दीनाक्रन्दनस्तोत्रम्

दीनाक्रन्दनस्तोत्रम्
लोष्टक
१९३०

28 दीनाक्रन्दनस्तोत्रम् । महाकविश्रीलोष्टकनिर्मितं दीनाक्रन्दनस्तोत्रम् ।

चुण्ठीजलैरिव सुखैः परिणामदुःखै-
राखादितैरपि मनागविलुप्ततृष्णः ।
श्रान्तोऽसि हा भवमरौ सुचिरं चरित्वा
तच्छायया चरणयोः शिव मां भजेथाः ॥ १॥
दुर्वारसंमृतिरुजा भृशकांदिशीक-
स्त्वामोषधीपतिभृतं सुकृतैरवाप्य ।
आवेदयामि यदहं तव तन्निदानं
तन्त्रावघेहि मृड मा कुरु मय्यवज्ञाम् ॥२॥
दुर्वासनाशतयशादशुचित्वमीक्ष्य
या मे हठात्कृतवती मनसि प्रवेशम् ।


१. अयं रम्यदेवसूनुर्लोष्टककविः कश्मीरेषु ख्रिस्ताब्दीयद्वादशशतकपूर्वार्ध आसीत् , यतस्तत्कालोद्भूतेन श्रीमहकेन श्रीकण्ठचरितस्यान्तिमे सर्गे रम्यदेवलोष्टदेवयोर्वर्णनं कृत- मस्ति । एतत्स्तोत्रमपहायान्यः कोऽपि अन्योऽस्य कवेरद्यापि नोपलब्धः, श्रीकण्ठच- रितान्तिमसर्ग एवं कृतिचन श्लोका लोष्टदेवप्रणीताः समुपलभ्यन्ते. अथ च तत्रैव लोष्टदेववर्णने 'वाग्देवतालिनीलीलाधुतपक्षतिचातुरीम् । वदनाम्बुरुहे यस्य भाषाः षड- धिशेरते ॥ खलानां यत्प्रबन्धेषु दृढव्युत्पत्तिवर्मसु । प्रोद्यचोद्यमया दूरे कुण्ठिता इव पत्रिणः ॥ इति पद्यद्वयमस्ति एतेन सन्ति केचन प्रबन्धा लोष्टदेवप्रणीता इति प्रतीयते. जल्हणसंकलितसूक्तिमुक्तावलौ च 'प्रकृत्यैवातिवक्रेण गुगदैर्ध्यं वितन्वता । मया शरासनेनेव बाणो दूरं निरस्पते ॥' अयं श्लोको लोटदेवनाम्ना समुद्धृतो वर्तते. अन्ति- मावस्थायामयं कविर्वाराणस्यां गत्वा यतित्वं स्वीकृतवान् प्रणीतवांश्च तत्रैवेदं दीना- क्रन्दनस्तोत्रमिति स्तोत्रसमाप्तौ स्फुटमस्ति. अस्य दीनाक्रन्दनस्तोत्रस्य पुस्तकद्वयं पुण्यपत्तनतो विद्वन्मूर्धन्यभाण्डारकरोपाहश्रीरामकृष्णशर्मभिः कृपयास्मभ्यं प्रहितम्. तदाधारणतन्मुद्रणमारभ्यते. तत्र प्रथमं नागराक्षरलिखितं पञ्चपत्रात्मकं क-चिह्नितम्। अपरं शारदालिपिसमुल्लसितं विंशतिपत्रात्मक ख-चिह्नितम् , पुस्तकद्वयमपि नवीनं काश्मीरलिखितं चास्ति ख-पुस्तके विंशति-श्लोकपर्यन्तं स्वल्पं टिप्पणमप्यस्ति. २. लतावितानसंछन्नःमिलाकीर्णोऽकृत्रिमो जलाशयश्चुण्क्षुण्ठी. ३ 'औषधीपतिशिखामगिमाश्रितोऽस्मि' इति क-पाठः. २२ काव्यमाला। सानेकजन्ममरणावटपातनेन मां राक्षसीव बहु नाथ तुदत्यविद्या ॥३॥ घोरे क्षणं विनिपतन्नरके क्षणं च पुण्यं पदं दिविषदां सहसाविरोहन् । मोहेन कन्दुकदशामिव नीयमानः स्वामिन्सहे किमवधीनि गतागतानि ॥ ४ ॥ का मे गतिर्विशति नैव मनो विवेकः खग्नेऽपि पक्कणमिव प्रवरो द्विजानाम् । रुद्धेऽपि तत्र न स रोढुमलं मुहूर्तं विश्वेश मौक्तिकमिवोपरि दर्पणस्य ॥ ५ ॥ पित्रोर्जघन्यरसबिन्दुयुगं गृहीत्वा हन्तासकृत्पतितवानधिगर्भवासम् । तदुःखमन्वभवमीश गभीरकुम्भी- पाको वराक इति यस्य पुरो गृणन्ति ॥६॥ तत्र स्थितस्तदनु तत्तदनेकपूर्व- जन्मान्तरस्मरणविस्मयदुःखितात्मा । असान्निसृत्य पुनरुद्भवभङ्गहेतो- श्चेतो विधास्य इति चाकरवं प्रतिज्ञाम् ॥ ७ ॥ तेनाध्वनाथ निसृतोऽस्मि ततः स्मृतेऽपि यस्मिन्निकाममभिमानधनास्त्रपन्ते । संस्पर्शतस्तु शतशः शितिकर्मवायोः प्रायो निगूढदृढमूढदशामवापम् ॥ ८ ॥ तिर्यग्दशामिव शैनैरविवेकसेका- द्वर्षीण्यवाप्य परमेश्वर पञ्चषाणि । १. 'शित' इति क-पाठः २. 'गतोऽस्म्य विवेकसेकात्' इति क-पाठः. दीनानन्दनस्तोत्रम् ।

तत्तत्कृतं पतदपि स्मृतिसीम्नि यद्य-
त्सद्यो ह्रियं जडधियोऽपि हृदि प्रसूते ॥ ९ ॥
आसाद्य यौवनमथो बहुभिः प्रकारैः
शृङ्गारभङ्ग्यनुनुगुणैर्गुणिताविवेकः ।
जातोऽस्मि घोरनरकावहकर्मयोगा-
द्भोगाशया प्रशमितोभयलोकशुद्धिः ॥ १० ॥
मोहात्कृतः परिणयोऽप्यनयो महीया-
न्मूलं समस्तभवबन्धनदुर्गतीनाम् ।।
यस्मादुपेत्य दुरपत्यजनेन सृष्ट-
स्नेहोऽस्मि वेष्टित इवोत्कटनागपाशैः ॥ ११ ॥
तत्पोषणाय विदुषापि मया समस्त
मौचित्यमुज्झितवतात्तवता कुकृत्यम् ।
द्वारि श्ववल्लडितमेव कदीश्वराणां
सोढावमानशतविश्वमानसेन ॥ १२ ॥
प्राणाधिकैरथ वियोगमवाप्य तैस्तै-
रिष्टैररुतुदविषादवशंवदेन ।
स्त्रीवन्मया विलपितं विहितं न किंचि-
स्कूत्यं सतां समुचितं हहहा हतोऽस्मि ॥ १३ ॥
सांसारिकेषु विषयेषु निपत्य राग-
द्वेषैकनिष्ठहृदयो भगवन्नभूवम् ।
आसीददन्तकमयप्रतिकूलवृत्ति
किंचिन्मया न रचितं विदितं न वापि ॥ १४ ॥
इत्थं न किं व्यवहृतं न किमुक्तमात्तं
किंवा न किं न कलितं ललितं न वापि ।


१. 'विकारैः' इति क पाठः, २. 'समुचितमहहा' इति ख-पाठः. ३. 'मया विरचितं' इति ख-पाठः. ४. 'वलितं' इति क-पाठः, काव्यमाला।

सर्वत्र तत्र शरणं कृपणस्य मे त्व-
मेह्येहि देहि चरणं शिरसीन्दुमौले ॥ १५ ॥
याः प्रोत्कटा भ्रुकुटयो यमकिंकराणां
पीडाश्च या नवनवा नरकावनीषु ।
ताश्चिन्तिता अपि भयाय ममाधुनैव
सोढास्मि ताः कथमहो विषमो विषादः ॥ १६ ॥
भीतोऽस्मि दुर्गततमोऽसि कदर्थितोऽस्मि
पापोऽस्मि विस्मृतसदध्वपरिग्रहोऽस्मि ।
तत्केन केन न पथासि कृपास्पदं ते'
मत्वेति शंकर यथोचितमाचरेथाः ॥ १७ ॥
नो यत्र बन्धुरथ नैव पिता न माता
नो वा सुहृद्धृतिमुपेत्य विधातुमीष्टे ।
तास्वेव नाथ मम नारकभूषु कुर्या-
स्त्राणं त्वमेव हि जगत्सु दयार्द्रचेताः ॥ १८॥
भ्रष्टोऽसि यद्यपि सतां चरितात्तथापि
मां त्रा तुमर्हसि कृतान्तभिया श्रयन्तम् ।
प्रहेषु विहलतया शरणागतेषु
नो साधवो विदधते सदसद्विवेकम् ॥ १९ ॥
येष्वन्धकारनिकरेण करालिता भू-
र्यत्र ज्वलन्ति नरकेष्वनिशं हुताशाः ।
धामत्रयीनयन निर्जरसिन्धुमूर्ध-
स्तत्रेतरस्त्वमिव कः शरणं नराणाम् ॥ २० ॥
प्राग्यावदिन्द्रियगणः पटुशक्तिरासी-
त्स्वामिन् तावदगमद्विषयेषु निष्ठाम् ।


१. 'प्रोत्कटन्नुकटयो' इति क-पाठः. इति खपाठः २. 'मां' इति क-पाठः. ३. 'कृतान्तभियं 24 दीनाक्रन्दनस्तोत्रम् ।

शक्तिक्षयेऽद्य स कथं भजते भवन्तं
जन्मेति मे विफलमीश किमाः करोमि ॥२१॥
नादायि दानमथ नैव तपो व्यधायि
नासेवि तीर्थदिगसाध्यतरः समाधिः।
तत्का परत्र गतिरस्त्यनवाप्तयुण्य-
ज्ञानस्य मे भव भवत्स्मृतिमन्तरेण ॥ २२ ॥
कालान्न मे भयमथो कनके न लिप्सा
नैवास्मि शैशववशेन पयःपिपासुः ।
त्वद्दर्शनाय तु शिव स्पृहयामि लोभा-
त्तत्रापि किं तव न वा सुकरः प्रकारः ॥ २३ ॥
यज्जन्म दुर्लभमुशन्ति मनुष्यलोके
तत्प्राप्तमप्यतनुपूर्वशुभप्रभावात् ।
जातं वृथैव मम यत्र मुहुः कदापि
नैवान्वभावि भवदर्चनभक्तिसौख्यम् ॥ २४ ॥
जातिमहेश्वर भुजंगमपुंगवानां
स्तुत्या वरं भवदलंकृतिवाहकृत्यैः ।
मानुष्यकं तु मम धिक्कलया कयापि
यन्नोपयोगमगमत्त्वयि मच्छरीरम् ॥ २५ ॥
शश्वद्भुशव्यसनितामपि मेऽवधार्य
वत्से कथं परमकारुणिकोऽप्यवज्ञाम् ।


१. अयं श्लोकः सुभाषितावलौ कर्तृनामरहितो वल्लभदेवेन समुद्धृतः. २. 'तीर्थदि- गसाधि न वा समाधिः' इति क-पाठः. ३. 'भावस्म' इति क-पाठः. ४. श्वेताख्य- राजर्षिवत्, स च कृतान्तभयात्परमेश्वरेण मोचितः. ५. मस्तपतिवत्. मरुत्तत- पस्तुष्टेन' श्रीशिवेन सप्तदिनपर्यन्तं तत्पुरे सुवर्णवर्षणमकारि. ६. उपमन्युवत. परम- शिवभकायोपमन्युनान्ने मुनिकुमाराय दुग्धं पिपासवे परमाणिकेन भगवता क्षीरा- धिरेव समर्पितः ७. सर्पाणां वृषभस्य च. ८. "धिकलयापि शंभो' इति क-पाठः. ९. 'यत्रोपयोगमगमत्वमि नो शरीरम्' इति पाठः, ६ काव्यमाला।

कि नाथ पश्यसि न यत्परिहृत्य शङ्कां
लग्नोऽनिशं शिव शिवेति मम प्रलापः
रक्तार्द्रचर्मवसनाय महाश्मशान-
धान्नेऽस्थिभूषणवते फणिकङ्कणाय ।
रक्षःपिशाचसचिवाय बलिं प्रयामो
रूपाय ते हर युगान्तनिशाचराय ॥ २७ ॥
दिव्योत्तरीयभृति कौस्तुभरत्नभाजि
देवेऽपरे दधतु लुब्धधियोऽनुबन्धम् ।
रूपं दिगम्बरमखण्डनृमुण्डचूडं
भावत्कमेव तु बतेश मम स्पृहायै ॥ २८ ॥
जीवामि चेदः पृथुप्रियविप्रयोग-
रोगादयो नरकदुःखमियोऽन्यथापि ।
नन्त्येव मामुभयथाप्यसुखोऽहमित्थ-
मनोचितं हर चरस्व कृपालुतायाः ॥ २९ ॥
यनेन्द्रियाणि विरमन्ति निजक्रियाभ्यो
यात्यान्तरोऽपि करणप्रसरोऽवसादम् ।
प्राणास्त्रुटन्ति च समस्तनिराशभूतं
मामेत्य शंकर कुतोऽपि तदा दयेथाः ॥ ३० ॥
खाशेषपूर्वदुरितस्मरणादुदेति
यन्नासमं भयमसुप्रशमप्रसङ्गे।
कः कांदिशीकमनसः शरणं तदा मे
स्वामिस्तवैव समयः स कृपालुतायाः ॥ ३१ ॥
अद्यैव यामि शरणं परमेश्वर त्वां
शक्ष्यामि किं ननु तदा हतसर्वशक्तिः।


१. 'भूषणमृते' इति ख-पाठः २. विष्णौ. ३. 'भावत्कमेव भवतीश' इति क- पाठः, ४, मरणेऽपि. ५. 'तदापि कुतो' इति ख-पाठः.६. 'शक्यामि' इति क-पाठा. plus . दीनाक्रन्दनस्तोत्रम् ।

मृत्युर्यदा मम भयाय पतत्यकस्मा
दन्धस्य बन इव हस्ततलप्रहारः ॥ ३२ ।।
आर्तिक्षणे सपदि विस्मरतात मात-
रित्यादिकं च विफलं कृपणप्रलापम् ।
शर्वेश शंकर शिवेति नुतिं भजस्व
जिह्वे यतो विघटतेऽखिलदुःखभारः ॥ ३३ ॥
खास्थ्ये मदात्कति न दुश्चरितानि नाम
नाथ व्यथां गतविवेकतया विशङ्कः ।
संस्मृत्य मृत्युभयमद्य तु विह्वलोऽसि
श्रीकण्ठ भोक्तुमपि येन न पारयामि ॥ ३४ ॥
पूर्वं न चेद्विरचिता तव देव सेवा
"तेनैव नैव दयसे श्रयतो ममार्तिम् ।
किं प्रागसंस्तुत इति प्रतिपन्नमूल-
च्छायं गतश्रमरुजं न तरुः करोति ॥ ३५॥
ज्ञानप्रकाशसुलभं शिव दर्शनं ते
जात्यन्धतैव च परं मम तद्वियोगात् ।
तत्तां त्वमेव किल कामपि देहि युक्तिं
व्यक्तिं ययैष्यसि मम श्रममन्तरेण ॥ ३६॥
प्राप्येहशीमपि मनुष्यदशां न पुण्ये
ज्ञानेऽथवा विधिहतोऽप्यगमं प्रतिष्ठाम् ।
सामञ्चसावथ कुतः पुनरप्यतो मां
खामिन्नवन्यमनुकम्पितुमर्हसि त्वम् ॥ ३७॥


१. 'पतेदकरमा' इति क-पाठः. २. "रियादिकोक्तिविफलं' इति क-पाठः. ३. "मुखर- प्रलापम्' इति ख-पाठः. ४. 'श्रयस्व ' इति क-पाठः, ५. 'नादशतानि नाम' इति क-पाठ. ६. 'त्वयि' इति क-पाठः. ७. 'किं तेन नैव' इति क-पाठः, ८, देहयुक्तिं' इति क-पाठः, ९. 'यथैष्यति' इति क-पाठः. काव्यमाला।

लीनेन भूरिविषयाध्वनि सौख्यलोभा-
नामापि मोहितधिया कलितं न मृत्योः ।
आसीदतः सपदि तद्भयतो मया किं
शक्यं विधातुमहहा महदाकुलोऽस्मि ॥ ३८॥
या विक्रिया यमभटभ्रुकुटिच्छटानां
पीडाश्च या नवनवा नरकावनीषु ।
ता निर्विशन्भव कथं भवितास्म्यमुत्र
कुत्र ब्रजामि शरणं कतरं प्रपद्ये ॥ ३९ ॥
स्मृत्वाप्यहो रविजविकृतहुंकृतीनां
मुशामि यामि विलयं भयविहलामा ।
आसन्नमेवमहहा विषम पुरस्ता-
तत्का गतिर्मम कुकर्मनिमग्नवृत्तः ॥ १०॥
आसन्नपाफ्शतसंभृतघोरपीडः
क्रन्दाम्यनन्यगतिकत्ववशात्पुरस्ते ।
तस्मात्कथं न दयसे स्वरितं कुतश्चि-
दागत्य विश्वमय सान्त्वय मां वराकम् ॥ ४१ ॥
पश्यन्समानवयसोऽपि यवीयसोऽपि
नक्तंदिवं यमभदैरपि नीयमानान् ।
आत्मन्यभूवमजरामरताभिमानी
यद्विशवादकरवं न शुभं कदाचित् ।। ४२॥
द्वारे लुठामि करुणं मलपामि शंभो
वाञ्छामि चुम्बितुमथो परिरभ्य च त्वाम् ।

१. 'विधेयमहहा' इति ख-पाठः, २. 'या यातनाश्च विषमा नरकावनीषु' इति क-पाठः. ३. 'कृतरत्' इति क-पाठः, ४. 'हुंक्रियाणां' इति क-पाठः, ५. 'निमग्नमूर्तेः' इति क-पाठः, ६. 'उदय' इति क-पाठः, ५. 'यमभटैरपनीयमानान्' इति स-पाठ.. दीनाक्रन्दनस्तोत्रम् ।

वातूलतामुपगतोऽस्मि तवानुरागा-
द्धा दुःसहस्त्वयि ममैष हढोऽनुरागः ॥ १३ ॥
कण्ठेऽर्पयत्युरगपाशमसूयया में
यामिन्यधीशशिख यत्समये कृतान्तः ।
नूनं तदा मुहुरुपैमि फणीन्द्रहार
त्वत्तुल्यतामिति भजे मरणेऽपि हर्षम् ॥ ४४ ॥
चित्तं न पारदमिव क्षणमुज्झतीदं
चाञ्चल्यविप्लवमयुक्तिविदः प्रभो मे ।
तस्मात्कथं भवति भक्तिरसस्य सिद्धिः
कस्तां विना च भव घोरविपद्विनाशः ॥ ४५ ॥
स्वामिन्ननुद्गतविवेकलवोऽकृतात्मा
तिर्यग्वदेव दिवसानतिवाहयामि ।
नेता क्षणाच्च वशमन्तकसौनिको मा-
माशैव तन्मम कुतः सुगतिप्रसक्त्यै ।। ४६ ॥
दुःस्वप्न एव विषमो भवदुःखनामा
खामिन्कथं त्यजति मां विगतप्रबोधम् ।
यस्मान्ममानवरतश्रुतभूरिशास्त्र-
तूर्यस्वनैरपि न शाम्यति मोहनिद्रा ॥ ४७ ।।
कृत्वा पापमसावपोष्यत निजः कायो न दीनो जनो
वेश्याल्लुठितं चिरं चरणयोः स्त्रीणां गुरूणां न तु ।
लोभोऽकारि मया धने न सुकृते तेनानुतप्ये मह-
किं शक्यं मम तत्र कर्तुमधुना नाथ त्वमेका गतिः ॥ १८ ॥


१. 'वातूलतामिव गतोऽस्मि' इति ख-पायः. २. 'त्वत्तुल्यतामिव' इति क-पाठः. 'पारतमित्र' इति पुस्तकद्वयेऽपि पाठः, काश्मीरकाः 'पारद' इत्यस्य स्थाने 'पारत' इत्येव सर्वत्र पठन्ति. ४. 'कस्वां' इति क-पाठ.. ५. 'विरामः' इति क-पाठः. ६. 'खगति' इति ख-पाठः. ७. 'वैवश्याल्लडितं' इति क-पाठः ६. 'तत्र संप्रति पुनर्नाथ ' इति क पाठः काव्यमाला अहं पापी पापक्षपणनिपुणः शंकर भवा- नहं भीतो भीताभयवितरणे ते व्यसनिता। अहं दीनो दीनोद्धरणविधिसज्जस्त्वमितर- न्न जानेऽहं वक्तुं कुरु सकलशोच्ये मयि दयाम् ॥ ४९ ।। इति परिहृतवान्स्वकाव्यशिल्पप्रकटनमाकुलितो भवव्यथाभिः । व्यधित गिरिश रम्यदेवजन्मा तव पुरतो हठदैन्यतः प्रलापान् ॥ ५० ॥ एतत्तीव्रं व्रतमुपचितं सैकते सिद्धसिन्धो- वाराणस्यां शमदमदृशोरेष गाढोऽनुबन्धः । दीनाक्रन्दं प्रति पशुपतेरुद्यमश्चाटुकानि त्यक्त्वा राज्ञां बत मम शुभैस्तन्यते धन्यतेयम् ॥ ५१ ॥ अभ्रंशे जन्म वंशे सुमहति विहितो वामयाब्धौ हनूम- त्संरम्भो दानभोगौ तदनु व रचितौ किंचिदौचित्यरीत्या । ज्ञात्वा तत्त्वं यतित्वं श्रितमथ मथिता संसृतिर्दुर्निवारा वाराणस्यां प्रसन्ना स्थितिरिति कृतिनः किं न मे नाम सिद्धम् ।। ५२ ॥ ईर्ष्यायै परवादिनां कविकलाकान्ता यतिं मामियं यच्चुम्बत्यधुनापि तन्मयि भवत्यब्रह्मचर्यं न किम् । एतावत्स्खलितं क्षमस्व भगवन्भूयोऽपि तुभ्यं शपे श्रीविश्वेश्वर देव नैव भवितास्म्यस्या रहस्यातिथिः ।। ५३ ।। नासत्यव्यतिरेकतोऽक्षरमपि प्राङ्युक्त यद्भारती नैवान्यत्परबाघतो यदसकृत्संचिन्तितं चेतसा । नाकृत्यादितरत्र गात्रमतनोच्चेष्टां यथेष्टां च य- त्सर्वत्रापि मया त्वमेव शरणं तत्राश्रितो धूर्जटे ॥ ५४ ॥ इति लोष्टीकभट्टविरचितं दीनाक्रन्दनस्तोत्रं समाप्तम् । १. ख-पुस्तकेऽस्य श्लोकस्याग्रिमस्य च पौर्वापर्यमस्ति. २. 'देवरम्यजन्मा' इति ख-पाठः. ३. 'प्रलापम्' इति ख-पाठ.. ४. 'एतत्तीव्रत' इति क-पाठः, ५. 'शमद- मदिशो' इति ख-पाठ. ६. ख-पुस्तकेऽस्य श्लोकस्याग्रिमस्य च पौर्वापर्यमस्ति. ७. "प्र- सिद्धा' इति ख-पाठः, ८. 'नु' इति क-पाठः १. 'नौचित्यादितरत्र' इति क-पाठा. १० 'तत्राश्रिता जाह्ववी' इति ख-पाठः, ११. 'पण्डितभट्टलोष्टकविरचितं' इति कापाठः