प्रमुखा विकल्पसूचिः उद्घाट्यताम्

विकिस्रोतः β

देवलस्मृतिः

ॐ तत्सद्ब्रह्मणे नमः
अथ देवलस्मृतिः
श्रीगणेशाय नमः
अथ प्रायश्चित्तवर्णनम्


सिन्धु तीरे सुखासीनं देवलं मुनिसत्तमम्
समेत्य मुनयः सर्वे इदं वचनमब्रुवन् ।।1।।

भगवन्म्लेच्छनीता हि कथं शुद्धिमवाप्नुयुः
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चैवानु पूर्वशः ।।2।।

कथं स्नानं कथं शौचं प्रायश्चित्तं कथं भवेत्
किमाचारा भवेयुस्ते तदाचक्ष्व सविस्तरम् ।।3।।


देवल उवाच
त्रिशङ्कुं वर्जयेद्देशं सर्वं द्वादशयोजनम्
उत्तरेण महानद्या दक्षिणेन तु कीकटम् ।।4।।

प्रायश्चित्तं प्रवक्ष्यामि विस्तरेण महर्षयः ।।5।।

मृतसूते तु दासीनां पत्नीनां चानुलोमिनाम्
स्वामितुल्यं भवेच्छौचं मृते स्वामिनि यौनिकम् ।।6।।

अपेयं येन संपीतमभक्ष्यं चापि भक्षितम्
म्लेच्छैर्नीतेन विपे्रण अगम्यागमनं कृतम् ।।7।।

तस्य शुद्धिं प्रवक्ष्यामि यावदेकं तु वत्सरम्
चान्द्रायणं तु विप्रस्य सपराकं प्रकीर्तितम् ।।8।।

पराकमेकं क्षत्रस्य पादकृच्छे्रण संयुतम्
पराकार्धं तु वैश्यस्य शूद्रस्य दिनपञ्चकम् ।।9।।

नखलोमविहीनानां प्रायश्चित्तं प्रदापयेत्
चतुर्णामपि वर्णानामन्यथाऽशुद्धिरस्ति हि ।।10।।

प्रायश्चित्तविहीनं तु यदा तेषां कलेवरम्
कर्तव्यस्तत्र संस्कारो मे खलादण्डवर्जितः ।।11।।

म्लेच्छैर्नीतेन शूद्रैर्वा हारिते दण्डमे खले
संस्कारप्रमुखं तस्य सर्वं कार्यं यथाविधि ।।12।।

संस्कारान्ते च विप्राणां दानं धेनुश्च दक्षिणा
दातव्यं शुद्धमिच्छद्भिरश्वगोभूमिकाञ्चनम् ।।13।।

तदाऽसौ तु कुटुम्बानां पङ्क्तिं प्राप्नोति नान्यथा
स्वभायां च यथान्यायं गच्छन्ने व विशुध्यति ।।14।।

अथ संवत्सरादूर्ध्वं म्लेच्छैर्नीतो यदा भवेत्
प्रायश्चित्ते तु संचीर्णे गङ्गा स्नानेन शुध्यति ।।15।।

सिन्धु सौवीरसौराष्ट्रं तथा प्रत्यन्तवासिनः
कलिङ्गकौङ्कणान्वङ्गान्गत्वा संस्कारमर्हति ।।16।।

बलाद्दासीकृता ये च म्लेच्छचाण्डालदस्युभिः
अशुभं कारिताः कर्म गवादिप्राणिहिंसनम् ।।17।।

उच्छिष्टमार्जनं चैव तथा तस्यैव भोजनम्
खरोष्ट्रविड्वराहाणामामिषस्य च भक्षणम् ।।18।।

तत्स्त्रीणां च तथा सङ्गं ताभिश्च सह भोजनम्
मासोषिते द्विजातौ तु प्राजापत्यं विशोधनम् ।।19।।

चान्द्रायणं त्वाहिताग्नेः पराकस्त्वथ वा भवेत्
चान्द्रायणं पराकं च चरेत्संवत्सरोषितः ।।20।।

संवत्सरोषितः शूद्रो मासार्धं यावकं पिबेत्
मासमात्रोषितः शूद्रः कृच्छ्रपादेन शुध्यति ।।21।।

ऊर्ध्वं संवत्सरात्कल्प्यं प्रायश्चित्तं द्विजोत्तमैः
संवत्सरैश्चतुर्भिश्च तद्भावमधिगच्छति ।।22।।

ह्रासो न विद्यते यस्य प्रायश्चित्तं दुरात्मनः
गुह्यकक्षशिरोभ्रूणां कर्तव्यं केशवापनम् ।।23।।

प्रायश्चित्तं समारभ्य प्रायश्चित्तं तु कारयेत्
स्नानं त्रिकालं कुर्वीत धौतवासा जितेन्द्रियः ।।24।।

कुशहस्तः सत्यवत्तक्ता देवलेन ह्युदाहृतम्
वत्सरं वत्सरार्धं वा मासंमासार्धमेव वा ।।25।।

बलान्म्लेच्छैस्तु यो नीतस्तस्य शुद्धिस्तु कीदृशी
संवत्सरोषिते शूद्रे शुद्धिश्चान्द्रायणेन तु ।।26।।

पराकं वत्सरार्धे च पराकार्धं त्रिमासिके
मासिके पादकृच्छ्रश्च नखरोमविवर्जितः ।।27।।

पादोनं क्षत्रियस्योत्तक्तमर्धं वैश्यस्य दापयेत्
प्रायश्चित्तं द्विजस्योत्तक्तं पादं शूद्रस्य दापयेत् ।।28।।

प्रायश्चित्तावसाने तु दोग्ध्री गौर्दक्षिणा मता
तथाऽसौ तु कुटुबान्ते ह्युपविष्टो न दुष्यति ।।29।।

अशीतिर्यस्य वर्षाणि बालो वाऽप्यूनषोडशः
प्रायश्चित्तार्धमर्हन्ति स्त्रियो रोगिण एव च ।।30।।

ऊनै कादशवर्ष स्य पञ्चवर्षा त्परस्य च
प्रायश्चित्तं चरेद्भ्राता पिता वाऽन्योऽपि वर्धिता ।।31।।

स्वयं व्रतं चरेत्सर्व मन्यथा नैव शुध्यति
तिलहोमं प्रकुर्वीत जपं कुर्यादतन्द्रितः ।।32।।

संलापस्पर्शनिःश्वाससहयानासनाशनात्
याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ।।33।।

याजनं योनिसंबन्धं स्वाध्यायं सहभोजनम्
कृत्वा सद्यः पतत्येव पतितेन न संशयः ।।34।।

संवत्सरेण पतति पतितेन सहाऽऽचरन्
याजनासनयज्ञादि कुर्वाणः सार्वकामिकम् ।।35।।

अतः परं प्रवक्ष्यामि प्रायश्चित्तमिदं शुभम्
स्त्रीणां म्लेच्छैश्च नीतानां बलात्संवेशने क्वचित् ।।36।।

ब्राह्मणी क्षत्रिया वैश्या शूद्रा नीता यदाऽन्त्यजैः
ब्राह्मण्याः कीदृशं न्याय्यं प्रायश्चित्तं विधीयते ।।37।।

ब्राह्मणी भोजयेन्म्लेच्छमभक्ष्यं भक्षयेद्यदि
पराकेण ततः शुद्धिः पादेनोत्तरतोत्तरान् ।।38।।

न कृतं मैथुनं ताभिरभक्ष्यं नैव भक्षितम्
शुद्धिस्तदा त्रिरात्रेण म्लेच्छान्ने नैव भक्षिते ।।39।।

रजस्वला यदा स्पृष्टा म्लेच्छेनान्येन वा पुनः
त्रिरात्रमुषिता स्नात्वा पञ्चगव्येन शुध्यति ।।40।।

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी क्षत्रिया तथा
त्रिरात्रेण विशुद्धिः स्याद्देवलस्य वचो यथा ।।41।।

स्पृष्ट्वा रजस्वलाऽन्योन्यं ब्राह्मणी शूद्रजा तथा
पञ्चरात्रं निराहारा पञ्चगव्येन शुध्यति ।।42।।

ब्राह्मण्यनशनं कुर्यात्क्षत्रिया स्नानमाचरेत्
सचैलं वैश्यजातीनां नक्तं शूद्रे विनिर्दिशेत् ।।43।।

म्लेच्छान्नं म्लेच्छसंस्पर्शो म्लेच्छेन सह संस्थितिः
वत्सरं वत्सरादूर्ध्वं त्रिरात्रेण विशुध्यति ।।44।।

म्लेच्छैर्हृतानां चौरैर्वा कान्तारेषु प्रवासिनाम्
भुक्त्वा भक्ष्यमभक्ष्यं वा क्षुधार्तेन भयेन वा ।।45।।

पुनः प्राप्य स्वकं देशं चातुर्वर्ण्यस्य निष्कृतिः
कृच्छ्रमेकं चरेद्विप्रस्तदर्धं क्षत्रियश्चरेत्
पादोनं च चरेद्वैश्यः शूद्रः पादेन शुध्यति ।।46।।

गृहीता स्त्री बलादेव म्लेच्छैगुर्वीकृता यदि
गुर्वीन शुद्धिमाप्नोति त्रिरात्रेणेतरा शुचिः ।।47।।

योषा गर्भं विधत्ते या म्लेच्छात्कामादकामतः
ब्राह्मणी क्षत्रिया वैश्या शूद्रा वर्णेतरा च या ।।48।।

अभक्ष्यभक्षणं कुर्यात्तस्याः शुद्धिः कथं भवेत्
कृच्छ्रं सांतपनं शुद्धिर्घृतैर्योनेश्च पाचनम् ।।49।।

असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते
अशुद्धा सा भवेन्नारी यावच्छल्यं न मुञ्चति ।।50।।

विनिःसृते ततः शल्ये रजसो वाऽपि दर्शने
तदा सा शुध्यते नारी विमलं काञ्चनं यथा ।।51।।

स गर्भो दीयतेऽन्यस्मै स्वयं ग्राह्यो न कर्हिचित्
स्वजातौ वजयेद्यस्मात्संकरः स्यादतोऽन्यथा ।।52।।

गृहीतो यो बलान्म्लेच्छैः पञ्च षट् सप्त वा समाः
दशादि विंशतिं यावत्तस्य शुद्धिर्विधीयते ।।53।।

प्राजापत्यद्वयं तस्य शुद्धिरेषा विधीयते
अतः परं नास्ति शुद्धिः कृच्छ्रमेव सहोषिते ।।54।।

म्लेच्छैः सहोषितो यस्तु पञ्चप्रभृति विंशतिः
वर्षाणि शुद्धिरेषोक्ता तस्य चान्द्रायणद्वयम् ।।55।।

कक्षागुह्यशिरःश्मश्रुभ्रलोमपरिकृन्तनमू्
प्राहृत्य पाणिपादानां नखलोम ततः शुचिः ।।56।।

यो दातुं न विजानाति प्रायश्चित्तं द्विजोत्तमः
शुद्धिं ददाति नान्यस्मै तदशुद्धेः स भोजनम् ।।57।।

सभायां स्पर्शने चैव म्लेच्छेन सह संविशेत्
कुर्यात्स्नानं सचैलं तु दिनमेकमभोजनम् ।।58।।

माता म्लेच्छत्वमागच्छेत्पितरो वा कथंचन
असूतकं च नष्टस्य देवलस्य वचो यथा ।।59।।

मातरं च परित्यजय पितरं च तथा सुतः
ततः पितामहं चैव शेषपिण्डं तु निर्वपेत् ।।60।।

स्त्रीणां चैव तु शूद्राणां पतितानां तथैव च
पञ्चगव्यं न दातव्यं दातव्यं मन्त्रवर्जितम् ।।61।।

वरुणो देवता मूत्रे गोमये हव्यवाहनः
सोमः क्षीरे दध्नि वायुर्घृते रविरुदाहृतः ।।62।।

गोमूत्रं ताम्रवर्णायाः श्वेतायाश्चै व गोमयम्
पयः काञ्चनवर्णाया नीलायाश्चापि गोर्दधि ।।63।।

घृतं वै कृष्णवर्णाया विभत्तिक्तवर्णगोचरा
उदकं सर्ववर्णं स्यात्कस्य वर्णो न गृह्यते ।।64।।

षण्मात्रिकं तु गोमूत्रं गोमयं च कुशोदकम्
त्रिमात्रिकं घृतं क्षीरं दधि स्याद्दशमात्रिकम् ।।65।।

व्रते तु सर्ववर्णानां पञ्चगव्यं तु संख्यया
प्रायश्चित्तं यथोक्तं तु दातव्यं ब्रह्मवादिभिः ।।66।।

अन्यथा दापयेद्यस्तु प्रायश्चित्ती भवेदि्द्वजः ।।67।।

कपिलायाश्च गोर्दुग्ध्वा धारोष्णं यः पयः पिबेत्
एष व्यासकृतः कृच्छ्रः श्वपाकमपि शोधयेत् ।।68।।

तिलहोमं प्रकुर्वीत जपं कुर्यादतन्द्रितः
विष्णो रराटमन्त्रेण प्रायश्चित्ती विशुध्यति ।।69।।

बहुनाऽत्र किमुक्तेन तिलहोमो विधीयते
तिलान्दत्त्वा तिलान्भुक्त्वा कु्वीताघनिवारणम् ।।70।।

संपादयन्ति यद्विप्राः स्नानं तीर्थफलं तपः
संपादी क्रमते पापं तस्य संपद्यते फलम् ।।71।।

प्रायश्चित्तं समा:यातं यथोक्तं देवलेन तु
इतरेषामृषीणां च नान्यथा वाक्यमर्हथ ।।72।।

सुवर्णदानं गोदानं भूमिदानं गवाह्निकम्
विप्रेभ्यः संप्रयच्छेत प्रायश्चित्ती विशुध्यति ।।73।।

पञ्चाहान्सहवासे न संभाषणसहाशनैः
संप्राश्य पञ्चगव्यं तु दानं दत्त्वा विशुध्यति ।।74।।

एकद्वित्रिचतुःसंख्यान्वत्सरान्संवसेद्यदि
म्लेच्छवासं द्विजश्रेष्ठः क्रमतो द्रव्ययोगतः ।।75।।

एकाहेन तु गोमूत्रं व्यहेनैव तु गोमयम्
त्र्यहात्क्षीरेण संयुक्तं चतुर्थे दधिमिश्रितम् ।।76।।

पञ्चमे घृतसंपूर्णं पञ्चगव्यं प्रदापयेत्
पञ्चसप्तदशाहानि पञ्चदशाच्च विंशतिः ।।77।।

संवासं च प्रवक्ष्यामि देहशुद्धिं द्विजन्मनाम्
पञ्चाहं पञ्चगव्यं स्यात्पादकृच्छ्रं दशाहिके ।।78।।

पराकं पञ्चदशभिर्विंशेऽतिकृच्छ्रमेव च
उदरं प्रविशेद्यस्य पञ्चगव्यं विधानतः ।।79।।

यत्किंचिद्दुष्कृतं तस्य सर्वं नश्यति देहिनः
पञ्च सप्ताष्ट दश वा द्वादशाहोऽपि विंशतिः
म्लेच्छैर्नीतस्य विप्रस्य पञ्चगव्यं विशोधनम् ।।80।।

पञ्चगव्यं च गोक्षीरं दधि मूत्रं घृतं पयः
प्राश्यापरेऽह्न्युपवसेत्कृच्छ्रं सांतपनं चरेत् ।।81।।

पृथक्सांतपनं द्रव्यैः षडहः सोपवासकः
सप्ताहेन तु कृच्छ्रोऽयं महासांतपनः स्मृतम् ।।82।।

पर्णोदुम्बरराजीवविल्वपत्रकुशोदकैः
प्रत्येकं प्रत्यहं पीतैः पूर्णकृच्छ्र उदाहृतः ।।83।।

तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत्
एकरात्रोपवासश्च तप्तकृच्छ्रस्तु पावनः ।।84।।

एकभक्तेन नक्तेन तथैवायाचितेन तु
उपवासेन चैकेन पादकृच्छ्र उदाहृतः ।।85।।

कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम्
द्वादशाहोपवासेन पराकः परिकीर्तितः ।।86।।

पिण्याकशाकतक्राम्बुसक्तूनां प्रतिवासरम्
एकरात्रोपवासश्च कृच्छ्रः सौम्यः प्रकीर्तितः ।।87।।

एषां त्रिरात्रमभ्यासादेकैकस्य यथाक्रमम्
तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः ।।88।।

तिथि वृद्ध्या चरेत्पिण्डाञ्छुक्ले शि:यण्डसंमितान्
एकैकं ह्रासयेत्पिण्डान्कृच्छ्रचान्द्रायणं चरेत् ।।89।।

यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम्
इति देवलकृतं धर्मशास्त्रं प्रकीर्तितम् ।।90।।


                             समाप्तेयं  देवलस्मृतिः 

वाह्यसूत्राणिसम्पाद्यताम्

"https://sa.wikisource.org/w/index.php?title=देवलस्मृतिः&oldid=37917" इत्यस्माद् पुनः प्राप्तिः