देवताध्यायब्राह्मणम्

देवताध्यायब्राह्मणम्
[[लेखकः :|]]

devatādhyāyabrāhmaṇam

देवताध्यायब्राह्मणम्
प्रथमः खण्डः
आग्निरिन्द्रः प्रजापतिः सोमो वरुणस्त्वष्टाङ्गिरसः पूषा सरस्वतीन्द्राग्नी ॥ 1 ॥
इडानिधनानि पदनिधनानीकरणिधनानीत्याग्नेयानि ॥ 2 ॥
सर्वाणि निधनवन्त्यैन्द्राण्यन्यान्यादिष्टेभ्यः ॥ 3 ॥
सर्वाणि स्वाराणि प्राजापत्यानि ॥ 4 ॥
यथा वामदेव्यम् ॥ 5 ॥
ऋक् सामानि सौमानि ॥ 6 ॥
यथौशनकावे ॥ 7 ॥
वाङ्निधनानि वारुणानि ॥ 8 ॥
यथा यज्ञायज्ञीयम् ॥ 9 ॥
अक्षरानुस्वराणि त्वाष्ट्राणि ॥ 10
यथा वारवन्तीयं चाभीवर्तश्च ॥ 11 ॥
स्वःपृष्ठान्याङ्गिरसानि ॥ 12 ॥
स्वर्णिधनानि पौषाणि ॥ 13 ॥
कया नश्चित्र आ भुवद् [ग्राम॰५॰६॰१६९॰२] आपवस्व सहस्रिणम् [ग्राम॰१४॰४॰५०१॰१]इति वाङ्निधने सारस्वते ॥ १४ ॥
य आनयत् परावतः [ग्राम॰३॰२॰१२७॰१-२] इत्यैन्द्राग्ने ॥ १५ ॥
सुतं रयिष्ठाः सहो रयिष्ठा इत्याग्नेयैन्द्रे ॥ १६ ॥
वसवो रुद्रा आदित्या विश्वे देवाः ॥ १७ ॥
वसूनां स्वाराणि रुद्राणां निधनवन्ति आदित्यानामैडानि विश्वेषां देवानां वाङ्निधनानि ॥ १८ ॥
यथा भूयस्त्वेन प्रदेशा वर्तन्त इत्यन्तराणि ॥ १९ ॥
अथान्तरतराणि सवाण्याग्नेयानि सर्वाण्यैन्द्राणि सर्वाणि स्वाराणि प्राजापत्यानि सामानीत्यन्तरतराणि ॥ २० ॥
अथान्तरतमानि सर्वाणि ब्राह्माणि सामानीति सर्वान्तरतमानि ॥ २१ ॥
अथोपनिषत् ॥ २२ ॥
ऋग्वै माता साम पिता प्रजापतिः स्वरः ॥ २३ ॥
अथ यान्यृक्त आख्यायन्ते मातृतस्तान्याख्यायन्ते । अथ यानि सामत आख्यायन्ते पितृतस्तान्याख्यायन्ते । अथ यानि स्वरत आख्यायन्ते प्रजापतितस्तान्याख्यायन्ते ॥ २४ ॥
स वा एष उद्गीथो बन्धुमान् बन्धुमत्यः ॥ २५ ॥
इति वेदार्थप्रकाशे देवताध्याये पञ्चमे ब्राह्मणे प्रथमः खण्डः ॥ १ ॥
द्वितीयः खण्डः
अथातश्छन्दसां वर्णाः ॥ १ ॥
शुक्ला गायत्र्यो रूपेण सारङ्गं रूपमुष्णिहाम् । पिशङ्गं ककुभां रूपं कृष्णामानुष्टुभं ततः ॥ रोहितं बृहतीनां तु नीलं पाङ्क्तं ततः पुनः । सुवर्णं त्रिष्टुभां रूपं गौरं जागतमुच्यते ॥ २ ॥
अतो यान्यन्यानि च्छन्दांसि श्यावं तेषां ततः पुनः । नकुलं त्वेकपदानां द्विपदा बभ्रुरुच्यते । सारङ्गशुक्लकृष्णरूपाणि ऋग्य्जुःसामब्राह्मणान्वितानि ॥ ३ ॥
ये यज्ञेषु प्रयोक्तव्यास्तेषां दैवतमुच्यते ॥ ४ ॥
विराजः पृश्नयो विद्यात् ॥ ५ ॥
दैवतं तत उत्तरम् ॥ ६ ॥
अग्नेर्गायत्र्यभवत्सयुग्वोष्णिहया सविता संबभूवानुष्टुभा सोम उक्थैर्महस्वान् बृहस्पतेर्बृहती वाचमावत् ॥ ७ ॥
विराण्मित्रावरुणयोरभिश्रीरिन्द्रिस्य त्रिष्टुबिह भागो अह्नः । विश्वान् देवान् जगत्याविवेश तेन चकॢप्त (प्र?) ऋषयो मनुष्याः ॥ ८ ॥
प्राजापत्या अतिच्छन्दसो विच्छन्दसो वायुदेवताः । पुरुषो द्विपदानां दैवतं ब्राह्म्य एकपदाः स्मृताः ॥ ९ ॥
वासवी पङ्क्तिः ॥ १० ॥
सतुलं मन्येतैतद्देवत्या एवैतेषु छन्दःस्वृचो भवन्तीति ॥ ११ ॥
छन्दसामु हैतद्दैवतम् ॥ १२ ॥
इति वेदार्थप्रकाशे देवताध्याये पञ्चमे ब्राह्मणे द्वितीयः खण्डः ॥ २ ॥
तृतीयः खण्डः
अथातो निर्वचनम् ॥ १ ॥
गायत्री गायतेः स्तुतिकर्मणः ॥ २ ॥
गायतो मुखादुदपतदिति हि ब्राह्मणम् ॥ ३ ॥
उष्णिगुत्स्रानात् स्रिह्यतेर्वा कान्तिकर्मणोऽपि वोष्णीषिणीत्यौपमिकम् ॥ ४ ॥
ककुप् ककुदरूपिणीत्यौपमिकम् ॥ ५ ॥
ककुप् च कुब्जश्च कुकतेर्वोब्जतेर्बा ॥ ६ ॥
अनुष्टुबनुस्तोभनात् ॥ ७ ॥
अन्वस्तौदिति हि ब्राह्मणम् ॥ ८ ॥
पिपीलिका पेलतेर्गतिकर्मणः ॥ ९ ॥
पिपीलिकमध्येत्यौपमिकम् ॥ १० ॥
बृहती बृहतेर्वृद्धिकर्मणः ॥ ११ ॥
विराड्विरमणाद्विराजनाद्विराधनाद्वा ॥ १२ ॥
पङ्क्तिः पञ्चिनी पञ्चपदा ॥ १३ ॥
त्रिष्टुभ् स्तोभत्युत्तरपदा ॥ १४ ॥
का तु त्रिता स्यात्तीर्णतमं छन्दो भवतीति ॥ १५ ॥
त्रिवृद्वज्रस्तस्य स्तोभिनीवेत्यौपमिकम् ॥ १६ ॥
जगती गततमं छन्दो जज्जगतिर्भवति क्षिप्रगतिः ॥ १७ ॥
जज्जलाकुर्वन्नसृजतेति हि ब्राह्मणम् ॥ १८ ॥
अतिच्छन्दाश्छदेरर्थे ॥ १९ ॥
छन्दांसि छन्दयतीति ॥ २० ॥
निचृत् निपूर्वाच्चृतेः भरणात् भुरिगुच्यते ॥ २१ ॥
अथातो गायत्रमाग्नेयं भक्त्या भवति । देवानां वर्षीणां वा परमेष्ठिनो वा प्राजापत्यस्य साम ॥ २२ ॥
सावित्रीगेयं यत्रागीतम् ॥ २३ ॥
ऋषीणां विषयज्ञो यः स शरिराद्विमुच्यते । अतीत्य तमसः पारं स्वर्गे लोके महीयते ॥ सहस्रयुगपर्यन्तमहर्ब्राह्मं यदुच्यते । नाकस्य पृष्ठे तं कालं दिवि सूर्य इव रोचते ॥ ततः कृतयुगस्यादौ ब्रह्मभूतो महायशाः । सर्वज्ञो धृतिमानृषिः पुनराजायते स्मरन् ॥ इति ॥ स्मरन्निति ॥ २४ ॥
इति वेदार्थप्रकाशे देवताध्याये पञ्चमे ब्राह्मणे तृतीयः खण्डः ॥ ३ ॥
चतुर्थः खण्डः
अथ सावित्र्यङ्गानि व्याख्यास्यामः । शिरो ब्रह्मा । ललाटं द्यौः । चन्द्रादित्यौ चक्षुषी । मुखमग्निः । जिह्वा सरस्वती । त्वष्टा ग्रीवा । वसवश्च बाहू । उरो वायुः । रोमाणि पा (वा?) यवः । पृष्ठमिन्द्रः । विष्णुर्नाभिः । प्रजापतिर्जधनम् । ऊरू मरुतः । वेदाः पादौ । स्मितं विद्युत् । श्वसितं वायुः । अस्थीनि पर्वताः । समुद्रा वासांसि । नक्षत्राणि अलंकारः ॥ १ ॥
य एवं वेद ॥ २ ॥
दुष्टतादुरुपयुक्तान्न्यूनाधिकाच्च सर्वस्मात् स्वस्ति ॥ ३ ॥
स्वस्ति देवऋषिभ्यश्च ॥ ४ ॥
ब्रह्म सत्यं च पातु मामिति । ब्रह्म सत्यं च पातु मामिति ॥ ५ ॥
इति वेदार्थप्रकाशे देवताध्याये पञ्चमे ब्राह्मणे चतुर्थः खण्डः ॥ ३ ॥
॥ देवताध्यायब्रह्मण समाप्तम् ॥