दृग्दृश्यविवेकः
रूपं दृश्यं लोचनं दृक् तद्दृश्यं दृक्तु मानसम् ।
दृश्या धीवृत्तयः साक्षी दृगेव न तु दृश्यते ॥ १॥
नीलपीतस्थूलसूक्ष्मह्रस्वदीर्घादिभेदतः ।
नानाविधानि रूपाणि पश्येल्लोचनमेकधा ॥ २॥
आन्ध्यमान्द्यपटुत्वेषु नेत्रधर्मेषु चैकधा ।
संकल्पयेन्मनः श्रोत्रत्वगादौ योज्यतामिदम् ॥ ३॥
कामः संकल्पसन्देहौ श्रद्धाऽश्रद्धे धृतीतरे ।
ह्रीर्धीर्भीरित्येवमादीन् भासयत्येकधा चितिः ॥ ४॥
नोदेति नास्तमेत्येषा न वृद्धिं याति न क्षयम् ।
स्वयं विभात्यथानन्यानि भासयेत् साधनं विना ॥ ५॥
चिच्च्हायाऽऽवेशतो बुदौ भानं धीस्तु द्विधा स्थिता ।
एकाहंकृतिरन्या स्यादन्तःकरणरूपिणी ॥ ६॥
च्हायाऽहंकारयोरैक्यं तप्तायःपिण्डवन्मतम् ।
तदहंकारतादात्म्यद्देहश्चेतनतामगात् ॥ ७॥
अहंकारस्य तादात्म्यं चिच्च्हायादेहसाक्षिभिः ।
सहजं कर्मजं भ्रान्तिजन्यं च त्रिविधं क्रमात् ॥ ८॥
संबन्धिनोः सतोर्नास्ति निवृत्तिः सहजस्य तु ।
कर्मक्षयात् प्रबोधाच्च निवर्तेते क्रमादुभे ॥ ९॥
अहंकारलये सुप्तौ भवेद्देहोऽप्यचेतनः ।
अहंकारविकासार्धः स्वप्नः सर्वस्तु जागरः ॥ १०॥
अन्तःकरणवृत्तिश्च चितिच्चच्हायैक्यमागता ।
वासनाः कल्पयेत् स्वप्ने बोधेऽक्षैर्विषयान् बहिः ॥ ११॥
मनोऽहंकृत्युपादानं लिङ्गमेकं जडात्मकम् ।
अवस्थात्रयमन्वेति जायते म्रियते तथा ॥ १२॥
शक्तिद्वयं हि मायाया विक्षेपावृत्तिरूपकम् ।
विक्षेपशक्तिर्लिङ्गादिब्रह्माण्डान्तं जगत् सृजेत् ॥ १३॥
सृष्टिर्नाम ब्रह्मरूपे सच्चिदानन्दवस्तुनि ।
अब्धौ फेनादिवत् सर्वनामरूपप्रसारणा ॥ १४॥
अन्तर्दृग्दृश्ययोर्भेदं बहिश्च ब्रह्मसत्गयोः ।
आवृणोत्यपरा शक्तिः सा संसारस्य कारणम् ॥ १५॥
साक्षिणः पुरतो भाति लिङ्गं देहेन संयुतम् ।
चितिच्च्हायासमावेशाज्जीवः स्याद्व्यावहारिकः ॥ १६॥
अस्य जीवत्वमारोपात् साक्षिण्यप्यवभासते ।
आवृतौ तु विनष्टायां भेदे भातेऽपयाति तत् ॥ १७॥
तथा सर्गब्रह्मणोश्च भेदमावृत्य तिष्ठति ।
या शक्तिस्तद्वशाद्ब्रह्म विकृतत्वेन भासते ॥ १८॥
अत्राप्यावृतिनाशेन विभाति ब्रह्मसर्गयोः ।
भेदस्तयोर्विकारः स्यात् सर्गे न ब्रह्मणि क्वचित् ॥ १९॥
अस्ति भाति प्रियं रूपं नाम चेत्यंशपञ्चकम् ।
आद्यत्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयम् ॥ २०॥
खवाय्वग्निजलोर्वीषु देवतिर्यङ्नरादिषु ।
अभिन्नाः सच्चिदानन्दाः भिद्यते रूपनामनि ॥ २१॥
उपेक्ष्य नामरूपे द्वे सच्चिदानन्दतत्परः ।
समाधिं सर्वदा कुर्याद्धृतये वाऽथवा बहिः ॥ २२॥
सविकल्पो निर्विकल्पः समाधिर्द्विविधो हृदि ।
दृश्यशब्दानुवेधेन सविकल्पः पुनर्द्विधा ॥ २३॥
कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् ।
ध्यायेद्दृश्यानुविद्धोऽयं समाधिः सविकल्पकः ॥ २४॥
असंगः सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः ।
अस्मीति शब्दविद्धोऽयं समाधिः सविकल्पकः ॥ २५॥
स्वानुभूतिरसावेशाद्दृश्यशब्दावुपेक्ष्य तु ।
निर्विकल्पः समाधिः स्यान्निवातस्थितदीपवत् ॥ २६॥
हृदीव बाह्यदेशेऽपि यस्मिन् कस्मिंश्च वस्तुनि ।
समाधिराद्यः सन्मात्रान्नामरूपपृथक्कृतिः ॥ २७॥
अखण्डैकरसं वस्तु सच्चिदानन्दलक्षणम् ।
इत्यविच्च्हिन्नचिन्तेयं समाधिर्मध्यमो भवेत् ॥ २८॥
स्तब्धीभावोरसास्वादात्तृतीयः पूर्ववन्मतः ।
एतैः समाधिभिः षड्भिर्नयेत् कालं निरन्तरम् ॥ २९॥
देहाभिमाने गलिते विज्ञाते परमात्मनि ।
यत्र यत्र मनो याति तत्र तत्र समाधयः ॥ ३०॥
भिद्यते हृदयग्रन्थिश्च्हिद्यन्ते सर्वसंशयाः ।
क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे ॥ ३१॥
अवच्च्हिन्नश्चिदाभासस्तृतीयः स्वप्नकल्पितः ।
विज्ञेयस्त्रिविधो जीवस्तत्राद्यः पारमार्थिकः ॥ ३२॥
अवच्च्हेदः कल्पितः स्यादवच्च्हेद्यं तु वास्तवम् ।
तस्मिन् जीवत्वमारोपाद्ब्रह्मत्वं तु स्वभावतः ॥ ३३॥
अवच्च्हिन्नस्य जीवस्य पूर्णेन ब्रह्मणैकताम् ।
तत्त्वमस्यादिवाक्यानि जगुर्नेतरजीवयोः ॥ ३४॥
ब्रह्मण्यवस्थिता माया विक्षेपावृतिरूपिणी ।
आवृत्यखण्डतां तस्मिन् जगज्जीवौ प्रकल्पयेत् ॥ ३५॥
जीवो धीस्थचिदाभासो भवेद्भोक्ता हि कर्मकृत् ।
भोग्यरूपमिदं सर्वं जगत् स्याद्भूतभौतिकम् ॥ ३६॥
अनादिकालमारभ्य मोक्षात् पूर्वमिदं द्वयम् ।
व्यवहारे स्थितं तस्मादुभयं व्यावहारिकम् ॥ ३७॥
चिदाभासस्थिता निद्रा विक्षेपावृतिरूपिणी ।
आवृत्य जीवजगती पूर्वे नूत्ने तु कल्पयेत् ॥ ३८॥
प्रतीतिकाल एवैते स्थितत्वात् प्रातिभासिके ।
न हि स्वप्नप्रबुद्धस्य पुनः स्वप्ने स्थितिस्तयोः ॥ ३९॥
प्रातिभासिकजीवो यस्तज्जगत् प्रातिभासिकम् ।
वास्तवं मन्यतेऽन्यस्तु मिथ्येति व्यावहारिकः ॥ ४०॥
व्यावहारिकजीवो यस्तज्जगद्व्यावहारिकम् ।
सत्यं प्रत्येति मिथ्येति मन्यते पारमार्थिकः ॥ ४१॥
पारमार्थिकजीवस्तु ब्रह्मैक्यं पारमार्थिकम् ।
प्रत्येति वीक्षते नान्यद्वीक्षते त्वनृतात्मना ॥ ४२॥
माधुर्यद्रवशैत्यानि नीरधर्मास्तरङ्गके ।
अनुगम्याथ तन्निष्टे फेनेऽप्यनुगता यथा ॥ ४३॥
साक्षिस्थाः सच्चिदानन्दाः संबन्धाद्व्यावहारिके ।
तद्द्वारेणानुगच्च्हन्ति तथैव प्रातिभासिके ॥ ४४॥
लये फेनस्य तद्धर्मा द्रवाद्याः स्युस्तरङ्गके ।
तस्यापि विलये नीरे निष्ठन्त्येते यथा पुरा ॥ ४५॥
प्रातिभासिकजीवस्य लये स्युर्व्यावहारिके ।
तल्लये सच्चिदानन्दाः पर्यवस्यन्ति साक्षिणि ॥ ४६॥
इति भारती तीर्थ स्वामिना विरचितः
दृग्दृश्यविवेकः समाप्तः ॥