दिव्यावदानम्/अवदानम् २०१-२५०
← अवदानम् १५१-२०० | दिव्यावदानम् अवदानम् २०१-२५० [[लेखकः :|]] |
अवदानम् २५१-३०० → |
२०१.००१. <२०१>अथ राजा चन्द्रप्रभो ब्राह्मणस्यान्तिकादिदमेवम्रूपं वाक्प्रव्याहारं श्रुत्वा प्रमुदितमनाः प्रीतिविस्फारिताक्षो रौद्राक्षं ब्राह्मणमुवाच--हन्तेदं ब्राह्मण शिरोऽविघ्नतः साधु प्रगृह्यतामुत्तमाङ्गमिति।
२०१.००३. आह च--
२०१.००४. प्रियो यथा यद्यपि चैकपुत्रकस्तथापि मे खर्पमिदं गृहाण्
२०१.००६. त्वच्चिन्तितानां फलमस्तु शीघ्रं शिरःप्रदानाद्धि लभेय बोधिम्॥८॥
२०१.००८. इत्युक्त्वा स्वयमेव स्वशिरसो मौलिमपनीतवान्।
२०१.००८. यदा च राजा चन्द्रप्रभेण शिरसो मौलिरपनीतः, तत्समनन्तरमेव सर्वेषां जम्बुद्वीपकानां मनुष्याणां मौलयः पतिताः।
२०१.०१०. भद्रशिलायां च राजधान्यां चतुर्दिशमुल्कापाता दिशोदाहाश्च प्रादुर्भूताः।
२०१.०१०. नगरदेवताभिश्च शब्दो निश्चारितह्--अस्य राज्ञश्चन्द्रप्रभस्य पापब्राह्मणो शिरश्छेत्स्यतीति।
२०१.०११. तच्छ्रुत्वा महाचन्द्रमहीधरौ अग्रामात्यौ राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं शरीरपरित्यागं विदित्वा साश्रुदुर्दिदवदनौ राज्ञश्चन्द्रप्रभस्य पादौ परिष्वज्याहतुह्--धन्यास्ते पुरुषा देव य एवमत्यद्भुतरूपदर्शनं वा द्रक्ष्यन्तीरि।
२०१.०१४. तौ अभिमुखमुद्वीक्ष्यमाणौ राजनि चन्द्रप्रभे चित्तमभिप्रसाद्य रौद्राक्षे च ब्राह्मणे मैत्र्यचित्तमुत्पाद्य नावां शक्ष्यामो निरुपमगुणाधारास्य देवस्यानित्यतां द्रष्टुमिति तस्मिन्नेव मुहूर्ते कालगतौ।
२०१.०१६. कामधातुमतिक्रम्य ब्राह्मलोकमुपपन्नौ।
२०१.०१६. राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं व्यवसायं बुद्ध्वा तां च नगरनिवासिनीनां देवतानामार्तध्वनिमुपश्रुत्य भौमा यक्षा अन्तरिक्षचराश्च यक्षाः क्रिन्दितुमारब्धाह्--हा कष्टमिदानीं राज्ञश्चन्द्रप्रभस्य शरीरनिक्षेपो भविष्यतीति॥
२०१.०१९. अत्रान्तरे च राजकुलद्वारेऽनेकानि प्रणिशतसहस्राणि संनिपतितान्यभूवन्।
२०१.०१९. ततो रौद्राक्षो ब्राह्मणस्तं महाजनकायमवेक्ष्य शिरो ग्रहीतुम्।
२०१.०२१. यदि च ते शिरः परित्यक्तम्, एकान्तं गच्छाव इति।
२०१.०२२. एवमुक्ते राजा चन्द्रप्रभो रौद्राक्षं ब्राह्मणमवोचत्--एवं महाब्राह्मण क्रियताम्।
२०१.०२३. ऋद्ध्यन्तां तव संकल्पाः, परिपूर्यन्तां मनोरथा इति।
२०१.०२३. अथ राजा चन्द्रप्रभो राजा आसनादुत्थाय तीक्षणमसिमादाय येन मणिरत्नगर्भमुद्यानं तेनोपसंक्रान्तः।
२०१.०२४. अथ राजा चन्द्रप्रभस्य इदमेवम्रूपं व्यवसायं दृष्ट्वा भद्रशिलायां राजधान्यामनेकानि प्राणिशतसहस्राणि विक्रोशमानानि पृष्ठतः पृष्ठतः समनुबद्धानि।
२०१.०२६. सोऽद्राक्षीद्राजा चन्द्रप्रभो महाजनसंनिपातं विक्रोशान्तम्।
२०१.०२६. दृष्ट्वा च पुनः समाश्वासयन्नाह--अप्रमादः करणीयः कुशलेषु धर्मोष्विति।
२०१.०२७. संक्षेपेण धर्मदेशनां कृत्वा रौद्राक्षं ब्राह्मणमादाय मणिरत्नगर्भमुद्यानं प्रविष्टः।
२०१.०२८. समनन्तरप्रविष्टस्य राज्ञश्चन्द्रप्रभस्य मणिरत्नगर्भ उद्याने भद्रशिलायां छत्राणि ध्वजपताकाश्च येन मणिरत्नगर्भमुद्यानं तेनावनामिताः।
२०१.०२९. ततो राजा चन्द्रप्रभो मणिरत्नगर्भस्योद्यानस्य द्वारं पिधाय तं तं रौद्राक्षं ब्राह्मणमामन्त्रयते--प्रतिगृह्यतां ब्राह्मण ममोत्तमाङ्गमिति।
२०१.०३१. एवमुक्ते रौद्राक्षो ब्राह्मणो राजानं चन्द्रप्रभमुवाच--नाहं शक्ष्यामि देवस्य शिरश्छेत्तुमिति।
२०१.०३२. मणिरत्नगर्भस्य चोद्यानस्य मध्ये कुरबकः।
२०१.०३२. तत्र सर्वकालिकश्चम्पकवृक्षो<२०२> जातः।
२०२.००१. ततो राजा चन्द्रप्रभस्तीक्ष्णमसिं गृहीत्वा येन सर्वकालिकश्चम्पकवृक्षस्तेनोपसंक्रान्तः।
२०२.००२. अथ या देवतास्तस्मिन्नुद्यानेऽध्यवसिताः, ता राज्ञश्चन्द्रप्रभस्येदमेवम्रूपं स्वशरीरपरित्यागं विदित्वा विक्रोष्टुमारब्धाः।
२०२.००३. एवं चाहुह्--कथमिदानीं त्वं पापब्राह्मण राज्ञश्चन्द्रप्रभस्यादूषिणोऽनपकारिणो महाजनवत्सलस्यानेकगुणसम्पन्नस्य शिरश्छेत्स्यसीति? ततो राजा चन्द्रप्रभ उद्यानदेवता निवारयति--मा देवता मम शिरोयाचनकस्यान्तरायं कुरुत्
२०२.००६. तत्कस्य हेतोह्? भूतपूर्वं देवता ममोत्तमाङ्गं याचनकस्य देवताया अन्तरायः कृतः।
२०२.००७. तया देवतया बहु अपुण्यं प्रसूतम्।
२०२.००७. तत्कस्य देतोह्? यदि तया देवतया अन्तरायो न कृतोऽभविष्यत्, मया लघु लघ्वेवानुत्तरज्ञानमधिगतमभविष्यत् ।
२०२.००८. अतश्च त्वामहमेवं ब्रवीमि--मा मे त्वमुत्तमाङ्गयाचनकस्यान्तरायं कुरुष्वेति।
२०२.००९. अस्मिन्नेव ते मणिरत्नगर्भ उद्याने मया सहस्रशः शिरःपरित्यागः कृतः, न च मे केनचिदन्तरायः कृतः।
२०२.०१०. तस्मात्त्वं देवते ममोत्तमाङ्गयाचनकस्यान्तरायं मा कुरु।
२०२.०११. एष एव देवते स पृष्ठीभूतो मैत्रेयो यो व्याघ्र्या आत्मानं परित्यज्य चत्वारिंशत्कल्पसम्प्रस्थितो मैत्रेयो बोधिसत्त्व एकेन शिरःपरित्यागेनावपृष्ठीकृतः।
२०२.०१३. अथ सा देवता राज्ञश्चन्द्रप्रभस्य महर्द्धितामवेत्य तस्मिन् राजनि परं प्रसादं प्रवेदयन्ती तूष्णीमवस्थिता।
२०२.०१४. अथ राजा चन्द्रप्रभः सम्यक्प्रणिधानं कर्तुमारब्धह्--शृण्वन्तु भवन्तः, ये दशादिक्षु स्थिता देवतासुरगरुडगन्धर्वकिन्नरा अध्युषिताः, इहाहमुद्याने त्यागं करिष्यामि, अस्मिंस्त्यागं स्वशिरःपरित्यागं येन चाहं सत्येन स्वशिरः परित्यजामि, न राज्यार्थाय न स्वर्गार्थाय न भोगार्थाय न शक्रत्वाय न ब्रह्मत्वाय न चक्रवर्तिविजयाय नान्यत्र कथमहमनुत्तरां सम्यक्सम्बोधिमभिसम्बुद्ध्य अदान्तान् सत्त्वान् दमयेयम्, अशान्ताञ्शमयेयम्, अतीर्णांस्तारयेयम्, अमुक्तान्मोचयेयम्, अनाश्वस्तानाश्वासयेयम्, अपरिनिर्वृतान् परिनिर्वापयेयम्।
२०२.०२०. अनेन सत्येन सत्यवचनेन सफलः परिश्रमः स्यात्, परिनिर्वृतास्य च सर्षपफलप्रमाणधातवो भवेयुः, अस्य च मणिरत्नगर्भस्योद्यानस्य मध्ये महान् स्तूपः स्यात्सर्वस्तूपप्रतिविशिष्टः।
२०२.०२२. ये च सत्त्वाः शान्तकाया महाचैत्यं वन्दितुकामा गच्छेयुः, ते तं सर्वस्तूपप्रतिविशिष्टं धातुपरं दृष्ट्वा विश्रान्ता भवेयुः।
२०२.०२३. परिनिर्वृतस्यापि मम चैत्येषु, जनकाया आगत्य कारां कृत्वा स्वर्गमोक्षपरायाणा भवेयुरिति।
२०२.०२४. एवं सम्यक्प्रणिधानं कृत्वा तस्मिंश्चम्पकवृक्षे शिखां बद्ध्वा रौद्राक्षं ब्राह्मणमुवाच--आगच्छ महाब्राह्मण, प्रतिगृह्यताम्।
२०२.०२६. मा मे विघ्नं कुरुष्वेति।
२०२.०२७. ततो राजा चन्द्रप्रभ आत्मनः कायस्य स्थाम च बलं च संजन्य तस्मिंश्च ब्राह्मणे करुणासहगतं मैत्रचित्तमुत्पाद्य शिरशिछत्त्वा रौद्राक्षाय ब्राह्मणाय निर्यातितवान्।
२०२.०२८. कालं च कृत्वा अतिक्रम्य ब्रह्मलोकं प्रणीतत्वाच्छुभकृत्स्ने देवनिकाये उपपन्नः।
२०२.०२९. समनन्तरपरित्यक्ते राज्ञा चन्द्रप्रभेण शिरसि अयं त्रिसाहस्रमहासाहस्रो लोकधातुस्त्रिः कम्पितः संकम्पितः संप्रकम्पितः, चलितः संचलितः संप्रचलितः, व्यधितः प्रव्याधितः संप्रव्याधितः।
२०२.०३१. गगनतलस्थाश्च देवता दिव्यान्युत्पलानि क्षेप्तुमारब्धाः, पद्मानि कुमुदानि पुण्डरीकान्यगरुचूर्णानि तगरचूर्णानि चन्दनचूर्णानि तमालपत्राणि दिव्यानि <२०३>मान्दारवाणि पुष्पाणि, दिव्यानि च वाद्यानि प्रवादयित्मारब्धाः, चैलविक्षेपांश्च चाकर्षुः।
२०३.००२. ततो रौद्राक्षो ब्राह्मणः शिरोग्रहायोद्यानान्निर्गतः।
२०३.००२. अथास्मिन्नन्तरेऽनेकैः प्राणिशतसहस्रैर्नादो मुक्तह्--हा कष्टम्।
२०३.००३. प्रघातितो देवः सर्वजनमनोरथपरिपूरक इति।
२०३.००३. तत एकत्याः पृथिव्यामावर्तन्ते परिवर्तन्ते, एके बाहुभिः प्रक्रोशन्ति, काश्चित्प्रकीर्णकेश्यो रुदन्ति।
२०३.००४. अनेकानि च प्राणिशतसहस्राणि संनिपतितानि।
२०३.००५. तत एकत्यास्तस्मिन्नेव प्रदेशे स्थित्वा ध्यानान्युत्पाद्य तत्रैव कालं कृत्वा शुभकृत्स्ने देवनिकाये उपपन्ना राज्ञश्चन्द्रप्रभस्य सभागतायाम्।
२०३.००६. अपरे ध्यानान्युत्पाद्य तत्रैव कालं कृत्वा भास्वरे देवनिकाये उपपन्नाः।
२०३.००७. अपरे प्रथमध्यानमुत्पाद्य कालं कृत्वा ब्रह्मलोकसभागतायामुपपन्नाः।
२०३.००८. अपरैः संनिपात्य राज्ञश्चन्द्रप्रभस्य शरीरं सर्वगन्धकाष्ठैश्चितां चित्वा, ध्मापितानि च अस्थीनि सौवर्णकुम्भे प्रक्षिप्य, चतुर्महापथे शरीरस्तूपः प्रतिष्टापितः।
२०३.०१०. छत्रध्वजपताकाश्चारोपिताः।
२०३.०१०. गन्धैर्माल्यैर्धूपैर्दीपैः पुष्पैः पूजां कृत्वा चन्द्रप्रभे राजनि स्वचित्तमभिप्रसाद्य कालगताः षट्सु देवनिकायेषु कामावचरेषु देवेषूपपन्नाः।
२०३.०१२. यैश्च तत्र काराः कृताः, सर्वे ते स्वर्गमोक्षपरायणाः संवृत्ता इति॥
२०३.०१३. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा अन्या सा तेन कालेन समयेनोत्तरापथे भद्रशिला नाम राजधान्यभूदिति।
२०३.०१४. न खलु एवं द्रष्ट्व्यम्।
२०३.०१४. तत्कस्य हेतोह्? एषैव सा तक्षशिला तेन कालेन तेन समयेन भद्रशिला नाम राजधानी बभूव्
२०३.०१५. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेनोत्तरापथे भद्रशिला नाम राजधान्यभूदिति।
२०३.०१४. न खलु एवं द्रष्टव्यम्।
२०३.०१४. तत्कस्य हेतोह्? एषैव सा तक्षशिला तेन कालेन तेन समयेन भद्रशिला नाम राजधानी बभूव्
२०३.०१५. स्यात्खलु युष्माकं भिक्षुवः काङ्क्षा वा विमतिर्वा अन्यः स तेन कालेन तेन समयेन चन्द्रप्रभो नाम राजाभूदिति।
२०३.०१७. न खलु एवं द्रष्टव्यम्।
२०३.०१७. तत्कस्य हेतोह्? अहमेव तेन कालेन तेन समयेन राजा चन्द्रप्रभो बभूव्
२०३.०१८. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यः स तेन कालेन तेन समयेन रौद्राक्षो नाम ब्राह्मणोऽभूदिति।
२०३.०१९. न खल्वेवं द्रष्टव्यम्।
२०३.०१९. तत्कस्य हेतोह्? एष एव स तेन कालेन तेन समयेन देवदत्तो बभूव्
२०३.०२०. स्यात्खलु युष्माकं भिक्षवः काङ्क्षा वा विमतिर्वा--अन्यौ तौ तेन समयेन महाचन्द्रमहीधरौ अग्रामात्यौ बभूवतुरिति।
२०३.०२०. न खल्वेवं द्रष्टव्यम्।
२०३.०२२. तत्कस्य हेतोह्? एतावेव महाचन्द्रमहीधरौ अग्रामात्यौ शारिपुत्रमौद्गल्यायनौ बभूवतुः।
२०३.०२३. तदाप्येतौ तत्प्रथमतः कालगतौ, न त्वेव पुतृमरणमारागितवन्तौ इति॥
२०३.०२४. इदमवोचद्भगवान्।
२०३.०२४. आत्तमनसस्ते भिक्षवोऽन्ये च देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगादयो भगवतो भाषितमभ्यनन्दन्॥
२०३.०२६. चन्द्रप्रभबोधिसत्त्वचर्यावदानं नाम द्वाविंशतिमम्।
अfतेर्थिस्, ंस्स्. अद्द्:
तथा च चन्द्रप्रभभूपतिर्भूते
मणिकनकरजतवैड्र्रुयेन्द्रनीलादिद्रविणवसनयानभोजनालांकारग्रामनगरनिगमविषयराज्यादयो
राज्यरथसुतकलत्रमांसरुधिरकरचरणशिरोक्षिग्रीवादिसर्वपरित्यागमन्तरेण
दुर्गतिजननमरणजराकरचरणकरणविकलताप्रियवियोगादितरदुःखोपनिपातभयाभिहतजनपरित्राणकरणसमर्था
सकलभुवनाधिपत्याभिषेकमहती गाथाधुनी गुणसमृद्धिर्न
शक्यतेऽधिगन्तुमिति
कारुण्यादशेषजगद्दुःखोपशमकृतनिश्चयह्
प्रणतसकलसामन्तचूडामणिमयूखाविच्छुरितपादपीठह्
तुरगगजरथवस्त्रालंकारादिपरित्यागेन
परीपूरितनिरवशेषजाम्बूद्वीपकजनमनोरथह्
सकलजनमनोनयनहारी शिरः परित्यक्तवान्।
कथमित्येवमनुश्रूयते इति॥
- अवदान २३ **********
- अवदान २३ **********
२०४.००१. दिव्२३ सङ्घरक्सितावदानम्।
२०४.००२. किं महाल्लेनाधिगतम्? एकोत्तरिका।
२०४.००२. अयं तावत्खुस्तिकया एकोत्तरिकया धर्मं देशयति--अमी भिक्षवो धर्मकथिका युंक्तमुत्कमुक्तप्रतिभानाः।
२०४.००३. कस्मान्नैतानध्येषयसि? स तैरभिहितह्--महल्ल, किं त्वया अधिगतम्? स कथयति--एकोत्तरिका।
२०४.००४. ते कथयन्ति--त्वं तावन्महल्ल खुस्तिकया एकोत्तरिकया धर्मं देशयसि।
२०४.००५. अमी भिक्षवस्तृपिता धर्मकथिका युक्तमुक्तप्रतिभानाः।
२०४.००६. कस्मान्नैतानध्येषयसि? स कथयति--आर्याः, यूयं कस्यार्थे न देशयत? किमहं निवारयामीति? ते कथयन्ति--नन्दोपनन्द, प्रतिवदत्येषोऽस्माकं महल्लः।
२०४.००७. कुरुत अस्योत्क्षेपणीयं कर्म्
२०४.००८. स संलक्षयति--यदि मे उत्क्षेपणीयं कर्म करिष्यन्ति, नागभवनेऽप्यहमवकाशं न लप्स्य्
२०४.००९. स तेषां शयितकानां तं विहारमन्तर्हापयित्वा महासमुद्रं प्रविष्टः।
२०४.००९. ते वालुकास्थले शयितकास्तिष्ठन्ति।
२०४.०१०. नन्दोपनन्द, उत्तिष्ठ सिंहासनं प्रज्ञापय, धर्मं देशयामः।
२०४.०१०. ते कथयन्ति--कोऽप्यसौ देवो वा नागो वा यक्षो वा भगवत्यभिप्रसन्नो बुद्धे धर्मे संघे कारान् कुर्वन्, सोऽस्माभिर्विहेठितः।
२०४.०१२. एतत्प्रकरणं भिक्षवो भगवत आरोचयन्ति।
२०४.०१२. भगवानाह--योऽसौ भिक्षवो निर्मितो यदि षड्वर्गिकैर्भिक्षुभिर्न विहेठितोऽभविष्यत्, यावच्छासनकोटिमुद्धाटको बुद्धे धर्मे संघे कारानकरिष्यत् ।
२०४.०१४. भगवान् संलक्षयति--यः कश्चिदादीनवो भिक्षवः, अनधीष्टो धर्मं देशयति, तस्मान्न भिक्षुणानधीष्टेन धर्मो देशयितव्यः।
२०४.०१५. भिक्षुरनधीष्टो धर्मं देशयति, सातिसारो भवति।
२०४.०१६. अनापत्तयस्तन्मुखिकया निर्गता भवन्ति॥
२०४.०१७. श्रावस्त्यां बुद्धरक्षितो नाम गृहपतिः प्रतिवसति आढ्यो महाधनो महाभोगः।
२०४.०१७. तेन सदृशात्कुलात्कलत्रमानीतम्।
२०४.०१८. स तया सार्धं क्रीडते रमते परिचारयति।
२०४.०१८. तस्य क्रीडतो रमतः परिचारयतः पत्नी आपन्नसत्त्वा संवृत्ता।
२०४.०१९. आयुष्माञ्शारिपुत्रो वैनेयापेक्षया तत्कुलमुपसंक्रान्तः।
२०४.०२०. तेन स गृहपतिः सपत्नीकः शरणगमनशिक्षापदेषु प्रतिक्ष्ठापितः।
२०४.०२०. अपरेण समयेन सा तस्य पत्नी आपन्नसत्त्वा सवृत्ता।
२०४.०२१. आयुष्माञ्शारिपुत्रस्तस्य च वैनेयकालं ज्ञात्वा एकाक्येव तत्कुलमुपसंक्रान्तः।
२०४.०२२. स गृहपतिः कथयति--नास्त्यार्यशारिपुत्रस्य कश्चित्पश्चाच्छ्रमणह्? स कथयति--गृहपते, किमस्माकं काशधानाद्वा कुशधानाद्वा पश्चाच्छ्रमणा भवन्ति? अपि तु ये भवद्विधानां सकाशाल्लभ्यन्ते, अस्माकं ते पश्चाच्छ्रमणा भवन्ति।
२०४.०२५. बुद्धरक्षितो गृहपतिह्--आर्य, मम पत्नी आपन्नसत्त्वा संवृत्ता।
२०४.०२५. यदि पुत्रं जनयिष्यति, तमहमार्यस्य पश्चाच्छ्रमणं दास्यामि।
२०४.०२६. स कथयति--गृहपते, औपयिकम्॥
२०४.०२७. सा अष्टानां वा नवानां वा मासानाम् {अत्ययात्} प्रसूता।
२०४.०२७. दारको जातोऽभिरूपो दर्शनीयः प्रासादिको गौरः कनकवर्णश्छत्राकारशिराः प्रलम्बबाहुर्विस्तीर्णललाटः संगतभ्रूस्तुङ्गनासः।
२०४.०२९. तस्य ज्ञातयः संगम्य त्रीणि सप्तकान्येकविंशतिदिवसानि विस्तरेण जातस्य जातिमहं कृत्वा नामधेयं व्यवस्थापयन्ति--किं भवतु दारकस्य नाम? अयं दारको बुद्धरक्षितस्य गृहपतेः पुत्रः।
२०४.०३१. भवतु दारकस्य संघरक्षितो नाम्
२०४.०३१. यस्मिन्नेव दिवसे संघरक्षितो जातः, तस्मिन्नेव दिवसे पञ्चानां वणिक्शतानां पञ्च पुत्रशतानि जातानि।
२०४.०३२. तेषामपि कुलसदृशानि <२०५>नामधेयानि व्यवस्थापितानि।
२०५.००१. संघरक्षितो दारक उन्नीयते वर्ध्यते क्षीरेण दध्ना नवनीतेन सर्पिषा सर्पिमण्डेन अन्यैश्चोत्तप्तोत्तप्तैरुपकरणविशेषैः।
२०५.००२. आशु वर्धते ह्रदस्थमिव पङ्कजम्।
२०५.००३. यदा महान् समृत्तः, तदा आयुष्माञ्शारिपुत्रस्तस्य वैनेयकालं ज्ञात्वा एकाक्येव तत्कुलमुपसंक्रम्य निमित्तमुपदर्शयितुमारब्धः।
२०५.००४. बुद्धरक्षितेन गृहपतिना संघरक्षितोऽभिहितह्--पुत्र, अजात एव त्वं मया आर्यशारिपुत्रस्य पश्चाच्छ्रमणो दत्त इति।
२०५.००६. चरमभविकः स आयुष्मता शारिपुत्रेण प्रव्राजित उपसम्पादित आगमचतुष्टयं च ग्राहितः॥
२०५.००७. अथापरेण समयेन तानि पञ्च वणिक्शतानि महासमुद्रगमनीयं पण्यं समुदानीय महासमुद्रमवतर्तुकामानि कथयन्ति--किंचिद्वयं भवन्त आर्यकमवतारयाम योऽस्माकं महासौद्रमध्यगतानां धर्मं देशयिष्यति।
२०५.००९. ते कथयति--भवन्तः, अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः।
२०५.०१०. एतमेवावतारयामः।
२०५.०१०. ते तस्य सकाशमुपसंक्रान्ताः।
२०५.०१०. आर्य संघरक्षित, त्वमस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः।
२०५.०११. वयं च महासमुद्रं संप्रस्थिताः।
२०५.०१२. त्वमप्यस्माभिः सार्धमवतर, समुद्रमध्यगतानां धर्मं देशयिष्यसि।
२०५.०१२. स कथयति--नाहं स्वाधीनः।
२०५.०१३. उपाध्यायमवलोकयत्
२०५.०१३. ते येनायुष्माञ्शारिपुत्रस्तेनोपसंक्रान्ताः।
२०५.०१३. उपसंक्रम्य कथयन्ति--आर्य शारिपुत्र, अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः।
२०५.०१४. वयं महासमुद्रं संप्रस्थिताः।
२०५.०१५. एषोऽप्यस्माभिः सार्धमवतरतु, अस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति।
२०५.०१६. स कथयति--भगवन्तमवलोकयत्
२०५.०१६. ते भगवतः सकाशमुपसंक्रान्ताः।
२०५.०१६. भगवन्, वयं महासमुद्रं संप्रस्थिताः।
२०५.०१७. अयमस्माकमार्यसंघरक्षितो वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः।
२०५.०१८. एषोऽप्यस्माभिः सार्धं महासमुद्रमवतरतु।
२०५.०१८. अस्माकं महासमुद्रमध्यगतानां धर्मं देशयिष्यति।
२०५.०१९. भगवान् संलक्षयति--अस्त्येषां कानिचित्कुशलमूलानि? अस्ति।
२०५.०१९. कस्यान्तिके प्रतिबुद्धानि? संघरक्षितस्य भिक्षोः।
२०५.०२०. तत्र भगवान् संघरक्षितमामन्त्रयते--गच्छ संघरक्षित, भयभैरवसहिष्णुना भवितव्यम्।
२०५.०२१. अधिवासयत्यायुष्मान् संघरक्षितो भगवतस्तूष्णीभावेण् ।
२०५.०२३. अथ तानि पञ्च वणिक्शतानि कृतकौतुकमङ्गलस्वस्त्ययनानि शक्टैर्भारैर्मूढैः पिटकैरुष्ट्रैर्गोभिर्गर्दभैः प्रभूतं पण्यमारोप्य महासमुद्रं संप्रस्थितानि।
२०५.०२५. ते निपुणतः समुद्रयानपात्रं प्रतिपद्य महासमुद्रमवतीर्णा धनहारकाः।
२०५.०२६. तेषां महासमुद्रमध्यगतानां नागैर्वहनं विधारितम्।
२०५.०२७. ते देवतायाचनं कर्तुमारब्धाह्--योऽस्मिन्महासमुद्रे देवो वा नागो वा यक्षो वा प्रतिवसति, स आचक्षतु किं मृगयतीति।
२०५.०२८. महासमुद्राच्छब्दो निश्चरति--आर्यसंघरक्षितमस्माकमनुप्रयच्छथेति।
२०५.०२९. ते कथयति--आर्यसंघरक्षितोऽस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनको भदन्तशारिपुत्रेणानुप्रदत्तको भगवतानुपरीतकः।
२०५.०३०. श्रेयोऽस्माकमनेनैव सार्धं कालत्रिया, न त्वेन वयं संघरक्षितं परित्यक्ष्यामः।
२०५.०३१. ते मन्त्रयन्ते आयुष्मता संघरक्षितेन श्रुताः।
२०५.०३२. स कथयति--भवन्तः, किं कथयन्ते? कथयन्ति--आर्य संघरक्षित महासमुद्राच्छब्दो <२०६>निश्चरितह्--आर्यसंघरक्षितमस्माकमनुप्रयच्छथेति।
२०६.००१. स कथयति--कस्मान्नानुप्रयच्छध्वम्? ते कथयन्ति--आर्य, त्वमस्माकं वयस्यकः सहजन्मिकः सहपांशुक्रीडनकः।
२०६.००२. भदन्तशारिपुत्रेणानुप्रदत्तको भगवतानुप्रदत्तकः।
२०६.००३. श्रेयोऽस्माकं त्वयैव सार्धं कालक्रिया।
२०६.००३. न त्वेव वयमार्य संघरक्षित त्वां परित्यक्ष्यामः।
२०६.००४. आयुष्मान् संघरक्षितः संलक्षयति--यदुक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यमितीदं तत् ।
२०६.००५. स पात्रचीवरं गृहीत्वा आत्मानं महासमुद्रे प्रक्षेप्तुमारब्धः।
२०६.००६. स तैर्दृष्टः।
२०६.००६. ते कथयन्ति--आर्यसंघरक्षित किं करोषि, आर्यसंघरक्षित किं करोषीति।
२०६.००६. स तेष विक्रोशतां महासमुद्रे प्रपतितः।
२०६.००७. मुक्तं तद्वहनम्।
२०६.००७. स नागैर्गृहीत्वा नागभवनं प्रवेशितः॥
२०६.००८. आर्य संघरक्षित, इयं विपश्यितः सम्यक्सम्बुद्धस्य गन्धकुटी।
२०६.००८. इयं शिखिनो विश्वभुवः क्रकुच्छन्दस्य कनकमुनेः काश्यपस्येयं भगवतो गन्धकुटी।
२०६.००९. आर्य संघरक्षित, भगवतः सूत्रं मातृका च देवमनुष्येषु प्रतिष्ठितम्।
२०६.०१०. वयं नागा विनिपतितशरीराः।
२०६.०१०. अहो बत, आर्यः संघां रक्षित इहाप्यागमचतुष्टयं प्रतिष्ठापयेत् ।
२०६.०११. स कथयति--एवं भवतु।
२०६.०११. तेन त्रयो नाग्कुमारा उत्साहिताः।
२०६.०१२. एकोऽभिहितह्--त्वं तावत्सम्युक्तकमधीष्व्
२०६.०१२. द्वितीयोऽभिहितह्--त्वमपि मध्यमम्।
२०६.०१३. तृतीयोऽभिहितह्--त्वमपि दीर्घममधीष्व्
२०६.०१३. स कथयति--अहमपि तामेवैकोत्तरिकां विमृष्टरूपां प्रज्वालयामि।
२०६.०१४. तेऽध्येतुमारब्धाः।
२०६.०१४. तत्रैकश्चक्षुषी निमीलियत्वोद्वेशं गृह्णाति, द्वितीयः पृष्ठतोमुख उद्देशं गृह्णाति, तृतीयो दूरतः स्थित्वोद्देशं गृह्णाति।
२०६.०१५. स एव तेषामेकः सगौरवः सप्रतीश इति करणीयैश्च सर्वत्र पूर्वंगमः।
२०६.०१६. आर्य उत्तिष्ठ, दन्तकाष्ठ, दन्तकाष्ठं विसर्जय, भगवतो मण्डलकमामार्जय, चैत्याभिवन्दनं कुरु, भुङ्क्ष्व, शय्यां कल्पयेति।
२०६.०१७. सर्वैस्तैरागमान्यधीतानि।
२०६.०१८. स कथयति--आर्य, अधीतान्येभिरागमानि।
२०६.०१८. किं धारयिष्यन्ति आहोस्विन्नधारयिष्यन्ति? स कथयति--स्मृतिमत्तका ह्येते धारयिष्यन्ति, अपि तु दोषोऽस्त्येषाम्।
२०६.०१९. स कथयति--आर्य, को दोषह्? सर्वे ह्येतेऽगौरवा अप्रतीशाः।
२०६.०२०. एकस्तावच्चक्षुषी निमीलयित्वोद्वेशं गृह्णाति, द्वितीयः पृष्टतोमुख उद्देशं गृह्णाति, तृतीयो दूरतः स्थित्वोद्देशं गृह्णाति।
२०६.०२१. त्वमेवैकः सगौरवः सप्रतीश इति करणीयैश्च सर्वत्र पूर्वंगमः।
२०६.०२२. स कथयति--आर्य, न ह्येतेऽगौरवा अप्रतीशाः।
२०६.०२३. यस्तावदयं चक्षुषी निमीलयित्वोद्देशं गृह्णाति, अयं दृष्टिविषः।
२०६.०२३. योऽप्ययं पृष्ष्ठतोमुख उद्देशं गृह्णाति, एषोऽपि श्वासविषः।
२०६.०२४. योऽप्येष दूरतः स्थित्वोद्देशं गृह्णाति, एषोऽपि स्पर्शविषः।
२०६.०२५. अहमेको दंष्ट्राविषः।
२०६.०२५. स भीत उत्पाण्डूत्पाण्डुकः कृशालुको दुर्बलको म्लानकोऽप्राप्तकायः संवृत्तः।
२०६.०२६. स कथयति--आर्य, कस्मात्त्वमुत्पाण्डूत्पाण्डुकः कृशालुको दुर्बलको म्लानकोऽप्राप्तकायः संवृत्तह्? स कथयति--भद्रमुख, अमित्रमध्येऽहं वासं कल्पयामि।
२०६.०२८. सचेत्युष्माकमन्यतमोऽन्यतमं प्रकुप्येत, मां नामावशेषं कुर्यात् ।
२०६.०२८. स कथयति--आर्यास्य वयं न प्रहरामः।
२०६.०२९. अपि तु इच्छसि त्वं जम्बुद्वीपं गन्तुम्? भद्रमुख, इच्छामि।
२०६.०३०. तच्च वहनमागतम्।
२०६.०३०. स तैरुत्क्षिप्तः॥
२०६.०३१. विणिग्भिर्दृष्टः।
२०६.०३१. ते कथयन्ति--स्वागतमार्यसंघरक्षिताय्
२०६.०३१. स कथयति--अनुमोदन्तां भवन्तः।
२०६.०३२. मया नागोष्वागमचतुष्टयं प्रतिष्ठापितम्।
२०६.०३२. ते कथयन्ति--आर्य संघरक्षित, अनुमोदयामह्<२०७>।
२०७.००१. ते तं वहने प्रक्षिप्य संप्रस्थिताः।
२०७.००१. तेऽनुपूर्वेण समुद्रतीरं गत्वा सर्वे ते वणिजः शयिताः।
२०७.००२. आयुष्मान् संघरक्षितो महासमुद्रं द्रष्टुमारब्धः।
२०७.००२.उक्तं भगवता--पञ्चसेचनका दर्शनेन्
२०७.००४. हस्तिनागश्च राजा च सागरश्च शिलोच्चयः।
२०७.००५. असेचनका दर्शनेन बुद्धश्च भगवतां वरः॥१॥ इति।
२०७.००६. चिरं महासमुद्रं पश्यञ्जागरितः।
२०७.००६. सोऽपश्चिमे यामे गढनिद्रावष्टब्धः शयितः।
२०७.००७. तेऽपि वणिजः सरात्रमेवोत्थाय स्थोराम्ल्लर्दयित्वा संप्रस्थिताः।
२०७.००७. ते कथयन्ति प्रभातायां रजन्याम्--कुत्रायं संघरक्षितह्? तत्रैक एवमाहुह्--पुरस्ताद्गच्छति।
२०७.००९. अपर एवमाहुह्--पृष्ठत आगच्छति।
२०७.००९. ते कथयन्ति--आर्यसंघरक्षितोऽस्माभिश्छोरितः।
२०७.०१०. न शोभनमस्माभिः कृतम्।
२०७.०१०. प्रतिनिवर्तयामः।
२०७.०१०. आर्यसंघरक्षितो भवन्तो महर्द्धिको महानुभावो यः समुद्रमध्ये न कालगतः।
२०७.०११. स इदानीं कालं करिष्यति? स्थानमेतद्विद्यते यदसौ अग्रत एव यास्यति।
२०७.०१२. आगच्छत, गमिष्यामः।
२०७.०१२. ते संप्रस्थिताः॥
२०७.०१३. आयुष्मानपि संघरक्षितः सूर्यस्याभ्युद्गमनसमये सूर्यांशुभिस्ताडितः प्रतिबुद्धो यावन्न किंचित्पश्यति।
२०७.०१४. प्रक्रान्ता वणिजः।
२०७.०१४. सोऽपि पन्थलिकां गृहीत्वा संप्रस्थितः।
२०७.०१४. यावदन्यतमस्यां सालाटव्यां विहारं पश्यत्युद्गतं मञ्चपीठवेदिकाजालवातायनगवाक्षपरिमण्डितम्, भिक्षूंश्च संप्रावृतान् संप्रच्छन्नाञ्शान्तेनेर्यापथेनावस्थितान्।
२०७.०१६. स तेषां सकाशमुपसंक्रान्तः।
२०७.०१६. स तैरुक्तह्--स्वागतं भदन्तसंघरक्षिताय्
२०७.०१७. स तैर्विश्रामितः।
२०७.०१७. विश्रामयित्वा विहारं प्रवेशितो यावत्पश्यति शोभनां शयनासनप्रज्ञप्तिं कृतां प्रणीतं चाहारमुपहृतम्।
२०७.०१८. स तैरुक्तह्--भदन्त संघरक्षित, मा तृषितोऽसि, मा बुभुक्षितोऽसि? कथयति--आर्याः, तृषितोऽस्मि, बुभुक्षितोऽस्मि।
२०७.०१९. भदन्त संघरक्षित भुङ्क्ष्व्
२०७.०२०. स कथयति--संघमध्ये मोक्ष्यामि।
२०७.०२०. ते कथयन्ति--भदन्त संघरक्षित, मुङ्क्ष्व, आदीनवोऽत्र भविष्यति।
२०७.०२१. तेन मुक्तम्।
२०७.०२१. स भुक्त्वा एकान्तेऽपक्रम्यावस्थितः।
२०७.०२१. यावत्तेषां गण्डराकोटिता।
२०७.०२२. ते स्वकास्वकानि पात्राण्यादाय यथागत्य निषण्णः।
२०७.०२२. स च तेषां विहारोऽन्तर्हितः।
२०७.०२३. अयोमुद्गताः प्रादुर्भूतम्।
२०७.०२३. तैस्तावदयोमुद्गरैः परस्परमार्तस्वरं क्रन्दद्भिः शिरांसि भग्नानि, यावत्कालादकालीभूतम्।
२०७.०२४. ततः पश्चात्पुनरपि तेषां विहारः प्रादुर्भूतः, ते च भिक्षवः शान्तेनेर्यापथेनावस्थिताः।
२०७.०२५. आयुष्मान् संघरक्षितस्तेषां सकाशमुपसंक्रान्तः।
२०७.०२६. के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? भदन्त संघरक्षित, दुष्कुहका जम्बुद्वीपका मनुष्याः।
२०७.०२७. नाभिश्रद्दधास्यसि।
२०७.०२७. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित, वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्।
२०७.०२८. तैरस्माकं भक्ताग्रे रणमुत्पादितम्।
२०७.०२९. ते वयं भक्ताग्रे रणमुत्पादयित्वा इह प्रत्येकनरकेषूपपन्नाः।
२०७.० थानमेतद्विद्यते यदस्माभिरितश्च्युतैर्नरकृषूपपत्तव्यं भविष्यति।
२०७.०३०. साधु संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय--मा आयुष्मन्तः संघमध्ये रणमुत्पादयिष्यथ्
२०७.०३१. मा अस्यैवम्रूपस्य दुःखदौर्मनस्यस्य भागिनो भविष्यथ तद्यथा श्रमणाः काश्यपीयाः॥
२०८.००१. <२०८>स संप्रस्थितः।
२०८.००१. यावत्पश्यति द्वितीयं विहारमुद्गतं मञ्चपीठवेदिकाजालवातायनपरिक्षिप्तं गवक्षपरिमण्डितं भिक्षूंश्च सुप्रावृतान् सुप्रतिच्छन्नाञ्शान्ताञ्शान्तेर्यापथे व्यवस्थितान्।
२०८.००३. तेषामुपसंक्रान्तः।
२०८.००३. स तैरुक्तह्--स्वागतं भदन्तसंघरक्षिताय्
२०८.००३. स तैर्विश्रामितः।
२०८.००४. विश्रामयित्वा विहारं प्रवेशितो यावत्पश्यति।
२०८.००४. शोभनां शयनासनप्रज्ञप्तिः कृत्वा प्रणीतं चाहारं समन्वाहृत्य स तैरुक्तह्--भदन्त संघरक्षित मुङ्क्ष्व्
२०८.००५. तेन दृष्टादीनवेन भुक्तम्।
२०८.००५. मुक्त्वा एकान्तेऽपक्रम्यास्थितः।
२०८.००६. तेषां गण्ड्याकोटिता।
२०८.००६. ते स्वकस्वकानि पात्राण्यादाय यथागत्य निषण्णाः।
२०८.००७. स च विहारोऽन्तर्हितः, तदन्नपानमयोरसं प्रादुर्भूतम्।
२०८.००७. तैरातस्वरं क्रन्दद्भिस्तावदयोरसेन परस्परमात्मा सिक्तो यावत्कालदकालीभूतम्।
२०८.००८. ततः पश्चात्पुनरपि स तेषां विहारः प्रादुर्भूतः।
२०८.००९. ते च भिक्षवः पुनरपि शान्ताः शान्तेर्यापथेनावस्थिताः।
२०८.००९. स तेषां सकाशमुपसंक्रान्तह्--के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? दुष्कुहका भदन्त संघरक्षित जम्बुद्वीपका मनुष्याः, नाभिश्रद्दद्धास्यन्ति।
२०८.०११. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित, वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्।
२०८.०१३. संघस्य च स्नेहलाभे संपन्ने आगन्तुका भिक्षव आगताः।
२०८.०१३. तैरस्माभिरनार्यपरिगृहीतैरेवं चित्तमुत्पादितम्--न तावद्भोजयिष्यामो यावदेते आगन्तुका भिक्षवो न प्रक्रान्ता भविष्यन्तीति।
२०८.०१५. तैरस्माभिस्तत्तथैव कृतम्।
२०८.०१५. सप्ताहिकं चाकालदुर्दिनं प्रादुर्भूतम्।
२०८.०१५. तेन तदन्नपानं क्लेदं गतम्।
२०८.०१६. वयं श्रद्धादेयं विनिपातयित्वा इह प्रत्येकनरकेषूपपन्नाः।
२०८.०१६. स्थानमेतद्विद्यते यदस्माभिरिह च्युतैर्नरकेषूपपत्तव्यं भविष्यति।
२०८.०१७. साधु भदन्त संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारओचय--मा आयुष्मन्तः श्रद्धादेयं विनिपातयिष्यथ, मा अस्य एवम्रूपस्य दुःखदौर्मनस्यस्य भागिनो भविष्यथ, तद्यथा ब्राह्मणाः काश्यपीयाः॥
२०८.०२०. स संप्रस्थितो यावत्पश्यति तृतीयं विहारमुद्गतं मञ्चपीठविदिकाजालवातायनगवाक्षपरिमण्डितं पूर्ववद्यावदायुष्मान् संघरक्षितो संघरक्षितो भुक्त्वा एकान्तेऽपक्रम्याव्स्थितः।
२०८.०२१. गण्ड्याकोटिता।
२०८.०२२. स तेन विहार आदीप्तः प्रदीप्तः संप्रज्वलित एकज्वालीभूतो ध्मायितुमारब्धः।
२०८.०२२. तेऽपि तस्मिन्नार्तस्वरं क्रन्दतस्तावद्दग्धा यावत्कालादकालीभूतम्।
२०८.०२३. ततः पश्चात्पुनरपि तेषां विहारः प्रादुर्भूतः, ते च भिक्षवः शान्तशान्तेनेर्यापथेनावस्थिताः।
२०८.०२४. स तेषां सकाशमुपसंक्रान्तह्--के यूयमायुष्मन्तः, केन वा कर्मणा इहोपपन्नाह्? दुष्कुहका भदन्त संघरक्षित जम्बुद्वीपका मनुष्याः, नाभिश्रद्दधास्यसि।
२०८.०२६. स कथयति--अहं प्रत्यक्षदर्शी, कस्मान्नाभिश्रद्दधास्ये? ते कथयन्ति--भदन्त संघरक्षित वयं काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्।
२०८.०२७. दुःशीलास्ते वयं शीलवद्भिर्भिक्षुभिर्निष्कासिताः।
२०८.०२८. तैरस्माभिरेकः शून्यविहार आवासितः।
२०८.०२८. यावत्तत्रैकः शीलवान् भिक्षुरागतः।
२०८.०२९. अस्माकं बुद्धिरुत्पन्ना--तिष्ठतु अयं भिक्षुः।
२०८.०२९. अयमप्येकोऽस्माकं दक्षिणां शोधयिष्यति।
२०८.०३०. स तत्रैव स्थितो यावत्तस्यानिसङ्गेन(?) पुनरपि बहवः शीलवन्तो भिक्षव आगताः।
२०८.०३१. ते वयं तत्रापि निर्वासिताः।
२०८.०३१. तैरस्माभिरमर्षजातैः शुष्कानि काष्ठानि शुष्कानि तृणानि शुष्कानि गोमयानि उपसंहृत्य तस्मिन् विहारोऽग्निर्दग्धः।
२०८.०३२. तत्र प्रभूताह्<२०९>शैक्षाशैक्षाः पुद्गला दग्धाः।
२०९.००१. <२०९>ते वयं शैक्षाशैक्षान् पुद्गलान् दग्ध्वा इह प्रत्येकनरकेषूपपन्नाः।
२०९.००२. स्थानमेतद्विद्यते यदस्माभिरिह च्युतैर्नरकेषूपपत्तव्यं भविष्यति।
२०९.००२. साधु भदन्त संघरक्षित, जम्बुद्वीपं गत्वा सब्रह्मचारिणामारोचय--मा आयुष्मन्तः सब्रह्मचारिणामन्तिके प्रदुष्टचित्तमुत्पादयिष्यथ, मा अस्यैवम्रूपस्य दुःखदौर्मनस्यस्य भगिनो भविनो भविष्यथ तद्यथा श्रमणः काश्यपीयाः॥
२०९.००६. आयुष्मान् संघरक्षितः संप्रस्थितो यावत्सत्त्वानद्रक्षीत्स्तम्भाकारान् कुड्याकारान् वृक्षाकारान् पत्राकारान् पुष्पाकारान् फलाकारान् रज्ज्वाकारान् संमार्जन्याकारानुदूखलाकारान् खट्वाकारान् स्थालिकाकारान्॥
२०९.००९. आयुष्मान् संघरक्षितो जनपदान् गतः।
२०९.००९. अन्यतमस्मिन्नाश्रमपदे पञ्चमात्राणि ऋषिशतानि प्रतिवसन्ति।
२०९.०१०. तैरायुष्मान् संघरक्षितो दूरत एव दृष्टः।
२०९.०१०. ते कथयन्ति--भवन्तः, क्रियाकारं तावत्कुर्मह्--बहुबोल्लकाः श्रमणाः शाक्यपुत्रीया भवन्ति।
२०९.०११. नास्य केनचिद्वचनं दातव्यम्।
२०९.०१२. ते क्रियाकारं कृत्वा अवस्थिताः।
२०९.०१२. आयुष्मांश्च संघरक्षितस्तेषां सकाशमुपसंक्रान्तः।
२०९.०१३. उपसंक्रम्य प्रतिश्रयं याचितुमारब्धः।
२०९.०१३. न कश्चिद्वाचमनुप्रयच्छति।
२०९.०१३. तत्रैक ऋषिः स शुक्लधर्मः।
२०९.०१४. कथयति--किं युष्माकं प्रतिश्रयं न दीयते? अपि तु युष्माकं दोषोऽस्ति।
२०९.०१४. बहुबोल्लका यूयम्।
२०९.०१५. समयेनाहं भवतः प्रतिश्रयं दास्ये, सचेत्किंचिन्न मन्त्रयसि।
२०९.०१५. आयुष्मान् संघरक्षितः कथयति--ऋषे, एवं भवतु।
२०९.०१६. तत्रैक ऋषिर्जनपदचारिकां गतः।
२०९.०१६. तस्य कुटिः शून्यावतिष्ठति।
२०९.०१७. स कथयति--अस्यां कुटिकायां शाय्यां कल्पय्
२०९.०१७. आयुष्मता संघरक्षितेन सा कुटिका सिक्ता संमृष्टा संमार्जिता सुकुमारीं गोमयकासिं चानुप्रदत्ता।
२०९.०१८. तैर्दृष्टः।
२०९.०१८. ते कथयति--भदन्त, शुच्यपि मार्जन्त्येते श्रमणाः शाक्यपुत्रीयाः।
२०९.०१९. आयुष्मान् संघरक्षितो बहिः कुटिकायाः पादौ प्रक्षाल्य कुटिकां प्रविश्य निषण्णः पर्यङ्कमाभुज्य ऋजुकायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्ह्ताप्य्
२०९.०२१. य तस्मिन्नाश्रमपदे देवता प्रतिवसति, सा रात्र्याः प्रथमे यामे येनायुष्मान् संघरक्षितस्तेनोपसंक्रान्ता।
२०९.०२२. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय्
२०९.०२२. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्।
२०९.०२३. न पश्यसि मया त्रियाकारेण प्रतिश्रयं लब्धम्, किं निष्कासापयितुमिच्छसि? सा संलक्षयति--श्रान्तकायोऽयम्, स्वपितु।
२०९.०२४. मध्यमे यामे उपसंक्रमिष्यामि।
२०९.०२५. सा मध्यमे याम उपसंक्रान्ता।
२०९.०२५. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय्
२०९.०२५. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्।
२०९.०२६. न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम्? किं निष्कासापयितुमिच्छसि? सा संलक्षयति--श्रान्तकायोऽयम्, स्वपितु।
२०९.०२७. पश्चिमे यामे उपसंक्रमिष्यामि।
२०९.०२८. सा पश्चिमे यामे उपसंक्रान्ता।
२०९.०२८. उपसंक्रम्य कथयति--आर्य संघरक्षित, धर्मं देशय्
२०९.०२९. आयुष्मान् संघरक्षितः कथयति--सुखिता त्वम्।
२०९.०२९. न पश्यसि मया क्रियाकारेण प्रतिश्रयं लब्धम्? किं निष्कासापयितुमिच्छसि? सा कथयति--आर्य संघरक्षित, प्रभातमिदानीम्।
२०९.०३१. सचिन्निष्कासयिष्यन्ति, गमिष्यसि।
२०९.०३१. अपि तु ननूक्तं भगवता भयभैरवसहिष्णुना ते भवितव्यमिति।
२०९.०३२. आयुष्मान् संघरक्षितः संलक्षयति--शोभनं कथयति--सचेत्स निष्कासयिष्यति, <२१०>गमिष्यामि।
२१०.००१. स संलक्षयति--ब्राह्मणा ह्येत्
२१०.००१. ब्राह्मणप्रतिसम्युक्तं भाषयामीत्यायुष्मान् संघरक्षितो ब्राह्मणवर्गं स्वाध्यायितुमारब्धह्--
२१०.००३. न नग्नचर्या न जटा न पङ्को नानाशनं स्थण्डलशायिका वा।
२१०.००५. न रजोमलं नोत्कुटुकप्रहाणं विशोधयेन्मोहमविशीर्णकाङ्क्षम्॥२॥
२१०.००७. अलंकृतश्चापि चरेत धर्मं दान्तेन्द्रयः शान्तः सम्यतो ब्रह्मचारी।
२१०.००९. सर्वेषु भूतेषु निधाय दण्डं स ब्राह्मणः स श्रमण स भिक्षुः॥३॥
२१०.०११. तैः श्रुतम्।
२१०.०११. ते संलक्षयन्ति--ब्राह्मणप्रतिसम्युक्तम्।
२१०.०११. इत्येक उपसंक्रान्तो द्वितीयस्तृतीयो यावत्सर्वे उपसंक्रान्ताः।
२१०.०१२. तथा तया देवतया अधिष्ठितम्, यथा परस्परं न पश्यन्ति।
२१०.०१३. ततः पश्चादायुष्मता संघरक्षितेन नगरोपमं सूत्रमुपनिक्षिप्तम्।
२१०.०१३. गाथां च भाषते--
२१०.०१४. यानीह भूतानि समागतानि स्थितानि भूम्यामथवान्तरिक्ष्
२१०.०१६. कुर्वन्तु मैत्रीं सततं प्रजासु दिवा च रात्रौ च चरन्तु धर्मम्॥४॥ इति।
२१०.०१८. अस्मिन् खलु धर्मपर्याये भाष्यमाणे सर्वैस्तैः सहसत्याभिसमयादनागामिफलमनुप्राप्तम्।
२१०.०१९. ऋद्धिश्चापि निर्हृता।
२१०.०१९. सर्वैस्तैः सुभाषितं भदन्तसंघरक्षितायेत्येकनादो मुक्तः।
२१०.०१९. तया देवतया ऋद्ध्यभिसंस्काराः प्रतिप्रस्रब्धः।
२१०.०२०. परस्परं द्रष्टुमारब्धाः।
२१०.०२०. तेऽन्योन्यं कथयन्ति--त्वमप्यागतह्?
२१०.०२१. आगतोऽहम्।
२१०.०२१. शोभनम्।
२१०.०२१. ते दृष्टसत्याः कथयन्ति--लभेमो वयं भदन्त संघरक्षित स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
२१०.०२२. चरेमो वयं भगवतोऽन्तिके ब्रह्मचर्यम्।
२१०.०२२. आयुष्मान् संघरक्षितः कथयति--किं मत्सकाशे प्रव्रजथ, आहोस्विद्भगवतह्? ते कथयन्ति--भगवतः।
२१०.०२४. आयुष्मान् संघरक्षितः कथयति--यद्येवम्, आगच्छथ, भगवतः सकाशं गच्छामः।
२१०.०२४. ते कथयन्ति--भदन्त संघरक्षित, किमस्मदीयया ऋद्ध्या गच्छामः, आहोस्वित्त्वदीयया? आयुष्मान् संघरक्षितः संलक्षयति--एभिर्मदीयेनाववादेनैवंविधा गुणगणा अघिगताः, अहं लङ्घनकोपमः संवृत्तः।
२१०.०२७. स कथयति--तिष्ठन्तु तावद्भवन्तो मुहूर्तम्।
२१०.०२७. आयुष्मान् संघरक्षितोऽन्यतमं वृक्षमूलं निश्रित्य निषण्णः पर्यङ्कमाभुज्य ऋजुं कायं प्रणिधाय प्रतिमुखं स्मृतिमुपस्थाप्य्
२१०.०२८. उक्तं भगवता--पञ्चानुशंसा बाहुश्रुत्य्
२१०.०२९. धातुकुशलो भवति, प्रतीत्यसमुत्पादकुशलो भवति, स्थानास्थानकुशलो भवति, अपरप्रतिबद्धा चास्य भवति अववादानुशासनीति।
२१०.०३०. तेनोद्यच्छता घटता व्यायच्छता सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
२१०.०३१. अर्हन् संवृत्तस्त्रैधातुकवीतरागह्<२११>पूर्ववद्यावन्मान्यः पूज्यश्चाभिवाद्यश्च संवृत्तः।
२११.००१. ते आयुष्मता संघरक्षितेनाभिहिताह्--भवन्तः, गृह्णीध्वं मदीयं चीवरकर्णिकम्, यास्यामः।
२११.००२. आयुष्मतः संघरक्षितस्य चीवरकर्णिके लग्नाः।
२११.००३. अथायुष्मान् संघरक्षितो विततपक्ष इव हंसराजस्तत एव ऋद्ध्या उपरिविहायसा प्रक्रान्तः॥
२११.००४. यावत्तानि पञ्च वणिक्शतानि भाण्डं प्रतिसामयन्ति।
२११.००४. तेषामुपरि च्छाया निपतिता।
२११.००५. स तैर्दृष्टः।
२११.००५. ते कथयन्ति--आर्य संघरक्षित, आगतस्त्वम्? आगतोऽहम्।
२११.००५. कुत्र गच्छसि? स कथयति--इमानि पञ्च कुलपुत्रशतान्याकाङ्क्षन्ति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
२११.००७. ते कथयन्ति--आर्य संघरक्षित, वयमपि प्रव्रजिष्यामः।
२११.००७. अवारस्व यावद्भाण्डं प्रतिसामयाम इति।
२११.००८. आयुष्मान् संघरक्षितोऽवतीर्णः।
२११.००८. तैर्भाण्डं प्रतिसामितम्।
२११.००८. अथायुष्मान् संघरक्षितस्तत्कुलपुत्रसहस्रमादाय येन भगवांस्तेनोअसंक्रान्तः॥
२११.०१०. तेन खलु समयेन भगवाननेकशताया भिक्षुपर्षदः पुरस्तान्निषण्णो धर्मं देशयति।
२११.०११. अद्राक्षीद्भगवानायुष्मन्तं संघरक्षितं दूरादेव्
२११.०११. दृष्ट्वा च पुनर्भिक्षूनामन्त्रयते स्म--एष भिक्षुवः संघरक्षितो भिक्षुः सप्राभृत आगच्छति।
२११.०१२. नास्ति तथागतस्यैवंविधं प्राभृतं यथा वैनेयप्राभृतम्।
२११.०१३. आयुष्मान् संघरक्षितो येन भगवांस्तेनोपसंक्रान्तः।
२११.०१३. उपसंक्रम्य भगवतः पादौ शिरसा वन्दित्वा एकान्ते निषण्णः।
२११.०१४. एकान्तनिषण्ण आयुष्मान् संघरक्षितो भगवन्तमिदमवोचत्--इदं भदन्त कुलपुत्रसहस्रमाकाङ्क्षति स्वाख्याते धर्मविनये प्रव्रज्यामुपसम्पदं भिक्षुभावम्।
२११.०१६. तं भगवान् प्रव्राजयति उपसम्पादयत्यनुकाम्पामुपादाय्
२११.०१६. ते भगवता एहिभिक्षुकया आभाषिताह्--एत भिक्षुवश्चरत ब्रह्मचर्यम्।
२११.०१७. भगवतो वाचावसाने मुण्डाः संवृत्ताः संघाटीप्रावृताः सप्ताहावरोपितकेशश्मश्रवः पात्रकरकव्यग्रहस्ता वर्षशतोपसम्पन्नस्य भिक्षोरीर्यापथेनावस्थिताः॥
२११.०२०. एहीति चओक्ता हि तथागतेन मुण्डाश्च संघाटिपरीतदेहाः।
२११.०२२. सद्यः प्रशान्तेन्द्रिया एव तस्थुरेवं स्थिता बुद्धमनोरथेन् ।५॥
२११.०२४. भगवता तेषामववादो दत्तः।
२११.०२४. तैरुद्यच्छमानैर्घटमानैर्व्यायच्छद्भिः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
२११.०२५. अर्हन्तः संवृत्तास्त्रैधातुकवीतरागाः पूर्ववद्यावत्पूज्याश्च अभिवाद्याश्च संवृत्ताः॥
२११.०२७. आयुष्मान् संघरक्षितो बुद्धं भगवन्तं पृच्छति--इहाहं भदन्त सत्त्वानद्राक्षं कुड्याकारान् स्तम्भाकारान् वृक्षाकारान् पत्राकारान् पुष्पाकारान् फलाकाराअन् रज्ज्वाकारान् संमार्जन्याकारान् खट्वाकारानुदूखलाकारान् स्थालिकाकारान्।
२११.०२९. मध्येऽवच्छिन्नं तन्तुना धार्यमाणं गच्छति।
२११.०३०. कस्य कर्मणो विपाकेन? भगवानाह--यांस्त्वं संघरक्षित सत्त्वानद्राक्षीः कुड्याकारांस्ते काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्।
२११.०३१. तैः सांघिकं कुड्यं श्लेष्माणा सिंहाणकेन <२१२>विनाशितम्।
२१२.००१. ते तस्य कर्मणो विपाकेन कुड्याकाराः संवृत्ताः।
२१२.००१. यथा कुट्याकाराः, एवं स्तम्भाकाराः सत्त्वाः।
२१२.००२. यान् संघरक्षित सत्त्वानाद्राक्षीर्वृक्षाकारांस्ते काश्यपस्य सम्यक्सम्बुद्धस्य श्रावका आसन्।
२१२.००३. तैः सांघिकाः पुष्पवृक्षाः फलवृक्षाः पौद्गलिकपरिभोगेन भुक्ताः।
२१२.००४. ते तस्य कर्मणो विपाकेन वृक्षाकाराः संवृत्ताः।
२१२.००४. यथा वृक्षाकाराः, एवं पत्राकाराअः फलाकाराः पुष्पाकाराः।
२१२.००५. यं त्वं संघरक्षित सत्त्वमद्राक्षी रज्ज्वाकारम्, स काश्यपस्य सम्यक्सम्बुद्धस्य श्रावक आसीत् ।
२१२.००६. तेन संघिका रज्जुः पौद्गलिकपरिभोगेन परिभुक्ता।
२१२.००७. स तस्य्कर्मणो संघरक्षित सत्त्वमद्राक्षीस्तप्वाकारम् (?) काश्यपस्य सम्यक्सम्बुद्धस्य श्रावक आसीत्श्रामणेरकः।
२१२.००९. सोऽपरेण समयेन पानकवारमुद्दिष्टस्तद्वारकं निर्मादयति।
२१२.०१०. आगन्तुकाश्च भिक्षुव आगताः।
२१२.०१०. स तैः पृष्टह्--श्रामणेरक, किं संघस्य पानकं भविष्यति? स कथयति--नास्तीति।
२१२.०११. ते निराशीभूताः प्रक्रान्ताः।
२१२.०११. संघस्य च पानकं संपन्नम्।
२१२.०११. स तस्य कर्मणो विपाकेन तप्वाकारः संवृत्तः।
२१२.०१२. यं त्वं संघरक्षित सत्त्वमद्राक्षीरुदूखलाकारम्, स काश्यपस्य सम्यक्सम्बुद्धस्य श्रावक आसीत् ।
२१२.०१३. तस्य पात्रकर्म प्रत्युपस्थितम्।
२१२.०१३. तत्रैकः श्रामणेरकोऽर्हन्।
२१२.०१४. स तेनोक्तह्--श्रामणेरक, ददस्व मे खलस्तोकं कुट्टयित्वा।
२१२.०१४. स कथयति--स्थविर, तिष्ठ तावन्मुहूर्तम्।
२१२.०१५. व्यग्रोऽहम्।
२१२.०१५. पश्चाद्दास्यामीति।
२१२.०१५. सोऽमर्षजातः कथयति--श्रामणेरक, यदि रोचते, त्वामेवाहमस्मिन्नुदूखले प्रक्षिप्य कुट्टये प्रागेव खलस्तोकम्।
२१२.०१६. यत्तदर्हतोऽन्तिके खरं वाक्कर्म निश्चारितम्, स तस्य कर्मणो विपाकेन उदूखलाकारः संवृत्तः।
२१२.०१७. यांस्त्वं संघरक्षित सत्त्वानद्राक्षीः स्थाल्याकारांस्ते काश्यपस्य सम्यक्सम्ब्बुद्धस्य कल्पिकारका आसन्।
२१२.०१८. ते भिक्षूणां भैषज्यानि क्वाथयमानाः स्थालिकां भञ्जत्
२१२.०१९. तेषां भिक्षूणां विघातो भवति।
२१२.०१९. ते तस्य कर्मणो विपाकेन स्थाल्याकाराः संवृत्ताः।
२१२.०२०. यं त्वं संघरक्षित सत्त्वमद्राक्षीर्मध्ये छिन्नस्तन्तुना धार्यमाणो गच्छति, स काश्यपस्य सम्यक्सम्बुद्धस्य प्रवचने प्रव्रजित आसील्लाभग्राहिकः।
२१२.०२१. तेन यद्वार्षिकं लाभं तद्धैमन्तिकं परिणामितम्, यद्धैमन्तिकं तद्वार्षिकम्।
२१२.०२२. तस्य कर्मणो विपाकेन मध्ये छिन्नस्तन्तुना धार्यमाणो गच्छति॥
२१२.०२४. संघरक्षितावदानं त्रयोविंशतिमम्॥
- अवदान २४ **********
- अवदान २४ **********
२१३.००१. दिव्२४ नागकुमारावदानम्।
२१३.००२. भिक्षुवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--कुतो भदन्त तेन नागकुमारेण तत्प्रथमतः श्रद्धा प्रतिलब्धा? भगवानाह--भूतपूर्वं भिक्षुवोऽस्मिन्नेव भद्रकल्पे विंशतिवर्षसहस्रायुषि प्रजायां काश्यपो नाम शास्ता लोकमुत्पन्नस्तथागतोऽर्हन् सम्यक्सम्बुद्धो विद्याचरणसम्पन्नः सुगतो लोकविदनुत्तरः पुरुषदम्यसारथिः शास्ता देवमनुष्याणां बुद्धो भगवान्।
२१३.००५. स एवं श्रावकाणां धर्मं देशयति--एतानि भिक्षवोऽरण्यानि शून्यागाराणि पर्वतकन्दरगिरिगुहापलालपुञ्जाभ्यवकाशश्मशानवनप्रस्थानि प्रान्तानि शयनासनानि ध्यायत्
२१३.००६. भिक्षवो मा प्रमादत्
२१३.००७. मा पश्चाद्विप्रतिसारिणो भूत्
२१३.००७. इदमस्माकमनुशासनम्।
२१३.००७. तत्र केचिद्भिक्षवः सुमेरुपरिषण्डायां गत्वा ध्यायन्ति, केचिन्मन्दाकिन्याः पुष्करिण्यास्तीरे, केचिदनवतप्ते महासरसि, केचित्सप्तसु काञ्चनमयेषु पर्वतेषु, केचित्तासु तासु ग्रामनिगमराजराष्ट्रधानीषु गत्वा ध्यायन्ति॥
२१३.०११. अन्यतमश्च चिरजातको नागकुमारः सुपर्णिना पक्षिराजेन सुमेरुपरिषण्डायामुपरिष्टादपह्रियत्
२१३.०१२. यावत्तेन भिक्षवो ध्यानाध्ययनयोगमनसिकारयुक्ता विहरन्तो दृष्टाः।
२१३.०१२. दृष्ट्वा चास्य चित्तमभिप्रसन्नम्।
२१३.०१३. प्रसादजातः संलक्षयति--मुक्ता ह्येते आर्यका एवंविधाद्दुःखात् ।
२१३.०१४. च्युतः कालगतो वाराणस्यां षट्कर्मनिरते ब्राह्मणकुले जातः।
२१३.०१४. उन्नीतो वर्धितो महान् संवृत्तः।
२१३.०१५. सोऽपरेण समयेन काश्यपस्य सम्यक्सम्बुद्धस्य शासने प्रव्रजितः।
२१३.०१५. तेनोद्यता घटता व्यायच्छता सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
२१३.०१६. अर्हन् संवृत्तः पूर्ववद्यावन्मान्यश्च पूज्यश्चाभिवन्द्यश्च संवृत्तः।
२१३.०१७. स संलक्षयति--कुतोऽहं च्युतह्? तिर्यक्षु।
२१३.०१७. कुत्रोपपन्नह्? मनुष्येषु।
२१३.०१७. कुत्र मम मातापितरौ? यावत्पश्यति नागभवने रुदन्तौ तिष्ठतः।
२१३.०१८. स तत्र गतः।
२१३.०१८. गत्वा पृच्छितुमारब्धह्--अम्ब तात कस्यार्थे रुदितह्? तौ कथयतह्--आर्य, सुचिरजातकोऽस्माकं नागकुमारः सुपर्णिना पक्षिराजेनापहृतः।
२१३.०२०. स कथयति--अहमेवासौ।
२१३.०२०. आर्य, तादृशः स दुष्टानागो यद्वयं सुगतिगमनमपि न संभावयामः, प्रागेवेदृशानां धर्माणां लाभी भविष्यति।
२१३.०२१. तेन तौ स्मारितौ।
२१३.०२१. पादयोर्निपत्य कथयतह्--आर्य, एवंविधास्त्वया गुणगणा अधिगताः।
२१३.०२२. आर्य त्वं पिण्डकेनार्थी, वयं पुण्येनार्थिकाः।
२१३.०२३. इहैव त्वमागम्य दिवसे दिवसे भक्तकृत्यं कृत्वा गच्छ्
२१३.०२३. स नागभवने दिव्यां सुधां परिभुक्त्वा आगच्छति।
२१३.०२४. तस्य श्रामणेरकः सार्धविहारी।
२१३.०२४. स भिक्षुभिरुक्तह्--श्रामणेरक, अयं ते उपाध्यायः कुत्र भुक्त्वा आगच्छति? स कथयति--नाहं जान्
२१३.०२५. ते कथयन्ति--नागभवने दिव्यां सुधां परिभुज्य पारिभुज्यागच्छति।
२१३.०२६. त्वं कस्यार्थे न गच्छति? स कथयति--अयं महर्द्धिको महानुभावो येन गच्छति।
२१३.०२७. कथमहं गच्छामि? ते कथयन्ति--यदा अयमृद्ध्या गच्छति, तदा त्वमस्य चीवरकर्णिकं गृहाण्
२१३.०२८. स कथयति--मा पतेयम्।
२१३.०२८. ते कथयन्ति--भद्रमुख, यदि सुमेरुः पर्वतराजा चीवरकर्णिकमवलम्बते, नासौ पतेत्, प्रागेव त्वं पतिष्यसीति।
२१३.०३०. यो यस्मिन् स्थानेऽन्तर्धास्यति, तेन तत्र निमित्तमुद्गृहीतम्।
२१३.०३०. स तत्प्रदेशं पूर्वमेव गत्वा अवस्थितः।
२१३.०३१. स चान्तर्धास्यतीति तेन चीवरकर्णिकं गृहीतम्।
२१३.०३१. तौ उपरि विहायसा <२१४>प्रक्रान्तौ यावत्तौ नागैर्दृष्टौ।
२१४.००१. तयोर्द्वे ते आसनप्रज्ञप्तिकृतौ।
२१४.००१. द्वौ मण्डलकौ आमार्जितौ।
२१४.००१. स संलक्षयति--कस्यार्थेऽयमपर आसनः प्रज्ञप्तह्? स प्रतिनिवर्त्य पश्यति यावत्श्रामणेरकम्।
२१४.००३. स कथयति--भद्रमुख, त्वमप्यागतह्? उपाद्याय, आगतोऽहम्।
२१४.००३. शोभनम्।
२१४.००३. नागाः संलक्षयन्ति--अयमार्यो महर्द्धिको महानुभावः।
२१४.००४. शक्यते दिव्यां सुधां कारयितुम्।
२१४.००४. अयमन्यो न शक्यत्
२१४.००५. तैस्तस्य दिव्या सुधा दत्ता, तस्यापि प्राकृत आहारः।
२१४.००५. स तस्य पात्रग्राहकः।
२१४.००५. तेन तस्य पात्रं गृहीतं यावत्तत्रैका ओदनमिज्य(?) वतिष्ठत्
२१४.००६. सा तेनास्ये प्रक्षिप्ता यावद्दिव्यमास्वादनम्।
२१४.००७. स संलक्षयति--ईदृशा अपि मत्सरिणो नागाः।
२१४.००७. एकध्ये निषण्णयोरस्य दिव्या सुधा दत्ता, ममापि प्राकृत आहारः।
२१४.००८. स प्रणिधानं कर्तुमारब्धह्--यन्मया भगवति काश्यपे सम्यक्सम्बुद्धेऽनुत्तरे महादक्षिणीये ब्रह्मचर्यं चीर्णम्, अनेनाहं कुशलमूलेनैतं नागमस्माद्भवनाच्च्यावयित्वा अत्रैवोपपद्येयमिति।
२१४.०१०. तस्य दृष्ट एव धर्मे उभाभ्यां पाणिभ्यां जलं स्यन्दितुमारब्धम्।
२१४.०११. नागस्यापि शिरोर्तिर्बाधितुमारब्धा।
२१४.०११. स कथयति--आर्य, अनेन श्रामणेरकेनाशोभनचित्तमुत्पादितम्।
२१४.०१२. प्रतिनिवर्तापयतु एनम्।
२१४.०१२. स कथयति--भद्रमुख, अपाया ह्येते, निवर्तय चित्तम्।
२१४.०१३. स गाथां भाषते--
२१४.०१४. प्रवणीभूउतमिदं चित्तं न शक्नोमि निवारयितुम्।
२१४.०१५. इहस्थस्यैव मे भदन्त पाणिभ्यां स्यन्दते जलम्॥१॥
२१४.०१६. स तं नागं तस्माद्भवनाच्च्यावयित्वा तत्रैवोपपन्नः।
२१४.०१६. तत्र भिक्षवस्तेन नागकुमारेण तत्प्रथमतः श्रद्धा प्रतिलब्धा॥
२१४.०१८. इति श्रीदिव्यावदाने नागकुमारावदानम्॥
- अवदान २५ **********
- अवदान २५ **********
२१५.००१. दिव्२५ स घरक्सितावदानम् (२)।
२१५.००२. भिक्षवः संशयजाताः सर्वसंशयच्छेत्तारं बुद्धं भगवन्तं पृच्छन्ति--किं भदन्त आयुष्मता संघरक्षितेन कर्म कृतम्, यस्य कर्मणो विपाकेनाढ्ये महाभोगे कुले जातो भगवतोऽन्तिके प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्? एवं तं च वैनेयकार्यं कृतम्? भगवानाह--संघरक्षितेनैव भिक्षवः कर्मानि कृतानि उपचितानि पूर्ववत् ।
२१५.००५. भूतपूर्वं भिक्षवोऽस्मिन्नेव भद्रके कल्पे विंशतिवर्षसहस्रायुषि प्रजायां नाम शास्ता पूर्ववत् ।
२१५.००६. तस्यायं शासने प्रव्रजित आसीद्वैयावृत्यकरः।
२१५.००७. अस्य तत्र पञ्च सार्धंविहारिशतानि।
२१५.००७. यद्भूयसा एककर्वटनिवासी जनकायः, अस्यैवाभिप्रसन्नः।
२१५.००८. अनेन तत्र यावदायुःपर्यन्तं ब्रह्मचर्यं चीर्णम्, न कश्चिद्गुणोऽधिगतः।
२१५.००९. अपरेण समयेन ग्लानीभूतः।
२१५.००९. मूलगण्डपत्रपुष्पफलभैषज्यैरुपस्थीयमानो हीयत एव्
२१५.०१०. मरणसमये प्रणिधानं कर्तुमारब्धह्--यन्मया काश्यपे भगवति सम्यक्सम्बुद्धेऽनुत्तरे महादक्षिणीये यावदायुर्ब्रह्मचर्यं चीर्णम्, न काश्चिद्गुणगणोऽधिगतः, अनेनाहं कुशलमूलेन योऽसौ भगवता काश्यपेन सम्यक्सम्बुद्धेनोत्तरो नाम माणवो वर्षशतायुषि प्रजायामवश्यभागीयकस्य भाव्यतायां बुद्धो, व्याकृतः, तस्य शासने प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्याम्।
२१५.०१४. ततः पश्चात्सार्धंविहारिण उपसंक्रान्ताः।
२१५.०१४. ते कथयन्ति--उपाध्याय, अस्ति किंचित्त्वया गुणगणमधिगतम्? स कथयति--नास्ति।
२१५.०१५. किं प्रणिधानं कृतम्? इदं चेदं च्
२१५.०१६. ते कथयन्ति--वयमप्युपाध्यायमेव कल्याणमित्रमागम्य तस्यैव भगवतोऽन्तिके सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्युः।
२१५.०१७. कर्वटनिवासिना जनकायेन श्रुतं ग्लान आर्यक इति।
२१५.०१८. तेऽप्युपसंक्रान्ताः।
२१५.०१८. अस्ति किंचिदार्येण गुणगणमधिगतम्? नास्ति।
२१५.०१९. किं प्रणिधानं कृतम्? इदं चेदं च्
२१५.०१९. ते कथयन्ति--वयमप्यार्यमेव कल्याणमित्रमागम्य तस्यैव भगवतोऽन्तिके सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कुर्युः॥
२१५.०२१. किं मन्यध्वे भिक्षवह्? योऽसौ वैयावृत्यकरः, एष एवासौ संघरक्षितो भिक्षुः।
२१५.०२२. यानि तानि पञ्च सार्धंविहारिशतानि, एतान्येव तानि पञ्चभिक्षुशतानि।
२१५.०२२. योऽसौ कर्वटनिवासी जनकायः, एतान्येव तानि पञ्च वणिक्शतानि।
२१५.०२३. यदनेन तर धर्मवैयावृत्यं कृतम्, तस्य कर्मणो विपाकेनाढ्ये महाधने महाभोगे कुले उपपन्नः।
२१५.०२४. यत्तन्मरणसमये प्रणिधानं कृतम्, तस्य कर्मणो विपाकेन ममान्तिके प्रव्रज्य सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतमेवं च वैनेयकार्यं कृतम्॥
२१५.०२७. इति हि भिक्षव एकान्तकृष्णानां कर्मणामेकान्तकृष्णो विपाकह्...पूर्ववत् ॥
- अवदान २६ **********
- अवदान २६ **********
२१६.००१. दिव्२६ पांशुप्रदानावदानम्।
२१६.००२. योऽसौ स्वमांसतनुभिर्यजनानि कृत्वा तावच्चिरं करुणया जगतो हिताय्
२१६.००३. तस्य श्रमस्य सफलीकरणाय सन्तः संमार्जितं शृणुत साम्प्रतभाष्यमाणम्॥१॥
२१६.००६. एवं मया श्रुतम्।
२१६.००६. एकस्मिन् समये भगवाञ्श्रावस्त्यां विहरतीति सूत्रं वक्तव्यम्।
२१६.००७. अत्र तावद्भगवत्तथागतवदनांमोधरविवरप्रत्युद्गतवचनसरत्सलिलधारासम्पातापनीतरागद्वेषमोहमदमानमायाशाठ्यपङ्कपटलानां शब्दन्यायादितर्कशास्त्रार्थावलोकनोत्पन्नप्रज्ञाप्रदीपप्रोत्सारितकुशास्त्रदर्शनान्धकाराणां संसारतृष्णाछेदिप्रवरसद्धर्मपयःपानशौण्डानां गुरूणां संनिधौ सर्वाववादकं महात्मानमतिमाहर्द्धिकं स्थविरोपगुप्तमारभ्य कांचिदेव विबुद्धजनमनःप्रसादकरीं धर्म्यां कथां समनुस्मरिष्यामः।
२१६.०१२. तत्र तावद्गुरुभिरवहितश्रोत्रैर्भवितव्यम्॥
२१६.०१३. एवमनुश्रूयते--यदा भगवान् परिनिर्वाणकालसमये पलालनागं विनीय कुम्भकारीं चण्डालीं गोपालीं च, तेषां मथुरामनुप्राप्तः, तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते स्म--अस्यामानन्द मथुरायां मम वर्षशतपरिनिर्वृतस्य गुप्तो नाम गान्धिको भविष्यति।
२१६.०१५. तस्य पुत्रो भविष्यत्युपगुप्तो नाम अलक्षणको बुद्धो यो मम वर्षशतपतिनिर्वृतस्य बुद्धकार्यं भवि(करि)ष्यति।
२१६.०१७. तस्याववादेन बहवो भिक्षवः सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यन्ति।
२१६.०१७. तेऽष्टादशहस्तामायामेन द्वादशहस्तां विस्तारेण चतुरङ्गलमात्राभिः शणकाभिः पूजयिष्यन्ति।
२१६.०१८. एषोऽग्रो मे आनन्द श्रावकाणां भविष्यत्यववादकानां यदुत उपगुप्तो भिक्षुः।
२१६.०१९. पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिम्? एवं भदन्त्
२१६.०२०. एष आनन्द रुरुमुण्डो नाम पर्वतः।
२१६.०२०. अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य शाणकवासी नाम भिक्षुर्भविष्यति।
२१६.०२१. सोऽत्र रुरुमुण्डपर्वते विहारं प्रतिष्ठापयिष्यति, उपगुप्तं च प्रव्राजयिष्यति।
२१६.०२२. मथुरायामानन्द नटो भटश्च द्वौ भ्रातरौ श्रेष्ठिनौ भविष्यतः।
२१६.०२३. तस्य नटभटिकेति संज्ञा भविष्यति।
२१६.०२४. एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदिदं नटभटिकारण्यायतनम्।
२१६.०२५. अथायुष्मानानन्दो भगवन्तमिदमवोचत्--आश्चर्यं भदन्त यदीदृशमायुष्मानुपगुप्तो बहुजनहितं करिष्यति।
२१६.०२६. भगवानाह--न आनन्द एतर्हि, यथा अतीतेऽप्यध्वनि तेन विनिपतितशरीरेणाप्यत्रैव उरुमुण्डपर्वते त्रयः पार्श्वाः।
२१६.०२७. एकत्र प्रदेशे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति।
२१६.०२८. द्वितीये पञ्चऋषिशतानि।
२१६.०२८. तृतीये पञ्चमर्कटशतानि।
२१६.०२८. तत्र योऽसौ पञ्चानां मर्कटशतानां यूथपतिः, स तं यूथमपहाय यत्र पार्श्वे पञ्च प्रत्येकबुद्धशतानि प्रतिवसन्ति, तत्र गतः।
२१६.०३०. तस्य तान् प्रत्येकबुद्धान् दृष्ट्वा प्रसादो जातः।
२१६.०३०. स तेषां प्रत्येकबुद्धानां शीर्णपर्णानि मूलफलानि चोपनामयति।
२१६.०३१. यदा च ते पर्यङ्केनोपविष्टा भवन्ति, स वृद्धान्ते प्रणामं कृत्वा यावन्नवान्तं गत्वा पर्यङ्केनोपविशति, यावत्ते प्रत्येकबुद्धाः परिनिर्वृताः।
२१७.००१. <२१७>स तेषां शीर्णपर्णानि मूलफलानि चोपनामयति, ते न प्रतिगृह्णन्ति।
२१७.००१. स तेषां चीवरकर्णिकान्याकर्षयति, पादौ गृह्णाति।
२१७.००२. यावत्स मर्कटश्चिन्तयति--नियतमेते कालगता भविष्यन्ति।
२१७.००३. ततः स मर्कटः शोचित्वा परिदेवित्वा च द्वितीयं पार्श्वं गतो यत्र पञ्च ऋषिशतानि प्रतिवसन्ति।
२१७.००४. ते च ऋषयः केचित्कण्डकापाश्रयाः, केचिद्भस्मापाश्रयाः, केचिदूर्ध्वहस्ताः, केचित्पञ्चातपावस्थिताः।
२१७.००५. स तेषां तेषामीर्यापथान् विकोपयितुमारब्धः।
२१७.००५. ये कण्डकापाश्रयास्तेषां कण्डकानुद्धरति।
२१७.००६. भस्मापाश्रयाणां भस्म विधुनोति।
२१७.००६. ऊर्ध्वहस्तानामधो हस्तं पातयति।
२१७.००७. पाञ्चातपावस्थितानामग्निमवकिरति।
२१७.००७. यदा च तैरीर्यापथो विकोपितो भवति, तदा स तेषामग्रतः पर्यङ्कं बध्नाति।
२१७.००८. यावत्तैरृषिभिराचार्याय निवेदितम्।
२१७.००८. तेनापि चोक्तम्--पर्यङ्केन तावन्निषीदथ, यावत्तानि पञ्च ऋषिशतानि पर्यङ्केनोपविष्टानि।
२१७.००९. तेऽनाचार्यका अनुपदेशकाः सप्तत्रिंशद्बोधिपक्षान् धर्मानामुखीकृत्य प्रत्येकां बोधिं साक्षात्कृतवन्तः।
२१७.०११. अथ तेषां प्रत्येकबुद्धानामेतदभवत्--यत्किंचिदस्माभिः श्रेयोऽवाप्तम्, तत्सर्वमिमं मर्कटमागम्य्
२१७.०१२. तैर्यावत्स मर्कटः फलमूलैः परिपालितः, कालगतस्य च तच्छरीरं गन्धकाष्ठैर्ध्मापितम्॥
२१७.०१४. तत्किं मन्यसे आनन्द? योऽसौ पञ्चानां मर्कटशतानां यूथपतिः, स एष उपगुप्तः।
२१७.०१५. तदापि तेन विनिपतितशरीरेणाप्यत्रैवोरुमुण्डे पर्वते बहुजनहितं कृतम्।
२१७.०१५. अनागतेऽप्यध्वनि वर्षशतपरिनिर्वृतस्य मम अत्रैवोरुमुण्डे पर्वते बहुजनहितं करिष्यति।
२१७.०१६. तच्च यथैवं तथोपदर्शयिष्यामह्--यदा स्थविरेण शाणकवासिना उरुमुण्डे पर्वते विहारः प्रतिष्ठापितः, समन्वाहरति--किमसौ गान्धिक उत्पन्नः, अथाद्यापि नोत्पद्यते इति? पश्यत्युत्पन्नम्।
२१७.०१८. स यावत्समन्वाहरति--योऽसौ तस्य पुत्र उपगुप्तो नांना अलक्ष.ङ्को बुद्धो निर्दिष्टः, यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति, किमसौ उत्पन्नोऽद्यापि नोत्पद्यते? तेन यावदुपायेन गुप्तो गान्धिको भगवच्छासनेऽभिप्रसादितः।
२१७.०२१. स यदा अभिप्रसन्नस्तदा स्थविरः संबहुलैर्भिक्षुभिः सार्धमेकदिवसं तस्य गृहं प्रविष्टः।
२१७.०२२. अपरस्मिन्नहन्यात्मद्वितीयः।
२१७.०२२. अन्यस्मिन्नहन्येकाकी।
२१७.०२३. यावद्गुप्तो गन्धिकः स्थविरं शाणकवासिनमेकाकिनं दृष्ट्वा कथयति--न खलु आर्यस्य कश्चित्पश्चाच्च्छ्रमणह्? स्थविर उवाच--जराधर्माणां कुतोऽस्माकं पश्चाच्छ्रमणो भवति? यदि केचित्श्रद्धापुरोगेन प्रव्रजन्ति, तेऽस्माकं पश्चाच्छ्रमणा भवन्ति।
२१७.०२५. गुप्तो गान्धिक उवाच--आर्य, अहं तावद्गृहवासे परिगृद्धो विषयाभिरतश्च्
२१७.०२६. न मया शक्यं प्रव्रजितुम्।
२१७.०२६. अपि तु योऽस्माकं पुत्रो भवति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः।
२१७.०२७. स्थविर उवाच--वत्स, एवमस्तु।
२१७.०२७. अपि तु दृढप्रतिज्ञां स्मरेथास्त्वमिति।
२१७.०२८. यावद्गुप्तस्य गान्धिकस्य पुत्रो जातः।
२१७.०२८. तस्याश्वगुप्त इति नामधेयं कृतम्।
२१७.०२९. स यदा महान् संवृत्तस्तदा स्थविरः शाणकवासी गुप्तं गान्धिकमधिगम्योवाच--वत्स, त्वया प्रतिज्ञातम्--योऽस्माकं पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः।
२१७.०३१. अनुजानीहि, प्रव्रजयिष्यामीति।
२१७.०३१. गान्धिक उवाच--आर्य, अयमस्माकमेकपुत्रः।
२१७.०३१. मर्षय नः।
२१७.०३२. योऽस्माकं द्वितीयः पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः।
२१७.०३२. यावत्स्थविरह्<२१८>शाणकवासी समन्वाहरति--किमयं स उपगुप्तह्? पश्यति नेति।
२१८.००१. तेन स्थविरेणाभिहितह्--एवमस्तु इति।
२१८.००२. तस्य यावद्द्वितीयः पुत्रो जातः।
२१८.००२. तस्य धनगुप्त इति नाम कृतम्।
२१८.००२. सोऽपि यदा महान् संवृत्तः, तदा स्थविरः शाणकवासी गुप्तं गान्धिकमुवाच--वत्स, त्वया प्रतिज्ञातम्--योऽस्माकं पुत्रो भविष्यति, तं वयमार्यस्य पश्चाच्छ्रमणं दास्यामः।
२१८.००४. अयं च ते पुत्रो जातः।
२१८.००५. अनुजानीहि, प्रव्रजयिष्यामीति।
२१८.००५. गान्धिक उवाच--आर्य मर्षय, एकोऽस्माकं द्रव्यं संशयिष्यति, स आर्यस्य दत्तः।
२१८.००७. यावत्स्थविरः शाणकवासी समन्वाहरति--किमयं स उपगुप्तह्? पश्यति नेति।
२१८.००८. ततः स्थविर उवाच--एवमस्तु इति।
२१८.००८. यावद्गुप्तस्य गान्धिकस्य तृतीयः पुत्रो जातोऽभिरूपो दर्शनीयः प्रसादिकोऽतिक्रान्तो मानुषवर्णमसम्प्राप्तश्च दिव्यवर्णम्।
२१८.००९. तस्य विस्तरेण जातौ जातिमहं कृत्वा उपगुप्त इति नाम कृतम्।
२१८.०१०. सोऽपि यदा महान् संवृत्तः, यावत्स्थविरशाणकवासी गुप्तं गान्धिकमभिगम्योवाच--वत्स, त्वया प्रतिज्ञातम्--योऽस्माकं तृतीयः पुत्रो भविष्यति, बयमार्यस्य दास्यामः पश्चाच्छ्रमणार्थ्
२१८.०१२. अयं ते तृतीयः पुत्र उत्पन्नः।
२१८.०१३. अनुजानीहि, प्रव्राजयिष्यामीति।
२१८.०१३. गुप्तो गान्धिक उवाच--आर्य, समयतः।
२१८.०१३. यदा लाभोऽनुच्छेदो भविष्यतीति, तदा अनुज्ञास्यामि।
२१८.०१४. यदा तेन समयः कृतः, तदा मारेण सर्वावती मथुरा गन्धाविष्टा।
२१८.०१५. ते सर्वे उपगुप्तसकाशाद्गन्धान् क्रीणन्ति।
२१८.०१५. स प्रभूतानि दास्यति।
२१८.०१५. यावत्स्थविरशाणकवासी उपगुप्तसकाशं गतः।
२१८.०१६. उपगुप्तश्च गन्धापणे स्थितः।
२१८.०१६. स धर्मेण व्यवहारं करोति, गन्धान् विक्रीणीत्
२१८.०१७. स स्थविरेण शाणकवासिना अभिहितह्--वत्स, कीदृशास्ते चित्तचेतसिकाः प्रवर्तन्ते क्लिष्टा वा अक्लिष्टा वेति? उपगुप्त उवाच--आर्य, नैव जानामि कीदृशाः क्लिष्टाश्चित्तचेतसिकाः, कीदृशा अक्लिष्टा इति।
२१८.०१९. स्थविरः शाणकवासी उवाच--वत्स, यदि केवलं चित्तं परिज्ञातुं न शक्यसि, प्रतिपक्षं मोचयितुम्।
२१८.०२०. तेन तस्य कृष्णिकपट्टिका दत्ता पाण्डुरिका च्
२१८.०२१. यदि क्लिष्टं चित्तमुत्पद्यते, कृष्णिकां पट्टिकां स्थापय्
२१८.०२१. अथाक्लिष्टं चित्तमुत्पद्यते, पाण्डुरां पट्टिकां स्थापय्
२१८.०२२. शुभां मनसि कुरु, बुद्धानुस्मृतिं च भावयस्वेति तेनास्य व्यपदिष्टम्।
२१८.०२३. तस्य यावदारब्धा आक्लिष्टाश्चित्तचेतसिकाः प्रवर्तितुम्, स द्वौ भागौ कृष्णिकानां स्थापयति, एकं पाण्डुरिकाणाम्।
२१८.०२४. यावदर्धं कुष्णिकानां स्थापयति अर्धं पाण्डुरिकाणाम्।
२१८.०२५. यावत्द्वौ भागौ पाण्डुरिकाणां स्थापयति, एकं कृष्णिकानाम्।
२१८.०२५. यावदनुपूर्वेण सर्वाण्येव शुक्लानि चित्तान्युत्पद्यन्ते, स पाण्डुरिकाणामेव पट्टिकां स्थापयति।
२१८.०२६. धर्मेण व्यवहारं करोति॥
२१८.०२८. मथुरायां वासवदत्ता नाम गणिका।
२१८.०२८. तस्या दासी उपगुप्तसकाशं गत्वा गन्धान् क्रीणाति।
२१८.०२९. सो वासवदत्तया चोच्यते--दारिके, मुष्यते स गान्धिकस्त्वया।
२१८.०२९. बहून् गन्धानानयसीति।
२१८.०३०. दारिकोवाच--आर्यदुहिते, उपगुप्तो गान्धिकदारको रूपसम्पन्नश्चातुर्यमाधुर्यसम्पन्नश्च धर्मेण व्यवहारं करोरि।
२१८.०३१. श्रुत्वा च वासवदत्ताया उपगुप्तसकाशे सानुरागं चित्तमुत्पन्नम्।
२१८.०३१. तया यावद्दासी उपगुप्तसकाशं प्रेषिता--त्वत्सकाशमागमिष्यामि।
२१८.०३२. इच्छामि त्वया सार्धं रतिमनुभवितुम्।
२१८.०३२. यावद्दास्या <२१९>उपगुतस्य निवेदितम्।
२१९.००१. उपगुप्त उवाच अकालस्ते भगिनि मद्दर्शनायेति।
२१९.००१. वासवदत्ता पञ्चभिः पुराणशतैः परिचारयत्
२१९.००२. तस्या बुद्धिरुत्पन्ना--नियतं पञ्च पुराणशतानि नोत्सहते दातुम्।
२१९.००२. तया यावद्दासी उपगुप्तसकाशं प्रेषिता--न ममार्यपुत्रसकाशात्कार्षापणेनापि प्रयोजनम्।
२१९.००३. केवलमार्यपुत्रेण सह रतिमनुभवेयम्।
२१९.००४. दास्या तथा निवेदितम्।
२१९.००४. उपगुप्त उवाच--अकालस्ते भगिनि मद्दर्शनायेति।
२१९.००५. यावदन्यतरः श्रेष्ठिपुत्रो वासवदत्तायाः सकाशं प्रविष्टः।
२१९.००५. अन्यतरश्च सार्थवाह उत्तरापथात्पञ्चशतमश्वपण्यं गृहीत्वा मथुरामनुप्राप्तः।
२१९.००६. तेनाभिहितम्--कतरा वेश्या सर्वप्रधाना? तेन श्रुतम्--वासवदत्तेति।
२१९.००७. स पञ्च पुरणशतानि गृहीत्वा बहूंश्च प्राभृतान् वासवदत्तायाः सकाशामभिगतः।
२१९.००८. ततो वासवदत्तया लोभाकृष्टेन तं श्रेष्ठिपुत्रं प्रघातयित्वावस्करे प्रक्षिप्य सार्थवाहेन सह रतिमनुभुता।
२१९.००९. यावत्स श्रेष्ठिपुत्रो बन्धुभिरवस्करादुद्धृत्य(तह्)।
२१९.००९. राज्ञो निवेदितम्।
२१९.०१०. ततो राज्ञा अभिहितम्--गच्छन्तु भवन्तः, वासवदत्तां हस्तपादौ कर्णनासं च च्छित्त्वा श्मशाने छोरयन्तु।
२१९.०११. यावत्तैर्वासवदत्ता हस्तपादौ कर्णनासं च च्छित्त्वा श्मशाने छोरिता।
२१९.०१२. यावदुपगुप्तेन श्रुतम्--वासवदत्ता हस्तपादौ कर्णनासं च च्छित्त्वा श्मशाने छोरिता।
२१९.०१३. तस्य बुद्धिरुत्पन्ना--पूर्वं तया मम विषयनिमित्तं दर्शनमाकाङ्क्षितम्।
२१९.०१३. इदानीं तु तस्या हस्तपादौ कर्णनासं च विकार्तितौ, इदानीं तु तस्या दर्शनकाल इति।
२१९.०१४. आह च--
२१९.०१५. यदा प्रशस्ताम्बरसंवृताङ्गी अभूद्विचित्राभरणैर्विभूषिता।
२१९.०१७. मोक्षार्थिनां जन्मपरान्मुखानां श्रेयस्तदास्यास्तु न दर्शनं स्यात् ॥२॥
२१९.०१९. इदानीं तु तस्याः कालेऽयं द्रष्टुं गतमानरागहर्षायाः।
२१९.०२०. निशितासिविक्षतायाः स्वभावनियतस्य रूपस्य् ।३॥
२१९.०२१. यावदेकेन दारकेनोपस्थायकेन च्छत्रमादाय प्रशान्तेनेर्यापथेन श्मशानमनुप्राप्तः।
२१९.०२२. तस्याश्च प्रेषिका पूर्वगुणानुरागात्समीपेऽवस्थिता काकादीन्निवारयति।
२१९.०२२. तया च वासवदत्ताया निवेदितम्--आर्यदुहितः, यस्य त्वया अहं सकाशं पुनः पुनरनुप्रेषिता, अयं स उपगुप्तोऽभ्यगतः।
२१९.०२४. नियतमेष कामरागार्त आगतो भविष्यति।
२१९.०२४. श्रुत्वा च वासवदत्ता कथयति--
२१९.०२६. प्रनष्टशोभां दुःखार्तां भूमौ रुधिरपिञ्जराम्।
२१९.०२७. मां दृष्ट्वा कथमेतस्य कामरागो भविष्यति॥४॥
२१९.०२८. ततः प्रेषिकामुवाच--यौ हस्तपादौ कर्णनासं च मच्छरीराद्विकर्तितौ, तौ श्लेषयेति।
२१९.०२९. तया यावत्श्लेषयित्वा पट्टकेन प्रच्छादिता।
२१९.०२९. उपगुप्तश्चागत्य वासवदत्ताया अग्रतः स्थितः।
२१९.०२९. ततो वासवदत्ता उपगुप्तमग्रतः स्थितं दृष्ट्वा कथयति--आर्यपुत्र, यदा मच्छरीरं स्वस्थभूतं विषयरत्यनुकूलं तदा मया आर्यपुत्रस्य पुनः पुनर्दूती विसर्जिता।
२१९.०३१. आर्यपुत्रेणाभिहितम्--
२२०.००१. <२२०>अकालस्ते भगिनि मां दर्शनायेति।
२२०.००१. इदानीं मम हस्तपादौ कर्णनासौ च विकर्तितौ, स्वरुधिरकर्दम एवावस्थिता।
२२०.००२. इदानीं किमागतोऽसि? आह च--
२२०.००३. इदं यदा पङ्कजगर्भकोमलं महार्हवस्त्राभरणैर्विभूषितम्।
२२०.००५. बभूव गात्रं मम दर्शनक्षमं तदा न दृष्टोऽसि मयाल्पभाग्यया॥५॥
२२०.००७. एतर्हि किं द्रष्टुमिहागतोऽसि यदा शरीरं मम दर्शनाक्षमम्।
२२०.००९. निवृत्तलीलारतिहर्षविस्मयं भयावहं शोणितपङ्कलेपनम्॥६॥
२२०.०११. उपगुप्त उवाच--
२२०.०१२. नाहं भगिनि कामार्तः संनिधावागतस्तव्
२२०.०१३. कामानामशुभानां तु स्वभावं द्रष्टुमागतः॥७॥
२२०.०१४. प्रच्छादिता वस्त्रविभूषणाद्यैर्बाह्यैर्विचित्रैर्मदनानुकूलैः।
२२०.०१६. निरीक्ष्यमाणा अपि यत्नवद्भिर्नाप्यत्र दृष्टासि भवेद्यथावत् ॥८॥
२२०.०१८. इदं तु रूपं तव दृश्यमेतत्स्थितं स्वभावे रचनाद्वियुक्तम्।
२२०.०२०. तेऽपण्डितास्ते च विगर्हणीया ये प्राकृतेऽस्मिन् कुणपे रमन्त् ।९॥
२२०.०२२. त्वचावनद्धे रुधिरावसक्ते चर्मावृते मांसघनावलिप्त्
२२०.०२४. शिरासहस्रैश्च वृते समन्तात्को नाम रज्येत इतः शरीर् ।१०॥
२२०.०२६. अपि च भगिनि।
२२०.०२७. बहिर्भद्राणि रूपाणि दृष्ट्वा बालोऽभिरज्यत्
२२०.०२८. अभ्यन्तरविदुष्टानि ज्ञात्वा धीरो विरज्यत् ।११॥
२२०.०२९. अवकृष्टावकृष्टस्य कुणपस्य ह्यमेध्यता।
२२०.०३०. मेध्याः कामोपसंहाराः कामिनः शुभसंज्ञिनः॥१२॥
२२१.००१. <२२१>इह हि--
२२१.००२. दौर्गन्ध्यं प्रतिवार्यते बहुविधैर्गन्धैरमेध्याकरैर्वैकृत्यं बहिराध्रियेत विविधैर्वस्त्रादिभिर्भूषणैः।
२२१.००४. स्वेदक्लेदमलादयोऽप्यशुचयस्तान्निर्हरत्यम्भसा येनामेध्यकरङ्कमेतदशुभं कामात्मभिः सेव्यत् ।१३॥
२२१.००६. संबुद्धस्य तु ये वचः सुवचसः शृण्वन्ति कुर्वन्त्यपि ते कामाञ्श्रमशोकदुःखजननान् सद्भिः सदा गर्हितान्।
२२१.००८. त्यक्त्वा कामनिमित्तमुक्तमनसः शान्ते वने निर्गताः पारं यान्ति भवार्णवस्य महतः संश्रित्य मार्गप्लवम्॥१४॥
२२१.०१०. श्रुत्वा वासवदत्ता संसारादुद्विग्ना।
२२१.०१०. बुद्धगुणानुस्मरणाच्चावर्जितहृदयोवाच--
२२१.०११. एवमेतत्तथा सर्वं यथा वदसि पण्डित्
२२१.०१२. मे त्वां साधुं समासाद्य बुद्धस्य वचनं श्रुतम्॥१५॥
२२१.०१३. यावदुपगुप्तेन वासवदत्ताया अनुपूर्विकां कथां कृत्वा सत्यानि संप्रकाशितानि।
२२१.०१४. उपगुप्तश्च वासवदत्तायाः शरीरस्वभावमवगम्य कामधातुवैराग्यं गतः।
२२१.०१४. तेनात्मीयया धर्मदेशनया सहसत्याभिसमयादनागामिफलं वासवदत्तया च स्रोतापत्तिफलं प्राप्तम्।
२२१.०१५. ततो वासवदत्ता दृष्टसत्या उपगुप्तं संरागयन्त्युवाच--
२२१.०१७. तवानुभावात्पिहितः सुघोरो ह्यपायमार्गो बहुदोषयुक्तः।
२२१.०१९. अपावृता स्वर्गगतिः सुपुण्या निर्वाणमार्गश्च मयोपलब्धः॥१६॥
२२१.०२१. अपि च्
२२१.०२१. एषाहं तं भगवन्तं तथागतमर्हन्तं सम्यक्सम्बुद्धं शरणं गच्छामि धर्म च भिक्षुसंघं चेत्याह--
२२१.०२३. एषा व्रजामि शरणं विबुद्धनवकमलविमलधवलनेत्रम्।
२२१.०२४. तममरबुधजनमहितं जिनं विरागं च संघं च् ।१७॥ इति॥
२२१.०२५. यावदुपगुप्तो वासवदत्तां धर्म्यया कथया संदर्श्य प्रक्रान्तः।
२२१.०२५. अचिरप्रक्रान्ते चोपगुप्ते वासवदत्ता कालगता देवेषूपपन्ना।
२२१.०२६. देवतैश्च मथुरायामारोचितम्--वासवदत्तया उपगुप्तसकाशाद्धर्मदेशनां श्रुत्वा आर्यसत्यानि दृष्टानि, देवेषूपपन्नेति।
२२१.०२७. श्रुत्वा च मथुरावासतव्येन जनकायेन वासवदत्तायाः शरीरे पूजा कृता॥
२२१.०२९. यावत्स्थविरः शाणकवासी गुप्तं गान्धिकमभिगम्योवाच--अनुजानीहि उपगुप्तं प्रव्राजयिष्यामीति।
२२१.०३०. गुप्तो गान्धिक उवाच--आर्य, एष समयः।
२२१.०३०. यदा न लाभो न च्छेदो भविष्यति, तदा अनुज्ञास्यामीति।
२२१.०३१. यावत्स्थविरशाणकवासिना ऋद्ध्या तथा अधिष्ठितं यथा <२२२>
२२२.००१. न लाभो न च्छेदः।
२२२.००१. ततो गुप्तो गान्धिको गणयति, तुलयति, मापयति, पश्यति--न लाभो न च्छेदः।
२२२.००२. ततः स्थविरः शाणकवासी गुप्तं गान्धिकमुवाच--अयं हि भगवता बुद्धेन निर्दिष्टो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति।
२२२.००३. अनुजानीहि, प्रव्राजयिष्यामीति।
२२२.००३. यावद्गुप्तेन गान्धिकेनाभ्यनुज्ञातः।
२२२.००४. ततः स्थविरेण शाणकवासिना उपगुप्तो नटभटिकारण्यायतनं नीतः, उपसम्पादितश्च्
२२२.००५. ज्ञप्तिचतुर्थं च कर्म व्यवसितम्।
२२२.००५. उपगुप्तेन च सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्कृतम्।
२२२.००६. ततः स्थविरेण शाणकवासिनाभिहितम्--वत्स उपगुप्त, त्वं भगवता निर्दिष्टो वैषशतपरिनिर्वृतस्य ममोपगुप्तो नाम भिक्षुर्भविष्यत्यलक्षणको बुद्धः, यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यतीति।
२२२.००८. एषोऽग्रो मे आनन्द श्रावकाणामववादकानां यदुत उपगुप्तो भिक्षुः।
२२२.००९. इदानीं वत्स शासनहितं कुरुष्वेति।
२२२.००९. उपगुप्त उवाच--एवमस्तु इति।
२२२.०१०. ततः स धर्मश्रवणेऽधीष्टः।
२२२.०१०. मथुरायां च शब्दो विसृतह्--उपगुप्तो नामालक्षणको बुद्धोऽद्य धर्मं देशयिष्यतीति।
२२२.०११. श्रुत्वा चानेकानि प्राणिशतसहस्राणि निर्गतानि।
२२२.०११. यावत्स्थविरोपगुप्तः समापद्यावलोकयति--कथं तथागतेन परिषण्णा? पश्यति चार्धचन्द्राकारेण पर्षदवस्थिता।
२२२.०१३. यावदवलोकयति--कथं तथागतेन धर्मदेशना कृता? पश्यति पूर्वकालकरणीयां कथां कृत्वा सत्यसम्प्रकाशना कृता।
२२२.०१४. सोऽपि पूर्वकालकरणीयां कथां कृत्वा सत्यसम्प्रकाशनां कर्तुमारब्धः।
२२२.०१५. मारेण च तस्यां पर्षदि मुक्ताहारवर्षमुत्सृष्टम्, वैनेयानां मनांसि व्याकुलीकृतानि, एकेनापि सत्यदर्शनं न कृतम्।
२२२.०१६. यावत्स्थविरोपगुप्तो व्यवलोकयति--केनायं व्याक्षेपः कृतह्? पश्यति मारेण्
२२२.०१७. यावद्द्वितीये दिवसे बहुतरको जनकायो निर्गतः।
२२२.०१७. उपगुप्तो धर्मं देशयति, मुक्ताहारं च वर्षोपवर्षितमिति।
२२२.०१८. यावत्द्वितीयेऽपि दिवसे स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यसम्प्रकाशनायामारब्धायां मारेण चास्यां पर्षदि सुवर्णवर्षमुत्सृष्टम्, वैनेयानां मनांसि संलक्षोभितानि, एकेनापि सत्यदर्शनं न कृतम्।
२२२.०२०. यावत्स्थविरोपगुप्तो व्यवलोकयति--केनायं व्याक्षेपः कृतह्? पश्यति मारेण पापीयसेति।
२२२.०२१. यावत्तृतीये शिवसे बहुतरको जनकायो निर्गतः।
२२२.०२२. उपगुप्तो धर्मं देशयति, मुक्तावर्षं सुवर्णवर्षं च पततीति।
२२२.०२३. यावत्तृतीयेऽपि दिवसे स्थविरोपगुप्तः पूर्वकालकरणीयां कथां कृत्वा सत्या न्यारब्धः संप्रकाशयितुम्।
२२२.०२४. मारेण च नातिदूरे नाटकमारब्धम्।
२२२.०२४. दिव्यानि च वाद्यानि संप्रवादितानि, दिव्याश्चाप्सरसो नाटयितुं प्रवृत्ताः।
२२२.०२५. यावद्वीतरागो जनकायो दिव्यानि रूपाणि दृष्ट्वा दिव्यांश्च शब्दाञ्श्रुत्वा मारेणाकृष्टः।
२२२.०२६. अतो मारेणोपगुप्तस्य पर्षदाकृष्टा।
२२२.०२६. प्रईतिमनसा मारेण स्थविरोपगुप्तस्य शिरसि माला बुद्धा।
२२२.०२७. यावत्स्थविरोपगुप्तः समन्वाहरितुमारब्धह्--कोऽयम्? पश्यति मारः।
२२२.०२८. तस्य बुद्धिरुत्पन्ना--अयं मारो भगवच्छासने महान्तं व्याक्षेपं करोति।
२२२.०२९. किमर्थमयं भगवता न विनीतह्? पश्यति ममायं विनेयः।
२२२.०२९. तस्य च विनयात्सत्त्वानुग्रहादहं भगवता अलक्षणको बुद्धो निर्दिष्टः।
२२२.०३०. यावत्स्थविरोपगुप्तः समन्वाहरति--किमस्य विनयकाल उपस्थित आहोस्विन्नेति? पश्यति--विनयकाल उपस्थितः।
२२२.०३१. ततः स्थविरोपगुप्तेन त्रयः कुणपा गृहीताह्--अहिकृणपं कुर्कुरकुणपं मनुष्यकुणपम्।
२२२.०३२. ऋद्ध्या च <२२३>पुष्पमालामभिनिर्माय मारसकाशमभिगतः।
२२३.००१. दृष्ट्वा च मारस्य प्रीतिरुत्पन्ना--उपगुप्तोऽपि मया आकृष्ट इति।
२२३.००२. ततो मारेण स्वशरीरमुपनामितम्।
२२३.००२. स्थविरोपगुप्तः स्वयमेव बध्नाति।
२२३.००२. ततः स्थविरोपगुप्तेनाहिकुणपं मारस्य बद्धम्, कुर्कुरकुणपं ग्रीवायाम्, कर्णवसक्तं मनुष्यकुणपं च्
२२३.००४. ततः समालभ्योवाच--
२२३.००५. भिक्षुजनप्रतिकूला माला बद्धा यथैव मे भवता।
२२३.००६. कामिजनप्रतिकूलं तव कुणपमिदं मया बद्धम्॥१८॥
२२३.००७. यत्ते बलं भवति तत्प्रतिदर्शयस्व बुद्धात्मजेन हि सहाद्य समागतोऽसि।
२२३.००९. उद्वृत्तमप्यनिलभिन्नतरंगवक्रं व्यावर्तने मलयकुक्षिषु सागराम्भः॥१९॥
२२३.०११. अथ मारस्तं कुणपमपनेतुमारब्धः।
२२३.०११. परमपि च स्वयमनुप्रविश्य पिपीलिक इवाद्रिराजमपनयितुं न शशाक्
२२३.०१२. असमर्थो वैहायसमुत्पत्योवाच--
२२३.०१३. यदि मोक्तुं न शक्यामि कण्ठात्श्वकुणपं स्वयम्।
२२३.०१४. अन्ये देवापि मोक्ष्यन्ते मत्तोऽभ्यधिकतेजसः॥२०॥
२२३.०१५. स्थविर उवाच--
२२३.०१६. ब्रह्माणं शरणं शतक्रतुं वा दीप्तं वा प्रविश हुताशमर्णवं वा।
२२३.०१८. न क्लेदं न च परिशोषणं न भेदं कण्ठस्थं कुणपमिदं तु यास्यतीह् ।२१॥
२२३.०२०. समहेन्द्ररुद्रोपेन्द्रद्रविणेश्वरयमवरुणकुबेरवासवदीनां देवानामभिगम्य अकृतार्थ एव ब्रह्माणमभिगतः।
२२३.०२१. तेन चोक्तह्--मर्षय वत्स,
२२३.०२२. शिष्येण दशबलस्य स्वयमृद्ध्या कृतान्तमर्यादा।
२२३.०२३. कस्तां भेत्तुं शक्तो वेलां वरुणालयस्येव् ।२२॥
२२३.०२४. अपि पद्मनालसूत्रैएबद्ध्वा हिमवन्तमुच्छरेत्कश्चित् ।
२२३.०२५. न तु तव कण्ठासक्तं श्वकुणपमिदमुद्धरेयमहम्॥२३॥
२२३.०२६. कामं ममापि महदस्ति बलं तथापि नाहं तथागतसुतस्य बलेन तुल्यः।
२२३.०२८. तेजस्विनां न खलु न ज्वलनेऽस्ति किं तु नासौ द्युतिर्हुतवहे रविमण्डले या॥२४॥
२२४.००१. <२२४>मारोऽब्रवीत्--किमिदानीमाज्ञापयसि? कं शरणं व्रजामीति? ब्रह्माब्रवीत्--
२२४.००२. शघ्रीं तमेव शरणं व्रज यं समेत्य भ्रष्टो हि यः क्षितितले भवतीह जन्तुरुत्तिष्ठति क्षितिमसाववलम्ब्य भूयः॥२५॥
२२४.००६. अथ मारस्तथागतशिष्यसामर्थ्यमुपलभ्य चिन्तयामास--
२२४.००७. ब्रह्मणा पूज्यते यस्य शिष्याणामपि शासनम्।
२२४.००८. तस्य बुद्धस्य सामर्थ्य प्रमातुं को नु शक्नुयात् ॥२६॥
२२४.००९. कर्तुकामोऽभविष्यत्कां शिष्टिं स मम सुव्रतः।
२२४.०१०. यां नाकरिष्यत्क्षान्त्या तु तेनाहमनुरक्षितः॥२७॥
२२४.०११. किं बहुना?
२२४.०१२. अद्यावैमि मुनेर्महाकरुणतां तस्यातिमैत्र्यात्मनः सर्वोपद्रवविप्रमुक्तमनसश्चामीकराद्रिद्युतेः।
२२४.०१४. मोहान्धेन हि तत्र तत्र स मया तैस्तैर्नयैः खेदितस्तेनाहं च तथापि नाम बलिना नैवाप्रियं श्रावितः॥२८॥
२२४.०१६. अथ कामधात्वधिपतिर्मारो नास्त्यन्या गतिरन्यत्रोपगुप्तकादेवेति ज्ञात्वा सर्वमुत्सृज्य स्थविरोपगुप्तसमीपमुपेत्य पादयोर्निपत्योवाच--भदन्त, किमविदितमेतद्भदन्तस्य यथा बोधिमूलमुपादाय मया भगवतो विप्रियशतानि कृतानि? कुतह्?
२२४.०१९. शालायां ब्राह्मणग्रामे मामासाद्य स गौतमः।
२२४.०२०. भक्तच्छेदमपि प्राप्य नाकार्षान्मम विप्रियम्॥२९॥
२२४.०२१. गौर्भूत्वा सर्पवत्स्थित्वा कृत्वा शाकटिकाकृतिम्।
२२४.०२२. स मयायासितो नाथो न चाहं तेन हिंसितः॥३०॥
२२४.०२३. त्वया पुनरहं वीर त्यक्त्वा (तु) सहजां दायाम्।
२२४.०२४. सदेवासुरमध्येषु लोकेष्वद्य विडम्बितः॥३१॥
२२४.०२५. स्थविरोऽब्रवीत्--पापीयन्, कथमपरीक्ष्यैव तथागतमाहात्म्येष्यु श्रावकमुपसंहरसि--
२२४.०२६. किं सर्षपेण समतां नयसीह मेरुं खद्योतकेन रविं मण्डलिना समुद्रम्।
२२४.०२८. अन्या हि सा दशबलस्य कृपा प्रजासु न श्रावकस्य हि महाकरुणास्ति सौम्य् ।३२॥
२२४.०३०. अपि च--
२२४.०३१. यदर्थेन भगवता सापरोधोऽपि मर्षितः।
२२४.०३२. इदं तत्कारणं साक्षादस्माभिरुपलक्षितम्॥३३॥
२२५.००१. <२२५>मार उवाच--
२२५.००२. ब्रूहि ब्रूहि श्रीमतस्तस्य भावं सङ्गं छेत्तुं क्षान्तिगुप्तव्रतस्य्
२२५.००४. योऽसौ मोहान्नित्यमायासितो मे तेनाहं च प्रेक्षितो मैत्र्येणैव् ।३४॥
२२५.००६. स्थविर उवाच--शृणु सौम्य, त्वं हि भगवत्यसकृदसकृदवस्खलितः।
२२५.००६. न च बुद्धाव्रोपितानामकुशलानां धर्माणामन्यत्प्रक्षालनमन्यत्र तथागतप्रसादादेव्
२२५.००८. तदेतत्कारणं तेन पश्यता दीर्घदर्शिना।
२२५.००९. त्वं नाप्रियमिह प्रोक्तः प्रियाण्येव तु लम्भितः॥३५॥
२२५.०१०. न्यायेनानेन भक्तिस्तव हृदि जनिता तेनाग्रमतिना स्वल्पापि ह्यत्र भक्तिर्भवति मतिमतां निर्वाणफलदा।
२२५.०१२. संक्षेपाद्यत्कृतं ते वृजिनमिह मुने मोहान्धमनसा सर्वं प्रक्षालितं तत्तव हृदयगतैः श्रद्धाम्बुविसरैः॥३६॥
२२५.०१४. अथ मारः कदम्बपुष्पवदाहृष्टरोमकूपः सर्वाङ्गेन प्रणिपत्योवाच--
२२५.०१५. स्थाने मया बहुविधं परिखेदितोऽसौ प्राक्सिद्धितश्च भुवि सिद्धमनोरथेन्
२२५.०१७. सर्वं च मर्षितमृषिप्रवरेण तेन पुत्रापराध इव सानुनयेन पित्रा॥३७॥
२२५.०१९. स बुद्धप्रसादाप्यायितमनाः सुचिरं बुद्धगुणाननुस्मृत्य स्थविरस्य पदयोर्निपत्योवाच--
२२५.०२०. अनुग्रहो परः कृतस्त्वया निवेशितं यन्मयि बुद्धगौरवम्।
२२५.०२२. इदं तु कण्ठव्यवलम्बि मैत्र्या महर्षिकोपाभरणं विसर्जय् ।३८॥
२२५.०२४. स्थविर उवाच--समयतो विमोक्ष्यामीति।
२२५.०२४. मार उवाच--कः समय इति? स्थविर उवाच--अद्यप्रभृति भिक्षवो न विहेठयितव्या इति।
२२५.०२५. मारोऽब्रवीत्--न विहेठयिष्य्
२२५.०२५. कमपरमाज्ञापयसीति? स्थविर उवाच--एवं तावच्छासनकार्यं प्रति ममाज्ञा।
२२५.०२६. स्वकार्यं प्रति विज्ञापयिष्यामि भवन्तम्।
२२५.०२७. ततो मारः ससम्भ्रम उवाच--प्रसीद स्थविर, किमाज्ञापयसि? स्थविरोऽब्रवीत्--स्वयमवगच्छसि--यदहं वर्षशतपरिनिर्वृते भगवति प्रव्रजितः, तद्धर्मकायो मया तस्य दृष्टः।
२२५.०२९. त्रैलोक्यनाथस्य काञ्चनाद्रिनिभस्तस्य न दृष्टो रूपकायो म्
२२६.००१. <२२६>तदनु त्वमनुग्रहमप्रतिमिमिह विदर्शय बुद्धविग्रहम्।
२२६.००३, प्रियमधिकमतो हि नास्तिं मे दशबलरूपकुतूहलो ह्याहम्॥३९॥
२२६.००५. मार उवाच--तेन हि ममापि समयः श्रूयताम्।
२२६.००६. सहसा तमिहोद्वीक्ष्य बुद्धनेपथ्यधारिणम्।
२२६.००७. न प्रणामस्त्वया कार्यः सर्वज्ञगुणगौरवात् ॥४०॥
२२६.००८. बुद्धानुस्मृतिपेशलेन मनसा पूजां यदि त्वं मयि स्वल्पामप्युपदर्शयिष्यसि विभो दग्धो भविष्याम्यहम्।
२२६.०१०. का शक्तिर्मम वीतरागविहितां सोढुं प्रणामक्रियां हस्तन्यासमिवोद्वहन्ति न गजस्यैरण्डवृक्षाङ्कुराः॥४१॥
२२६.०१२. स्थविरोऽप्याह--एवमस्तु।
२२६.०१२. न भवन्तं प्रणमिष्यामीति।
२२६.०१२. मारोऽब्रवीत्--तेन हि मुहूर्तमागमय, यावदहं वनगहनमनुप्रविश्य--
२२६.०१४. शूरं वञ्चयितुं पुरा व्यवसितेनोत्तप्तहेमप्रभं बौद्धं रूपमचिन्त्यबुद्धिविभवादासीन्मया यत्कृतम्।
२२६.०१६. कृत्वा रूपमहं तदेव नयनप्रह्लादिकं देहिनामेषोऽप्यर्कमयूखजालममलं भामण्डलेनाक्षिपन्॥४२॥
२२६.०१८. अथ स्थविरहेवमस्तु इत्युक्त्वा तं कुणपमपनीय तथागतरूपदर्शनोत्सुकोऽवस्थितः।
२२६.०१९. मारश्च वनगहनमनुप्रविश्य बुद्धरूपं कृत्वा नट इव सुरुचिरनेपथ्यस्तस्माद्वनगहनादारब्धो निक्ष्रमितुम्।
२२६.०२०. वक्ष्यते हि--
२२६.०२१. तथागतं वपुरथोत्तमलक्षणाढ्यमादर्शयन्नयनशान्तिकरं नराणाम्।
२२६.०२३. प्रत्यग्ररङ्गमिव चित्रपटं महार्हमुद्धाटयन् वनमसौ तदलंचकार् ।४३॥।
२२६.०२५. अथ व्यामप्रभामण्डलमण्डितमसेचनकदर्शनं भगवतो रूपमभिनिर्माय दक्षिणे पार्श्वे स्थविरशारद्वतीपुत्रं वामपार्श्वे स्थविरमहामौद्गल्यायनं पृष्ठतश्चायुष्मन्तमानन्दं बुद्धपात्रव्यग्रहस्तं स्थविरमहाकश्यपानिरुद्धसुभूतिप्रमृतीनां च महाश्रावकाणां रूपाण्यभिनिर्माय अर्धत्रयोदशभिर्भिक्षुशतैरर्धचन्द्रेणानुपरिवृतं बुद्धवेषमादर्शयित्वा मारः स्थविरोपगुप्तस्यान्तिकमाजगाम्
२२६.०२९. स्थविरोपगुप्तस्य च भगवतो रूपमिदमीदृशमिति प्रामोद्यमुत्पन्नम्।
२२६.०२९. स प्रमुदितमनास्त्वरितमासनादुत्थाय निरीक्षमाण उवाच--
२२७.००१. <२२७>धिगस्तु तां निष्करुणामनित्यतां भिनत्ति रूपाणि यदीदृशान्यपि।
२२७.००३. शरीरमीदृक्किल तन्महामुनेरनित्यतां प्राप्य विनाशमागतम्॥४४॥
२२७.००५. स बुद्धावलम्बनया स्मृत्या तथाप्यासक्तमनाः संवृत्तो यथा बुद्धं भगवन्तमहं पश्यामीति व्यक्तमुपागतः।
२२७.००६. स पद्ममुकुलप्रतिममञ्जलिं कृत्वोवाच--अहो रूपशोभा भगवतः।
२२७.००७. किं बहुना?
२२७.००८. वक्त्रेणाभिभवत्ययं हि कमलं नीलोत्पलं चक्षुषा कान्त्या पुष्पवनं घनं प्रियतया चन्द्रं समाप्तद्युतिम्।
२२७.०१०. गाम्भीर्येण महोदधिं स्थिरतया मेरुं रविं तेजसा गत्या सिंहमवेक्षितेन वृषभं वर्णेन चामीकरम्॥४५॥
२२७.०१२. स भूयस्या मात्रया हर्षणापूर्यमाणहृदयो व्यापिना स्वरेणोवाच--
२२७.०१३. अहो भावविशुद्धानां कर्मणो मधुरं फलम्।
२२७.०१४. कर्मणेदं कृतं रूपं नैश्वर्येण यदृच्छया॥४६॥
२२७.०१५. यत्तत्कल्पसहस्रकोटिनियुतैर्वाक्कायचित्तोद्भवं दानक्षान्तिसमाधिबुद्धिनियमैस्तेनार्हता शोधितम्।
२२७.०१७. तेनेदं जननेत्रकान्तममलं रूपं समुत्थापितं यं दृष्ट्वा रिपुरप्यभिप्रमुदितः स्यात्किं पुनर्मद्विधः॥४७॥
२२७.०१९. संबुद्धालम्बनैः संज्ञां विस्मृत्य बुद्धसंज्ञामधिष्ठाय मूलनिकृत्त इव द्रुमः सर्वशरीरेण मारस्य पादयोर्निपतितः।
२२७.०२०. अथ मारः ससम्भ्रमोऽब्रवीत्--एवं तं भदन्त नार्हसि समयं व्यतिक्रमितुम्।
२२७.०२१. स्थविर उवाच--कः समय इति? मार उवाच--ननु प्रतिज्ञातं भदन्तेन--नाहं भवन्तं प्रणमिष्यामीति।
२२७.०२२. ततः स्थविरोपगुप्तः पृथिवीतलादुत्थाय सगद्गदकण्ठोऽब्रवीत्--पापीयन्,
२२७.०२४. न खलु न विदितं मे यस्य वादिप्रधानो जलविहत इवाग्निर्निर्वृतिं संप्रयातः।
२२७.०२६. अपि तु नयनकान्तामाकृतिं तस्य दृष्ट्वा तमृषिमभिनतोऽहं त्वां तु नाभ्यर्चयामि॥४८॥
२२७.०२८. मार उवाच--कथमिहाहं नार्चितो भवामि, यदेवं मां प्रणमसीति।
२२७.०२८. स्थविरोऽब्रवीत्--श्रूयताम्, यथा त्वं नैव मया अभ्यर्चितो भवसि, न च मया समयातिक्रमः कृत इति।
२२८.००१. <२२८>मृण्मयेषु प्रतिकृतिष्वमराणां यथा जनः।
२२८.००२. मृतसंज्ञामनादृत्य नमत्यमरसंज्ञया॥४९॥
२२८.००३. तथाहं त्वामिहोद्वीक्ष्य लोकनाथवपुर्धरम्।
२२८.००४. मारसंज्ञामनादृत्य नतः सुगतसंज्ञया॥५०॥
२२८.००५. अथ मारो बुद्धवेषमन्तर्धापयित्वा स्थविरोपगुप्तमभ्यर्च्य प्रक्रान्तः।
२२८.००५. यावच्चतुर्थे दिवसे मारः स्वयमेव मथुरायां घण्टावघोषितुमारब्धह्--यो युष्माकं स्वर्गापवर्गसुखं प्रार्थयते, स स्थविरोअगुप्तसकाशाद्धर्मं शृणोतु, यैश्च युष्माभिस्तथागतो न दृष्टस्ते स्थविरोपगुप्तं पश्यन्तु इति।
२२८.००८. आह च--
२२८.००९. उत्सृज्य दारिद्र्यमनर्थमूलं यः स्फीतशोभां श्रियमिच्छतीह्
२२८.०११. स्वर्गापवर्गाय च यस्य वाञ्छा स श्रद्धया धर्ममतः शृणोतु॥५१॥
२२८.०१३. दृष्टो न यैर्वा द्विपदप्रधानः शास्ता महाकारुणिकः स्वयम्भूः।
२२८.०१५. ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्तु भास्वत्रिभवप्रदीपम्॥५२॥
२२८.०१७. यावन्मथुरायां शब्दो विसृतह्--स्थविरोपगुप्तेन मारो विनीत इति।
२२८.०१७. श्रुत्वा च यद्भूयसा मथुरावास्तव्यो जनकायः स्थविरोपगुप्तसकाशं निर्गतः।
२२८.०१८. ततः स्थविरोपगुप्तोऽनेकेषु ब्राहमणशतसहस्रेषु संनिपतितेषु सिंह इव निर्भीः सिंहासनमभिरूढः।
२२८.०१९. वक्ष्यति च--
२२८.०२०. मां प्रति न ते शक्यं सिंहासनमविदुषा समभिरोढुम्।
२२८.०२१. यः स सिंहासनस्थो मृग इव स हि याति संकोचम्॥५३॥
२२८.०२२. सिंह इव यस्तु निर्भीर्निनदति प्रवरारिदर्पनाशार्थम्।
२२८.०२३. सिंहासनमभिरोढुं स कथिकसिंहो भवति योग्यः॥५४॥
२२८.०२४. यावत्स्थविरोपगुप्तेन पूर्वकालकरणीयां कथां कृत्वा सत्यानि संप्रकाशितानि।
२२८.०२५. श्रुत्वा चानेकैः प्राणिशतसहस्रैर्मोक्षभागीयानि कुशलमूलान्याक्षिप्तानि।
२२८.०२५. कैश्चिदनागामिफलं प्राप्तम्, कैश्चित्सकृदागामिफलम्, कैश्चित्स्रोताअपत्तिफलम्, यावदष्टादशसहस्राणि प्रव्रजितानि।
२२८.०२७. सर्वैश्च युज्यमानैर्यावदर्हत्त्वं प्राप्रम्॥
२२८.०२८. तत्र चोरुमुण्डपर्वते गुहा अष्टदशहस्ता दैर्ध्येण द्वादशहस्ता विस्तारेण्
२२८.०२८. यदा ते कृतकरणीयाः संवृत्तास्तदा स्थविरोपगुप्तेनाभिहितम्--यो मदीयेनाववादेन सर्वक्लेशप्रहाणादर्हत्त्वं साक्षात्करिष्यति, तेन चतुरङ्गुलमात्रा शलाका गुहायां प्रक्षेप्तव्या।
२२८.०३०. यावदेकस्मिन् दिवसे दशभिरर्हत्सहस्रैः शलाकाः प्रक्षिप्ताः।
२२८.०३१. तस्य यावदासमुद्रायाम् {पृथिव्याम्} शब्दो विसृतह्--मथुरायामुपगुप्तनामा<२२९> अववादकानामग्रो निर्दिष्टो भगवता।
२२९.००१. तद्यथा हि विनीतकामधात्वीश्वरे द्वितीयशास्तृकल्पे महात्मनि स्थविरोपगुप्ते सुरमनुजमहोरगासुरगरुडयक्षगन्धर्वविद्याधरार्चितपादयुग्मे पूर्वबुद्धक्षोत्रावरोपितकुशलबीजसंततीनामनेकेषां सत्त्वशतसहस्राणां सद्धर्मसलिलवर्षधारानिपातेन मोक्षाङ्कुरानभिवर्धयन्नुरुमुण्डे शैल् ।
२२९.००५. कार्यानुरोधात्प्रणतसकलसामन्तचूडामणिमयूखोद्भासितपादपीठस्याशोकस्य राज्ञः पूर्वं पांशुप्रदानं समनुस्मरिष्यामः।
२२९.००६. इत्येवमनुश्रूयते--
२२९.००७. भगवान् राजगृहे विहरति वेणुवने कलिन्दकनिवाप्
२२९.००७. अथ भगवान् पूर्वाह्णे निवास्य पात्रचीवरमादाय भिक्षुगणपरिवृतो भिक्षुसंघपुरस्कृतो राजगृहं पिण्डाय प्राविक्षत् ।
२२९.००९. वक्ष्यति च--
२२९.०१०. कनकाचलसंनिभाग्रदेहो द्विरदेन्द्रप्रतिमः सलीलगामी।
२२९.०१२. पारिपूर्णशशाङ्कसौम्यवक्त्रो भगवान् भिक्षुगणैर्वृतो जगाम् ।५५॥
२२९.०१४. यावद्भगवता साभिसंस्कारं नगरद्वारे पादं प्रतिष्ठापितम्।
२२९.०१४. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः साभिसंस्कारं नगरद्वारमिन्द्रकीले पादौ व्यवस्थापयन्ति, तदा चित्राण्यद्भुतानि प्रादुर्भवन्ति।
२२९.०१६. अन्धाश्चक्षूंषि प्रतिलभन्त्
२२९.०१६. बधिराः श्रोत्रग्रहणसमर्था भवन्ति।
२२९.०१७. पङ्गवो गमनसमर्था भवन्ति।
२२९.०१६. हडिनिगडचारकावबद्धानां सत्त्वानां बन्धनानि शिथिलीभवन्ति।
२२९.०१८. जन्मजन्मवैरानुबद्धाः सत्त्वास्तदनन्तरं मैत्रचित्रतां लभन्त्
२२९.०१८. वत्सा दामानि च्छित्त्वा मातृभिः सार्धं समागच्छन्ति।
२२९.०१९. हस्तिनस्त्रोशन्ति, अश्वा हेषन्ते, ऋषभा गर्जन्ति, शुकशारिककोकिलजीवंजीवकबर्हिणो मधुरान् {शब्दान्} निकूजन्ति।
२२९.०२०. पेडागता अलंकारा मधुरशब्दं निश्चारयन्ति।
२२९.०२१. अपराहतानि च वादित्रभाण्डानि मधुरं शब्दं निश्चारयन्ति।
२२९.०२१. उन्नतोन्नताः पृथिवीप्रदेशा अवनमन्ति।
२२९.०२२. अवनताश्चोन्नमन्ति, अपगतपाषाणशर्करकपालाश्चावतिष्ठन्त्
२२९.०२२. इयं च तस्मिन् समये पृथिवी षडनिकारं प्रकम्पत्
२२९.०२३. तद्यथा--पूर्वो दिग्भाग उन्नमति पश्चिमोऽवनमति, अन्तोऽवनमति मध्य उन्नमति, चलितः प्रचलितो वेधितः प्रवेधितः।
२२९.०२४. इतीमे चान्ये चाद्भुतधर्माः प्रादुर्भवन्ति भगवतो नगरप्रवेश्
२२९.०२५. वक्ष्यति च--
२२९.०२६. लवणजलनिवासिनी ततो वा नगरनिगममण्डिता सशैला।
२२९.०२८. मुनिचरणनिपीडिता च भूमी पवनबलाभिहतेव यावपात्रम्॥५६॥
२२९.०३०. अथ बुद्धप्रवेशकालनियतैः प्रातिहार्यैरावर्ह्जिताः स्त्रीमनुष्यास्तन्नगरमनिलबलचलितभिन्नवीचीतरङ्गक्षुभितमिव महासमुद्रं विमुक्तोच्चनादं बभूव्
२२९.०३१. न हि बुद्धप्रवेशतुल्यं नाम जगत्यद्भुतमुपलभ्यत्
२२९.०३२. पुरप्रवेशसमये हि भगवतश्चित्राण्यद्भुतानि दृश्यन्त्
२२९.०३२. वक्ष्यति च--
२३०.००१. <२३०>निंना चोन्नमते नतावनमते बुद्धानुभावान्मही स्थाणुः शर्करकण्डकव्यपगतो निर्दोषतां याति च्
२३०.००२. अन्धा मूकजडेन्द्रियाश्च पुरुषा व्यक्तेन्द्रियास्तत्क्षणं संवाद्यन्त्यनिघट्टिताश्च नगरे नन्दन्ति तूर्यखनाः॥५७॥
२३०.००५. सर्वं च तन्नगरं सूर्यसहस्रातिरेकया कनकमरीचिवर्णया बुद्धप्रभया स्फुटं बभूव्
२३०.००६. आह च--
२३०.००७. सूर्यप्रभामवभर्त्स्य हि तस्य भाभिर्व्याप्तं जगत्सकलमेव सकाननस्थम्।
२३०.००९. संप्राप्य च प्रवरधर्मकथाभिरामो लोकं सुरासुरनरं हि समुक्तभावम्॥५८॥
२३०.०११. यावद्भगवान् राजमार्गं प्रतिपन्नः।
२३०.०११. तत्र द्वौ बालदारकौ।
२३०.०११. एकोऽग्रकुलिकपुत्रो द्वितीयः कुलिकपुत्रश्च पांश्वागारैस्त्रीडतः।
२३०.०१२. एकस्य जयो नाम, द्वितीयस्य विजयः।
२३०.०१२. ताभ्यां भगवान् दृष्टो द्वात्रिंशन्महापुरुषलक्षणालंकृतशरीरहसेचनकदर्शनश्च्
२३०.०१३. यावज्जयेन दारकेन सक्तुं दास्यामीति पांश्वञ्जलिर्भगवतः पात्रे प्रक्षिप्तः, विजयेन च कृताञ्जलिनाभ्यनुमोदितम्।
२३०.०१५. वक्ष्यति च--
२३०.०१६. दृष्ट्वा महाकारुणिकं स्वयम्भवं व्यामप्रभोद्द्योतितसर्वगात्रम्।
२३०.०१८. धीरेण वक्त्रेण कृतप्रसादः पांशुं ददौ जातिजरान्तकाय् ।५९॥
२३०.०२०. स भगवते प्रतिपादयित्वा प्रणिधानं कर्तुमारब्धह्--अनेनाहं कुशलमूलेन एकच्छत्रायां पृथिव्यां राजा स्याम्, अत्रैव च बुद्धे कारां कुर्यामिति।
२३०.०२२. ततो मुनिस्तस्य निशाभ्य भावं बालस्य सम्यक्प्रणिधिं च बुद्ध्वा।
२३०.०२४. इष्टं फलं क्षृत्रवशेन दृष्ट्वा जग्राह पांशुं करुणायमानः॥६०॥
२३०.०२६. तेन यावद्राज्यविपाक्यं कुशलमाक्षिप्तम्।
२३०.०२६. ततो भवता स्मितं विदर्शितम्।
२३०.०२६. धर्मता खलु यस्मिन् समये बुद्धा भगवन्तः स्मितं विदर्शयन्ति, तस्मिन् समये नीलपीतलोहितावदातमञ्जिष्ठस्फटिकरजतवर्णा अर्चिषो मुखान्निश्चरन्ति।
२३०.०२८. केचिदूर्ध्वतो गच्छन्ति, केचिदधस्ताद्गच्छन्ति।
२३०.०२९. येऽधो गच्छन्ति, ते संजीवं कालसूत्रं संघातं रौरवं महारौरवं तपनं प्रतापनमवीचिपर्यन्तेषु गत्वा ये शीतनरकास्तेषूष्णीभूत्वा निपतन्ति, ये उष्णनरकास्तेषु शीतीभूत्वा निपतन्ति।
२३०.०३१. तेन तेषां सत्त्वानां कारणाविशेषाः प्रतिप्रस्रभ्यन्त्
२३०.०३१. तेषामेवं भवति--किं नु <२३१>भवन्तो वयमितश्च्युताः, आहोस्विदन्यत्रोपपन्ना इति, येनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धाः।
२३१.००२. तेषां भगवान् प्रसादसंजननार्थं निर्मितं विसर्जयति।
२३१.००२. तेषामेवं भवति--न वयमितश्च्युताः, नाप्यन्यत्रोपपन्नाः।
२३१.००३. अपि त्वयमपूर्वदर्शनह्{सत्त्वह्}।
२३१.००३. अस्यानुभावेनास्माकं कारणाविशेषाः प्रतिप्रस्रब्धा इति।
२३१.००४. ते निर्मिते चित्तानि प्रसादयित्वा नरकवेदनीयानि कर्माणि क्षपयित्वा देवमनुष्येषु प्रतिसंधिं गृह्णन्ति यत्र सत्यानां भाजनभूता भवन्ति।
२३१.००५. ये ऊर्द्ध्वतो गच्छन्ति, ते चातुर्महाराजिकान् देवांस्त्रायस्त्रिंशान् यामांस्तुषितान्निर्माणरतीन् परनिर्मितवशवर्तिनो ब्रह्मकायिकान् ब्रह्मपुरोहितान्महाब्रह्मान् परीत्ताभानप्रमाणाभानाभास्वरान् परीत्तशुभानप्रमाणशुभाञ्शुभकृत्स्नाननभ्रकान् पुण्यप्रसवान् बृहत्फलानबृहानतपान् सुदृशान् सुदर्शनानकनिष्ठपर्यन्तेषु देवेषु गत्वा अनित्यं दुःखं शून्यमनात्मेत्युद्धोषयन्ति।
२३१.००९. गाथाद्वयं च भाषन्ते--
२३१.०१०. आरभध्वं निष्क्रामत युज्यध्वं बुद्धशासन्
२३१.०११. धुनीत मृत्युनः सैन्यं नडागारमिव कुञ्जरः॥६१॥
२३१.०१२. यो ह्यस्मिन् धर्मविनये अप्रमत्तश्चरिष्यति।
२३१.०१३. प्रहाय जातिसंसारं दुःखस्यान्तं करिष्यति॥६२॥
२३१.०१४. अथ ता अर्चिषस्त्रिसाहस्रमहासाहस्रं लोकधातुमन्वाहिण्ड्य भगवन्तमेवानुगच्छन्ति।
२३१.०१५. यदि भगवानतीतं कर्म व्याकर्तुकामो भवति, पृष्ठतोऽन्तर्धीयन्त्
२३१.०१५. अनागतं व्याकर्तुकामो भवति, पुरतोऽन्तर्धीयन्त्
२३१.०१६. नरकोपपत्तिं व्याकर्तुकामो भवति, पादतलेऽन्तर्धीयन्त्
२३१.०१६. तिर्यगुपपत्तिं व्याकर्तुकामो भवति, पार्ष्ण्यामन्तर्धीयन्त्
२३१.०१७. प्रेतोपपत्तिं व्याकर्तुकामो भवति, पादाङ्गुष्ठेऽन्तर्धीयन्त्
२३१.०१८. मनुष्योपपत्तिं व्याकर्तुकामो भवति, जानुनोऽन्तर्धीयन्त्
२३१.०१८. बलचक्रवर्तिराज्यं व्याकर्तुकामो भवति, वामे करतलेऽन्तर्धीयन्त्
२३१.०१९. चक्रवर्तिराज्यं व्याकर्तुकामो भवति, दक्षिणे करतलेऽन्तर्धीयन्त्
२३१.०२०. देवोपपत्तिं व्याकर्तुकामो भवति, नाभ्यामन्तर्धीयन्त्
२३१.०२०. श्रावकबोधिं व्याकर्तुकामो भवति, आस्येऽन्तर्धीयन्त्
२३१.०२१. प्रत्येकां बोधिं व्याकर्तुकामो भवति, ऊर्णायामन्तर्धीयन्त्
२३१.०२२. अनुत्तरां सम्यक्सम्बोधिं व्याकर्तुकामो भवति, उष्णीषेऽन्तर्धीयन्त्
२३१.०२२. अथ ता अर्चिषो भगवन्तं त्रिः प्रदक्षिणीकृत्य भगवतो वामे करतलेऽन्तर्हिताः।
२३१.०२३. अथायुष्मानानन्दः कृताञ्जलिपुटो गाथां भासते--
२३१.०२५. विगतोद्भवा दैन्यमदप्रहीणा बुद्धा जगत्युत्तमहेतुभूताः।
२३१.०२७. नाकारणं शङ्खमृणालगौरं स्मितं विदर्शयन्ति जिना जितारयः॥३६॥
२३१.०२९. तत्कालं स्वयमधिगम्य वीर बुद्ध्या श्रोतृर्णां श्रमण जिनेन्द्र काङ्क्षितानाम्।
२३१.०३१. धीराभिर्मुनिवृष वाग्भिरुत्तमाभिरुत्पन्नं व्यपनय संशयं शुभाभिः॥६४॥
२३२.००१. मेघस्तनितनिर्घोष गोवृषेन्द्रनिभेक्षण्
२३२.००२. फलं पांशुप्रदानस्य व्याकुरुष्व नरोत्तम्॥६५॥
२३२.००३. भगवानाह--एवमेतदानन्द एवमेतदानन्द्
२३२.००३. नाहेत्वप्रत्ययं तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितमुपदर्शयन्ति।
२३२.००४. अपि तु सहेतु सप्रत्ययं तथागता अर्हन्तः सम्यक्सम्बुद्धाः स्मितमुपदर्शयन्ति।
२३२.००५. पश्यसि त्वमानन्द दारकं येन तथागतस्य पात्रे पांश्वञ्जलिः प्रक्षिप्तह्? एवं भदन्त्
२३२.००६. अयमानन्द दारकोऽनेन कुशलमूलेन वर्षशतपरिनिर्वृतस्य तथागतस्य पाटलिपुत्रे नगरे अशोको नांना राजा भविष्यति चतुर्भागचक्रवर्ती धार्मिको धर्मराजा, यो मे शरीरधातून् वैस्तारिकान् करिष्यति।
२३२.००८. चतुरशीतिं धर्मराजिकासहस्रं प्रतिष्ठापयिष्यति।
२३२.००९. बहुजनहिताय प्रतिपत्स्यत इति।
२३२.००९. आह च--
२३२.०१०. अस्तंगते मयि भविष्यति एकराजा योऽसौ ह्यशोक इति नाम विशालकीर्तिः।
२३२.०१२. मद्धातुगर्भपरिमण्डितजम्बुखण्डमेतत्करिष्यति नरामरपूजितानाम्॥६६॥
२३२.०१४. अयमस्य देयधर्मो यत्तथागतस्य पांश्वञ्जलिः पात्रे पक्षिप्तः।
२३२.०१४. यावद्भगवता तेषां सर्व आयुष्मते आनन्दाय दत्ताः।
२३२.०१५. गोमयेन मिश्रयित्वा यत्र चंक्रमे तथागतश्चंक्रम्यते, तत्र गोमयकार्षीं प्रयच्छति।
२३२.०१६. यावदायुष्मता आनन्देन तेषां सगोमयेन मिश्रयित्वा यत्र चंक्रमति भगवान्, तत्र गोमयकार्षी दत्ता॥
२३२.०१८. तेन खलु पुनः समयेन राजगृहे बिम्बिसारो राजा राज्यं कारयति।
२३२.०१८. राज्ञो बिम्बिसारस्य अजातशत्रुः पुत्रः।
२३२.०१९. अजातशत्रोरुदायी।
२३२.०१९. उदायिभद्रस्य मुण्डः।
२३२.०१९. मुण्डस्य काकवर्णी।
२३२.०२०. काकवर्णिनः सहली।
२३२.०२०. सहलिनस्तुलकुची।
२३२.०२०. तुलकुचेर्महामण्डलः।
२३२.०२०. महामण्डलस्य प्रसेनजित् ।
२३२.०२१. प्रसेनजितो नन्दः।
२३२.०२१. नन्दस्य बिन्दुसारः।
२३२.०२१. पाटलिपुत्रे नगरे बिंदुसारो नाम राजा राज्यं कारयति।
२३२.०२२. बिन्दुसारस्य राज्ञः पुत्रो जातः।
२३२.०२२. तस्य सुसीम इति नामधेयं कृतम्।
२३२.०२३. तेन च समयेन चम्पायां नगर्यामन्यतमो ब्राह्मणः।
२३२.०२३. तस्य दुहिता जाता अभिरूपा दर्शनीया प्रासादिका जनपदकल्याणी।
२३२.०२४. सा नैमित्तिकैर्व्याकृता--आस्या दारिकाया राजा भर्ता भविष्यति।
२३२.०२५. द्वे पुत्ररत्ने जनयिष्यति, एकश्चतुर्भागचक्रवर्ती भविष्यति।
२३२.०२५. द्वितीयः प्रव्रजित्वा सिद्धव्रतो भविष्यति।
२३२.०२६. श्रुत्वा च ब्राहमणस्य रोमहर्षो जातः।
२३२.०२६. संपत्तिकामो लोकः।
२३२.०२६. स तां दुहितरं ग्रहाय पाटलिपुत्रं गतः।
२३२.०२७. तेन सा सर्वालंकारैर्विभूषयित्वा राज्ञो बिन्दुसारस्य भार्यार्थमनुप्रदत्ता--इयं हि देवकन्या धन्या प्रशस्ता चेति।
२३२.०२८. यावद्राज्ञा बिन्दुसारेणान्तःपुरं प्रवेशिता।
२३२.०२९. अन्तःपुरिकाणां बुद्धिरुत्पन्ना--इयमभिरूपा प्रासादिका जनपदकल्याणी।
२३२.०२९. यदि राजा अनया सार्धं परिचारयिष्यति, अस्माकं भूयश्चक्षुःसम्प्रेषणमपि न करिष्यति।
२३२.०३०. ताभिः सा नापिताकर्म शिक्षापिता।
२३२.०३१. सा राज्ञः कृशश्मश्रुं प्रसाधयति यावत्सुशिक्षिता संवृत्ता।
२३२.०३१. यदा <२३३>आरभते राज्ञः केशश्मश्रुम्, तदा राजा शेत्
२३३.००१. यावत्राज्ञा प्रीतेन वरेण प्रवारिता--किं त्वं वरमिच्छसीति? तया अभिहितम्--देवेन मे सह समागमः स्यात् ।
२३३.००२. राजा आह--त्वं नापिनी, अहं राजा क्षत्रियो मूर्धाभिषिक्तः।
२३३.००३. कथं मया सार्धं समागमो भविष्यति? सा कथयति--देव नाहं नापिनी, अपि तु ब्राह्मणस्याहं दुहिता।
२३३.००४. तेन देवस्य पत्न्यर्थं दत्ता।
२३३.००५. राजा कथयति--केन त्वं नापितकर्म शिक्षापिता? सा कथयति--अन्तःपुरिकाभिः।
२३३.००५. राजा आह--न भूयस्त्वया नापितकर्म कर्तव्यम्।
२३३.००६. यावद्राज्ञा अग्रमहिषी स्थापिता।
२३३.००६. तया सार्धं त्रीडति रमते परिचारयति।
२३३.००७. सा आपन्नसत्त्वा संवृत्ता।
२३३.००७. यावदष्टानां नवानां वा मासानामत्ययात्प्रसूता।
२३३.००८. तस्याः पुत्रो जातः।
२३३.००८. तस्य विस्तरेण जातिमहं कृत्वा किं कुमारस्य भवतु नाम? सा कथयति--अस्य दारकस्य अशोकास्मि संवृत्ता।
२३३.००९. तस्य अशोक इति नाम कृतम्।
२३३.०१०. यावद्द्वितीयः पुत्रो जातः।
२३३.०१०. तस्य विगतशोक इति नाम कृतम्।
२३३.०११. अशोको दुःस्पर्शगात्रः।
२३३.०११. राज्ञो बिन्दुसारस्यानभिप्रेतः।
२३३.०११. अथ राजा बिन्दुसारह कुमारं परीक्षितुकामः पिङ्गलवत्साजीवं परिव्राजकमामन्त्रयते--उपाध्याय, कुमारांस्तावत्परीक्षामह्--कः शक्यते शक्यते ममात्ययाद्राज्यं कारयितुम्? पिङ्गलवत्साजीवः परिव्राजकः कथयति--तेन हि देव कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गच्छ, परीक्षामः।
२३३.०१४. यावद्राजा कुमारानादाय सुवर्णमण्डपमुद्यानं निर्गतः।
२३३.०१५. यावदशोकः कुमारो मात्रा चोच्यते--वत्स, राजा कुमारान् परीक्षितुकामः सुवर्णमण्डपमुद्यानं गतः, त्वमपि तत्र गच्छेति।
२३३.०१६. अशोकः कथयति--राज्ञोऽहमनभिप्रेतो दर्शनेनापि, किमहं तत्र गामिष्यामि? सा कथयति--तथापि गच्छेति।
२३३.०१८. अशोक उवाच--आहारं प्रेषय्
२३३.०१८. यावदशोकः पाटलिपुत्रान्निर्गच्छति, राधगुप्तेन चाग्रामात्यपुत्रेणोक्तह्--अशोक, क्व गमिष्यसीति? अशोकः कथयति--राजा अद्य सुवर्णमण्डपे उद्याने कुमारान् परीक्षयति।
२३३.०२०. तत्र राज्ञो महल्लको हस्तिनागस्तिष्ठति।
२३३.०२०. यावदशोकस्तस्मिन्महल्लकेऽभिरुह्य सुवर्णमण्डपमुद्यानं गत्वा कुमाराणां मध्येऽत्र पृथिव्यां प्रस्तीर्य निषसाद्
२३३.०२२. यावत्कुमाराणामाहार उपनामितः।
२३३.०२२. अशोकस्यापि शाल्योदनं दधिसमिश्रं मृद्भाजने प्रेषितम्।
२३३.०२३. ततो राज्ञा बिन्दुसारेण पिङ्गलवत्साजीवः परिव्राजकोऽभिहितह्--उपाध्याय, परीक्ष कुमारान्--कः शक्यते ममात्ययाद्राज्यं कर्तुमिति? पश्यति पिङ्गलवत्साजीवः परिव्राजकः, चिन्तयति च--अशोको राजा भविष्यति।
२३३.०२५. अयं च राज्ञो नाभिप्रेतः।
२३३.०२५. यदि कथयिष्यामि अशोको राजा भविष्यतीति, नास्ति मे जीवितम्।
२३३.०२६. स कथयति--देव अभेदेन व्याकरिष्यामि।
२३३.०२७. राजा आह--अभेदेन व्याकुरुष्व्
२३३.०२७. आह--यस्य यानं शोभनं स राजा भविष्यति।
२३३.०२७. तेषामेकैकस्य बुद्धिरुत्पन्ना--मम यानं शोभनम्।
२३३.०२८. आह राजा भविष्यामि।
२३३.०२८. अशोकश्चिन्तयति--अहं हस्तिस्कन्धेनागतः।
२३३.०२९. मम यानं शोभनम्, अहं राजा भविष्यामीति।
२३३.०२९. राजा आह--भूयस्तावदुपाध्याय परीक्षस्व्
२३३.०३०. पिङ्गलवत्साजीवः परिव्राजकः कथयति--देव, यस्यासनमग्रम्, स राजा भविष्यति।
२३३.०३१. तेषामेकैकस्य बुद्धिरुत्पन्ना--ममासनमग्रम्।
२३३.०३१. अशोकश्चिन्तयति--मम पृथिव्यासनम्, अहं राजा भविष्यामि।
२३३.०३२. एवं भाजनं भोजनं पानम्।
२३३.०३२. विस्तरेण कुमारान् परीक्ष्य प्रविष्टः।
२३४.००१. <२३४>यावदशोको मात्रोच्यते--को व्याकृतो राजा भविष्यतीति? अशोकः कथयति--अभेदेन व्याकृतम्--यस्य यानमग्रमासनं पानं भाजनं चेति, स राजा भविष्यतीति।
२३४.००२. यथा पश्यमि--अहं राजा भविष्यामि।
२३४.००३. मम हस्तिस्कन्धं यानं पृथिवी आसनं मृण्मयं भाजनं शाल्योदनं दधिव्यञ्जनं पानीयं पानमिति॥
२३४.००५. ततः पिङ्गलवत्साजीवः परिव्राजकहशोको राजा भविष्यतीति तस्य मातरमारब्धः सेवितुम्।
२३४.००६. यावत्तयोच्यते--उपाध्याय, कतरः कुमारो राज्ञो बिन्दुसारस्यात्ययाद्राजा भविष्यतीति? आह--अशोकः।
२३४.००७. तयोच्यते--कदाचित्त्वां राजा निर्बन्धेन पृच्छेत् ।
२३४.००७. गच्छ त्वम्।
२३४.००८. प्रत्यन्तं समाश्रय्
२३४.००८. यदा शृणोषि अशोको राजा संवृत्ताः, तदा आगन्तव्यम्।
२३४.००८. यावत्स प्रत्यन्तेषु जनपदेषु संश्रितः॥
२३४.०१०. अथ राज्ञो बिन्दुसारस्य तक्षशिला नाम नगरं विरुद्धम्।
२३४.०१०. तत्र राज्ञा बिन्दुसारेण अशोको विसर्जितह्--गच्छ कुमार, तक्षशिलानगरं संनाहय्
२३४.०११. चतुरङ्गं बलकायं दत्तम्, यानं प्रहरणं च प्रतिषिद्धम्।
२३४.०१२. यावदशोकः कुमारः पाटलिपुत्रान्निर्गच्छन् भृत्यैर्विज्ञप्तह्--कुमार, नैवास्माकं सैन्यप्रहरणम्--केन वयं कं युध्यामह्? ततहशोकेनाभिहितम्--यदि नाम राज्यविपाक्यं कुशलमस्ति, सैन्यं प्रहरणं च प्रादुर्भवतु।
२३४.०१४. एवमुक्ते कुमारेण पृथिव्यामवकाशो दत्तः।
२३४.०१५. देवताभिः सैन्यप्रहरणानि चोपनीतानि।
२३४.०१५. यावत्कुमारश्चतुरङ्गेन बलकायेन तक्षशिलां गतः।
२३४.०१६. श्रुत्वा तक्षशिलानिवासिनः पौरा अर्धतृतीयानि योजनानि मार्गे शोभां कृत्वा पूर्णघटमादाय प्रत्युद्गताः।
२३४.०१७. प्रत्युद्गम्य च कथयन्ति--न वयं कुमारस्य विरुद्धाः, नापि राज्ञो बिन्दुसारस्य, अपि तु दुष्टामात्या अस्माकं परिभवं कुर्वन्ति।
२३४.०१८. महता च सत्कारेण तक्षशिलां प्रवेशितः।
२३४.०१९. एवं विस्तरेणाशोकः खशराज्यं प्रवेशितः।
२३४.०१९. तस्य द्वौ महानग्नौ संश्रितौ।
२३४.०१९. तेन तौ वृत्त्या संविभक्तौ तस्याग्रतः पर्वतान् संछिन्दन्तौ संप्रस्थितौ।
२३४.०२०. देवताभिश्चोक्तम्--अशोकश्चतुर्भागचक्रवर्ती भविष्यति, न केनचिद्विरोधितव्यमिति।
२३४.०२१. विस्तरेण यावदासमुद्रा पृथिवी आज्ञापिता॥
२३४.०२३. यावत्सुसीमः कुमार उद्यानात्पाटलिपुत्रं प्रविशति।
२३४.०२३. राज्ञो बिन्दुसारस्याग्रामात्यः खल्लाटकः पाटलिपुत्रान्निर्गच्छति।
२३४.०२४. तस्य सुसीमेन कुमारेण त्रीडाभिप्रायतया खटका पातिता।
२३४.०२५. यावदमात्यश्चिन्तयति--इदानीं खटकां निपातयति।
२३४.०२५. यदा राजा भविष्यति, तदा शस्त्रं पातयिष्यति।
२३४.०२६. तथा करिष्यामि यथा राजैव न भविष्यति।
२३४.०२६. तेन पञ्चामात्यशतानि भिन्नानि।
२३४.०२७. अशोकश्चतुर्भागचक्रवर्ती निर्दिष्ट एव, राज्ये प्रतिष्ठापयिष्यामः।
२३४.०२७. तक्ष्शिलाश्च विरोधिताः।
२३४.०२८. यावद्राज्ञा सुसीमः कुमारस्तक्षशिलामनुप्रेषितः।
२३४.०२८. न च शक्यते संनामयितुम्।
२३४.०२८. बिन्दुसारश्च राजा ग्लानीभूतः।
२३४.०२९. तेनाभिहितम्--सुसीमं कुमारमानयथ, राज्ये प्रतिष्ठापयिष्यामीति।
२३४.०२९. अशोकं तक्षशिलां प्रवेशयथ्
२३४.०३०. यावदमात्यैरशोकः कुमारो हरिद्रया प्रलिप्तो लक्षां च लोहपात्रे क्वाथयित्वा क्वथितेन रसेन लोहपात्राणि म्रक्षयित्वा छोरयन्ति--अशोकः कुमारो ग्लानीभूत इति।
२३४.०३२. यदा बिन्दुसारः स्वल्पावशेषप्राणः संवृत्तः, तदा अमात्यैरशोकः कुमारः सर्वालंकारैर्भूषयित्वा<२३५> राज्ञो बिन्दुसारस्योपनीतह्--इमं तावद्राज्ये प्रतिष्ठापय्
२३५.००१. यदा सुसीम आगतो भविष्यति, तदा तं राज्ये प्रतिष्ठापयिष्यामः।
२३५.००२. ततो राजा रुषितः।
२३५.००२. अशोकेन चाभिहितम्--यदि मम धर्मेण राज्यं भवति, देवता मम पट्टं बन्धन्तु।
२३५.००३. यावद्देवताभिः पट्टो बद्धः।
२३५.००३. तं दृष्ट्वा बिन्दुसारस्य राज्ञ उष्णं शोणितं मुखादागतं यावत्कालगतः।
२३५.००४. यदा अशोको राज्ये प्रतिष्ठितः, तस्योर्ध्वं योजनं यक्षाः शृण्वन्ति, अधो योजनं नागाः।
२३५.००५. तेन राधगुप्तोऽग्रामात्यः स्थापितः।
२३५.००६. सुसीमेनापि श्रुतम्--बिन्दुसारो राजा कालगतः, अशोको राज्ये प्रतिष्ठितः।
२३५.००६. इति श्रुत्वा च रुषितोऽभ्यागतः।
२३५.००७. त्वरितं च तस्माद्देशादागतः।
२३५.००७. अशोकेनापि पाटलिपुत्रे नगरे एकस्मिन् द्वारे एको नग्नः स्थापितः, द्वितीये द्वितीयः, तृतीये राधगुप्तः, पूर्वद्वारे स्वयमेव राजा अशोकोऽवस्थितः।
२३५.००९. राधगुप्तेन च पूर्वस्मिन् द्वारे यन्त्रमयो हस्ती स्थापितः।
२३५.००९. अशोकस्य च प्रतिमां परिखां खनयित्वा खदिराङ्गारैश्च पूरयित्वा तृणेनाच्छाद्य पांशुनाकीर्णा।
२३५.०१०. सुसीमश्चाभिहितह्--यदि शक्यसेऽशोकं घातयितुं राजेति(?)।
२३५.०११. स यावत्पूर्वद्वारं गतह्--अशोकेन सह योत्स्यामीति।
२३५.०१२. अङ्गारपूर्णायां परिखायां पतितः।
२३५.०१२. तत्रैव चानयेन व्यसनमापन्नः।
२३५.०१२. यदा च सुसीमः प्रघातितः, तस्यापि महानग्नो भद्रायुधो नांना अनेकसहस्रपरिवारः, स भगवच्छासने प्रव्रजितोऽर्हन् संवृत्तः॥
२३५.०१४. यदा अशोको राज्ये प्रतिष्ठितः स तैरमात्यैरवज्ञया दृश्यत्
२३५.०१४. तेनामात्यानामभिहितम्--भवन्तः, पुष्पवृक्षान् फलवृक्षांश्च च्छित्त्वा कण्टकवृक्षान् परिपालयथ्
२३५.०१५. अमात्या आहुह्--देवेन कुत्र दृष्टम्? अपि तु कण्टकवृक्षांश्छित्त्वा पुष्पवृक्षान् फलवृक्षांश्च परिपालयितव्यम्।
२३५.०१७. तैर्यावत्त्रिरपि राज्ञ आज्ञा प्रतिकूलिता, ततो राज्ञा रुषितेन असिं निष्कोशं कृत्वा पञ्चानाममात्यशतानां शिरंसि च्छिन्नानि।
२३५.०१८. यावद्राजा अशोकोऽपरेण समयेनान्तःपुरपरिवृतो वसन्तकालसमये पुष्पितफलितेषु पादपेषु पूर्वनगरस्योद्यानं गतः।
२३५.०१९. तत्र च परिभ्रमता अशोकवृक्षः सुपुष्पितो दृष्टः।
२३५.०२०. ततो राज्ञो ममापि सहनामा इत्यनुनयो जातः।
२३५.०२०. स च राजा अशोको दुःस्पर्शगात्रः।
२३५.०२१. ता युवतयस्तं नेच्छन्ति स्प्रष्टुम्।
२३५.०२१. यावद्राजा शयितः, तस्यान्तःपुरेण रोषेण तस्मादशोकवृक्षात्पुष्पाणि शाखाश्च च्छिन्नाः।
२३५.०२२. यावद्राज्ञा प्रतिबुद्धेन सोऽशोकवृक्षो दृष्टः, पृष्टश्च--केन तच्छिन्नम्? ते कथयन्ति--देव, अन्तःपुरिकाभिरिति।
२३५.०२३. श्रुत्वा च राज्ञा अमर्षजातेन पञ्च स्त्रीशतानि किटिकैः संवेष्ट्य दग्धानि।
२३५.०२४. तस्येमान्यशुभान्यालोक्य चण्डो राजा चण्डाशोक इति व्यवस्थापितः।
२३५.०२५. यावद्राधगुप्तेनाग्रामात्येनाभिहितह्--देव, न सदृशं स्वयमेवेदृशमकार्यं कर्तुम्।
२३५.०२६. अपि तु देवस्य वध्यघातकाः पुरुषाः स्थापयितव्याः, ये देवस्य वध्यकरणीयं शोधयिष्यन्ति।
२३५.०२७. यावद्राज्ञा राजपुरुषाः प्रयुक्ताह्--वध्यघातं मे मार्गध्वेति।
२३५.०२८. यावत्तत्र नातिदूरे पूर्वतपादमूले कर्वटकम्।
२३५.०२८. तत्र तन्त्रवायः प्रतिवसति।
२३५.०२८. तस्य पुत्रो जातः।
२३५.०२८. गिरिक इति नामधेयं कृतम्।
२३५.०२९. चण्डो दुष्टात्मा मातरं पितरं च परिभाषते, दारकदारिकाश्च ताडयति, पिपीलिकान्मक्षिकान्मूषिकान्मत्स्यांश्च जालेन बडिशेन प्रघातयति।
२३५.०३१. चण्डो दारकस्तस्य चण्डगिरिक इति नामधेयं कृतम्।
२३५.०३१. यावद्राजपुरुषैर्दृष्टः पापे कर्मणि प्रवृत्तः।
२३५.०३२. स तैरभिहितह्--शक्यसे राज्ञोऽशोकस्य वध्यकरणीयं कर्तुम्? स <२३६>आह--कृत्स्नस्य जम्बुद्वीपस्य वध्यकरणीयं साधयिष्यामीति।
२३६.००१. यावद्राज्ञो निवेदितम्।
२३६.००१. राज्ञा अभिहितम्--आनीयतामिति।
२३६.००२. स च राजपुरुषैरभिहितह्--आगच्छ, राजा त्वामाह्वयतीति।
२३६.००३. तेनाभिहितम्--आगमयत, यावदहं मातपितरौ अवलोकयामीति।
२३६.००३. यावन्मातापितरौ उवाच--अम्ब तात, अनुजानीध्वम्।
२३६.००४. यास्याम्यहं राज्ञोऽशोकस्य वध्यकरणीयं साधयितुम्।
२३६.००४. ताभ्यां च स निवारितः।
२३६.००५. तेन तौ जीविताद्व्यपरोपितौ।
२३६.००५. एवं यावद्राजपुरुषैरभिहितह्--किमर्थं चिरेणाभ्यागतोऽसि? तेन चैतत्प्रकरणं विस्तरेणारोचितम्।
२३६.००६. स तैर्यावद्राज्ञोऽशोकस्योपनामितः।
२३६.००७. तेन राज्ञोऽभिहितम्--ममार्थाय गृहं कारयस्वेति।
२३६.००७. यावद्राज्ञा गृहं कारपितं परमशोभनं द्वारमात्ररमणीयम्।
२३६.००८. तस्य रमणीयकं बन्धनमिति संज्ञा व्यवस्थापिता।
२३६.००८. स आह--देव, वरं मे प्रयच्छ, यस्तत्र प्रविशेत्तस्य न भूयो निर्गम इति।
२३६.००९. यावद्राज्ञाभिहितम्--एवमस्तु इति।
२३६.०११. ततः स चण्डगिरिकः कुर्कुटारामं गतः।
२३६.०११. भिक्षुश्च बालपण्डितः सूत्रं पठति।
२३६.०१२. सत्त्वा नरकेषूपपन्नाः।
२३६.०१२. यावन्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां संप्रज्वलितायामेकज्वालिभूतायामुत्तानकान् प्रतिष्ठाप्य अयोमयेन विष्कम्भकेन मुखद्वारं विष्कम्भ्य अयोगुडानादीप्तान् प्रदीप्तान् संप्रज्वलितानेकज्वालीभूतानास्ये प्रक्षिपान्ति, ये तेषां सत्त्वानामोष्ठौ अपि दहन्ति, जह्वामपि कण्ठमपि कण्ठमपि हृदयमपि हृदयसामन्तमपि अन्त्राण्यन्त्रगुणानपि दग्ध्वा अधः प्रघरति।
२३६.०१६. एवं दुःखा हि भिक्षवो नारकाः सत्त्वा नरकेषूपपन्नाः।
२३६.०१७. यावन्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालिभूतायामुत्तानकान् प्रतिष्ठाप्य अयोमयेन विष्कम्भकेन मुखद्वारं विष्कम्भ्य क्वथितं ताम्रमास्ये प्रक्षिपन्ति, यत्तेषां सत्त्वानामोष्ठावपि दहति, जिह्वामपि ताल्वपि कण्ठमपि कण्ठनालमपि, अन्त्राण्यन्त्रगुणानपि दग्ध्वा अधः प्रघरति।
२३६.०२०. एवं दुःखा हि भिक्षवो नरकाः।
२३६.०२०. सन्ति सत्त्वा नरकेषूपपन्ना यान्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां संप्रज्वलितायामेकज्वालीभूतायामवान्मुखान् प्रतिष्ठाप्य अयोमयेन सूत्रेणादीप्तेन संप्रज्वलितेनैकज्वालीभूतेनास्क्फाट्य अयोमयेन कुठारेणादीप्तेन संप्रदीप्तेन संप्रज्वलितेनैकज्वालीभूतेन तक्षणुवन्ति संतक्ष्णुवन्ति संप्रतक्ष्णुवन्ति अष्टांशमपि षडंशमपि षडंशमपि चतुरस्नमपि वृत्तमपि मण्डलमपि उन्नतमपि अवनतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति।
२३६.०२५. एवं दुःखा हि भिक्षवो नरकाः।
२३६.०२५. सन्ति सत्त्वा नरकेषूपपन्ना यान्नरकपाला गृहीत्वा अयोमय्यां भूमौ आदीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वलीभूतायामवन्मुखान् प्रतिष्ठाप्य अयोमयेन अयोमयेन सूत्रेणादीप्तेन प्रदीप्तेन संप्रज्वलितेनैकज्वालीभूतेनास्फाट्य अयोमय्यां भूम्यामाअदीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वालीभूतायां तक्ष्णुवन्ति संतक्ष्णुवन्ति संपरितक्ष्णुवन्ति, अष्टांशमपि षडंशमपि चतुरस्नमपि मण्डलमपि उन्नतमपि अवनतमपि शान्तमपि विशान्तमपि तक्ष्णुवन्ति।
२३६.०३०. एवं दुःखा हि भिक्षवो नरकाः।
२३६.०३१. सन्ति सत्त्वा नरकेषूपपन्ना यान्नरकपाला गृहीत्वा अयोमय्यां भूमावादीप्तायां प्रदीप्तायां संप्रज्वलितायामेकज्वलीभूतायामुत्तानकान् प्रतिष्ठाप्य पञ्चविषटबन्धनां कारणां कारयन्ति, उभयोर्हस्तयोरायसौ<२३७> कीलौ त्रामन्ति, उभयोः पादयोरायसे कीले त्रामन्ति, मध्ये हृदयस्यायसं कीलं क्रामन्ति।
२३७.००२. {एवम्} सुदुःखा हि भिषवो नरकाः।
२३७.००२. एवं पञ्च वेदना इति कुरुते सदृशाश्च कारणाः सत्त्वानामारब्धाः कारयितुम्॥
२३७.००४. यावत्श्रावस्त्यामन्यतमः सार्थवाहः पत्न्या सह महासमुद्रमवतीर्णः।
२३७.००४. तस्य सा पत्नी महासमुद्रे प्रसूता।
२३७.००५. दारको जातः।
२३७.००५. तस्य समुद्र इति नामधेयं कृतम्।
२३७.००५. यावद्विस्तरेण द्वादशभिर्वर्षैर्महासमुद्रादुत्तीर्णः।
२३७.००६. स च सार्थवाहः पञ्चभिर्धूर्तशतैर्मुषितः।
२३७.००६. सार्थवाहः स प्रघातितः।
२३७.००७. स च समुद्रः सार्थवाहपुत्रो भगवच्छासने प्रव्रजितः।
२३७.००७. स जनपदचारिकां चरन् पाटलिपुत्रमनुप्राप्तः।
२३७.००८. स पूर्वाह्णे निवास्य पात्रचीवरमादाय पाटलिपुत्रं पिण्डाय प्रविष्टः।
२३७.००९. सोऽनभिज्ञतया च रमणीयकं भवनं प्रविष्टः।
२३७.००९. तच्च द्वारमात्ररमणीयमभ्यन्तरं नरकभवनसदृशं प्रतिभयम्।
२३७.०१०. दृष्ट्वा च पुनर्निर्गन्तुकामश्चण्डैरिकेनावलोकितः।
२३७.०१०. गृहीत्वा चोक्तह्--इह ते निधनभुपगन्तव्यमिति।
२३७.०११. विस्तरेण कार्यम्।
२३७.०११. ततो भिक्षुः शोकार्तो बाष्पकण्टः संवृत्तः।
२३७.०१२. तेनोच्यते--किमिदं बालदारक इव रुदसीति? स भिक्षुः प्राह--
२३७.०१३. न शरीरविनाशं हि शोचामि सर्वशः।
२३७.०१४. मोक्षधर्मान्तरायं तु शोचामि भृशमात्मनः॥६७॥
२३७.०१५. दुर्लभं प्राप्य मानुष्यं प्रव्रज्यां च सुखोदयाम्।
२३७.०१६. शाक्यसिंहं च शास्तारं पुनस्त्यक्ष्यामि दुर्मतिः॥६८॥
२३७.०१७. तेनोच्यते--दत्तवरोऽहं नृपतिना।
२३७.०१७. धीरो भव्
२३७.०१७. नास्ति ते मोक्ष इति।
२३७.०१७. ततः सकरुणैर्वचनैस्तं भिक्षुः क्रमं याचति स्म मासं यावत् ।
२३७.०१८. सप्तरात्रमनुज्ञातः।
२३७.०१८. स खलु मरणभयोद्विग्नहृदयः सप्तरात्रेण मे न भवितव्यमिति व्यायतमतिः संवृत्तः॥
२३७.०२०. अथ सप्तमे दिवसेऽशोकस्य राज्ञोऽन्तःपुरिकां कुमारेण सह संरक्तां निरीक्षमाणां संलपन्तीं च दृष्ट्वा सहदर्शनादेव रुषितेन राज्ञा तौ द्वावपि तं चारकमनुप्रेषितौ।
२३७.०२१. तत्र मुसलैरयोद्रोण्यामस्थ्यवशेषौ कृतौ।
२३७.०२२. ततो भिक्षुस्तौ दृष्ट्वा संविग्नः प्राह--
२३७.०२३. अहो कारुणिकः शास्ता सम्यगाह महामुनिः।
२३७.०२४. फेनपिण्डोपमं रूपमसारमनवस्थितम्॥६९॥
२३७.०२५. क्व तद्वदनकान्तित्वं गात्रशोभा क्व सा गता।
२३७.०२६. धिगस्त्वयं संसारो रमन्ते यत्र बालिशाः॥७०॥
२३७.०२७. इदमालम्बनं प्राप्तं चारके वसता मया।
२३७.०२८. यमाश्रित्य तरिष्यामि पारमद्य भवोदधेः॥७१॥
२३७.०२९. तेन तां रजनीं कृत्स्नाअं युज्यता बुद्धशासन्
२३७.०३०. सर्वसम्योजनं छित्त्वा प्राप्तमर्हत्त्वमुत्तमम्॥७२॥
२३८.००१. <२३८>ततस्तस्मिन्नजनीक्षये स भिक्षुश्चण्डगिरिकेनोच्यते--भिक्षो, निर्गता रात्रिः।
२३८.००१. उदित आदित्यः।
२३८.००२. कारणाकालस्तवेति।
२३८.००२. ततो भिक्षुराह--दीर्घायुः, ममापि निर्गता रात्रिः, उदित आदित्यः।
२३८.००३. परानुग्रहकाल इति।
२३८.००३. यथेष्टं वर्ततामिति।
२३८.००३. चण्डगिरिकः प्राह--नावगच्छामि।
२३८.००४. विस्तीर्यतां वचनमेतदिति।
२३८.००४. ततो भिक्षुराह--
२३८.००५. ममापि हृदयाद्धोरा निर्गता मोहशर्वती।
२३८.००६. पञ्चावरणसंछन्ना क्लेशतस्करसेविता॥७३॥
२३८.००७. उदितो ज्ञानसूर्यश्च मनोनभसि मे शुभः।
२३८.००८. प्रभया यस्य पश्यामि त्रैलोक्यमिह तत्त्वतः॥७४॥
२३८.००९. परानुग्रहकालो मे शास्तुर्वृत्तानुवरिनः।
२३८.०१०. इदं शरीरं दीर्घायुर्यथेष्टं त्रियतामिति॥७५॥
२३८.०११. ततस्तेन निर्घृणेन दारुणहृदयेन परलोकनिरपेक्षेण रोषाविष्टेन बहूदकायां स्थाल्यां नररुधिरवसामूत्रपुरीषसंकुलायां महालोह्यां प्रक्षिप्तः।
२३८.०१२. प्रभूतेन्धनैश्चाग्निः प्रज्वालितः।
२३८.०१२. स च बहुनापीन्धनक्षयेन न संतप्यत्
२३८.०१३. ततः प्रज्वालयितुम् (प्रारब्धः।) यदा तदापि न प्रज्वलति, ततो विचार्य तां लोहीम्, पश्यति तं भिक्षुं पाद्मस्योपरि पर्यङ्केनोपविष्टम्।
२३८.०१४. दृष्ट्वा च ततो राज्ञे निवेदयामास्
२३८.०१५. अथ राजनि समागते प्राणिसहस्रेषु संनिपतितेषु स भिक्षुर्वैनेयकालमवेक्षमाणह्--
२३८.०१५. रिद्धिं समुत्पाद्य स तन्मुहूर्तं लोह्यनतरस्थः सलिलार्द्रगात्रः।
२३८.०१८. निरीक्षमाणस्य जनस्य मध्ये नभस्तलं हंस इवोत्पपात् ॥७६॥
२३८.०२०. विचित्राणि च प्रतिहार्याणि दर्शयितुमारब्धः।
२३८.०२०. वक्ष्यति हि--
२३८.०२१. अर्धेन गात्रेण ववर्ष तोयमर्धेन जज्वाल हुताशनश्च्
२३८.०२३. वर्षञ्ज्वलंश्चैव रराज यः खे दीप्तौचधिप्रस्रवणेव शैलः॥७७॥
२३८.०२५. तमुद्गतं व्योंनि नशाम्य राजा कृताञ्जलिर्विस्मयफुल्लवक्त्रः।
२३८.०२७. उद्वीकमाणस्तमुवाच धीरं कौतूहलात्किंचिदहं विवक्षुः॥७८॥
२३८.०२९. मनुष्यतुल्यं तव सौम्य रूपमृद्धिप्रभावस्तु नरानतीत्य्
२३८.०३१. न निश्चयं तेन विभो व्रजामि को नाम भावस्तव शुद्धभाव् ।७९॥
२३९.००१. <२३९>तत्साम्प्रतं ब्रूहि ममेदमर्थं यथा प्रजानामि तव प्रभावम्।
२३९.००३. ज्ञात्वा च ते धर्मगुणप्रभावान् यथाबलं शिष्यवदाचरेयम्॥८०॥
२३९.००५. ततो भिक्षुः प्रवचनपरिग्राहकोऽयं भविष्यति, भगवद्धातुं च विस्तरीं करिष्यति, महाजनहितार्थं च प्रतिपत्स्यत इति मत्वा स्वगुणमुद्भावयंस्तमुवाच--
२३९.००७. अहं महाकारुणिकस्य राजन् प्रहीणसर्वाश्रवबन्धनस्य्
२३९.००९. बुद्धस्य पुत्रो वदतां वरस्य धर्मान्वयः सर्वभवेष्वसक्तः॥८१॥
२३९.०११. दान्तेन दान्तः पुरुषर्षभेण शान्तिं गतेनापि शमं प्रणीतः।
२३९.००३. मुक्तेन संसारमहाभयेभ्यो निर्मोक्षितोऽहं भवबन्धनेभ्यः॥८२॥
२३९.०१५. अपि च्
२३९.०१५. महाराज, त्वं भगवता व्याकृतह्--वर्षशतपरिनिर्वृतस्य मम पाटलिपुत्रे नगरेऽशोको नाम राजा भविष्यति चतुर्भागचक्रवर्ती धर्मराजः, यो मे शरीरधातून् वैस्तारिकान् करिष्यति, चतुरशीतिं धर्मराजिकासहस्रं प्रतिष्ठापयिष्यति।
२३९.०१७. इदं च देवेन नरकसदृशं स्थानमेव स्थापितं यत्र प्राणिसहस्राणि निपात्यन्त्
२३९.०१८. तदर्हसि देव सर्वसत्त्वेभ्योऽभयप्रदानं दातुम्, भगवतश्च मनोरथं परिपूरयितुम्।
२३९.०१९. आह च--
२३९.०२०. तस्मान्नरेन्द्र अभयं प्रयच्छ सत्त्वेषु कारुण्यपुरोजवेषु।
२३९.०२२. नाथस्य संपूर्य मनोरथं च विस्तारिकान् धर्मधरान् कुरुष्व् ।८३॥
२३९.०२४. अथ स राजा बुद्धे समुपजातप्रसादः कृतकरसम्पुटस्तं भिक्षुं क्षमयन्नुवाच--
२३९.०२५. दशबलसुत क्षन्तुमर्हसीमं च तवाद्य देशयामि।
२३९.०२७. शरणमृषिमुपैमि तं च बुद्धं गणवरमार्यनिवेदितं च धर्मम्॥८४॥
२३९.०२९. अपि च--
२३९.०३०. करोमि चैष व्यवसायमद्य तं तद्गौरवत्तात्प्रवणप्रसादात् ।
२४०.००१. <२४०>गां मण्डयिष्यामि जनेन्द्रचैत्यैर्हंसांशशङ्खेन्दुबलाककल्पैः॥८५॥
२४०.००३. यावत्स भिक्षुस्तदेव ऋद्ध्या प्रक्रान्तः।
२४०.००३. अथ राजा आरब्धो निष्क्रामितुम्।
२४०.००४. ततश्चण्डगिरिकः कृताञ्जलिरुवाच--देव, लब्धवरोऽहम्।
२४०.००४. नैकस्य विनिर्गम इति।
२४०.००४. राजा आह--मा तावन्ममापीच्छसि घातयितुम्।
२४०.००५. स उवाच--एवमेव्
२४०.००५. राजा आह--कोऽस्माकं प्रथमतरं प्रविष्टह्? चण्डगिरिक उवाच--अहम्।
२४०.००६. ततो राज्ञा अभिहितम्।
२४०.००६. कोऽत्रेति? यावद्वध्यघातैर्गृहीतः।
२४०.००७. गृहीत्वा च यन्त्रगृहं प्रवेशितः।
२४०.००७. प्रवेशयित्वा दग्धः।
२४०.००७. तच्च रमणीयकं बन्धनमपनीतं सर्वसत्त्वेभ्यश्चाभयप्रदानमनुप्रदत्तम्।
२४०.००८. ततो राजा भगवच्छरीरधातुं विस्तरीष्यामीति चतुरङ्गेन बलकायेन गत्वा अजातशत्रुप्रतिष्ठापितं द्रोणस्तूपमुत्पाट्य शरीरधातुं गृहीतवान्।
२४०.०१०. यत्रोद्धारणं च विस्तरेण कृत्वा धातुप्रत्यंशं दत्वा स्तूपं प्रतिष्ठाप्य एवं द्वितीयं स्तूपं वितरेण भक्तिमतो यावत्सप्तद्रोणाद्ग्रहाय स्तूपांश्च प्रतिष्ठाप्य रामग्रामं गतः।
२४०.०११. ततो राजा नागैर्नागभवनमवतारितः, विज्ञप्तश्च--वयमस्यात्रैव पूजां करिष्याम इति।
२४०.०१२. यावद्राज्ञा अभ्यनुज्ञातम्।
२४०.०१३. ततो नागराजा पुनरपि नागभवनादुत्तारितः।
२४०.०१३. वक्ष्यति हि--
२४०.०१४. रामग्रामे त्वष्टमं स्तूपमद्य नागास्तत्कालं भक्तिमन्तो ररक्षुः।
२४०.०१६. धातून्येतस्मान्नोपलेभे स राजा श्रद्धाभू(?) राजा चिन्तयति यस्त्वेतत्कृत्वा जगाम् ।८६॥
२४०.०१८. यावद्राजा चतुरशीतिकरण्डसहस्रं कारयित्वा सौवर्णरूप्यस्फटिकवैडूर्यमयानां तेषु धातवः प्रक्षिप्तः।
२४०.०१९. एवं विस्तरेण चतुरशीतिकुम्भसहस्रं पट्टसहस्रं च यक्षाणां हस्ते दत्वा विसर्जितम्--आसमुद्रायां पृथिव्यां हीनोत्कृष्टमध्यमेषु नगरेषु यत्र कोटिः परिपूर्यते, तत्र धर्मराजिकां प्रतिष्ठापयितव्यम्॥
२४०.०२२. तस्मिन् समये तक्षशिलायां षट्त्रिंशत्कोटयः।
२४०.०२२. तैरभिहितम्--षट्त्रिंशत्करण्डकाननुप्रयच्छेति।
२४०.०२३. राजा चिन्तयति--न यदि वैस्तारिका धातवो भविष्यन्ति।
२४०.०२३. उपायज्ञो राजा।
२४०.०२४. तेनाभिहितम्--पञ्चत्रिंशत्कोटयः शोधयितव्याः।
२४०.०२४. विस्तरेण यावद्राज्ञा अभिहितम्--यत्राधिकतरा भवन्ति, यत्र च न्यूनतराः, तत्र न दातव्यम्॥
२४०.०२६. यावद्राजा कुर्कुटारामं गत्वा स्थविरयशसमभिगम्योवाच--अयं मे मनोरथह्--एकस्मिन् दिवसे एकस्मिन्मुहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापयेयमिति।
२४०.०२७. स्थविरेणाभिहितम्--एवमस्तु।
२४०.०२८. अहं तस्मिन् समये पाणिना सूर्यमण्डलं प्रतिच्छादयिष्यामीति।
२४०.०२८. यावत्तस्मिन् दिवसे स्थविरयशसा पाणिना सूर्यमण्डलं प्रतिच्छादितम्।
२४०.०२९. एकस्मिन् दिवसे एकमुहूर्ते चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्।
२४०.०३०. वक्ष्यति च--
२४१.००१. <२४१>ताभ्यः सप्तभ्यः पूर्विकाभ्यः कृतिभ्यो धातुं तस्य ऋषेः स ह्युपादाय मौर्यः।
२४१.००३. चक्रे स्तूपानां शारदाभ्रप्रभानां लोके साशीति शासदह्ना सहस्रम्॥८७॥
२४१.००५. यावच्च राज्ञा अशोकेन चतुरशीतिधर्मराजिकासहस्रं प्रतिष्ठापितम्, धार्मिको धर्मराजा संवृत्तः।
२४१.००६. तस्य धर्माशोक इति संज्ञा जाता।
२४१.००६. वक्ष्यति च--
२४१.००७. आर्यमौर्यश्रीः स प्रजानां हितार्थं कृत्स्नं स्तूपान् कारयामास लोकम्।
२४१.००९. चण्डाशोकत्वं प्राप्य पूर्वं पृथिव्यां धर्माशोकत्वं कर्मणा तेन लेभ् ।८८॥
२४१.०११. पांशुप्रदानावदानं षड्विंशतिमम्॥
- अवदान २७ **********
- अवदान २७ **********
२४२.००१. दिव्२७ कुणालावदानम्।
२४२.००२. स इदानीमचिरजातप्रसादो बुद्धशासने यत्र शाक्यपुत्रीयान् ददर्श आकीर्णे रहसि वा, तत्र शिरसा पादयोर्निपत्य वन्दते स्म्
२४२.००३. तस्य च यशो नामामात्यः परमश्राद्धो भगवति।
२४२.००४. स तं राजानमुवाच--देव, नार्हसि सर्ववर्णप्रव्रजितानां प्रणिपातं कर्तुम्।
२४२.००४. सन्ति हि शाक्यश्रामणेरकाश्चतुर्भ्यो वर्णेभ्यः प्रव्रजिता इति।
२४२.००५. तस्य राजा न किंचिदवोचत् ।
२४२.००५. अथ स राजा केनचित्कालान्तरेण सर्वसचिवानुवाच--विविधानां प्राणिनां शिरोभिः कर्यम्।
२४२.००७. तत्त्वममुकस्य प्राणिनः शीर्षमानय, त्वममुकस्येति।
२४२.००७. यशामात्यः पुनराज्ञप्तह्--त्वं मानुषं शीर्षमानयेति।
२४२.००८. समानीतेषु च शिरःसु अभिहिताह्--गच्छत, इमानि शिरंसि मूल्येन विक्रीणीध्वमिति।
२४२.००९. अथ सर्वशिरांसि विक्रीतानि।
२४२.००९. तदेव मानुष्यं शिरो न कश्चिज्जग्राह्
२४२.००९. ततो राज्ञाभिहितह्--विनापि मूल्येन कस्मैचिदेतच्छिरो देहीतै।
२४२.०१०. न चास्यं कश्चित्प्रतिग्राहको बभूव्
२४२.०११. ततो यशामात्यस्तस्यः शिरसः प्रतिग्राहकमनासाद्य सव्रीडो राजानमुपेत्येदमर्थमुवाच--
२४२.०१३. गोगर्दभोरभ्रमृगद्विजानां मूल्यैर्गृहीतानि शिरांसि पुम्भिः।
२४२.०१५. शिरस्त्विदं मानुषमप्रशस्तं न गृह्यते मूल्यमृतेऽपि राजन्॥१॥
२४२.०१७. अथ स राजा तममात्यमुवाच--किमिदमितीदं मानुषशिरो न कश्चिद्गृह्णातीति? अमात्य उवाच--जुगुप्सितत्वादिति।
२४२.०१८. राजाब्रवीत्--किमेतदेव शिरो जुगुप्सितमाहोस्वित्सर्वमानुषशिरांसीति? अमात्य उवाच--सर्वमानुषशिरांसीति।
२४२.०१९. राजाब्रवीत्--किमिदं मदीयमपि शिरो जुगुप्सितमिति? स च भयान्नेच्छति तस्माद्भूतार्थमभिधातुम्।
२४२.०२०. स राज्ञाभिहितह्--अमात्यः, सत्यमुच्यतमिति।
२४२.०२१. स उवाच--एवमिति।
२४२.०२१. ततः स राजा तममात्यं प्रतिज्ञायां प्रतिष्ठाप्य प्रत्यादिशन्निममर्थमुवाच--हं भोः, रूपैश्वर्यजनितमदविस्मित, युक्तमिदं भवतः, यस्मात्त्वं भिक्षुचरणप्रणामं माअं विच्छन्दयितुमिच्छसि?
२४२.०२४. विनापि मूल्यैर्विजुगुप्सितत्वात्प्रतिग्रहीता भुवि यस्य नास्ति।
२४२.०२६. शिरस्तदासाद्य ममेह पुण्यं यद्यर्जितं किं विपरीतमत्र् ।२॥
२४२.०२८. जातिं भवान् पश्यति शाक्यभिक्षुष्वन्तर्गतांस्तेषु गुणान्न चेति।
२४२.०३०. अतो भवाञ्जातिमदावलेपादात्मानमन्यांश्च हिनस्ति मोहात् ॥३॥
२४३.००१. <२४३>आवाहकालेऽथ विवाहकाले जातेः परीक्षा न तु धर्मकाल्
२४३.००३. धर्मक्रियाया हि गुणा निमित्ता गुणाश्च जातिं न विचारयन्ति॥४॥
२४३.००५. यद्युच्छकुलीनगता दोषा गर्हां प्रयान्ति लोकेऽस्मिन्।
२४३.००६. कथमिव नीचजनगता गुणा न सत्कारमर्हन्ति॥५॥
२४३.००७. चित्तवशेन हि पुंसां कलेवरं निन्द्यतेऽथ सत्क्रियत्
२४३.००८. शाक्यश्रमणमनांसि च शुद्धान्यर्च्यान्यतः शाक्याः॥६॥
२४३.००९. यदि गुणपरिवर्जितो द्विजातिः पतित इति प्रथितोऽपि यात्यवज्ञाम्।
२४३.०११. न तु निधनकुलोद्गतोऽपि जन्तुः शुभगुणयुक्त इति प्रणम्य पूज्यः॥७॥
२४३.०१३. अपि च्
२४३.०१४. किं ते कारुणिकस्य शाक्यवृषभस्यैतद्वचो न श्रुतं प्राज्ञैः सारमसारकेभ्य इह यन्नृभ्यो ग्रहीतुं क्षमम्।
२४३.०१६. तस्यानन्यथवादिनो यदि च तामाज्ञां चिकीर्षाम्यहं व्याहन्तुं च भवान् यदि प्रयतते नैतत्सुहृल्लक्षणम्॥८॥
२४३.०१८. इक्षुक्षोदवदुजिज्ञतो भुवि यदा कायो मम स्वप्स्यति प्रत्युत्थाननमस्कृताञ्जलिपुटक्लेशक्रियास्वक्षमः।
२४३.०२०. कायेनाहमनेन किं नु कुशलं शक्ष्यामि कर्तुं तदा तस्मान्नार्यमतः श्मशाननिधनात्सारं ग्रहीतुं मया॥९॥
२४३.०२२. भवनादिव प्रदीप्तान्निमज्जमानादिवाप्सु रत्ननिधेः।
२४३.०२३. कायाद्विधाननिधनाद्ये सारं नाधिगच्छन्ति॥१०॥
२४३.०२४. ते सारमपश्यन्तः सारासारेष्वकोविदा प्राज्ञाः।
२४३.०२५. ते मरणमकरवदनप्रवेशसमये विषीदन्ति॥११॥
२४३.०२६. दधिधृतनवनीतक्षीरतक्रोपयोगाद्वरमपहृतसारो मण्डकुम्भोऽवभग्नः।
२४३.०२८. न भवति बहु शोच्यं यद्वदेवं शरीरे सुचरितहृतसारे नैति शोकोऽन्तकाल् ।१२॥
२४४.००१. <२४४>सुचरितविमुखानां गर्वितानां यदा तु प्रसभमिह हि मृत्युः कायकुम्भं भिनत्ति।
२४४.००३. दहति हृदयमेषां शोकवह्निस्तदानीं दधिघट इव भग्ने सर्वशोऽप्राप्तसार् ।१३॥
२४४.००५. कर्तुं विघ्नमतो न मेऽर्हति भवान् कायप्रणामं प्रति श्रेष्ठोऽस्मीत्यपरीक्षको हि गणयन्मोहान्धकारावृतः।
२४४.००७. कायं यस्तु परीक्षते दशबलव्याहारदीपैर्बुधो नासौ पार्थिवभृत्ययोर्विषमतां कायस्य संपश्यति॥१४॥
२४४.००९. त्वग्मांसास्थिशिरायकृत्प्रभृतयो भावा हि तुल्या नृणामाहार्यैस्तु विभूषणैरधिकता कायस्य निष्पद्यत्
२४४.०११. एतत्सारमिहेष्यते तु यदिमं निश्रित्य कायाधमं प्रत्युत्थाननमस्कृतादिकुशलं प्राज्ञैः समुत्थाप्यत् ।१५॥ इति।
२४४.०१३. अथाशोको राजाहिरोदकसिकतापिण्डैरण्डकाष्ठेभ्योऽपि असारतरत्वं कायस्यावेत्य प्रणामादिभ्यः समुत्थस्य फलस्य बहुकल्पशः स्थापयित्वा सुमेरुवन्महापृथिवीभ्यः समुत्थस्य फलस्य बहुकल्पशः स्थापयित्वा सुमेरुवन्महापृथिवीभ्यः सारतरतामवेक्ष्य भगवतः स्तूपवन्दनायामात्मानमलंकर्तुकामोऽमात्यगणपरिवृतः कुर्कुटारामं गत्वा तत्र वृद्धान्ते स्थित्वा कृताञ्जलिरुवाच--अस्ति--
२४४.०१८. कश्चिदन्योऽपि निर्दिष्टो द्वितीयः सर्वदर्शना।
२४४.०१९. यथाहं तेन निर्दिष्टः पांशुदानेन धीमता॥१६॥
२४४.०२०. तत्र यशो नांना संघस्थविर उवाच--अस्ति महाराज्
२४४.०२०. यदा भगवतः परिनिर्वाणकालसमये तदा अपलालं नागं दमयित्वा कुम्भकालं चण्डालीगोपालीं च नागं मथुरामनुप्राप्तः, तत्र भगवानायुष्मन्तमानन्दमामन्त्रयते--अस्यामानन्द मथुतायां वर्षशतपरिनिर्वृतस्य तथागतस्य गुप्तो नांना गान्धिको भविष्यति।
२४४.०२३. तस्य पुत्रो भविष्यत्युपगुप्तो नांना अववादकानामग्रोऽलक्षणको बुद्धः, यो मम वर्षशतपरिनिर्वृतस्य बुद्धकार्यं करिष्यति।
२४४.०२४. पश्यसि त्वमानन्द दूरत एव नीलनीलाम्बरराजिम्? एवं भदन्त्
२४४.०२५. एष आनन्द उरुमुण्डो नाम पर्वतः।
२४४.०२५. अत्र वर्षशतपरिनिर्वृतस्य तथागतस्य नटभटिका नामारण्यायतनं भविष्यति।
२४४.०२६. एतदग्रं मे आनन्द भविष्यति शमथानुकूलानां शय्यासनानां यदुत नटभटिका नामारण्यायतनम्।
२४४.०२७. आह च--
२४४.०२८. अववादकानां प्रवर उपगुप्तो महायशाः।
२४४.०२९. व्याकृतो लोकनाथेन बुद्धकार्यं करिष्यति॥१७॥
२२४.०३०. राजा आह--किं पुनः स शुद्धसत्त्व उत्पन्नः, अथाद्यापि नोत्पद्यत इति? स्थविर उवाच--उत्पन्नः स महात्मा।
२४४.०३१. उरुमुण्डे पर्वते जितक्लेशोऽर्हद्गणैः परिवृतस्तिष्ठति लोकानुकम्पार्थम्।
२४४.०३२. अपि च देव--
२४५.००१. <२४५>सर्वज्ञलीलो हि स शुद्धसत्त्वो धर्मं प्रणीतं वदते गणाग्र्
२४५.००३. देवासुरेन्द्रोरगमानुषांश्च सहस्रशो मोक्षपुरं प्रणेता॥१८॥
२४५.००५. तेन खलु समयेन आयुष्मानुपगुप्तोऽष्टादशभिरर्हत्सहस्रैः परिवृतो नटभटिकारण्यायतने प्रतिवसति।
२४५.००६. श्रुत्वा च राजा अमात्यगणानाहूय कथयति--
२४५.००७. संनाह्यतां हस्तिरथाश्वकायः शीघ्रं प्रयास्याम्युरुमुण्डशैलम्।
२४५.००९. द्रक्ष्यामि सर्वाश्रवविप्रमुक्तं साक्षादर्हन्तं ह्युपगुप्तं नाम् ।१९॥
२४५.०११. ततोऽमात्यैरभिहितह्--देव दूतः प्रेषयितव्यो विषयनिवासी, स देवस्य स्वयमेवागमिष्यति।
२४५.०१२. राजा आह--नासौ अस्माकमर्हत्यभिगन्तुम्, किं तु वयमेवार्हामस्तस्याभिगन्तुम्।
२४५.०१३. अपि च--
२४५.०१४. मन्ये वज्रमयं तस्य देहं शैलोपमाधिकम्।
२४५.०१५. शास्तृतुल्योपगुप्तस्य यो ह्याज्ञामाक्षिपेन्नरः॥२०॥
२४५.०१६. यावद्राज्ञा स्थविरोपगुप्तस्य सकाशं दूतो न प्रेषितः स्थविरदर्शनायागमिष्यामीति।
२४५.०१७. स्थविरोपगुप्तश्चिन्तयति--यदि राजा आगमिष्यति, महाजनकायस्य पीडा भविष्यति गोचरस्य च्
२४५.०१८. ततः स्थविरेणाभिहितम्--स्वयमेवाभिगमिष्यामीति।
२४५.०१८. ततो राज्ञा स्थविरोपगुप्तस्यार्थे नौयानेनागमिष्यतीति यावच्च मथुरां यावच्च पाटलिपुत्रमन्तरान्नौसंक्रमोऽवस्थापितः।
२४५.०१९. अथ स्थविरोपगुप्तो राज्ञोऽशोकस्यानुग्रहार्थमष्टादशभिरर्हत्सहस्रैः परिवृतो नावमभिरुह्य पाटलिपुत्रमनुप्राप्तः।
२४५.०२१. ततो राजपुरुषै राज्ञोऽशोकस्य निवेदितम्--देव, दिष्ट्या वर्धस्व्
२४५.०२२. अनुग्रहार्थं तव सोपगुप्तश्चित्तेश्वरः शासनकर्णधारः।
२४५.०२४. पुरस्कृतस्तीर्णभवौघपारैः सार्धं समभ्यागत एष पद्म्याम्॥२१॥
२४५.०२६. श्रुत्वा च राज्ञा प्रीतमनसा शतसहस्रमूल्यो मुक्ताहारः स्वशरीरादपनीय प्रियाख्यायिनो दत्तः।
२४५.०२७. घाण्टिकं चाहूय कथयति--घुष्यन्तां पाटलिपुत्रे घण्टाः।
२४५.०२७. स्थविरोपगुप्तस्यागमनं निवेद्यताम्।
२४५.०२८. वक्तव्यम्--
२४५.०२९. उत्सृज्य दारिद्र्यमनर्थमूलं यः स्फीतशोभां श्रियमिच्छतीह्
२४५.०३१. स्वर्गापवर्गाय च हेतुभूतं स पश्यतां कारुणिकोपगुप्तम्॥२२॥
२४६.००१. <२४६>येभिर्न दृष्टो द्विपदप्रधानः शास्ता महाकारुणिकः स्वयम्भूः।
२४६.००३. ते शास्तृकल्पं स्थविरोपगुप्तं पश्यन्त्युदारं त्रिभवप्रदीपम्॥२३॥
२४६.००५. यावद्राज्ञा पाटलिपुर्रे घण्टां घोषयित्वा नगरशोभां च कारयित्वा अर्धतृतीयानि योजनानि गत्वा सर्ववाद्येन सर्वपुष्पगन्धमाल्येन सर्वपौरैः सर्वामात्यैः सह स्थविरोपगुप्तं प्रत्युद्गतः।
२४६.००७. ददर्श राजा स्थविरोपगुप्तं दूरत एवाष्टादशभिरर्हत्सहस्रैरर्धचन्द्रेणोपगुप्तम्।
२४६.००८. यदन्तरं च राजा स्थविरोपगुप्तमद्राक्षीत्, तदन्तरं हस्तिस्कन्धादवतीर्य पद्म्यां नदीतीरमभिगम्य एकं पादं नदीतीरे स्थाप्य द्वितीयं नौफलके स्थविरोपगुप्तं सर्वाङ्गेनानुपरिगृह्य नौ{संक्रमाद्} उत्तारितवान्।
२४६.०१०. उत्तार्य च मूलनिकृत्त इव द्रुमः सर्वशरीरेणोपगुप्तस्य पादयोर्निपतितो मुखतुण्डकेन च पादौ अनुपरिमार्ज्य उत्थाय द्वौ जानुमण्डलौ पृथिवीतले निक्षिप्य कृताञ्जलिः स्थविरोपगुप्तं निरीक्षमाण उवाच--
२४६.०१३. यदा मया शत्रुगणान्निहत्य प्राप्ता समुद्राभरणा सशैला।
२४६.०१५. एकातपत्रा पृथिवी तदा मे प्रीतिर्न सा या स्थविरं निरीक्ष्य् ।२४॥
२४६.०१७. त्वद्वर्शनान्मे द्विगुणः प्रसादः संजायतेऽस्मिन् वरशासनाग्र्
२४६.०१९. त्वद्वर्शनाच्चैव परेऽपि शुद्ध्या दृष्टो मयाद्याप्रतिमः स्वयम्भूः॥२५॥
२४६.०२१. अपि च्
२४६.०२२. शान्तिं गते कारुणिके जिनेन्द्रे त्वं बुद्धकार्यं कुरुषे त्रिलोक्
२४६.०२४. नष्टे जगन्मोहनिमीलिताक्षे त्वमर्कवज्ज्ञानवभासकर्ता॥२६॥
२४६.०२६. त्वं शास्तृकल्पो जगदेकचक्षुरववादकानां प्रवरः शरण्यम्।
२४६.०२८. विभो ममाज्ञां वद शीघ्रमद्य कर्तास्मि वाक्यं शुद्धसत्त्वा॥२७॥
२४७.००१. <२४७>अथ स्थविरोपगुप्तो दक्षिणेन पाणिना राजानं शिरसि परिमार्जयन्नुवाच--
२४७.००२. अप्रमादेन संपाद्य राज्यैश्वर्यं प्रवर्तताम्।
२४७.००३. दुर्लभं त्रीणि रत्नानि नित्यं पूजय पार्थिव् ।२८॥
२४७.००४. अपि च महाराज तेन तेन भगवता तथागतेनार्हता सम्यक्सम्बुद्धेन तव च मम {च} शासनमुपन्यस्तं सत्त्वसारथिवरेण गणमध्ये परीत्तं परिपाल्यं यत्नतोऽस्माभिः।
२४७.००५. राजा आह--स्थविर, यथा अहं निर्दिष्टो भगवता, तदेवानुष्ठीयत्
२४७.००६. कृतह्?
२४७.००७. स्तूपैर्विचित्रैर्गिरिशृङ्गकल्पैश्छत्रध्वजैश्चोच्छ्रितरत्नचित्रैः।
२४७.००९. संशोभिता मे पृथिवी समन्ताद्वैस्तारिका धातुधराः कृताश्च् ।२९॥
२४७.०११. अपि च्
२४७.०१२. आत्मा पुत्रं गृहं दारान् पृथिवी कोशमेव च्
२४७.०१३. न किंचिदपरित्यक्तं धर्मराजस्य शासन् ।३०॥
२४७.०१४. स्थविरोपगुप्त आह--साधु साधु महाराज, एतदेवानुष्ठेयम्।
२४७.०१४. कृतह्?
२४७.०१५. ये सारमुपजीवन्ति कायाद्भोगैश्च जीविकाम्।
२४७.०१६. गते काले न शोचन्ति इष्टं यान्ति सुरालयम्॥३१॥
२४७.०१७. यावद्राजा महता श्रीसमुदयेन स्थविरोपगुप्तं राजकुले प्रवेशयित्वा सर्वाङ्गेनानुपरिगृह्य प्रज्ञप्त एवासने निषादयामास्
२४७.०१८. स्थविरोपगुप्तस्य शरीरं मृदु सुमृदु, तद्यथा तूलपिचुर्वा कर्पासपिचुर्वा।
२४७.०१९. अथ राजा स्थविरोपगुप्तस्य शरीरसंस्पर्शमवगम्य कृताञ्जलिरुवाच--
२४७.०२०. मृदूनि तेऽङ्गानि उदारसत्त्वा तूलोपमाः काशिसमोपमाश्च्
२४७.०२२. अहं त्वधन्यः खरकर्कशाङ्गो निःस्पर्शगात्रः परुषाश्रयश्च् ।३२॥
२४७.०२४. स्थविर उवाच--
२४७.०२५. दानं मनापं सुशुभं प्रणीतं दत्तं मया ह्यप्रतिपुद्गलस्य्
२४७.०२७. न पांशुदानं हि मया प्रदत्तं यथा त्वयादायि तथागतस्य् ।३३॥
२४७.०२९. राजा आह--स्थविर,
२४७.०३०. बालभावादहं पूर्वं क्षेत्रं प्राप्य ह्यनुत्तरम्।
२४७.०३१. पांशून् रोपितवांस्तत्र फलं यस्येदृशं मम् ।३४॥
२४८.००१. <२४८>अथ स्थविरो राजानं संहर्षयन्नुवाच--महाराज,
२४८.००२. पश्य क्षेत्रस्य महात्मयं पांशुर्यत्र विरुह्यत्
२४८.००३. राजश्रीर्येन ते प्राप्ता आधिपत्यमनुत्तरम्॥३५॥
२४८.००४. श्रुत्वा च राजा विस्मयोत्कुल्लनेत्रोऽमात्यानाहूयोवाच--
२४८.००५. बलचक्रवर्तिराज्यं प्राप्तं मे पांशुदानमात्रेण्
२४८.००६. केन भगवान् भवन्तो नार्चयितव्यः प्रयत्नेन् ।३६॥
२४८.००७. अथ राजा स्थविरोपगुप्तस्य पादयोर्निपत्योवाच--स्थविर, अयं मे मनोरथो ये भगवता बुद्धेन प्रदेशा अध्युषितास्तानर्चेयम्, चिह्नानि च कुर्यां पश्चिमस्यां जनतायामनुग्रहार्थम्।
२४८.००९. आह च--ये बुद्धेन भगवता प्रदेशा अध्युषिताः, तानर्चयन्नहं गत्वा चिह्नानि चैव कुर्यां पश्चिमां जनतामनुकम्पार्थम्।
२४८.०१०. स्थविर उवाच--साधु साधु महाराज, शोभनस्ते चित्तोत्पादः।
२४८.०११. अहं प्रदर्शयिष्याम्यधुना।
२४८.०१२. ये तेनाध्युषिता देशास्तान्नमस्ये कृताञ्जलिः।
२४८.०१३. गत्वा चिह्नानि तेष्वेव करिष्यामि न संशयः॥३७॥
२४८.०१४. अथ राजा चतुरङ्गबलकायं संनाह्य गन्धमाल्यपुष्पमादाय स्थविरोपगुप्तसहायः संप्रस्थितः।
२४८.०१५. अथ स्थविरोपगुप्तो राजानमशोकं सर्वप्रथमेन लुम्बिनीवनं प्रवेशयित्वा दक्षिणं हस्तमभिप्रसार्योवाच--अस्मिन्महाराज प्रदेशे भगवाञ्जातः।
२४८.०१६. आह च--
२४८.०१७. इदं हि प्रथमं चैत्यं बुद्धस्योत्तमचक्षुषः।
२४८.०१८. जातमात्रेह स मुनिः प्रक्रान्तः सप्तपदं भुवि॥३८॥
२४८.०१९. चतुर्दिशमबलोक्य वाचं भाषितवान् पुरा।
२४८.०२०. इयं मे पश्चिमा जातिर्गर्भावासश्च पश्चिमः॥३९॥
२४८.०२१. अथ राजा सर्वशरीरेण तत्र पादयोर्निपत्य उत्थाय कृताञ्जलिः प्ररुदन्नुवाच--
२४८.०२२. धन्यास्ते कृतपुण्यै(ण्या)श्च यैर्दृष्टः स महामुनिः।
२४८.०२३. प्रजातः संश्रुता यैश्च वाचस्तस्य मनोरमाः॥४०॥
२४८.०२४. अथ स्थविरो राज्ञः प्रसादवृद्ध्यर्थमुवाच--महाराज, किं द्रक्ष्यसि तां देवताम्?
२४८.०२५. यया दृष्टः प्रजायन्स वनेऽस्मिन् वदतां वरः।
२४८.०२६. त्रममाणः पदान् सप्त श्रुता वाचो यया मुनेः॥४१॥
२४८.०२७. राजा आह--परं स्थविर द्रक्ष्यामि।
२४८.०२७. अथ स्थविरोपगुप्तो यस्य वृक्षस्य शाखमवलम्ब्य देवी महामाया प्रसूता, तेन दक्षिणहस्तमभिप्रसार्योवाच--
२४८.०२९. नैवासिका या इहाशोकवृक्षे संबुद्धदर्शिनी या देवकन्या।
२४८.०३१. साक्षादसौ दर्शयतु स्वदेहं राज्ञो ह्यशोकस्य {मनह्}प्रसादवृद्ध्यै॥४२॥
२४९.००१. <२४९>यावत्सा देवता स्वरूपेण स्थविरोपगुप्तसमीपे स्थित्वा कृताञ्जलिरुवाच--स्थविर, किमाज्ञापयसि? अथ स्थविरो राजानामशोकमुवाच--महाराज, इयं सा देवता, यया दृष्टो भगवाञ्जायमानः।
२४९.००३. अथ राजा कृताञ्जलिस्तां देवतामुवाच--
२४९.००४. दृष्टस्त्वया लक्षणभूषिताङ्गः प्रजायमानः कमलायताक्षः।
२४९.००६. श्रुत्वास्त्वया तस्य नरर्षभस्य वाचो मनोज्ञाः प्रथमा वनेऽस्मिन्॥४३॥
२४९.००८. देवता प्राह--मया हि दृष्टः कनकावदातः प्रजायमानो द्विपदप्रधानः।
२४९.०११. पदानि सप्त क्रमाण एव श्रुता च वाचमपि तस्य शास्तुः॥४४॥
२४९.०१३. राजा आह--कथय देवते, कीदृशी भगवतो जायमानस्य श्रीर्बभूवेति।
२४९.०१३. देवता प्राह--न शक्यं मया वाग्भिः संप्रकाशयितुम्।
२४९.०१४. अपि तु संक्षेपतः शृणु--
२४९.०१५. विनिर्मिताभा कनकावदाता सेन्द्रे त्रिलोके नयनाभिरामा।
२४९.०१७. ससागरान्ता च मही सशैला महार्णवस्था इव नौश्चाल् ।४५॥
२४९.०१९. यावद्राज्ञा जात्यां शतसहस्रं दत्तम्।
२४९.०१९. चैत्यं च प्रतिष्ठाप्य राजा प्रक्रान्तः॥
२४९.०२०. अथ स्थविरोपगुप्तो राजानं कपिलवस्तु निवेदयित्वा दक्षिणहस्तमभिप्रसार्योवाच--अस्मिन् प्रदेशे महाराज बोधिसत्त्वो राज्ञः शुद्धोदनस्योपनामितः।
२४९.०२१. तं द्वात्रिंशता महापुरुषलक्षणालंकृतशरीरमसेचनकदर्शनं च दृष्ट्वा राजा सर्वशरीरेण बोधिसत्त्वस्य पादयोर्निपतितः।
२४९.०२३. इदं महाराज शाक्यवर्धं नाम देवकुलम्।
२४९.०२३. अत्र बोधिसत्त्वो जातमात्र उपनीतो देवमर्चयिष्यतीति।
२४९.०२४. सर्वदेवताश्च बोधिसत्त्वस्य पादयोर्निपतिताः।
२४९.०२४. ततो राज्ञा शुद्धोदनेन बोधिसत्त्वो देवतानामप्ययं देव इति तेन बोधिसत्त्वस्य देवातिदेव इति नामधेयं कृतम्।
२४९.०२५. अस्मिन् प्रदेशे महाराज बोधिसत्त्वो ब्राह्मणानां नैमित्तिकानां विपश्चिकानामुपदर्शितः।
२४९.०२६. अस्मिन् प्रदेशे असितेन ऋषिणा निर्दिष्टो बुद्धो लोके भविष्यतीति।
२४९.०२७. अस्मिन् प्रदेशे महाराज महाप्रजापत्या संवर्धितः।
२४९.०२८. अस्मिन् प्रदेशे लिपिज्ञानं शिक्षापितः।
२४९.०२८. अस्मिन् प्रदेशे हस्तिग्रीवायामश्वपृष्ठे रथे शरधनुर्ग्रहे तोमरग्रहेऽङ्कुशग्रहे कुलानुरूपासु विद्यासु पारगः संवृत्तः।
२४९.०३०. इयं बोधिसत्त्वस्य व्यायामशाला बभूव्
२४९.०३०. अस्मिन् प्रदेशे महाराज बोधिसत्त्वो देवताशतसहस्रैः परिवृतः षष्टिभिः स्त्रीसहस्रैः सार्धं रतिमनुभूतवान्।
२४९.०३१. अस्मिन् प्रदेशे बोधिसत्त्वो जीर्णातुरमृतसंदर्शनोद्विग्नो वनं संश्रितः।
२४९.०३२. अस्मिन् प्रदेशे जम्बुच्छायायां निषद्य विविक्तम् <२५०>पापकैरकुशलैर्धर्मैः सवितर्कं सविचारं विवेकजं प्रीतिसुखमनाश्रवसदृशं प्रथमध्यानं समापन्नः।
२५०.००२. अथ परिणते मध्याह्ने अतिक्रान्ते भक्तकालसमये भक्तकालसमये अन्येषां वृक्षाणां छाया प्राचीननिंना प्राचीनप्रवणा प्राचीनप्राग्भारा, जमुच्छाया बोधिसत्त्वस्य कायं न जहाति।
२५०.००३. दृष्ट्वा च पुना राजा शुद्धोदनः सर्वशरीरेण बोधिसत्त्वस्य पादयोर्निपतितः।
२५०.००४. अनेन द्वारेण बोधिसत्त्वो देवताशतसहस्रैः परिवृतोऽर्धरातेः कपिलवस्तुनो निर्गतः।
२५०.००५. अस्मिन् प्रदेशे बोधिसत्त्वेन च्छन्दकस्याश्वमाभरणानि च दत्वा प्रतिनिवर्तितः।
२५०.००६. आह च--
२५०.००७. छन्दाभरणान्यश्वं च अस्मिन् प्रतिनिवर्तितः।
२५०.००८. निरुपस्थायिको वीरः प्रविष्ठैकस्तपोवनम्॥४६॥
२५०.००९. अस्मिन् प्रदेशे बोधिसत्त्वो लुब्धकसकाशात्काशिकैर्वस्त्रैः काषायाणि वस्त्राणि ग्रहाय प्रव्रजितः।
२५०.०१०. अस्मिन् प्रदेशे भार्गवेणाश्रमेणोपनिमन्त्रितः।
२५०.०१०. अस्मिन् प्रदेशे बोधिसत्त्वो राज्ञा बिम्बिसारेणार्घराज्येनोपनिमन्त्रितः।
२५०.०११. अस्मिन् प्रदेशे आराडोद्रकमभिगतः।
२५०.०११. आह च--
२५०.०१२. उद्रकाराडका नाम ऋषयोऽस्मिंस्तपोवन्
२५०.०१३. अधिगताचार्यसत्त्वेन पुरुषेन्द्रेण तापिता॥४७॥
२५०.०१४. अस्मिन् प्रदेशे बोधिसत्त्वेन षड्वर्षाणि दुष्करं चीर्णम्।
२५०.०१४. आह च--
२५०.०१५. षड्वर्षाणि हि कटुकं तपस्तप्त्वा महामुनिः।
२५०.०१६. नायं मार्गो ह्यभिज्ञाय इति ज्ञात्वा समुत्सृजेत् ॥४८॥
२५०.०१७. अस्मिन् प्रदेशे बोधिसत्त्वेन नन्दाया नन्दबलायाश्च ग्रामिकदुहित्र्योः सकाशात्षोडशगुणितं मधुपायसं परिमुक्तम्।
२५०.०१८. आह च--
२५०.०१९. अस्मिन् प्रदेशे नन्दाया भुक्त्वा च मधुपायसम्।
२५०.०२०. बोधिमूलं महावीरो जगाम वदतां वरः॥४९॥
२५०.०२१. अस्मिन् प्रदेशे बोधिसत्त्वः कालिकेन नागराजेन बोधिसमूलमभिगच्छन् संस्तुतः।
२५०.०२२. आह च--
२५०.०२३. कालिकभुजगेन्द्रेण संस्तुतो वदतां वरः।
२५०.०२४. प्रयातोऽनेन मार्गेण बोधिमण्डेऽमृतार्थिनः॥५०॥
२५०.०२५. अथ राजा स्थविरस्य पादयोर्निपत्य कृताञ्जलिरुवाच--
२५०.०२६. अपि पश्येम नागेन्द्रं येन दृष्टस्तथागतः।
२५०.०२७. व्रजानोऽनेन मार्गेण मत्तनागेन्द्रविक्रमः॥५१॥
२५०.०२८. अथ कालिको नागराजः स्थविरसमीपे स्थित्वा कृताञ्जलिरुवाच--स्थविर, किमाज्ञापयसीति।
२५०.०२९. अथ स्थविरो राजानमुवाच--अयं स महाराज कालिको नागराजा येन भगवाननेन मार्गेण बोधिमूलं निर्गच्छन् संस्तुतः।
२५०.०३०. अथ राजा कृताञ्जलिः कालिकं नागराजमुवाच--