मनो वदने तैरनुचितानुयांगरेकाऽपि लघ्रायस्यपि विकारलखा न दृग्गोचरीभवति । तथाविधेऽवसरे स केवलं तूष्णीमास्ते: वचसा न किञ्चिदप्युत्तरयति । लोकालयागमनहेतुं पृच्छते सज्जनाय तेनत्थमुत्तरितम्--“वत्स ! भगवदिच्छेवास्माकं प्रेरिका शक्ति तद्वशंवद् एवाहमत्रागतोऽस्मि । विचारितं च चेतसि-कार्तिके ऽस्मिन् पुण्यमासे गङ्गास्नामार्थ काश्यां गङ्गातीरे वसतिः कर्तव्येति । प्रतीते चास्मिन्मासे स्थानमिदं परित्यज्याऽन्यतो गन्तव्यं भवेदिति सम्भावयामि

त्वया सर्वमिदं कथमवगतम् ? ।क तव ज्ञातपरिचित कश्चित्सज्जनस्तदन्तिकं गत. आसीत् ?' । तेनोक्तरितम्-“न हि, ज्ञातंपरिचितो न कश्चिद्गतस्तत्र । श्रहं स्वयमेव गत आसम् । लोके भयस्तत्प्रशंसावादं निशम्य स्वयमपि तं पश्येयमिति विचारितवान् । यदाऽहं तत्रागच्छम्, तदा स महात्मा समुत्तिष्ठन्नेवासीत् प्रणम्य समुपविशन्तं मासवादीत्-“वत्स ! किमिच्छसि ?' मयोक्तरितम्-“केवलं भगवतो दर्शनम् ।' तेनोक्तम् “नं हि, न केवलं दर्शनाभिलाषेणागतोऽसि, अन्यद्र प्यस्ति किंचित्तव चेतसि' । पुनरहमब्रवम्-“भगवन् ! अहमिदं प्रष्टमि च्छामि, यत् प्रातःकालं विहाय कालान्तरेऽपि भगवतो दर्शनं सम्भवति न वा ? मम हि द्वित्राः सन्ति प्रश्ना अनुयोक्तुम्’ । महात्मा ऽबूत “इदानीं तु नाहं स्थातुं शक्रोमि अतिक्राग्थति समयः, नियमानुसारं तु मयों कॉलान्तरे कस्यापि केपि प्रश्ना न ससाधीयन्ते। प्रश्रोत्तराणां तु कथैब का, तदानीमहं कुट्या बहेिरपि नायामि । तथाऽपि किञ्चित्प्रष्ट चेत्तव समुत्कटो ऽभिलाषः, श्रद्य सायंसमये संमेहि, यतो ऽचिरादेव स्थानमिदं मया. परित्यक्ष्यते' । निशम्यैवं मनस्येव प्रसीदन्नह तत. प्रत्यागमम् सविस्मयं च चेतसि चिन्तितवान्-किमिति महात्मना मम कृते. स्त्रनिय मेष्वीदृक् परिवर्त्तनमनुमतम्’ इतेि।

मया पृष्टम्-“किमद्य सायं त्वं तमेव महात्मानं द्रष्टुं गमिष्यसि' ?॥

मेघश्याम ऊचे-“आम्, श्रहं तु गमिष्याम्येव, त्वयापि मया साकम वश्यमागन्तव्यम्। त्वमीदृग्विधेषु विषयेषु न विश्वसिषि । सर्वानेव मिथ्या वादिना पाखण्डिनः कथयसि । सर्वत्रैव त्वं चिन्तयसि यंदसौ द्रव्यमर्ज यितुं लोकवञ्चनां तनोतीति । इमां तव भ्रान्तिमपहर्तुमेव ममायमुद्यमः?" महात्मनस्तस्य सिद्धिचमत्कारमनुभूय बाढमह विश्वसिमि यत्सं निश्धं येन त्रिकालदश सिद्धो महात्माऽस्तीति । ईदशा विरला ऐवसत्पुरुषाः कदाचिदेव नगरेष्वायान्ति । तं वीक्ष्य तवापि ज्ञातं भवेत् . यत् अद्यापि ध्रियन्ते सिद्धा वसुन्धरायाम् । इत्थमष्यत्यन्तमल्पाल्पा एव सन्ति तथा विधाः । सौभाग्येनैव समुपनम्यते तथाविधानां पावनं दर्शनम् ।'

श्रहमुचैः प्रहस्यावद्मू-“मेघश्याम ! त्वं सर्वथा. ऋजुप्रकृतिर्मुखोऽसिं. त्वमिव सरलप्रकृतिः सर्वत्रैव विश्वासी मया विरलं एव “दृष्टोऽस्मिन् वञ्चनामये संसारे। अन्ततो गत्वा मम सुहृन्मण्डले त्वमेवैकस्तथा विधोऽसि, य ईदृशेषु विषयेषु त्वरितमेव विश्वासमावहेत् । कुत्र साधु कुत्र महात्मा ? सर्वोऽयं केवलः पाखण्डः, लोकान् वञ्चयितुं प्रयुक्तेयं धूर्तानां युक्तिः । स्यादेतेन तस्य कोऽप्यर्थः । अत एव लोकानां चेतःसु स श्रात्मनो विषये विश्वासमाधातं प्रयतते । यद्यहं तस्य पुरो गच्छेयम्, सद्यस्तस्य पाखण्डमुद्घाट्ययम् । यद्यनन तस्य महात्मनश्चंतांऽन्यथा भावं न भजेत्, नाऽपि च त्वं चेत्प्रतीपतां भावयेः । कथय, किमस्ति स्वीकतम्???

मेघश्यामो गम्भीरभावेनाह-“श्राम्, अस्ति स्वीकृतम्, त्वं यथेच्छं प्रश्वाननु योक्तुमर्हसि महात्मनःपुर, यथेच्छसि तथा तं परीक्षय, किन्तु सर्वमिदं सभ्यतामनतिक्रम्यैव कर्तव्यम् । संयतचेतसा सज्जनोचितमेव तस्य पुरो व्यवहर्तव्यम् । अन्ततोगत्वा बहिर्भवता महात्मनो िविषये समाद्र एव दर्शयितव्यः । अहं बाढं विश्वसिमि, यत्स महात्मा भंवतः प्रश्नानां यथार्थमेवोत्तरं दास्यति । परन्त्वत्र भवताऽप्येका प्रतिज्ञाकर्तुमुचिता” ।

मयोक्तम्-“कीदृशी प्रतिज्ञा ?’ स श्राहम-“ इयमेव, यदि स महात्मा तव प्रश्नानां यथार्थमुत्तरं दास्यति, तर्हि त्वयाऽपि ततः परं तथाविधानां महात्मनां परिहासकरणं परित्यक्तव्यं भवेत् । 'सर्वस्याऽप्यतीन्द्रियस्य वस्तुन स्तत्साक्षात्कंतृणां च वञ्चकत्वं च न ततः परं त्वया वक्तुमुचितम् । सर्वथा परिवर्जयितव्य एवायं भवेत् दुरभ्यासो नूनं त्वया । ईदृशेषु विषयेषु यन्मम परिहासा धिक्षेपादि च त्वया क्रियते तदपि ततः परं परित्याज्यं भवेत् ।'

मयोक्तम्- श्राम् स्वीकरोमि, प्रतिजाने च । किन्तु तथाविधमेवाहं प्रश्नं करिष्यामि, यस्य यथार्थमुत्तरं तेन कृतकसिद्धेन दातुं नैव पार्थेत । किश्च स यदुत्तरं दास्यति, तद्विलिख्य तवान्तिकमेव सुरक्षित' स्थापयि ष्यामि, येन समुचितसमये तस्यासत्यत्वं प्रमाणीक्रियेत । यदि तस्य महात्मनामधारिण उत्तरमसत्यमिति प्रमाणीकर्तु' शक्येत, तर्हि त्वया ऽपि ततः परमीष्टशानां वश्वकानां सङ्गतिर्विश्वासश्च परित्याज्यः स्यात् । निश्चित' तहदम् । कथय, श्रद्य सायं कदा तदन्तिकं गन्तव्यम् ?

मेघश्यामोऽवदत्-“सायं सप्त होरावसरेऽत्रैव संमेहि । श्रावां सम्भू यैव गमिष्यावः । तस्मिन्नवसरे गङ्गगतटेऽपि कोऽपि नायाति । महात्मन कुटीरेपि निर्जनतैव स्यात्तदानीम् । श्रावामेकान्ते तेन साकं यथेच्छं व्याहतुं शक्नुयाव ।'

( २ )

श्रहं हि काश्यामेव वसामि । मम पितुरत्र महानापणोऽस्ति महार्घ वस्त्राणाम् तत्सम्भूतेन प्रचुरेण लाभेनास्माकं गार्हस्थ्यं सुखेन चलति । न जाने केन हेतुना, तातेनाहमात्मनो वस्राव्यवसाय न शिक्षितोऽस्मि । तातसुहृद्भिः साग्रहमनुरोधे कृतेऽपि तातेन तेषां वचनेषु कर्णमद्त्वैव सनिर्बन्धमहमांग्लविद्यामेव समध्यापितः । मया काशीविश्वविद्यालये समधीत्य एम् एस् सी. परीक्षा स-सम्मानं समुत्तीर्णा । पश्चात्तत्रत्ये ‘इञ्जिनियरिंग कालेज' नामके स्थापत्यविद्यालये पश्चवर्षाणि समधीत्य सा विद्याऽपि मया सम्पादिता । ततः परं तातस्य प्रयत्नैः कतिपयमान्य धनिकानुरोधैश्च कर्णपुरे प्रसिद्धवस्रयन्त्रालय पञ्चशतमासिकवेतने मम नियुक्तिः सञ्जाता । आङ्गलविद्याप्रभावात् काशीविश्वविद्यालयीय स्वतन्त्रतावायुमण्डलविहाराच घोरनास्तिकमतोऽहमभवम् । चार्वाका स्याप्युपरि मम नास्तिक्यमासीत् । अविरत' धर्मकर्मनिरतान् विधिनिषेध प्रतिपालकान् काशिकान् शास्त्रिणो दैन्यमग्रान् दृष्ट्र, धर्मकर्मसु श्रद्धारहि तानां स्वैराचवारिणां मादृशामहरहरभ्युन्नतिं च विभाव्य मम नास्तिक्य विचारा बद्धमूला श्रभूवन् । वर्णाश्रमव्यवस्थां स्पृश्यास्पृश्यविवेकं धर्ममीश्वरं वेदान, शास्त्राणि चाहं सर्वथा पाखण्डमेवाकलयन्नासम् । इन्द्रियतृप्तिरेव मम मते मुख्यो धर्मश्रासीत् । मम मातुः प्रबलेयमिच्छा सीत्, यन्मम विवाहस्त्वरितं भवतु । मया तु यावच्छक्यमस्माद् बन्धनात् दूर एव स्थातुं प्रयतितम्। बहुषु स्थलेषु मम विवाहवार्ता प्रचलिता तथापि सा मम दुराग्रहात् दोषाविष्करणकौशलाच न लब्धास्पदाऽभूत् । सम्प्रत्य हमेकमासिकमवकाशमवाप्य कणपुरात्काश्यां यदा समागतस्तदा मम जनन्या स्पष्टमेवाहमभिहितः–“ललित! अस्मिन् वारे तव विवाह: कर्तव्य एव भवेत्, तव किमपि कैतवं विवाहकार्य ' रोद्ध' न प्रभवेत् । कर्णपुरे त्वं स्थातुमिच्छसि चेत् परिणीता तव भार्याऽपि सहैव त्वया तत्र यास्यति'। मातुराग्रहवचनै मया समवगतम्, यद्य' न केवलं मातुरेवाऽभिनिवेशः तातस्याऽप्यत्राऽस्ति साहाय्यमाभ्यन्तरीणमिति । मम हि बहुवारकृतै र्विवाहविघटनोद्योगैस्तातस्य चित्ते भूयानसन्तोषः कृतपदो मया लक्षित यद्यपि स तातेन बहिः स्पष्टं न प्रकाशित: । मयापि चित्ते चिन्तितम इत परं मम दुराग्रहो न शोभेतेति । कथित'च मातु पुरः –“श्रमम्ब ! यद्येतावती प्रबला तवेच्छा वधूमुखं द्रष्टुम् तहिं ममाऽपि सा नूनं शिरोधायैव” ।

ततः परं मद्विवाहप्रबन्ध. प्रकाशंत्वरितं च प्रारभ्यते स्म । शीघ्रतायाः कारणन्त्विदमासीत् यत् दैवझैः कथितम्-यदि विवाहः कर्तव्यस्तर्हि अस्मिन्नेव मासे स भवितुमर्हति । तत परं वर्षमेकं यावद्विवाहमुहूत नोपलभ्यते । श्रागामिनि वर्षेऽस्मिन्नेव मासे पुनर्विवाहमुहूतो भवेत् । मम मातुरियान् विलम्बो दुःसह आसीत् । तातस्तु काश्यां प्रसिद्धो वस्र व्यवसायी धनिकः, अहं च सुशिक्षितः पश्चशतमासिकायो युवा सुन्दरश्चा समिति मम विवाहप्रबन्धे न किमपि प्रतिबन्धकं विलम्बकारणं चासीत । बहुषु स्थलेषु विचार्या परीक्ष्य च तिस्रः कन्यका मम कृते विचायताया मुपस्थापिताः । तासां जन्मपत्राण्यपि समानायितानि । तिस्रोऽपि कुमार्यः साक्षराः सुशीलाः सुन्दयश्चासन्निति पुरोहितमुखादवगतम्। एतास्वेव कयाचिन्मम विवाहो निश्चितप्राय आसीत् । कया सह विवाहो निश्चेतिव्य इति तु जन्मपत्रविवेचकस्य हस्तगतमासीत् ।

विवाहसम्भारास्त्वरित संग्रहीतुमारब्धाः । श्रहं हि नवशिक्षितः स्वतन्त्रप्रकृतिश्चासमिति जनन्या तिसूणामपि तासां कुमारीणां चित्र फलकानि समानाय्य मम पुरः स्थापितानि । श्रहं हि कृतकलज्जां परित्यज्य तास्वन्यतमां परिणेयां निद्धारयितुमिच्छन्नपि कां निद्धरययमिति नावगतवान् । यतस्तास्वेकाऽपि कुरूपा नासीत् । यद्येकस्या बिम्बफलो पमोऽधरो मम मनो लोभयति. तर्हन्यस्यास्तिलपुष्पसन्निभा नासा चेतसि निखातेव लक्ष्यते । श्रपरस्याः खञ्जनमञ्जुले भावपूर्णे नयने न मामन्यतो गन्तुं दन्तः । अस्मिन्नेवानिश्चयावतें पतितोहमचिन्तयम्–“किं क्रियताम्, तिस्रोऽपि स्वस्वविशेषगुणे मी लोभयन्ति । कस्मिन्निकषे एताः परराक्ष्य परिणेतव्यां निद्धारयेयम्’ इति ।

इत्थं चिन्ताकुलस्यैव मे सुहृदा मेघश्यामेन तस्य त्रिकालदर्शिनो महात्मनो वृत्तान्तः कथितः । यः खलु महात्मा कार्तिके गङ्गारुन्नानपुण्य मुपार्जयितुं काश्यां गङ्गातीरे निर्जने कुटीं निर्माय स्थित आसीत् । मया मेघश्यामेन सह महात्मनो निकटे गन्तुं तु प्रतिज्ञातम्, व्यचारयश्व कं वा तथाविधं प्रक्षं महात्मनः पुर. समुपस्थापयेयम्, येन तस्य महात्मनाम धारिणः कृत्स्रा वैदुषी त्रिकालदर्शिता चापाऽर्था भवेत् । पाखण्डिता च तस्य प्रकटीकतै शक्येत । यदि मया स मृषावादी पाखण्डीति न प्रमाणी कर्तु शक्येत. तह्यहमात्मनो नामापि परिवर्तयेयम् ।

( ३ )

सायं सप्तहोरावादनात्पूर्वमेवाहं मेघश्यामस्य गोष्टीगृहे,समुपस्थितो ऽभवम् । सोऽपि सन्नद्ध एवासीत् । मां दृष्टैवोवाच–“किं भोः समागत स्त्वम् चिन्तितो वा तथाविधः प्रश्नः, यस्त्वया महात्मनः पुरः प्रष्टव्यः ।'

मयोत्तरितम्-“श्राम्, निश्चितं मया किं प्रष्टव्यमिति । परंतु तदहं ते नाधुना वक्ष्यामि, महात्मनः.पुर एव श्रोष्यसि” । श्रावां ततः परमनु गङ्गा तटं प्रस्थितौ, यत्र:सा महात्मनः कुटी श्रासीत् ।'निशामुखेप्रवहन् तुहि नजडः पवन श्रावयोर्हस्तपादं ! बधिरयतिस्म । भगवति भास्वति वर्तमाने सति कुत्राऽपि निलीय निवसन् दोषाकरस्तमन्तर्हितं विभाव्य सम्प्रति स्वानुयायिना ऋक्षगणेन सह गगनमण्डलमधिरुह्य विराजमानो दृश्यतेस्म । पतितपावनी जाह्नवी धीरगत्या प्रवहन्ती पश्यतां नेत्राणि मानसानि च शीतलयति स्म । अहं मनस्येवाचिन्तयम्-पश्यत, श्रय महात्माऽस्मिन् प्रचण्डशीते समये गङ्गातटे निवसति शीतवारणाय पर्याप्ता कम्बलादिसामग्री तस्यान्तिकेऽवश्यमेव न भवेतू । किमसौ शीतेन न बाध्यते ? । इत्थं तर्हि किमर्थमनेदृशमुन्मुक्तं पचुरशीतं स्थानं. स्वनिवासाय क्तृप्तम्? । कदाचिद्यमसूयाभिसन्धिः स्यात् यदी दृशेनाचरणेन लोके स्वस्य शीतातपसहत्वं निद्वन्द्वत्वं च पूथितं भवेत् ।

कुटीरस्य समीपमुपगम्य श्रावां क्षणं तूष्णीं स्थितौ । उभयपाश्र्वेऽपि कोपि नासीत् । सर्वथा शान्तिमयता लक्ष्यतेस्म । यत्र दिवसे महान् जनसम्मर्दो भवति तत्रैवेदानीं सर्वधा निर्जनतां दृष्टा किञ्चिदिव साश्च यहमभवम् । किन्तु तत्क्षणमेव स्मृत' मया यत्सार्ण समय महात्मा न कैरपि मिलति, न च किंचिदपि भाषते, सर्वेपि महात्मनो नियममेनं जानन्ति श्रत एवात्रेदानीं न कोपि लक्ष्यते । ईदृशेऽपि समये श्रावाभ्यां सह वक्तुमवकाशदानं दर्शनानुमोदनं च नूनमावयोरुपरि महात्मनो विशेषानुग्रह एवास्ति ।

पुराणं फलकद्वयमूध्र्वमुखमवस्थाप्य कुटीनिर्मात्रा कुटयां सामान्यमेकं प्रवेशद्वारं निर्मापितम । कदाचित् शीतवायुप्रवेशपतिबन्धाय, श्वमा जीरागमनवारणाय वा द्वारस्योपयोगश्चिन्तितो भवेत् । मेघश्यामेन तदेव द्वारं किञ्चिद्वघट्य शनकैरुक्तम्-“भगवन् ! श्रावामुपस्थितौ स्वः । ;

कदाचित् स महात्मा तदानीं निरुद्योगः अस्मात्पृतीक्षापरो वाऽ सीत् । त्वरितमेवोत्तरमागतम् । “आगच्छत' वत्सौ ! अभ्यन्तरमुपा गच्छतम्" ।

कपाटमुद्घाट्य आवामन्तः पूविष्टौ । कपाटं च पुनः पूर्ववत् संवृतम्। मेघश्यामेन भक्तिपूर्वक महात्मने पूणामः कृतः । मया तु मेघश्याममनस्तोषं रक्षता तदनुकरणं कृतम् । हस्तावुद्यम्य शुभाशीरभिद्धता महात्मना कुटीरैककोणस्थितान्यासनानि निर्दिष्टानि । श्रावां तत्रोपविष्टौ ।

मया सामान्यदशा सा कुटी सत्कृपर्यवेक्षिता । त्वरया निर्मितेव सा प्रतीयतेस्म, तथाऽपि नासुखावहाऽऽसीत् । पश्चषा जनास्तत्र सुखेनोषितं शक्नुवन्ति स्म । ताणंछाद्नम् प्राच्यां दिश्येकं वातायनम्, तस्यैव समीपे महात्मन श्रासनमास्तीर्णमासीत् । पुरस्तादग्निकुण्डम् दक्षिणपाश्र्वे दारु मयी त्रिपादी तदुपरि वेष्टनबद्धं किमपि पुस्तकमासीत् । मया परीक्षकदृशा महात्मन श्राकृतिरवलोकिता । षष्ठ्यधिकमेव बयः प्रतीतम् । केशाः सर्वेऽपि पलितशुक्ला आसन् । आनाभिलम्बमानं श्वेतकूर्च नितरां शोभते म । श्राकारो गम्भीर. प्रशान्तश्च । सांसारिकदुःखसुखादिवास नातीतत्वमाकृतौ प्रतीयतेस्म । नेत्रयोः किमपि विद्युद्विलसितनिभं तेजो लक्ष्यते म । येनाहं क्षणं चित्रितोऽभवम्-व्यचिन्तयश्व-इमे नेत्रे यदु परि पतेताम् तद्भ्यन्तरस्य गुप्तातिगुप्ततममपि हस्यमवश्यमवगच्छे तामिति ।

ममतु विशेषतश्चिन्तितुमवसर एव नासीत् । उपविष्टं मामवलोक्य स महात्मा मेघश्यामं सद्योऽब्रत-“वत्स ! त्वया सह समेतः कोऽय सज्जन ? किमर्थ' वाऽत्रागतः ?’

मेघश्यामेनोक्तरितम्--'भगवन् ! अय' मम सखा ललितकुमारो नाम । वदतो मम मुखाद्भगवतो नामधामनी श्रुत्वा दर्शनार्थमयमायातः'।

मयाऽपि प्रणग्याभिहितम्-“श्रुत' मया यदचिरादेव भगवता इत पूस्थास्यत इति, अत. स्वनयने सफलीकर्तुमहमप्युपस्थितोऽस्मि ।’

मया एते शब्दा महात्मनो विषये समाद्रं प्रदर्शयितुम्, तस्य चेतसि मद्विषये कापि विपरीतभावना च नोपतिष्ठतामित्यर्थे ' च सविनयमुचा रिता आसन् । परन्तु मया दृष्टम् , श्चाटुवचनैर्महात्मा न प्रसीदति स्म । स यथा पूर्वमेव गभीरः प्रशान्ताकृतिश्चालक्ष्यत । सोऽबूत-“भवा-दृशां विदुषामनुग्रहोऽयम यद्भवद्भिर्ममकुटी पवित्रीक्रियते । कथयत,भवतां कीदृशी सेवा मया कर्तु' शक्यते ?;

कदाचिदस्मदागमनेन महात्मनः पूसन्नता नासीत् । सम्भवतः स शीघ्रतयैव किञ्चिद्वार्तालापं विधाय श्रावां प्रस्थापयितुमैच्छत् । व्यर्थ मधिक वागाडम्बरस्तस्याप्रिय श्रासीत् । प्रायः संसारविरक्तानां साधूना मीदृशः स्वभावो भवति । मयाऽपि विचारितम्-यद्येवम् . तर्हि व्यर्थ चाट्रवचनैः को लाभः ? स्वप्रयोजनं साधयितव्यम् । इदमेवात्र परीक्ष रणीयम्, यदसा वास्तावका महात्मा, काषायवस्रान्तारंतः काऽाप पाखण्डी वा ? वस्तुस्वरूपं परीक्ष्येतः प्रस्थातव्यम्, आवाभ्यामपि किमर्थ मधिकं कालचेप. क्रियताम् ?

भूनिहितशिरसा साञ्जलिना मयोक्तम्-“भगवन्! मदागमन कारण मत्यन्तं क्षुद्रं स्वार्थमय' चास्ति । श्रुतमति मया, यद्भगवता इहागमनात्यभृति बहूनां भाग्यवतामिच्छाः पूरिताः, कठिनाः शङ्काश्च समाहिता । ममापि चेतसि लोभः प्रादुरभूत् यदहमपिं भगवत समीपमुपस्थाय निज भविष्यदर्थेषु कतिपयानर्थानवगन्तुं द्वित्रान् प्रश्नान् पृच्छेयम् । लभेय च तेषामुत्तराणि, यद्यनुमन्यत सानुकम्पं भगवता ।” महात्मनो वदने न प्रसत्तिर्न विरक्तिश्च ददशे । स निर्विकारेणाकारे खाह-“वत्स ! यदुक्त भवता, ‘मया बहूनामिच्छाः पूरिता’ इति, तत्स वथा मिथ्यैव । नाहमात्मनि किमपि तथाविधमलौकिकं सामथ्य कलयामि, यन लोकानां कष्ट दूरीकरणे वाञ्छापूरणे च प्रभवेयम्, अरुं तु लोकानापंद्मस्तान् दृष्टां बाढमन्तरुत्पीडितो भवामि केवलं जगन्निय न्तार परमात्मान प्राथय यत् ‘द्यासागर भगवन् ! हरे ! दुःखितानां दुःखानि त्वरितं हरेति'। मम हि सा प्रार्थना स्वीकृता भवतु न वा, दुखि ताना दुरूलान्यपयान्तु न वा, सर्वमेतदहं न चिन्तयामि । एवं चिन्तनं किलाऽनधिकारचेष्टति मे मतम यञ्च भविष्यदर्थप्रकाशनचेष्टामुद्देिश्य भवतोत्तम तत्राऽपि केवलं तथाविधार्थावगमाय प्रयतनमेव ममाय इयानेवात्र विशेषः, भवादृशां सांसारिकाणां स्थितेरपेक्षया मम स्थितावस्ति किंचिद्वैशिष्ट्यम् महात्मां वदन्नेव मध्ये किश्चिद्विरमतिस्म, श्रावां तत्कथनं सावधान माकर्णयावो न वेति ज्ञातुमेव तेन तथा कृतं स्यात् मयाऽपाङ्गप्रेक्षितै घश्यामो दृष्टः, स एकाग्रचित्तो महात्मनो वचनं श्रृण्वन्नासीत् । श्रह मपि महात्मनो वचनश्रवणे एकाग्रताऽभिनयमकरवम् पुनरत महात्मा पश्यत, व्यापकोऽय' विषय तथाऽप्यहं परिमितै रेवशब्दैः स्वाभिपाय'कथयामि, अधिकं पञ्चयितु' न ममावकाशोऽस्ति संसारोऽय'दुःखसागर इति कथ्यते—तेषां कृते ये तत्र तम् (४८ लालसानांचयुद्धस्थलमेव किल संसारः। सर्वेऽपि मिथः पूतीपाः स्वाकाङ्क्षा पूरयितुं प्रयतन्ते। सर्वोऽपि वाञ्छति यदमुकं वस्तु मया लभ्यताम्, ममाय स्वार्थः पूणों भवतु, तत्रान्यस्य कियदनिष्टं भवतीति न कोपि चिन्तयति अत एव परस्परमिच्छानां वासनानां च भूयान् संघर्षों भवति, यः खलु डुखस्य निदानम् । कामक्रोधलोभमोहात्मिका यवनिका सर्वस्य व टक् शक्तिं तिरोधत्ते । अत एव पाय: सर्वोऽपि जानन्नपि, शान्तेन चेतसा स्वार्थहीनेन हृदयेन च, कमपि विषय' विवेचयितु' न शक्नोति । अनेनैव हेतुना भविष्यतोऽर्थस्य वास्तवं रूपमवगन्तु न शक्रोति सांसारिको जन यश्च कश्चित् किंचिद्वगच्छति सोऽपि मृषाभूतमेव सत्यमिति विपय स्यति । यदि सांसारिकेष्वेव कोऽपि निरपेक्षट्टशा विवेकयुक्तेन हृदयेन, गम्भीरेण चेतसा वासनाश्चेतसो दूरमपसाय, निःस्वार्थेन मनसा भवि

  • दिव्यदृष्टिः [०

ष्यदर्थमन्वेष्टुं पूयतेत, तर्हि तस्य भविष्यदर्थावगमे न किञ्चिदपि पतिष न्धकं पश्यामि, अवश्य' तथाविधेन भविष्यदर्थज्ञानं सुलभम् । सांसारिक जनापेक्षया सर्वथा विपरीतैवास्माकं संसारत्यागिनां साधूनां स्थितिः । श्रप्रस्माक तु कस्यापि शुभेनाशुभेन वा न कोऽप्यर्थ, कस्यापि प्रसाद् विषादाभ्यां नास्माकं सुखं दुःखं वा सम्भवति । संसारे च : नास्माकं काऽपीच्छा, न च कुत्राऽपिलालसा, क्वापि च वयं नासक्ताः स्मः, अस्माकं विवेके न किमपि मालिन्य' भवति, अतो वयं भविष्यतोऽर्थस्य वास्तविक रूपं द्रष्टुं पभवामः । यदि भवादृशेष्वस्मादृशेषु चास्ति कोऽपि विभेद् तर्हि अयमेव स । भवतु कथयतु भवान् केनार्थेन समुद्विग्नं भवतश्चेतः, कं वा भविष्यदर्थं ज्ञातुमिच्छति भवान् । यद्यहं प्रभवेय' वक्तुम, तर्हि ध्रुवं

एवमुक्त्वा महात्मा तूष्णीं बभूव । मेघश्यामो मां साकूतमपश्यत् । श्रह व्यचिन्तयम-मम पश्नं केन रूपेण महात्मनः पुर उपस्थापयेयम् । यथा मम प्रश्नस्योत्तरण महात्मनो दुष्करं भवेत् यथा च महात्मनो वास्तविकी वैदुषी च प्रकटिता भवेत्। एतावता संलापेनेदं तु निश्चितमा सीत्-यत्स महात्मा विचारशीलो विद्वानप्यस्तीति । तेनैतावदुक्तमशेष यथार्थ चित्तपत्यययोग्य' चासीत् । शनैः शनैर्ममापि चेतसि महात्मनो विषय श्रद्धावृत्तिरुदेतुमारभत । महात्मानं पाखण्डिनं पूमाणयितु परीक्षितु, तस्य मिथ्यावादित्वं समर्थयितुं, ‘सम्पूति वास्तविका महात्मानो द्वलभाः सन्तीति’ तत्वं मेघश्यामस्य चेतसि पवेशयितं च ममात्रागमनमभूत् । महात्मनो वचनश्रवणमात्रेणैव तत्र श्रद्धाभावोद्वहनं तावतैव तस्य महात्मतायाः समर्थनं च ममेच्छायाः स्वार्थस्य च पूतीप मासात् मां विचारयन्त दृष्टा महात्माऽक्रूत-“पश्य वत्स ! ममात्रागतस्यैौको मासो व्यतीतः । अत्रान्तरे सहस्रशो जना मम समीपमुपागताः तेषु प्राय पत्येकं विभिन्नार्था श्रासन् । कश्चित् सरलचेतसा सदुपदेशं श्रोतुम्, दुखितः कोऽपि व्यथितं स्वहृद्यमाश्वासयितुं, कोऽपि केवलं मां परीक्षितं मेव समागत आसीत् । तेषु कास्याप्युपरि कोपं कर्तु, सन्तोषं च पूदर्शयितं न किमपि निदानमस्ति मदन्तिके । अहं हि लोकस्य भावना यावज्जीवना भ्यस्तान् दुरभिनिवेशांश्च क्षणिकेन सहवासेन परिवर्त्तयितुं सर्वथाऽस मर्थ एवाऽस्मि । यः खलु येन रूपेण समागतः मया स तेनैव रूपेण तथैव परिगृहीत. । विचारेण यच्चेतसि समायातं तत्तस्मै कथितम् । केनाप्यहं वास्तविको ज्ञातेति गृहीतोऽस्मि । केनापि च धूर्तः पाखण्डीति, मम दृष्टौ तु तावुभावपि समानावेव । यदि भवानपि मां परीक्षितुमेव समायात स्तर्हि तत्स्पष्टमभिधीयताम, न ममात्रेषदपि क्रोधो वैरूप्य वा भवेत् । पत्युत भवतः सत्यानुरक्ति दृष्टा बाढमहं पसीदेयम् । तथागतेपि व्यतिकरे यथासम्भवमहं भवतः शङ्काः समाधातु पयतिष्य ।’ महात्मनो वचनानि यथार्थानि हृदय' पविशन्ति चासन् सित' चासीन्महात्मना-यत्कस्यामप्यवस्थायां तेनास्मच्छङ्काः समाधा स्यन्त इति । इत्थमवस्थायाम्, एवं स्फुटमभिहिते सत्यपि, मनोगतगोपन मसत्यभाषणं वा न मे रोचतेस्म । मया विनीतभावेनोक्तम् “अहमेकमर्थ ज्ञातुमिच्छामि, यन मम भविष्यजीवनस्य पगाढः सम्बन्धोऽस्ति । यदि भगवता स्वकीयस्थिरविचारशक्तिद्वारा तद्विषय यथार्थमुत्तरं दीयत, तह्यहमुपकृतो भवेयम्। इदमपि च नाहं गोपयामि, यद्भगवता मम पूश्नानां यथार्थमुत्तरं दातु शक्यते न वेत्यपि परीक्षितु महमिच्छामि । पर्यवसाने भगवतः कथनानुसारमेव यदि फलं घटेत तर्हि मम महात्मनां त्रिकालदर्शित्वे विश्वासो भवेत् । यन्मम मनोगत मासीत् तन्मया स्पष्टं कथितम् । एवं कुर्वेता मया यदि धाष्ट्यमनुष्टि तम्, तर्हि तत्क्षम्यतां भगवता ।' महात्मा मन्दं मन्दं जहास । मदागमनात्पभृति पथम एवायमवसरो मम महात्मनो निर्विकारे वदने मन्दस्मितरेखाद्र्शनस्य । स श्राह “वत्स ! निश्छलं सर्वे ' मनोगतं स्पष्टमभिद्धानं त्वां दृष्ट्र पसीदामि । मम त्वेतेन महान् परितोषोऽस्ति, यत्त्वया स्वमनोगतो वास्तविको भावो न निह्न तः । किन्तु त्वयेदमूवश्यमवगन्तव्यमू, यन्मयाऽऽत्मन् एकान्तजीवने मनननिदिध्यासनादिभिर्यद्यपि हिरण्यगर्भसर्गस्य बहूनि दुज्ञेयानि रहस्या ण्यवगतानि सन्ति, तथाऽपि सवोपरिष्टद्वर्तमानस्य लीलामयस्य परमा त्मनोऽद्भतानां लीलानां शतममप्यशमवगन्तुमहं न पारयामि । इच्छा शक्तिमहिम्ना सिद्धा महात्मानो यत्कर्तु पृभवन्ति, तदहमंशतो जानामि, स्वयमपि च समुचितेऽवसरे विराडिच्छाशक्त्या सह सङ्कुचितां निजेच्छा शक्ति संयोजयितुं चेष्टे च । तथाऽप्येतावतैव सामथ्र्यकर्णेलाभेन नाहमा त्मानं सिद्ध' मन्य, न चकथमपि गर्व करोमि । भवतः पुरः परीक्षापदा नेऽपि न मयाधिकारोऽस्ति । भगवता शतवर्षमितमेव परमायुर्मानवेभ्य श्राश्वा १२ ७_______________ __ __ __ _ _ _------------------------------------------------------७ -७-७-७--------------७-७-७-७-७-७-७-७______ कल्पितम्, तावत्यल्पीयसि समय यदि मानवोऽहर्निशं पकृतिरहस्यान्वेषणे पूयतेत, तर्हि तस्य रहस्यस्याल्पतमांशमप्यवगन्तुं न शकुयात् । इत्थमपि त्वयाऽनुयुज्यताम्, तव द्वयोः पूयोरुत्तरमहं पदास्ये । यदिं ममोद्योगोन तव किञ्चिदपि भविष्यदर्थरहस्य'विदित' भवेत्तर्हि बाढमहं पूसीदेयम् ।' मया महात्मानं प्रणम्य, श्रावरणादुन्मोच्य त्रीणि चित्राणि महात्मनः पुरो निहृितानि । उक्तं च-“भगवन् ! दृश्यताम्, भगवान् किल मम पितृकल्पः, अतो भगवतः पुरो न मम लज्जाकरणमुचितम् नापि च किंचिन्निहोतुमुचितम् । अचिरादेव ममोद्वाहो भविता । प्रायः पक्षाभ्य न्तर एव मुहूर्तनिश्चयो भवेत् । तिस्रः कन्यका मम तातेन मदर्थे विचार योग्या इति निद्धरिताः । दैवज्ञेरद्याऽपि तासु कतमा निद्धरणीयेति नोपदिष्टम् । श्वः प्रातर्दैवज्ञाः स्वनिश्चयं वक्ष्यन्ति । भगवता चूित्रत्रयमिदं वीक्ष्य सविचारमभिधीयताम् आसु कतमा मे भाविनी भार्या । कस्या जीवनसूत्रं मम जीवनसूत्रेण साकं संलग्रमस्ति । विधात्रा मम भार्या भवितुं का ललना सृष्टा वर्तते” ? । कुट्या एकस्मिन् कोणे एको दीपकः प्रज्वलन्नासीत् । यस्य साधारणं ज्योतिः कुटीगत' तमो दूरयितुं चेष्टते स्म । मया शनकैः स दीप श्रानीय महात्मनः पुरो न्यधायि । तेन तानि चित्राणि सावधानं निरीक्षितानि । मया चिन्तित, कदाचिद्सौ महात्मा वय माङ्गलशिक्षादीक्षिता नवयुवका इव सौवर्णशलाकाङ्कितमुपनेत्रमपेक्षेतेति । परन्तु ममेयं चिन्ता निम् लाऽऽसीत् । तस्मिन् साधारणेऽपि प्रकाशे महात्मनो नयनज्योतिस्तानि चित्राणि तद्धः सूक्ष्मतमाक्षरलिखितानि कन्यकानामान्यपि स्पष्टमवगन्तु मपारयत् । महात्मना क्षणं चित्राणि निरीक्ष्य तानि मम हस्ते ददताऽभि हितम् “वत्स ! दृष्टानि मया चित्राणि, अवगत चावगन्तव्यमं, दीपं यथास्थानं निधेहेि' इति । श्रहं च समुच्छलता चेतसा दीपं यथास्थानं निधाय पुनर्महात्मन समीपमागत्योपाविशम् । महात्मा जगाद् “वत्स ! श्रवधेहि त्वया कंथि तम्, एतानि तासां तिसृणां कन्यानां चित्राणि यासु कयाचित्तव विवाहो भवेितेति । किमेतदेव त्वया कथितमन्यद्वा किमपि ? । मयोक्तम्-“इदमेवोक्त मया भगवन्!'। मेघश्यामेन मम ईदृशप्रश्नकरणस्य गूढोऽभिसन्धिरवगतो वा नवेत्य न जाने । बुद्धिपूर्वकमेव मयेदृशः प्रक्ष उपन्यस्त आसीत् । एतासु तिसृषु कन्यासु कया साकं परिणयः शुभो भवेदिति प्रश्श्चेद्भविष्यत्, तदा तु महात्मनस्तदुत्तरदानमतिसरलमभविष्यत् “श्रमुकया साकं तव विवाह शुभ” इति । परन्तु ‘कृतमया सह मम विवाहो भविष्यती' ति मया पृष्टमासीत् । बाढं जटिलोऽयं प्रश्न । एतदुत्तरश्रवणोत्तरं महात्मनो मृषावादित्वमक्लेशेन समर्थयितुं सुशकम् । महात्मा स्वबुद्धिनिकषे परीक्ष्य यया. साकं मम विवाहनिश्चयणं वक्ष्यति, तया सह विवाहमकृत्वैव महात्मनः सिद्धिपाखण्ड प्रकटयितं शक्यः । इत्थं च मेघश्यामोऽपि महात्मनः सिद्धिमत्वे विश्वासं त्यक्ष्यति । अयमेव ममात्रागमनस्य हेतुः । ऋजुस्वभावो मेघश्याम ईदृशेषु पाखण्डिषु विश्वसिति, स त य विश्वासो मयाऽवश्यं दूरीकरिष्यते ! मम प्रश्नस्तु सत्यमेव महात्मान्न सम्भ्रमे पातयामास । स नेत्रे निमील्य मुहूते तूष्णीमास । अथोन्मील्य चक्षुषी तेन शनैः शनैरभिहि तम्–“वत्स ! त्वया प्रदर्शितचित्रासु तिसृष्वप्येतासु कन्यासु नैकाऽपि ते भार्या भविष्यतीति विधिलिखितं पश्यामि ।’ उत्तरं श्रुत्वा चकितोऽहमभवम् । नेदृगुत्तरं मया प्रतीक्षितमासीत् । निमिषादेवात्मानं प्रकृतिस्थं विधाय सस्मितमहमवोचम्–“महात्मन् ! भवदुक्तरभिप्रायो मया नावगतः, किं न स्मर्यते भगवता, यन्मया कथित मासीत् । एास्वन्यतमया: पक्षाभ्यन्तरे मम परिणयोऽवश्यं भावी, सर्वोऽपि विवाहसम्भारः सन्नद्धप्रायोऽस्तीति' । महात्मा ऽबूत– ‘वत्स ! स्पष्टार्थमेव मयोक्तम्, पुनरधिकं विशद्यामि शणु । इतः प्रभृत्येकवर्षा भूयन्तरे तव विवाहयोगो न दृश्यते । न च दूर्शितचित्रासु कन्यासु काऽपि ते भार्या भविष्यति । इदं हि निश्चितं विधेर्विधानम् । एतत्प्रतीपगामी प्रबलोऽपि चेत्प्रयन्नस्त्वया क्रियेत, न सफलो भविष्यति सः” । यदि काऽपि विशाला शिला सहसा मम शिरस्यपतिष्यत् ततोऽप्य धिकमाश्चर्य ममाभूत् निशम्य महात्मनस्तथाविधमुत्तरम् । मया साश्चर्य मभिहितम्--'भगवन् ! किं मम परिणयः पक्षाभ्यन्तरे न भविष्यति ? किं भगवता सम्यग्विचार्येदमभिधीयते ? विवाहोपस्करसम्पादनादौ यद्वहवो मम कुटुम्बिनः सम्प्रति व्याप्रियन्ते, यचात्र तैः परिश्रम्यते, किं तत्सर्वमेकपदे विफलं भवेत् ?” । महात्मा दृढगम्भीरस्वरेण जगाद्–“श्राम्, सर्वमेकपदे ठयथ स्यात्। मंया सम्यग्विचा कथ्यत इदम्। नाधुना ते विवाहयोगः सम्प्राप्तः” । मेघश्यामस्य पुरो मया प्रतिज्ञातमासीत् यन्महात्मनः पुरः सभ्यता मनतिक्रम्यैव वर्तेय इति । अत एव मया कथंचिदात्मानमवरुद्धय मुखाग्र मागतोऽप्यट्टहासप्रवाहो बलान्निवर्तितः । मया मनसि चिन्तितम्-नूनं विक्षिप्त एवाय महात्मा । किमिदं सम्भवति, यदागामिनि पक्षे मम विवाहो न भवेत् । कुतो न भवेत् ? सर्वः प्रबन्धः सनद्धः । कन्यका श्रपि निश्चिताः । मुहूतोऽपि निश्चितप्रायः किं तर्हि प्रतिबन्धकं विवाहे ? । महामनेदृशी शिरःपादरहिता भविष्यद्र्था वाक्कथमभिहिता ? निश्चित रूपेणासत्या वागियम्। मयाऽपि सयन्नमेषाऽसन्या विधास्यते । कृतक गम्भीराकृति भूत्वा ऽहमवोचम् -“भगवन् ! कृपया भगवतां यथेद्म भिहितम्, तथाऽन्यदपि किंचिदुच्यताम् । मम विवाहः कदा भविष्यति ? कुत्रत्या कीदृशी का च भवेन्मम भार्या ? भगवतो वचनं श्रुत्वा सत्यम हमाश्चर्यसागरे मज्जामि । वाञ्छामि च भगवदनुग्रहेण मम विवाहविषये सर्वमपि भविष्यदर्थमवगन्तुम् !' महात्मना मम प्रक्षस्योत्तरं त्वरितं न प्रदत्तम् । प्रक्षं निशम्य स किश्चि त्सम्भ्रमे पतित इव लक्ष्यतेस्म । नेत्रे निमील्य क्षणं विचारयान्नासीत् । अहमेकाग्रदृशा तन्मुखं निरवर्णयम् । मेघश्याममनु दृशौ प्रेर्य मया निभालितम् यत्सोऽपि महात्मनो वदने दतैकाग्रदृष्टिरासीत् । महात्मा मामपृच्छत्-“वत्स ! तव भाविन्या भार्याया रूपमाकृतिं चाहं वर्णयेयम्, तस्या नाम निवासस्थानं चाहं कथयेयमिति त्वमभिप्रैषि किम् ?' मयोक्तम्-“आम् भगवन् ! भवादृशां दिव्यदृशां सिद्धपुरुषाणां सर्वमेवाऽपरोक्तं किल । अस्माकं तु भविष्यदर्थं. सर्वोऽपि तिमिराच्छन्नः प्रतीयते । भगवान् दिव्यदृशा सर्व ज्ञातुं समथ इति पृच्छामि । यदुक्त भगवता, तथैव ममाभिप्रायोऽस्ति ।’’ ततः परं स महात्मा न किञ्चिद्ब्रत । स्थिरासनो नासाग्रदृष्टिः सन विचारयामास । तद्ानीं महात्मनः शरीरमेव तत्रासीत्, मनस्तु कुत्राप्यन्यत्र विचरितुं गतमिव प्रतीयतेस्म । श्रावयोरेव श्वासप्रश्वासशब्दः प्रचलन्ना सीत् । कुटीरस्य बहिः भगवती जह्नतनया निःशब्दं प्रवहतिस्म । सर्वतः शान्तमासीद्वातावरणम् । महात्मानमित्थं भूतं दृष्ट्रा मम मनसि विविधा विकल्पाः प्रादुरभूवन्-“किमसौ महात्मा मम अस्य किमुत्तरं देयमिति चिन्तयति । यद्यसौ मम प्रश्नस्य सम्यगुत्तरं दास्यति तर्हि विश्वसनीया भवेदस्य सिद्धता । परन्तु एतत्प्रश्नोत्तरसत्यता कथं परीक्ष्येत ? उत्तरप्रथ मांशपरीक्षा तु आगामिनि पक्ष एव भविष्यति । द्वितीयांशपरीक्षा त्वेक वर्षानन्तरम् । यद्यनेन मम भाविन्याः पत्न्याः नामधामस्वरूपादिकं व्रक्ष्यते, तर्हि तदप्येकवर्षानन्तरं सुपरीक्षितं भवेत् । यद्येकवर्षानन्तरं महात्मन उक्तिर्वितथा प्रमाणिता भवेत्, तदाऽहं किं कुर्याम् ? तदानीं कुत्र भविष्यत्यसौ महात्मा । संसारविरक्तो महात्मा मम भाविन्याः पत्न्या रूपमाकृतिं च कथं वर्णयितुं प्रभवेदित्यपि महत्कौतुकास्पदम् । अद्याप्यसौ तूष्णीमेवास्ति । मन्ये उत्तरं कथं देयमित्येव चिन्तयति ।' सहसा महात्मनः शरीरं किश्विचलितमभूत् । दीर्घः श्वासो विसृष्ट स्तेन । मत्प्रअस्योत्तरमवधारितमिति प्रतीयते स्म । मामनु नयने प्रेर्य स माह-“वत्स ! किं त्वमात्मनः प्रश्रस्य कृत्न्नमुत्तरमधिजिगाँ ?’ मयोक्तम्-“यदि भगवानपरिचितेऽपि मयि द्यां विधाय प्रभोत्तर प्रदानायासं न गणयिष्यति सोऽबूत-“यद्येवम्, तर्हि पश्य तस्मिन् कोणे भूयानस्ति मृत्तिका राशिः, तत एक महान्तं खण्डमादाय मत्समीपमानय’ । अहं मनस्येव व्यतर्कयम्--किं करिष्यति महात्मा मृत्तिकाखण्डेन । श्रह मृत्खण्डमुपानयम् । स जगाद्-*इमां त्रिपादीमात्मनः पुरः स्थाप थित्वा तदुपरि मृत्खण्डं निधेहि' । मया तथाऽनुष्ठाय स्वस्थाने समुपावेशि । अथ महात्मा वदति स्म-*श्रवधेहि वत्स ! कुत्रत्या कीदृशी का च कृदा ते भार्या भविष्यतीति तव प्रश्नोऽस्ति । यदि त्वं स्थिरया धिया शान्तेन चेतसा च चिन्तयितुं शक्रोषि, तर्हि सम्भवतः स्वप्रश्नस्य स्वयमे वोत्तरं दातुं प्रभविष्यसि । यतः प्रत्येकं मनुष्यः स्वेच्छाशक्तिमहिम्ना ऽदुतादुतान्यपि कर्माणि कर्तु शक्रोति । आत्मशक्तेः परं किञ्चिदपि नास्ति । त्वमान्मनश्चित्तमेकाग्रं कृत्वा सावधानममुं मृत्खण्डम्पश्य, सम्भ वत श्रात्मनो भाविन्याः पत्न्याश्चित्रमत्र द्रक्ष्यसि ।’

  • किमसौ महात्मा विक्षिप्तोऽस्ति ! सूत्खण्डे कस्याऽपि चित्रं कथम

द्रष्टुं शकुयाम्' इत्यहं साश्चर्यमविश्वासपूर्णेया दृशा महात्मानमनु | १६ सोऽन्न तै–“किं मृत्खण्डे कस्यापि चित्रस्य दर्शनमसम्भवि मन्यसे । त्वं मद्वचनेन ‘नायं मृत्खण्डः, किन्तु पारदर्शि काचमिद' मिति किवि त्कालं मन्यस्व ।' अहमगादिषम्--'किं भगवता पारहासः क्रियते ? मृत्खण्डं काच त्वेन कथमहं भावयेयम्, तदन्तरे चित्रं च कथं पश्येयम्, किमीटक कदाऽपि सम्भवति ? स उवाच-“किमिति न, संसारे ऽस्मिन्नसम्भाव्यं नाम किमपि नास्ति, मानवः स्वां प्रबलामिच्छाशक्ति यदि व्यापारयितु नेहते तह्यन्य देतत् । त्वं मद्वचनेन तथा कतु' चेष्टस्व, ततो द्रक्ष्यसि फलं भवति न वेति' । महात्मनः कथने गम्भीरता ऽऽसीत. अतस्तद्वचसां परिहासालाप प्रायता न कल्पयितुं योग्या । इत्थमपि मम तद्वचने नाल्पीयानपि विश्वासो ऽभूत् । किं कुर्याम्, किं वा न कुर्याम् तद्वचांसि यथार्थानि परिः हास प्रायाणि वा ऽवगच्छेयम् । न किमपि निश्चेतुमहमपारयम्। पुनरभ्यधायि महात्मना–“वत्स ! त्वं स्थिरचेता भूत्वा सर्वाः अपि मनोवृत्तीरस्मिन मृत्खण्ड एव सन्धेहेि। अन्यत्सर्वमस्मिन् क्षणे विस्मर । इममशान्तिमय' संसारं, यत्र त्वं संसरसि, तवेमं सखाय’, इमां कुर्टी , मां च तव पुरःस्थितमथिमांसपिण्डं सर्वथा विस्मर । आन्तरेण कल्पनामयेन चक्षुषाऽपि मृत्खण्डमेव पश्य, भाविन्याः स्वभार्यायाश्चित्र मत्राहं दिदृक्षामीति सर्वात्मना भावय । ततो द्रक्ष्यसि किं दृश्यत इति ।” मया चिन्तितम्-महात्मनः कथनानुसारं प्रयतने को दोषः, यदि मया स्थिरचेतसा ध्यानपूर्वकं दृष्टे ऽपि न किंचिद्दृश्य' पुरः समुपतिष्ठत तदा ध्रुवमवधारयेय धूर्तीऽय' महात्मेति । मत्प्रश्श्रोत्तरं दातुमपारयन्नसौ मां वचनेषु व्यामोहयतीति । मुहूतै महात्मनो वचसि विश्वासमाधाय किमपि कौतुकं मया ऽवश्य' द्रक्ष्यते इत्यप्यवधाय तं मृत्खण्डमनु दृष्टि स्थिरां कृत्वा ऽहमुपाविशम् । कुटीराभ्यन्तरे सर्वथा शान्तिरासीत् । मेघश्यामो मम पाश्र्वे स्थितः सन् कदाचित् श्रारूढमृत्खण्डां त्रिपादिकां कदाचिन्मां च निर्वर्णयन्नासीत्। कुट्यामागमनात्परं तेनैकोऽपि शब्दो नोवरित आसीत् । महात्मना सह मम संवादे कौतूहलमनुभवता तेन मध्ये किमपि कथनमनुचितमिव विभावितं भवेत् । महात्मा च स्थिरया दशा मामेव पश्यन्नासीत्, तदानीं तस्य नयनाभ्यां क्षणे क्षणे किमपि विद्युद्विलसितनिभं तेजः प्रकटीभवलक्ष्यते स्म । अहं किल महात्मन श्रादेशानुसारं तस्मिन् मृत्खण्डे चित्तं स्थिरीकर्तु सर्वभावेन चेष्टामकरवम्। अत्रान्तरे समयः कथमतीयायेति नाहं विस्पष्टमवागच्छम् । शनैः शनै कुटीराभ्यन्तरे गाढं तमः प्रस्मृतमिव प्रतीतम्, दीपज्योतिरपि लुप्तमभूत् । अन्तर्बहिः सर्वत्र काऽपि विचित्रा पूर्वाननुभूता स्तिमितता लक्ष्यतेस्म । यथा यथा मम चित्तमेकाग्रं बभूव तथा तथा मम हृत्स्पन्दनमपि मन्द मन्दं बभूवेव । श्रथ कयाऽपि प्रबलया शक्त्या मम चेतसि *सिद्धोऽय महात्मा स्वेच्छाशक्तिमहिन्ना मम पुरः किमप्यद्भतं दृश्यमवश्यमुपस्था पयिष्यति” इति विश्वासो दृढमाहित इव । सहसों मया तस्मिन् मृत्खण्डे किमपि परिवर्तनमनुभूतम् । महात्मनः कथनानुसारमेव तस्य मृत्खण्डस्य पारदर्शककाचवात्मना शनैः शनैः परिणतिरनुभूयते स्म । यावदहं मन्त्र मुग्ध इव कौतुकमिदं पश्यन् “किमसौ मे दृग् भ्रमः' इति वितर्कयामि, तावदेव मया दष्टम्. स मृत्खण्डः काप्यन्तर्हित आसीत् तत्स्थाने तावदा कार एकः काचगोलः पुरः स्थितः । श्रन्तर्निर्मले तस्मिन् तदाधार त्रिपादिकाकाष्ठमालिन्यमपि प्रतिफलितं व्यलोकि । किं मम नयने मां वश्वयतः, विकृत' वा मे शिरः, यदहं वस्तूनि विकृतानि पश्यामि । सकृ न्नयने निमील्य पुनरुन्मील्य च दृष्टम्, तदेव दृश्यम् । चिन्तितं च–“किं स महात्मा मम सखा मेघश्यामश्चेमं मृत्खण्डमहमिव काचगोलं पश्यतो वा ” परन्तु चेष्टमानेनापि मया तयोर्मुखावलोकनार्थ' नयने प्रेरितुं न पारितम् । काचगोलान्नयने अपसारयितुं न मे शक्तिरासीत् । कापि प्रबला शक्तिर्मम नयने काचगोलादपसारयितुं न ददातिस्म । तस्मा त्काचगोलात्किमपि पीताभं मन्दमन्दं ज्योतिरपि निःसरत्प्रतीतम् । येन स काचगोलस्तदन्तर्गतं च दृश्यमेव केवलं प्रकाशितं भवेत् तथाविधं मन्दं ज्योतिस्तदासीत् । सहसा मया चिन्तितम्-“नूनमिदमिन्द्रजालम् , ऐन्द्रजालिकोऽयं महात्मा मां वश्वयितुं चेष्टते । उच्चैरुद्घोष्य बाढमस्य पाखण्डमहं प्रकटयेयम् ।” इत्थं विचिन्त्य उच्चैरुद्घोषयितुं चेष्टमानस्य मे कण्ठनलिका केनाऽप्यवरुद्धेव जाता । नैकोऽपि शब्दः कण्ठाद्वहिरुदूगच्छ तिस्म । बलादिव केनापि प्रेरिता मम दृकशक्तिश्चिन्ताशक्तिश्च पुनरपि तस्मिन काचगोले एव दृढमेकाग्रतामगाहत । निमेषानन्तरमपश्यम तत्र काचगोलाभ्यन्तरे धूम इव समुद्गच्छतिस्म । स एव धूमस्तदन न्तरं विशालकुट्टिमात्मतां गृहस्वरूपं च द्धार । यथा कश्चिचलचित्रपटेषु विविधानि दृश्यानि स्पष्टं पश्यति, तथैवाहं तत्र कस्यापि धूमशकटीविश्रा मस्थलस्य (रेलवे स्टेशन) स्पष्टं चित्रमवालोकयम्। विशाला धूमशकटी पुरःस्थिताऽस्ति । यात्रिण श्रारोहन्ति, अवरोहन्ति च । भारवाहका इत स्ततो धावन्ति । एकतः पंक्तिशः प्रकोष्ठा दृश्यन्ते । किञ्चिदन्तरं गत्वा पंक्त्यन्तरगामी सेतूरस्ति । किमभिधानमिदं धूमशकटीविश्रामस्थलम् ? श्रपरिचितमिव प्रतीयते । नूनं न दृष्टपूर्वं मयेद्म, अतो न स्मर्यते । चल चित्रपट इवात्रापि सर्व स्पष्टं लक्ष्यते । श्रहं चकित इव भीत इव विक्षिप्त इव च निरुद्धनिःश्वासं यावदिदं दृश्यं पश्यामि, तावदेवैकस्यास्तरुण्याश्चलचित्रं पुरः समुपस्थितम् । यथा यथा सा तरुणी पुरः समुपसर्पति, तथा तथा तचित्रं स्पष्टतरं भवति । षोडशहायनावस्थायास्तस्यास्तरुण्याः शरीरे पीतवर्णा महाघ शाटी, तदु पंरि सूक्ष्मतरं श्वेतवर्णमुपरिधानीय च विराजते । हंसगतेस्तस्या गमन सौष्ठवं सौकुमार्यातिशय' पुष्णाति । तस्या वदने विलसन्ती-मुग्धता, विशाले मदिरे च तदीक्ष, रसाप्लुतः संवर्तिकारुणो बिम्बाधरः, शुकच धुनिभा नासा, तप्तकार्तस्वरविजित्वरी देहद्युतिश्च मां सविशेषमाचकर्ष। ईदृशी सुन्दरी न मया दृष्टपूर्वा ऽऽसीत् । दर्शनं तु दूरे ईदशरूपवर्णन मपि न मया कुत्रापि पठितमाकर्णितं च । भूतलवृत्तमवगन्तुमागता काऽपि सुरसुन्दरीव सा प्रतीयतेस्म । अहं तु तदानीं सर्वमप्यन्यत्-तां कुटीं, तं महात्मानं, तत्प्रसादान्मया मृत्तिकाखण्डे दुश्यमानं चित्रं धूम शकटीविश्रामधामादि सर्वमेकपदे विस्मृत्य तामेव सुन्दरीं पश्यन्नासम् । किमीदृशं सौन्दय' मत्यलोके सम्भवति ? अथवा महात्मन इच्छाशक्ति सम्भूता सेय' रूपसम्पत् ? किमेषा ममू भार्याः भवेत् ? किमीदृशं मम संौभाग्यमस्ति ? मम तातेन मद्र्थ पूर्व निश्चितास्तिस्रः कन्याः किला ऽस्याः पद्धूलितुलनामपि कर्तु नेशते । किं वात्र प्रमाणम्, यदेषा सुन्दरी मया लब्धुं शक्येत । मन्ये विकृतं मे शिरः । अहं किंकर्तव्यविमढ इवं याषन्तां सुन्दरीं पश्यन्नित्थं विचिन्तयामि, तावदेव सहसा सा ऽन्तर्दधे । अहमितस्ततो दत्तदृष्टिस्तामन्वेषयामि कुट्टिमः, यावत्, तावत्स विशालः ते प्रकोष्ठाः सा धूमशकटीत्यादि सकलमपि तद्दृश्यमव्यक्तच्छायं भव च्छनैः शनैरन्तर्दधे । यथा कश्चिदालेख्यलेखकः स्वय' निर्मितं चित्रमप्री तिकरं मत्वा श्वेतवर्णतूलिकया तटशेषं विलोपयति , तथैव तत्सर्वं दृश्य मन्तर्हितम् अभ्रखण्डानीवेतस्ततो धूमपुजः केवल ददृशे, सोऽपि शनैः शनैरन्तर्हितः, केवलं काचगोलोऽवशिष्टः, निमेषानन्तरं पूर्ववदेव मृत्खण्ड ए इंग्गोचरोऽभूत् अहं हि निसर्गतो निभको हृष्टपुष्टसर्वाङ्गो युवाऽपि तत्क्षणं कम्प मानसर्वाङ्गः केनापि भयेनाभिभूयमान प्रासमिति कथनं यद्यपि लजा स्पद्म्, तथाऽपि सर्वथा सत्यम् । उचैराक्रोश्य इन्द्रजालमयात्तस्मा त्कुटीरात् तत्क्षणं पलायितुमिच्छन्नपि गिरः शरीरस्य चाऽप्रभुतामनुभूय न किंचिदपि कर्तुमपारयम् । शनैः शनैर्मम शरीरे चलनशक्तिः प्रत्यावृत्तेव प्रतीयतेस्म । कथं चिन्नेत्रे उन्नमय्य यावत्कुट्यां पश्यामि, तावत् सर्वत्र गाढं तमः प्रसृतं प्रतीतम् । निमेषानन्तरं कुटीकोणे निर्वाणप्रायस्य ज्योतिरमा दापस्य वास्यानिशि प्रकाशमानमेकनक्षत्रमिव सुदूरव्यवहितं विभातिस्म । महात्मनः पुरः प्रज्वलतोऽमिकुण्डस्य मन्देन तेजसा महात्मनः शरीरम प्यस्पष्टं लक्षितम् । पाश्र्वे उपविशन् मेघश्यामस्तु चित्रलिखित इव तूष्णी मासीत् । कशाऽभिहत इव सद्यः प्रकृतिस्थो ऽहमभवम् । यथा कश्चित् सुखस्वप्नं दृष्ट्राऽकस्माज्जागर्ति, तस्येव मम दशाऽभूत् । शनैः शनैर्मम सर्वाः शक्तयः परावृत्तः । “वत्स ! निर्वाणोन्मुखे दीपेतैलं देहि' इति महात्मनो गभीरा वाक् श्रवणपथमुपगता । तदाकण्र्य मेघ श्यामः सुप्तोस्थित इव गत्वा दीपे तैललं ददौ । तैलनिषेकालब्धबलो दीपः कुटीगतेन तमसा योद्धुमारभत । प्रकाशाऽभूत्कुटी । मया दृष्टम्, महात्मा तथैव गम्भीरनिर्विकाराकृति यथास्थानं स्थितोऽस्ति । मया कम्पमानगिरा पृष्टम्–“भगवन् ! केयं लीला ? कीदृशोऽयमदुतो व्यापारः, यद्दृश्यं मया दृष्टम्, तकिमंशतोऽपि सत्यम् ? उत विकारविलसितम् ? कथ्यतां भगवता । छेिद्यतां त्वरितमसौ मम संशयः” । महात्मा सस्मितं जगाद्–“वत्स ! यत्त्वया दृष्टम्, तत्सर्वथा सत्यमेव यत्त्वया द्रष्टुमिष्टम् , यच पृष्टम्, “कीदृशीं भार्यामहं कुत्र लभेय” इति मया तस्यवोत्तरं दत्तम् । अपि सम्पन्नस्ते सन्तोषः ?’ श्रहमवद्म्–“सन्तोषः, न हि भगवन् ! भूयानसन्तोषो मयाऽधि गतः, पूर्वापेक्षया शतगुणिता मे चिन्ता संजाता । इदमभिधीयतां भग वता-कुतः सर्वमिदं सम्पन्नम् ? इंट्टकू चित्रं मया कथं द्रष्टुं पारितम्, यत्र सर्वाणि पात्राणि जीवन्तीव चेष्टन्तेस्म । किमीछग्विधमिन्द्रजालं सम्भवति ?’ महात्मा स्थिरगिरा बभाषे–“कुतो न सम्भवति ? न सम्भवति चेत् कथं दृष्टवानसि । मया पूर्वमेवोक्तमासीत् यदिच्छाशक्तिमहिन्ना सर्वमपि सम्भवतीति । तदेव इच्छाशक्तिमाहात्म्यं मया तुभ्यं प्रदर्शितम् । अलम नातः परं तव कोऽप्यर्थः । श्रहमधुना विश्रान्तिमिच्छामि ।' मया प्राऽञ्जलिना सविनयमभिहितम्-“भगवन् ! बाढमुपकृत भग वता । भगवतः प्रसादादेव इममदुतं व्यापारं द्रष्टुमहमपारयम् । इदमेकमे वापरमहमत्र बोद्धुच्छामि, मया तदानीं यद् धूमशकटीविश्रामधाम दृष्टम् यत्र धूमशकटी स्थिरा ऽऽसीत् किं नामधेयं तत् ?’ महात्मा ऽगादीत्-“वत्स ! नातः परं किंचिदप्यहं विवक्षामि, तव प्रार्थनया यावन्मया कथितं, दर्शितं च तावदेव बहु मन्यस्व । कदाचि न्ममैतेन व्यापारेण जगन्नियन्तुः संसारचक्रगतेः किञ्चित् प्रयोजनं सम्पा दितं स्यात्, यदिदमेतावन्मया त्वदर्थे प्रयतितम्, तदपि तव मित्रस्य मेघ श्यामस्य कारणात् । मेघश्याम ! मया नाद्य यावत् ते कथितम श्रद्य प्रातर्यदा त्वमत्रागतः, तदा वदतस्तव मुखात्तव पितुर्नाम श्रुत्वा त्वामहं विज्ञातवान् । तव पिता किल बाल्ये मम सतीथ्र्य श्रासीत् । श्रावां पूज्यपादस्य रुक्माङ्गदाचार्यस्य गुरोः पाठशालायां सहैव वेदाभ्यासम करवाव । तव पिता तु गुरुगृहादुपावत् गाहस्थ्यमाचरत् । अहं हि शाश्वते ब्रह्मणि स्थित्वा गुरोरादेशमनुसरन् तीर्थाटनं करोमि । द्वादश वत्सरेभ्यः पूर्व यदाहमत्रागमम् तदा तव पिता अष्टवर्षावस्थेन त्वया सह मां द्रष्टुमागत आसीत् । अस्तु । तव सन्तोषायैव मयाऽस्य तव मित्रस्य प्रश्नानामुत्तराणि दत्तानि, दर्शितं च यत्तेन द्रष्टुमिष्टम्” । मेघश्यामः प्रणम्य बभाषे–“भगवन् ! न मम विदितमासीत् रवर्गवासिना मम तातेन सह भगवतः सौहार्दम् । मम तातः कदाचिद्वा तप्रसङ्ग स्वसतीथ्र्यस्य कस्यापि महानन्दब्रह्मचारिणो विषये ऽद्रताद्भ तमितिवृतं कथयतिस्म, किं तद्भगवन्तमधिकृत्यैव भवेत् ?” महात्मा सस्मितमभाषत-“हुम् , अलमनया प्रसक्तानुप्रसक्तया कथया । अस्ति वा किमप्यन्यत् ते प्रष्टव्यम् ?’ मेघश्यामः पुनरछूत-“भगवन् ! भवन्तं दृष्टा सुरलोकान्प्रत्यावृत्तं पितरमहं पश्यामीव । भगवद्नुग्रहान्न किञ्चिदपि मे न्यूनम् । धर्मे मम मतिः स्थिराऽस्त्वित्येव मे प्रार्थनीयम् । श्रयं मम सखा ललितकुमार क्वापि न विश्वसिति, धर्मकर्मादिकं सूर्वमाप पाखण्डं मन्यते ! प्राय प्रत्यहं मया सह विवदते । मां च मूर्ख भणति । भगवताऽस्य संशय छित्वा बहूपकृतम् । चेत्कापि सेवा, समादिश्येत भगवता, नूनमात्मानं धन्यं मन्येय । श्वः पुनर्भगवतो दर्शनं भविष्यति ? महात्माऽत्र त-“मम हि सर्वमप्यनिश्चितमेव, कदाचित् श्व एवेत प्रस्थास्ये । परन्तु युवाभ्यामितः परमत्र नागन्तव्यम् न चैतहिं दृष्टस्या दूतव्यापारस्य विषये कापि चर्चा विधेया । एष वृत्तान्तः परेषां कर्णे गतो न मे रोचेत । श्रुत्वाऽपीत्थंविधं वृत्तमश्रद्धालवः परिहासं वितन्वते । अतो ऽश्रद्धालुभ्यो बाढं गोपनीयोऽय विषयः । अलम, सम्प्रति युवां गच्छतम् । मङ्गलमयो महेश्वरो युवयोर्मङ्गलं करोतु । इहागतयो युवयो भूयान् विलम्बो जातः ।” अथ महात्मानं साष्टाङ्ग प्रणम्य श्रावां कुटीराद्वहिरागच्छाव । स्तोकं मार्गमतिक्रम्य मया मेघश्यामो ऽप्राक्षि-“कधय, सखे ! यत्किञ्चिद् दृष्टं तत्र, तद्विषये कीदृगभिप्रैषि ? मेघश्याम उवाच–“मया तु नैव किमपि दृष्टम्, किमहंकथयेयम् ?’ मया साश्वयमभिहितम्-“अरे ! त्वं परिहससि किम् ? तत् धूम शकटीविश्रामधाम दृश्यम, सा च पीताभां शार्टी वसाना युवतिश्च किं त्वया न हृष्टा ? मेघश्यामो गभीरभावेनावदत्–“सत्यमहं वदामि, अहं तव पाश्र्व एवोपाविशम् मम तु तस्मिन् मन्दपूकाशे त्रिपादिकावस्थापितं मृत्खण्डं विहाय नान्यत्किमपि दृक्पथमुपगतम् । त्वमेव कथय, किं त्वया दृष्टम् श्रहमपि तच्छणुयाम् । तत्र महात्मनः सन्निधौ त्वां किमपि नापाक्षम्' मया यद्यत्तत्र समवालोकि, तत्तदशेषं मेघश्यामाय सविस्तरं कथि तम् । श्राकण्र्य सोऽवदत्-“महात्मन एवायां महिमा, तस्यैव कृपया त्वं तद् द्रष्टुमशक्रोः, त्वयाऽवलोकिते दृश्ये सत्यमेव किं सर्वाण्यपि पात्राणि जीवन्तीव चेष्टमानान्यासन् , अथवा तव केवलं सदृग्भ्रम एवा ऽऽसीत् ?” मया सनिद्धरमुक्तम्-“सर्वाण्यपि पात्राणि जीवन्ति चेष्टमानानि दृष्टानि नात्र संशयावकाशः । सा तरुणी त्वतीवाश्चयॉर पद्मासीत् । श्रह हि यावज्जीवं तन्स्वरूपं विस्मर्तु न शक्ष्यामि । अपूर्व तत्सौन्दर्यम् श्रहं बाढं विचारयन्नपि नावगच्छामि, कथमित्थं मया द्रष्टुमपारेि ? महात्मना च केन बलेन तस्मिन् मृत्खण्डे विचित्रं तन्नाटकं प्रदर्शितम् । अहं मन्ये, स महात्मा सम्भवतः किंचित् 'मेस्मेरिजम’ नामिकां त्राटक विद्यामपि जानाति, तन्मायायामेवाहमपतम्।' मेघश्यामो ऽभ्यधात्–“पुनरारूढा संशयपिशाचिका त्वाम् बल वान खलु संस्कारः, महात्मनो योगशक्तेरीदृशं लोकातिगं चमत्कारं , २२ दृष्टाऽपि त्वं कथयसि, स “मेसमेरिजम' नामक त्राटकविद्यां जानातीति । अस्तु सकिमपि जानातु न वा, अल्पैरेवाहोभिस्तस्य कथनं सत्यमसत्य वेति ज्ञास्यसि ।' श्रहमवदम्-“हुम्, सत्यमिदम्, दृशपञ्चदिनैरेव तस्यैकं कथनं मृषेति प्रमाणीकृतं भवेदेव ' । तेनोक्तम्-अधुना ते विवाहयोगो नास्तीति, तदपि विवाहे सम्पन्ने वितथं भवेदेव । तदानीं तद् दृश्य' मया सत्यमित्येवावगतम् । परन्तु सम्प्रति सा तस्य मायाविनो मायैवासीदिति चिन्तयामि । कस्यापि पुरः स्वमायाबलेन काल्पनिक चित्रमेकमुपस्थाप यितुं स समर्थोऽस्तीत्यहं मन्ये । परं तु तेन प्रदर्शितं चित्रं सत्यमस्ति, भविष्यजीवनेन सह तस्यास्ति सम्बन्ध इति तु नाहं विश्वसिमि । दशः पभ्वदिनैरेव तस्य वचसां सत्यत्वमसत्यत्वं वा स्वयमेव ज्ञातं भवेत् । तस्य सिद्धत्वं त्रिकालदर्शित्वं महात्मत्वं च समय एव समर्थयिष्यति । तस्मिन् पुरुषे वर्तते कोऽपि विशेषगुण इति तु स्वीकरोमि ।” मेघश्यामो ऽब्रत-“वरम्, भवता एतावदपि स्वीकृतम्, कदाचित्स मय इतोऽप्यधिकं त्वत्तः स्वीकारयिष्यति ।” श्रह गृहं प्रत्यागमम् । रात्रे द्वितीयप्रहर आसीत् । तदानीमपि गृहे सर्वेऽपि विवाहपबन्धव्यग्रा जाग्रतिस्म । दैवज्ञेर्निर्णयः श्रावितः । निद्धरि तायाः कन्यायाः पिताऽपि सूचित आसीत् । शीघ्रातिशीघ्र प्रथमे मुहूर्त एव विवाहो भवत्विति सर्वेषां मनीषा ऽऽसीत् । मम महात्मनः सन्निधौ गमनम्, तत्र ि विचित्रदृश्यद्शनमित्यादिकं किमपि गृहे कस्यापि न कथि तम् । तस्मिन् दृश्ये दृष्टां तां तरुणीमेव चिन्तयन्नहं शयनार्थ पर्यङ्कमुपा रुहम । शनैः शनैर्निद्राऽधीनोऽभवम्। ( ४ ) महति प्रत्यूष एव कस्यापि रटितमाकण्य' मम निद्रा भग्ना । “ललित ! ललित ! उतिष्ठ वत्स !” श्रहमुत्थाय पर्यङ्के समुपाविशम् । समीपे स्थितां जननीं चापश्यम् । मया पृष्टम्-“किमम्ब ! किमस्ति ? सा जगाद्-“वत्स ! तन्त्रीसन्देशवाहकः समागतः, हस्ताक्षरं कृत्वा सन्देशपत्रं गृहाण ।' तन्त्रीसन्देशः ! कीदृशस्तन्त्रीसन्देशः ! कुतः समायातः ? केन प्रेषितः ? श्रुत्वैव सम्भूमे पतितं हृदयम्। आशङ्कया कृतमास्पदम् । सद्यो महात्मनो वचनं मे स्मृतिपथमायातम् । तेन हि कथितमासीत् –“कृतेऽपि प्रबले समुद्योगे न भवेत्ते विवाहः यतस्तस्यावसरो नाधुना प्राप्तः” इति । तत्किमेष-तन्त्रीसन्देशः किमपि विध्नरूपं धृत्वा समागतः ? इत्थं स्वमनो दौर्बल्य' कलयित्वा ऽहमहसम् । स्वमनोभावान् गोपाय न्नेव मातरं पृष्टवांश्च-“किं मातः ! तातो गृहे नास्ति किम् ? साऽब्रवीत्-“नहि वत्स ! महति प्रत्यूषे त्वय्यनुत्थिते एव विवाह मुहूर्तविषये समालपितुं ते दैवज्ञसमीपं गताः सन्ति ।” अहमुत्थाय बहिरागमम् । हस्ताक्षरंकृत्वातन्त्रीसन्देशमादाया ऽवाच यम् । तत्र लिखितमासीत् “पिता गतदिनमारभ्य सविशेषं रुग्णोऽस्ति, रोगमुक्तेराशा नास्त्येव सन्देशं प्रगप्यैव त्वरितमागम्यतांम ' कुबरप्रसादः । स तन्त्रीसन्देशो मन्नाम्न्नामम स्वामिनः कर्णपुरवस्रयन्त्रालयाध्यक्षस्य धनपतिप्रसादस्य पुत्रेण कुबेरप्रसादेन प्रेषित आसीत् । श्रेष्ठिनो धनपति प्रसादस्य किमकस्मात्सञ्जातम् ? यदाहं मासिकमवकाशमाप्य ततः प्रातिष्ठ, तदा हृष्टपुष्टो नीरोग प्रासीन्मम स्वामी उत्तं चासीत्तेन “ललितकुमारं ! यावच्छक्य' शीघ्रमेव परावर्तस्व जानाम्येव नास्ति त्वामृते ऽन्योऽत्र यन्त्रविशेषज्ञ इति ।' यान्त्रिकी दुर्घटना वा काचित्स ब्जाता ? कस्मिन्नप्यसाध्ये व्याधौ वा प्रस्तो मम स्वामी ? इत्थं विचिन्तयन शिरोविन्यस्तहस्तोऽहं तत्रैव क्षणमतिष्ठम । मम स्वामिनो धनपतिप्रसादस्य सौजन्यमनुजीविवत्सलतां दयालुतां गभीरतां कायकौशलं शिष्टतां च चिन्तयतो मम नेत्रे बाष्पपूरमवर्षताम् । मां चिर यन्तं वीक्ष्य प्रतीक्षमाणा मे माताऽभ्यन्तरप्रकोष्ठादेव मामुच्चैः प्रपच्छ ४४ वत्स ! केन प्रेषितो वैद्युतः सन्देशः ? कुतो वा समागतः ? अहं गद्गदस्वरेणोत्तरितवान्-“मातः ! श्रहमभ्यन्तरमागच्छाम्यव ।' श्रह मात्मानमवष्टभ्य मातुः समीपं गत्वा तस्यै तन्त्रीसन्देशवृत्त' सर्व न्यवे ट्यम् । सा साश्वयं सचिन्तं च जगाद्-“इदमनवसरं घोरमनिष्टमुप स्थितम्, त्वं त्विदानीं तत्र गन्तु' नाहंसि. कमपरं तत्र प्रेषयिष्यसि !' मयोक्तम्- ‘ममैव स्वय' तत्र गन्तुमत्यन्तमावश्यकम् । यन्त्रालये? मां स्वामिनं च विहाय नास्ति कोऽपि विशेषज्ञः, अन्येन केनापि तत्र गत्वा किं २४ साधयिष्यते ? किंच स्वामिपुत्रेण कुबेरप्रसादेनचाहमेव तत्राऽऽहूतोस्मि।’’ माताऽब्रत-“तह्यत्र किं भवेत् ? विवाहप्रबन्धः सर्वोऽपि सिद्धोऽस्ति निश्चिते मुहूर्ते न चेद्विवाहः सम्पद्येत, वयमत्र मुखं दर्शयितुं न शक्ष्याम । तव गमनं बाढमावश्यकं चेद्विवाहानन्तरं चतुर्थेऽहनि गमिष्यसि ।” मयोक्तम्—“अम्ब ! यथा त्वमादिशसि तथैव चेत्कर्तु शक्रयाम् । बाढं प्रमोदेय, परन्तु विचारय, तन्त्रीसन्देशे लिखितमस्ति, “मम स्वामी सातिशयणं रुग्णोऽस्ति, रोगमुक्तेराशा नास्ति” इति । इत्थगते व्यतिकरे विवाहार्थमत्रावस्थानं मम शोभेत किम्, यस्य स्वामिनो मयाऽद्य याव लवणं खादितम्, मृत्युशय्यां गतेन तेनाऽऽहूतोऽहंचेद्विलम्बेय, उभयलोक भ्रष्टो भवेयम् । त्वमेवेत्थं सकलं विचाय समुचित समादिश मे कर्ता व्यम् ।’’ माता तूष्णीमास । किं वा सा भणेत् ? तूष्णीं स्थिताया अपि तस्या वदनविकारैर्मया तन्मनोगतमवगतम् । सा किल चिरान्मम विवाहविषये प्रयतमानाऽऽसीत् । एतावत्पर्यन्तमहमेव विवाहप्रतिबन्धको ऽभूवम् । अथ कथं चिन्मयाऽभ्युपगते विवाहप्रस्तावे सज्जे च सकले सम्भारं इदमपरमतर्कित' प्रबलं प्रतिबन्धकमुपस्थितम् । तस्या अक्ष्णोर श्रण्युपस्थितानि । अहं कथंचित् हृद्यमवष्टभ्य स्वकीयं पूकोष्ठमुपागाम् । तत्रे श्रारामवेत्रासनेऽद्धशयानो व्यचिन्तयम पश्यत, कथमाकस्मिकी दुःखदेयं घटना समुपस्थिता। मुहूर्तात्पूर्वमया इदमित्थं भावीति स्वप्रेऽपि न चिन्तितमासीत् । मेघश्यामेन सह केवलं कौतुकबुद्धया तस्य महात्मनः सन्निधिमुपगम्य यत्तस्माच्छुतम्, तदिदानीं सत्यमिव प्रतीयते । नून तस्मि न्नस्ति कापि विशेषशक्तिः । किमहं त' पुनरुपगग्य मम स्वामिनो विषये पृच्छेयम् । परन्तु तेन पुनर्दर्शनं निषिद्धमस्ति । किं कुर्याम् ?: श्रत्रान्तरे तातन्नागत्य सर्वोऽप्युदन्तः श्रुतः । मम स्वामिना धनपति पृसादेन सह तातस्य चिरन्तन सौहार्दमासीत् । स्वामिनो रुग्णतावृत्ता न्तेन तातस्य चित्तं परं व्यथितं बभूव । तेन विधूय मोहं, विवाहसम्भाः रव्यर्थतामप्यविचिन्त्य स्पष्टमेवाहमभिहितः-“वत्स ! ललित ! त्वं जानास्येव, यद्विगतमासद्वयात्पूभृति तव विवाहविषये पूयत्यते, पर्याप्तमत्र धावितं परिश्रान्तं च, द्रव्यमपि पुष्कलं व्ययीकृतम् । किञ्च तव माता तव विवाहविषये कीदृगुत्कण्ठितास्तीत्यपि तव नाविदितम् । श्रस्मिन् वारे तच्छुभकर्माऽकृत्वा सा न तूष्णीं स्थास्यति । इत्थमपि तव कर्तव्य मप्यहं वेद्विा । यदि त्वं साम्पत्तं विवाहविचारं परित्यज्य कर्णपुरं जिग भिषसि तर्हि नाहं त्वां प्रतिरोद्धुं शक्रोमि ।' २५ मयोक्तम्-"तात ! विवाहस्तु यदा कदाऽपि भवितुं शक्रोति, परंतु मृत्युशय्यां गतो मनुज. शुभाशुभकार्य न पतीक्षते । ईश्वरो येन पथा चालयति तेनैव पथा गन्तव्यं भवति । यद्यस्मिन्नवसरे नाहं तत्र गच्छे यम् तर्हि कर्तव्यभ्रष्टो भवेयम्, कदाचिदाजीविकामपि हापयेयं च' । तातोऽब्रत–“एवं तर्हि त्वरितं गम्यताम् । मध्याह्नोत्तरगामिना धूमशकटेन गन्तुमर्हसि । तत्र गत्वैवाखिलमुदन्नं मे सूचय । यदि श्रेष्टिन श्रारोग्यलाभो भवेतहिं वरमेव, त्वरितमेव ततः पत्यागमिष्यति सः । यद्यन्यथा भवेत्तर्हि तदपि सकलं सूचय ।' तस्मिन्नेव दिनेऽहं कर्णपुरं पातिष्ठ । यन्त्रालयप्रधानकार्यालय गत्वैव सर्वं वृत्तमवगतम् । श्रेष्ठी धनपतिपूसादः कमप्यागन्तुकं सुहृदं यन्त्रालयं दर्शयन्नेव दुर्भाग्याद्नवधानतया प्रचलति यन्त्रे पतितः, यद्यपि तत्काल मेव यन्त्रगतिन्र्यरुद्धयत, तथाऽपि यन्त्राप्रकरपत्रैस्तस्य द्वावपि चरणौ विच्छिन्नौ । वैद्येजीविताशा परित्यक्ता, श्रेष्ठिनं मां च विहाय न कोपि यन्त्रविशेषज्ञ आसीदित्यमिकार्यनिर्वाहाय श्रेष्ठिपुत्रेणाहं तन्त्रीसन्देशद्वारा समाहूतः । सर्वोऽप्ययं वृत्तान्तो मया ताताय निवेदितः, इदं चापरं लिखि तम् , यन्मम शीघ्र पत्यावर्तनं न सम्भवेत् । एकादशदिनानि यावन्मम स्वामी जीवननिधनयोरन्तलम्बमान श्रासीत् । यावन्मानवबुद्धेर्बलमस्ति विज्ञानेन च यावन्त उपाया श्राविष्कृताः सन्ति, ते सर्वेऽपि कुबेरकल्पेन कुबेरपूसादेन जिपितु कृते पूयोजिता । पानीयमिव द्रव्यं प्रवाहितम् । मृत्युमुखात्तमाच्छेतुं काऽपि चेष्टा नावशेषिता । परन्तु दुर्भाग्यं सर्वोपरि ष्टादासीत् । द्वादशे दिवसे श्रेष्ठिनः प्राणाः पूतस्थिरे। ततः परं कतिपयदिनानि महता सङ्कटेनातिवाहितानि । कियन्तः कीदृशाः प्रबन्धाः कर्तुमापतिता इत्यादि वर्णनमनुपयुक्तमिति न करोमि । पायः सार्द्धमासात्मकः कालस्तस्मिन्नेव सम्भ्रमेऽतिक्रान्तः । श्रेष्टिपुत्रो निसर्गतश्चतुर श्रासीत् । पितरि जीवत्येव तेन कार्यालयस्य बहुलः कार्य भारः स्वायत्तीकृत आसीत् । अथेदानीं मम मन्त्रणानुसारेण तेन सर्वो ऽपि पूबन्ध श्रामूलान्नवीकृत । अहं च पूधानाध्यक्षपदे नियुक्तः । अत्रान्तरे मया काश्यां न गतम् । तातस्य तु पूतिसप्ताहूं कुशलपत्रा रण्यायान्तिस्मैव । मेघश्यामस्य पत्रेण मयाऽवगतम् , यन्मद्र्थ निद्धरितस्य कन्यात्रयस्याप्यन्यत्र विवाहः संवृत्त इति । न च तेन मम स्वल्पोऽपि विषादः समजनि । मेघश्यामेन स्वपत्रे इदं चान्यलिखितमासीत्, यन्मम माता मम विवाहार्थ पुनरपि सर्वामना पूयतमानाऽस्तीति । वर्षानन्तरमा गामिनि पथमे विवाहमुहूर्त एव मम विवाहस्तयाऽवश्यं कर्तव्यत्वेन निद्धरित इति च । त्मनःकुट्यां मेघश्यामेन सह गमनम्, तत्रमूहात्मनः प्रभावाद्दुत दृश्यावलोकनं च नाहं व्यस्मार्षम् । न च विस्मर्तमपारयम् । केवलं कौतुकेनैव मया तदानीं तत्र गतमासीत् । अविश्वासेनैव तदुक्तमाकर्णेि तम् । परन्तु यतः पूभृति महात्मन उक्तिषु एकस्याश्रास्य सत्यता बाढम नुभूता, ततः प्रभृति महात्मनो विषये मम हृदये काऽपि श्रद्धा समुद्भूत् । ईदृशाः सिद्धपुरुषाः पविरला एव दृश्यन्तेऽस्मिन् संसारे । सौभाग्येनैव तथाविधानां समागमो भवति, सांसारिकेष्वपि विरला एव तथाविधान् सिद्धान् परिचिन्वन्ति। ते हि श्रकस्मादेव कुतोऽप्याविर्भवन्ति, अकस्मादेव च कुत्रापि प्रगाढे तमसि निलीयन्ते । स गङ्गातटवासी महात्मा इदानीं कुत्राऽस्तीति को वेद ? एवं वर्षानन्तरं या कन्यया सह मम विवाहस्य भावित्वं तेनोक्तमासीत् तत्सत्यं भवेन्नवेत्यनुभवितुं बाढमासीन्ममोत्कण्ठा। तस्य कुटीरे काचतामापन्ने तस्मिन् मृत्खण्डे यद् दृश्यं मया दृष्टमासीत्, जीवन्त इव चेष्टमाना ये वाऽऽकृतिविशेषास्तत्र मया दृष्टपूर्वास्ते खलु मम हृदये निखातप्राया इवासन् । तन्मुखम्, ते नेत्रे, सा शुकच चुनिभा नासा , स च अत्यन्तपाकद्रवद्द्राक्षासमकक्षोऽधरः, किमेतानि विस्मतुं शक्यानि ? चतुरादपि चतुरश्चित्रकारो नेदृग रूपं निर्मातुं शक्रोति । किमेतादृशी सुन्दरी कापि ध्रियते, उत महात्मनः कल्पनाविजम्भितमेवैतत् ? प्रस्तु द्रष्टव्यम् ! एकवर्षात्मको न भूयान् कालः । यतस्तस्यक वचन सत्यमभूत् तत परमाप सत्यं भवेदिति बहुश्राः सम्भाव्यते । श्रतीताः कतिचिन्मासाः । मम विवाहकथाऽवसानस्य, धनपतिप्र सादनिधनस्य, यन्त्रालये प्रधानाध्यक्षपदे च मम काय कुर्वतश्च पञ्चवषा मासा व्यतीयुः । मम हृदये चव श्राशानिराशे परस्परमयुद्धयताम्। एव मेव भूयोऽप्यतीतः कश्चित्कालः । परंतु मया मृत्खण्डे दृष्टं तद् दृश्य, सा सुन्दरी च न मनागपि विस्मृता । ततः परमकस्मादेकस्मिन् दिने निजेन वास्तविकरूपेण तद् दृश्य -महात्मनः प्रसादान्मृत्खण्डे “दृष्टमू-मम पुर स्वयमुपस्थितम् । कदा-कथं च,-तदेवाहमग्रे वर्णयामि । (५ ) यन्त्रालयविशेषकार्यवशान्मम लवपुरे गन्तुमापतिम्। कर्णपुरात्प्र स्थानात्पूर्वमेव मया मातुरेक पत्रमधिगतम् । तत्र लिखितमासीत् २७ “चिरायुष्मन्तं वत्सं ललितकुमारं सस्नेहमाश्लिष्य मूघ्न्युपाघ्राय च शुभाशी राशिभिरभिवर्द्धयन्ती तन्माता काशीतः प्रतिबोधयति वत्स ! इतो बहुदिनेभ्यो नाधिगता ते कुशलपत्रिका । श्राशंसामि त्वं कुशली स्या इति । अग्रे-श्रावश्यकमेकं विषयं स्मारयितुं ते पत्र लिखामि । त्वं जानास्येव, यदतीते वत्सरे तव विवाहसम्भारेषु सन्नद्धेष्वेव श्रकस्मात्तव स्वामिनो निधनेन विवाहो विधित इति । अथेदानीमहमिच्छामि, यदागामिनि प्रथमे विवाहमुहूर्त एव कार्यमिदं सम्पादनी यमिति । अस्मिन् वारे तव किमपि प्रतिबन्धक कैतवं वा न मया मनागपि विचार यिष्यते । अतस्त्वामधुनैव चेतयामि । त्वदर्थ मयैका कुलीना शिक्तिा च सुन्दरी कन्याऽवधारिताऽस्ति । अत्रत्यैव सा । विश्वसिमि चाहं यत्वं ममवचेनं पूरयिष्यसि। किमपि कैतवं न करिष्यसि । यद्यस्मिन् वारेऽपि किमपि वचनं कपटमुद्भाव्य मम न पूरयिष्यसि, तर्हि मम भूयान् मनस्तापो भवेत् । सत्यवकाशे द्वित्रिदिनार्थमत्रावश्य मागच्छ । मया त्वां दर्शयितुं तस्याः कन्यायाश्छायाप्रतिकृतिरानायिताऽस्ति, सा त्वया द्रष्टव्या । आवामत्र सकुशलौ स्वः । वत्सस्य सर्वतः कुशलमिच्छावः ।

  • तव माता ।

इत्थं पत्रं पठित्वा ममाश्चर्यमभूत् । चिन्तितं मया-पश्यत, इयन्ति व्यतीतानि दिनानि, नाधुनाऽपि मातुर्मद्विवाहाभिनिवेशोऽपसृतः। अस्मिन् वारे तु मातुर्वचनं पूरयितव्यमेव । परंतु तस्य महात्मनः सूा भविष्यदर्थाः वाक् किमपूर्णे स्थास्यति ? तेन तु मम भाविनी भायां प्रामान्तरीयेव दर्शितेति मम स्मृतिपथमायाति । मात्रा तु कापि काशिकैव कन्याऽवधा रिताऽस्ति। भवतु द्रक्ष्यामि किमस्ति भाग्ये लिखितमिति।'महात्मनो वचनं मिथ्या भवेदिति तु विश्वासो न भवति । श्रथाह लवपुरमुपागमम् । तत्र यन्त्रालयकार्यविशेषसम्पादने प्रयत मानस्य मे पञ्चदश दिनान्यतिजग्मुः । कार्यमपि समपद्यत । ततः परावर्त मानोऽहं मध्ये मार्ग मथुरायामवातरम् । अदृष्टपूर्वेय' पुण्यपुरी द्रष्टव्येति चिरान्मम मनीषाऽऽसीत् । दृष्ट्वा च तां भगवतो नन्दनन्दनस्य लीलावि हारभूमेिं मथुरां, गोकुलवृन्दावने च, बाढमप्रीयत ममान्तरात्मा । तस्यां पुण्यभुवि कोऽपि विशेषोऽस्ति, यः समृद्धेषु सुन्दरेष्वपि नगरान्तरेषु नोपलभ्यते-इत्यश्रद्धेनापि ममान्तरात्मना ऽनुभूतम् । ‘आगरा' नगरे दिनमेकमुषित्वा पुनरहं कर्णपुरं प्रस्थितवान् । मार्गे ‘जनसम्मर्दपरिहार पुरस्सरं सुखेन यात्रा भवत्विति मया द्वितीयश्रेणिप्रवेशपत्रं क्रीतमा २८ सीत् । तत्र व्ययस्तु भूयान् जातः, परन्तु यात्रा सुखेन समपद्यत । एता वत्पर्यन्तं मम प्रकोष्ठ अहमेवैकल श्रासम् । शकटी ‘टुंडला' स्थानमुपा गता, ततः ‘शिकोहाबादम्’ । ‘भिंड' स्थाने क्षणं विश्रम्य ततः परं 'इटावा'. माजगाम शराकटी । अत्र विंशतिकलामितं कालं शकटी स्थास्यतीति विदित्वा अहमवातरम् । इतस्ततो दत्तदृष्टिः पुरः प्राङ्गणे पर्यटितुमारभे ! विहङ्गमदृशा एकवारं तत्सकलं धूमशकटीविश्रामधाम सपूर्वापरं पर्यवेक्षे च । इत्थं परिवीक्षमाण एवाहमकस्माचकितोऽभवं चेतसि । इदं स्थानं तु मम परिचितमिव प्रातिभाति । अचिरेणैवेदं दृष्टं स्मरामि । परन्वहमनेन पथा न कदापि पूर्वमागत इति तु निश्चितम्। ओः “स्मृतम्, स्मृतम् । स्मृतिमात्र एव मम तादृगपरिमितमाश्वय समुद्भूत् यथा तस्मिन् महति सम्भ्रमे क्षणं मम हृदयमपि निःस्पन्दतामगाहत । मया परिचितम् तदेवेद् स्थल, यन्मया तस्य महात्मनः प्रसादन काचगालतामापन्न मृत्खण्ड दृष्टमासीत् । निःसन्देहं तदेवेदं स्थानम्, पुर: प्राङ्गणे सैवेयं प्रकोष्ठपङ्क्तिः स एवायं पंक्त्यन्तरगामी सेतुः, तदेवेदं सकलम्, यन्मयातदानीं सकुतूहल मवलोकिमासीत् । श्रहो कीदृशीय' तस्य महात्मनोऽचिन्त्या शक्तिः सत्यम्, साधुवो हि कर्तुमकर्तुमन्यथाकर्तु समर्था भवन्तीति । यथेदं दृश्य सत्यस्वरूपेण मम पुरः समुपस्थितम् ? तथैव तदपि दृश्य-सा सुन्दरी लोकोत्तरसुषमाशालिनी सा बालाऽपि किं मत्यस्वरूपेण मम पुरः समुप तिष्ठेत ? महात्मनो वचनस्यैकोंऽशस्त्विदानीं पूर्णः, अपरोऽपि किमिति न पूर्णो भवेत् ? यावदहं सकौतुकं सोत्कण्ठं च प्राङ्गणस्येतस्ततो दत्तदृष्टिः पश्यामि तावदेव मम दृष्टिः पंक्तयन्तरगामिनः सेतो; सोपानमार्गे सहसा निरु द्धाऽभूत् । तत्र यदृश्यं मया दृष्टं, तेन भूतलात् दूरमहमुच्छलित इवाभ वम् । क्षणं मोहो मा मावृणोदिव । सत्यमेव निरुद्धा हृदयगतिः । श्रक्ष्णो रण्यविश्वासोऽभूत् । मया समुच्छलता चेतसा विस्फार्य नयने च सम्यङ् निर्वख्र्य दृष्टम्-सैव सुन्दरी मदभिमुखमायान्ती प्रतीयतेस्म, या मयो महात्मनः कुट्यां काचगोले दृष्टपूर्वाऽऽसीत् । मया पुनः पुनर्नयने प्रमृज्य विस्फार्य च सा निर्वर्णिता । सैवाऽऽसीदिति निश्चयेनावगतम् । सैव पीताभा शाटी, सैव गजगतिः, ते एव विशाले नयने सैव किश्चित्तिर श्धीना नासा, स एव चात्यन्तपाकद्रवद्द्राक्षासपक्षोऽधरोष्ठः । कुत इयमु पागता ? किमहं स्वप्रवृत्त' पश्यामि, सत्यमेव वाऽसौ सुवर्णप्रतिमा ममा भिमुखमुपागच्छति? सहसा मम सर्वा अपीन्द्रियवृत्तयो नयनपथमवतीर्णा इव । पश्यत एव मे सा युवतिर्मयाऽधिष्ठितपूर्व द्वितीयश्रेणिकं प्रकोष्ठमे वारोहतिस्म । सा एकला नासीत् तया सह समुज्ज्वलनेपथ्या काऽप्य परा प्रौढा योषिदपि तमेव प्रकोष्ठमारुरोह । तयोः पश्चादेकोऽनुचरः शिर स्यायसीं मञ्जषां, करे चर्मपेटिकां च वहन् तत्रैव जगाम । अहं प्रवेशद्वा रोपकण्ठं स्थित्वा ते निरवर्णयम् । अनुचरेण लौहमञ्जूषातूपरितनपट्टि कायां निहिता । स्रस्तरं विस्तारितम् । मृत्कुम्भे च पानीयमापूरितम् । दर्शनेन ते उभे अपि सत्कुलीने प्रत्यभाताम्। यतः सा युवतिः परिहृत्या वगुण्ठनदम्भं तत्र निःशङ्कमतिष्ठत्, ततः सा शिक्षिता नव्यमतानुगा चाऽऽसीदिति निर्विवादमेव । द्वितीयश्रेणिकप्रकोष्ठारोहणात्तस्या धनिक ताऽपि निश्चितैवासीत् । अत्रान्तरे धूमशकटीप्रस्थानसूचकः कलचीत्कारः श्रूयतेस्म । अहमपि सलज्जं सभयंच प्रकोष्ठान्तः प्रविश्य स्वस्थाने समुपाः विशम् । मम नेत्रे हठात्तामेव सुन्दरीमन्वधावताम्। मृत्खण्डे दृष्टाया श्राकृतेस्तया सह . सर्वात्मना संवादं दृष्टाऽभूतपूर्वमाश्चर्यमहमन्वभवम् । चिराय तन्मुखनिर्वर्णनमसभ्यतास्पदं भवेदिति मया स्वोपबर्हतले निहितं तद्दिनस्य संवादपत्रं मुखाओं धृतम् । अत्रान्तरे युवत्याः सहचरी प्रौढा योषिन्मदन्तिकमेत्य मामपृच्छत्-“महाशय ! उपरितनपट्टिकायां निहितं वस्तुजातं भवत एवास्ति किम् ?मया स्वीकारसूचक शिरःकम्पं विद् धता “श्राम्, तन्ममेवाऽस्ति” इत्युत्तरितम् । भूयः सा पप्रच्छ-“कुत्र गन्तव्यमस्ति भवतः !' तां निःसङ्कोचवं भाषमाणां छष्ट्रा मयाऽपि लज्जा करणमनुचितमवधाय निर्भय' प्रतिभाषितुमारब्धम् । कदाचिदस्मिन् संलापे तस्यास्तरुण्या नामधामादिकं विवाहितत्वाविवाहितत्वं च ज्ञातं भवेत्।, मयोक्तरितम्–“कर्णपुरमहं गच्छामि ।’ साऽबूत-“श्रोः......तर्हि भवान् प्रथममेवावतरिष्यति। श्रावयोस्तु काश्यां गन्तव्यमस्ति ।' साश्धयस्य मम मुखाद्कस्मान्निगतम्-"किं काश्याम्...! तया पृष्टम्-“काशीनाम श्रुत्वैव किमिति विस्मितो भवान् ?’ यद्यपि प्रौढयव साक ममैष संवादः प्रचलन्नासीत्, तथाऽपि सा युवतिरपि मध्ये मध्ये सलज्जां दृशशं मयि क्षिपन्ती संवादे दत्तकणऽतिष्ठत् । मयोक्तरितम्--'विस्मयस्य हेतुरयमेव, यद्हमपि काश्यामेव वसामि । तत्रैवास्ति ममाऽपि गृहम् ।” ततः परं प्रौढया सह चिराय मम वार्ता लापोऽभवत्। संवादे कदाचित्सायुवतिरपि मध्ये मध्ये किंचिद्वभाषे-किन्त मया साकं न हेि, तव प्रौढया साकम्। शिक्षितयाऽपि तया सर्वथाऽप रिचितेन युवकेन सह सहसा सम्भाषणमनुचितमबधारितं स्यात् । अत्रा न्तरे तस्या विषये मया प्रायः सर्वमपि ज्ञातम् । ते द्वे श्रपि काशिके एवा स्ताम् । युवतिः प्रौढाया भागिनेय्यासीत् । प्रौढा च “इटावा'यां निव सति । युवतिश्चिराद् दृष्टां मातृष्वसारं सम्भावयितुं “इटावां'गताऽऽसीत्। “काश्यां तव विवाहो निश्चितः त्वरितमागम्यताम्' इति पित्रा प्रहितं विद्युत्सन्देशमवाप्य मातृष्वस्रा सह काशीं गच्छति । आगामिषु विवाह मुहूर्तेषु तस्या विवाहो भविष्यति । वरः काशिक एव कश्चिन्निर्धारि तोऽस्तीति । युवतिं सम्यङनिर्वण्य मया निश्चयेनावगतम्-सैवेय’ युवतिय मया मृत्खण्डे दृष्टासीत् । मृत्खण्डदृष्टतदाकृत्यपेक्षया वास्तविकीं तदाकृतिं शत गुणसौन्दर्यामवालोकयम् । सर्वभावेन तस्यां समाकृष्टश्चाभवम् । मया मनसि विन्तितम्-“तस्य महात्मनः कथनानुसारमन्यत्सर्व सम्पन्नम् । तदेवेदं धूमशकटीविश्रामधाम, सैव चेय' सुन्दरी, परं त्वस्या विवाहः काशिकेनैव केनापि वरेण निश्चितोऽस्तीति श्रृणोमि । किमेताव त्पयन्तं सर्वमपि महात्मवचनं सत्य' सम्पन्नम् , मुख्यफल' एव मम दौभाग्यात्तद्विसंवदेत किम् ? यद्यनया तरुण्या सह मम विवाहो न सम्प घेत, निश्चयेनाहं तं महात्मानं पाखण्डिनमाकलयेयम् ।' इति । “इटावा'तः कर्णपुरपयन्तं पन्थाः सुखेनातिक्रान्त । पुनरहमचि न्तय' चेतसि-अस्याः पितुनोमधामादिकं मया ज्ञातमेवाऽस्ति । स काश्यामेव वसति । तथा कोऽपि प्रयत्रो विधेयः, यथाऽस्याः पिता मयव साकमस्या विवाहमारचयेत् । भवतु, मातरं तावदुद्योजयिष्यामि । यथा तस्य महात्मनो वाणी सर्वथा सत्या प्रमाणिता भवेत् तथैव मया इत्थं चेतसि चिन्तयन्नेवाहं यथासमय ' कर्णपुरे समवातरम् । श्रवत रणसमये पुनरपि तस्यास्तरुण्याः पितुर्नाम निवासस्थानं च पृष्टा सा प्रौढा निःशङ्कं तत्कथयतिस्म । सा तरुण्यपि सलजैः कटाक्षबीक्षितैर्मा प्रैक्षत । तद्विषयेऽहं कीदृगुत्कण्ठितोऽस्मीति सा कथं जानातु । श्रस्यापि वृत्तान्तस्य सम्पन्नस्य बहून्यहान्यतीतानि । सा तरुणी सा प्रौढा च न मे स्मृतिपथादपासरताम् । ततः परमेकमासानन्तरमहं स्वगृहं काशीं प्रत्यागमम् । मया विचारितं चेतसि-यन्मार्गे दृष्टायास्तरुण्या विषये सर्वमपि मातुर प्रकटनीयम् कथनीय' च-यदनयव साकमहं विवाहं करिष्यामि नान्यया । इत्थं च मम माता येन केनाप्युपायेन ममा भीष्टं विवाहं घटयिष्यतीति । इत्थं विचिन्तयतो मम काश्यागमनाद्प रेऽहनि मात्रा सह रहसि वक्तमवसरः समुपनतः मया साहसपूर्वकमुक्तम्--“मातः ! मम हि विवाहविषये किंचिद्व क्तव्यमस्ति ।' सा साश्चर्या' जगाद्–“किं वत्स ! किमस्ति वक्तव्यम् ? ' मयोक्तम–“त्वया निश्चितं मम विवाहमुद्दिश्य व किंचिद्विवक्षामि । ” सा जगाद-“विवाहमुद्दिश्य किं विवक्षसि रे, किं पुनर्नकारपिशा चिका स्वामुपारूढा ?' श्रह्मगदम्–“न हि, न हि, नकारपिशाचिका नोपारूढा । इदमहँ विवक्षामि, भवत्या निद्धारितया कन्यया सह न मया विवाहः कर्तुमिष्यते ।’ सा साश्वयमपृच्छत्–“किं कारणं वत्स ! किं त्वया तस्या विषये कश्चिद्दोषः श्रुतः ? मया तु तस्याः कुलशीलादिकं सम्यकपरिशीलितः मस्ति । सा त्वतीव सुशीला वर्तते । किं कारणं तर्हि तव निषेधस्य ?’ अहमवद्म्-* न हि न हि, तस्या न कश्चिदपि दोषो गुणो वा मया श्रुतः । वास्तविकी कथा वियम्-मया काऽप्यपरा कन्या स्वय निश्चिताऽस्ति ।' माता ममैतेन कथनेन नभसः पपातेव । सविस्मय' चाहस्म

  • वत्स ! ललित ! कथय, कथमिदं सम्पन्नम् । त्वं तु पूर्व विवाहप्रस्ताव

मपि नाभ्यन्वजानाः, इदानीं स्वयमेव कन्या निश्चेतूमपि प्रवृत्तोऽसि । साम्प्रतिकानां यूनां पित्रोरपेक्षतैव भवति पठित्वा लिखित्वा च ते तथा न चतुराः सम्पद्यन्ते, यथा पत्रीनिर्वाचनमपि मात्रा पित्रा वा कृतं नानुम न्यन्ते । श्रस्तु कथय, का कीदृशी च कन्या त्वया निश्चिता ?’ मया लज्जमानेनोक्तरितम -“श्रत्रत्य व सा कन्याऽस्ति । अस्माकं सजातीयव । मया लवपुरात्परावर्तमानेन धूमशकट्यां सा दृष्टा । दशा श्वमेधवीथ्यां निवसतो नारायणप्रसादस्य सा कन्या किल ।' माता मुहूर्त साश्चर्य' मन्मुखं निरैक्षत । ततः परमुचैर्जहास अहं । तु मातरमकारणं हसन्तीं दृष्ट्रा बाढं सम्भ्रमे न्यपतम् । मम कथने हि किमपि हासकारणं नासीत् । अथ मम माता ततस्त्वरितमुत्थाय स्वप्रकोष्ठं गत्वा तत एकं चित्रफलकमानीय मम हस्ते द्रुत्वा सस्मितमपृच्छत् “किमेतां कन्यामुद्दिश्य व त्वं ब्रवीषि ! ’ आश्चर्यातिरेकादहं किञ्चिदपि वक्तुं न प्राभवम्। मया दृष्टम्, तचि त्रफलकं तस्याएव तरुण्या आसीत्, या मया धूमशक यां, महात्मनः कुटीरे मृत्खण्डे च दृष्टाऽऽसीत् । मया कम्पमानस्वरेण पृष्टम्-“मातः ! इदं चित्रफलकं तवान्तिके कुतः समागतम् । किं त्वमेतां कन्यां जानासि ?’ सा सशिरःकम्पं बभाषे–“श्राम, अवश्यमहं जानामि, यद्यहं न जानीयाम्, को वाऽपरो जानीयात् । अनयौव सह मया तव विवाहो निश्चितः । त्वां दर्शयितुमेवेदं चित्रफलकं मयाऽनायितमस्ति । मया पत्रेऽपीदमेव लिखितमासीत् । किं न स्मरसि ? किमहं वदेयम्. कथं वा सर्व वृत्तान्तं निवेदयेयम्-यदेकवर्षादिमां तरुणीमहं हृदये धारयामीति । परन्तु श्रयमद्भत: संयोगः सम्पन्नः , महात्मनो वाणी कथं सर्वेरङ्गः सत्या प्रमाणीभूता । किमिय' भगवतः कृपा, उत मम सौभाग्यम अथवा महात्मनः सिद्धिप्रभावः ?. • • • मम विवाहस्तयैव कन्यया सह सम्पन्नः । मया बाढमवगतम, यन्म हात्मना कथितं दर्शितं च सर्वमक्षरशः सत्यमिति । तत्राल्पीयानप्यशो न मिथ्याभूतः। कया शक्तया केन बलेन महात्मनेदं कथितं दर्शितं चेति तु नाहं मनागपि जानामि, स महात्मा च न पुनर्मया दृष्टः । श्रन्विष्यापि न लब्धः । गङ्गातटं परित्यज्य गतस्य तस्य भूयान् कालोऽतीतः । ततः प्रभृति धर्मकर्मादेः पाखण्डताकथनं मया परित्यक्तम् । साधुषु महात्मसु च मम चेतसि श्रद्धा समुद्भूत् । इदं च मयाऽवगतम् यदस्मिन् संसारे यद्यपि बहवः पाखण्डिनः सन्ति, तथाऽपि केऽपि विरलाः सत्यसिद्धा महा मानोऽपि सन्ति । शास्रमीश्वरो धर्मकर्मादि च सर्वमपियथार्थमस्ति । कदाचिन्मेघश्यामः तां घटनामधिकृत्य मां पृच्छति-“किं रे ललित ! श्रपि विश्वसिषीदानीं साधुमहात्मसिद्धषु ?; श्रहमुत्तरयामि-‘अवश्य विश्वसिमि, यदि ते वास्तविका महात्मानो भवेयुः । कृतकसिद्धषु तु न मे विश्वासः ।”