प्रमुखा विकल्पसूचिः उद्घाट्यताम्
देवीकालोत्तरागमः
[[लेखकः :|]]





सर्वेषामपि मुक्त्यर्थं मुक्तिमार्गस्य दर्शनम् ।
देवेश ज्ञानमाचारं कृपया कथयस्व मे ॥ १ ॥
ईश्वर उवाच
ज्ञानाचारौ वरारोहे कथयामि तवाधुना ।
प्रविशन्ति यतो मोक्षं ज्ञानिनो ध्वस्तकल्मषम् ॥ २ ॥
येषां बोधेन संजातं कालज्ञानं वरानने ।
न तेषां जायते बोधः शास्त्रकोटिशतैरपि ॥ ३ ॥
अतो हि निर्भयो विद्वान्निःशङ्को विगतस्पृहः ।
ज्ञानोत्साहपरो भूयात्श्रद्दद्धानो निराकुलः ॥ ४ ॥
निर्ममः करुणोपेतः सर्वभूताभयप्रदः ।
भजेत्कालोत्तरं देवि मुमुक्षुर्योगतत्परः ॥ ५ ॥
स ब्रह्मा स शिवो विष्णुः स इन्द्रः स षडाननः ।
स गुरुः सर्वदेवाश्च स योगी स तपोधनः ॥ ६ ॥
पण्डितः स महाभागः कृतार्थः परमार्थतः ।
चलद्वायुसमं चित्तं ध्रियते येन निश्चलम् ॥ ७ ॥
स उपायो मिमोक्षस्य सदुपात्तगुणस्तु सः ।
सा प्रज्ञा तदिह स्थैर्यं तत्पुण्यं व्यवसायिनाम् ॥ ८ ॥
तदेव तीर्थं दानं च स तपश्च न संशयः ।
येनोपायेन बध्येत वायुभिश्चलनं मनः ॥ ९ ॥
चित्ते चलति संसारो निश्चलो मोक्ष एव तु ।
तस्माच्चित्तं स्थिरं कुर्यात्प्रज्ञया परया बुधः ॥ १० ॥
एकान्तिकं सुखं यत्र तथाइवात्यन्तिकं भवेत् ।
निष्कर्मणि परे तत्त्वे को न रज्येत पण्डितः ॥ ११ ॥
निवृत्तो विषयज्ञानात्निष्कलज्ञानतत्परः ।
अनिच्छन्नपि मेधावी लभते मोक्षमक्षयम् ॥ १२ ॥
अस्मिताकलया युक्तं चैतन्यं सकलं स्मृतम् ।
अस्मितारहितं चेतश्चैतन्यं शक्तिरुच्यते ॥ १३ ॥
तथा प्रकाशितं विश्वं शक्तिध्यानमुदाहृतम् ।
सर्वालम्बविनिर्मुक्तं निष्कलं ज्ञानमुच्यते ॥ १४ ॥
अहमंशेन यच्छून्यं चिन्मात्रालोकमद्वयम् ।
मुक्तिबीजं तदाख्यातं परयोगप्रवर्तकम् ॥ १५ ॥
चक्राणि नाडयः पद्म- देवताबीजमण्डलम् ।
रूपमित्यादिकं किञ्चिद्ध्येयं नैव कदाचन ॥ १६ ॥
कुहकं मन्त्रजालं च प्राणायामादि धारणम् ।
सर्वमेतन्न कर्तव्यं मोक्षमक्षयमिच्छता ॥ १७ ॥
नात्र पूजा नमस्कारो न जपो ध्यानमेव च ।
केवलं ज्ञानमित्युक्तं वेदितव्यं न किञ्चन ॥ १८ ॥
बहिराहितचित्तानां जायन्ते बन्धहेतवः ।
बहिश्चित्तं निवार्यैव विन्दन् लोके न सीदति ॥ १९ ॥
नात्र किञ्चिद्बहिर्नान्तं न मध्यं नाप्यधः क्वचित् ।
सर्वाकारं निराकारं स्वसंवेद्यं विराजते ॥ २० ॥
यद्यदालोक्य यो जन्तुः कुरुते कर्मसञ्चयम् ।
तद्गतिर्जायते यस्मान्निरालोकं तु चिन्तयेत् ॥ २१ ॥
हेतुर्नास्ति फलं नास्ति नास्ति कर्म स्वभावतः ।
असद्भूतमिदं सर्वं नास्ति लोको न लौकिकः ॥ २२ ॥
निरालम्बमिदं सर्वं निरालम्बप्रकाशितम् ।
निरालम्बमिदं कृत्वा निरालम्बो भविष्यति ॥ २३ ॥
व्योमाकारं महाशून्यं व्यापकं यो न भावयेत् ।
संसारी स भवेल्लोके बीजकोशक्रिमिर्यथा ॥ २४ ॥
ज्ञानोत्पत्तिनिमित्तं तु क्रियाश्चर्याः प्रकीर्तिताः ।
योगं सालम्बनं त्यक्त्वा निष्प्रपञ्चं विचिन्तयेत् ॥ २५ ॥
पातालात्शक्तिपर्यन्तं सर्वमेतदभीप्सितम् ।
भग्नं यैः शून्यमन्त्रेण ते स्मृताः शून्यवेदिनः ॥ २६ ॥
विषये लोलुपं चित्तं मर्कटादपि चञ्चलम् ।
सर्वशून्यपदे स्थित्वा ततो निर्वाणमेष्यति ॥ २७ ॥
सर्वतत्त्वाद्यसम्भिन्नं देहाद्भिन्नं तथैव च ।
अहमस्माद्यसम्भिन्नं चैतन्यं सर्वतोमुखम् ॥ २८ ॥
आकाशमिव सर्वं तु सबाह्याभ्यन्तरं प्रिये ।
परानन्दमरूपं तु पश्यन्नानन्दभाग्भवेत् ॥ २९ ॥
निरिन्धनो यथा वह्निः स्वयमेव प्रशाम्यति ।
ग्राह्याभावान्मनस्तद्वत्स्वयमेव प्रलीयते ॥ ३० ॥
मोहिका मूर्च्छिका माया स्वप्नश्चेति चतुर्विधः ।
सुषुप्तिर्जागृतिश्चैव सर्वमेतत्परित्यजेत् ॥ ३१ ॥
देहात्सूक्ष्मगतात्प्राणाच्चित्ताद्बुद्धेरहङ्कृतेः ।
सर्वस्माद्भिन्न एवाहं चिन्तयन् लभते चितम् ॥ ३२ ॥
सदाभिभूतये चित्तं निद्रया स्मरणादिना ।
बोधयित्वा प्रयत्नेन कुर्यात्स्वस्थं पुनः पुनः ॥ ३३ ॥
यदा स्थिरं भवेच्चित्तं चालयन्न कथंचन ।
न किञ्चिच्चिन्तयेत्तत्र स्थिरमेव तु कारयेत् ॥ ३४ ॥
आश्रयालम्बनं चित्तं तद्वत्कुर्यान्निराश्रयम् ।
चञ्चलं निश्चलं कुर्यात्निश्चलं न तु चालयेत् ॥ ३५ ॥
सर्वभूतलये जाते यद्यद्व्योम सुनिर्मलम् ।
तत्तद्रूपं स्वकं ध्यायेद्व्याप्तं चैव तु निर्मलम् ॥ ३६ ॥
तदेव जन्मसाफल्यं पाण्डित्यमिदमेव हि ।
चलद्वायुसमं चित्तं निश्चलं ध्रियते हि यत् ॥ ३७ ॥
नैवोर्ध्वं धारयेच्चित्तं न मध्यं नाप्यधः क्वचित् ।
अन्तर्भावविनिर्मुक्तं सदा कुर्यान्निराश्रयम् ॥ ३८ ॥
निद्रायां बोधयेच्चित्तं विक्षिप्तं शमयेत्पुनः ।
पक्षद्वयपरित्यागे सम्प्राप्ते नैव चालयेत् ॥ ३९ ॥
निराश्रयं सदा चित्तं सर्वालम्बनवर्जितम् ।
मनोऽवस्थाविनिर्मुक्तं विज्ञेयं मुक्तिलक्षणम् ॥ ४० ॥
सर्वालम्बनशून्यं च धारयित्वा मनो हृदि ।
यज्ज्ञानं जायते स्पष्टं तदभ्यासपरो भवेत् ॥ ४१ ॥
ये ध्यायन्ति परं शून्यं निष्कलं निरवस्थितम् ।
ते यान्ति परमं स्थानं जन्ममृत्युविवर्जितम् ॥ ४२ ॥
देवा देव्यस्तथा चान्ये धर्माधर्मौ च तत्फलम् ।
आश्रयाश्रयिविज्ञानं संसारस्य च बन्धनम् ॥ ४३ ॥
आश्रयो द्वन्द्वमित्युक्तं द्वन्द्वत्यागात्परोदयः ।
जीवन्मुक्तस्तदा योगी देहत्यागाद्विमुच्यते ॥ ४४ ॥
वैराग्येण वपुस्त्यागो न वै कार्यो मनीषिणा ।
आरम्भतः क्रियानाशे स्वयमेव विपत्स्यते ॥ ४५ ॥
हृत्सरोजे ह्यहंरूपा या चितिर्निर्मलाचला ।
अहङ्कारपरित्यागात्सा चितिर्मोक्षदायिनी ॥ ४६ ॥
सर्वोपाधिविनिर्मुक्तं चिद्रूपं यन्निरन्तरम् ।
तच्छिवोऽहमिति ध्यात्वा सर्वासक्तिं विसर्जयेत् ॥ ४७ ॥
देशजात्यादिसम्बद्धान् वर्णाश्रमसमन्वितान् ।
भावानेतान् परित्यज्य स्वभावं भावयेद्बुधः ॥ ४८ ॥
अहमेको न मे कश्चिन्नाहमन्यस्य कस्यचित् ।
न तं पश्यामि यस्याहं तं न पश्यामि यो मम ॥ ४९ ॥
अहमेव परं ब्रह्म जगन्नाथो महेश्वरः ।
इति स्यान्निश्चितो मुक्तो बद्धः स्यादन्यथा पुमान् ॥ ५० ॥
अशरीरं यदात्मानं पश्यति ज्ञानचक्षुषा ।
तदा भवति शान्तात्मा सर्वतो विगतस्पृहः ॥ ५१ ॥
योऽसौ सर्वेषु शास्त्रेषु पठ्यते ह्यज ईश्वरः ।
अकायो निर्गुणो ह्यात्मा सोऽहमस्मि न संशयः ॥ ५२ ॥
विज्ञाप्तिमात्रो हि सदा विशुद्धः सर्वत्र यस्मात्सततं विमुक्तः ।
नादेयहेयो ह्यहमप्रतर्क्यस्तस्मात्सदा ब्रह्ममयो विशोकः ॥ ५३ ॥
आमस्तकं पादतलावसानं सान्तर्बहिश्चर्मपटावनद्धम् ।
तत्कृत्स्नमेवामृतरूपमन्यच्चिद्रूपमात्मानमनन्यसिद्धिम् ॥ ५४ ॥
ईशोऽहमेवास्य चराचरस्य पिता च माता च पितामहश्च ।
ध्यानं समास्थाय पदं चतुर्थं ध्यायन्ति मामेव विमुक्तिकामाः ॥ ५५ ॥
ब्रह्मादिभिर्देवमनुष्यनागैर्गन्धर्वयक्षाप्सरसां गणैश्च ।
यज्ञैरनेकैरहमेव पूज्यो मामेव सर्वे प्रतिपूजयन्ति ॥ ५६ ॥
तपोभिरुग्रैर्विविधैश्च दानैर्मामेव सर्वे प्रतिपूजयन्ति ।
भूतानि चाहं स्थिरजङ्गमानि यावन्ति चान्यान्यहमेव तानि ॥ ५७ ॥
न स्थूलसूक्ष्मो न च शून्यरूपो ज्ञानैकरूपो जगदेकबन्धुः ।
निरन्तरो निर्मल ईश्वरोऽहं स्वप्नाद्यवस्थाच्युतिनिष्प्रपञ्चः ॥ ५८ ॥
अनादिविज्ञानमजं पुराणं गुहाशयं निष्कलमप्रपञ्चम् ।
निरञ्जनं निष्प्रतिमं निरीशमदृश्यमग्राह्यमचिन्त्यरूपम् ॥ ५९ ॥
सनातनं ब्रह्म निरन्तरं यत्पदे पदे सोऽहमिति प्रपश्येत् ।
यो भावतस्तिष्ठति निष्प्रकम्पः स ब्रह्मभूतोऽमृततामुपैति ॥ ६० ॥
ज्ञानमेवं वरारोहे कथितं मोक्षसिद्धये ।
आचारं कथ्यमानं तु साम्प्रतं शृणु तं मया ॥ ६१ ॥
न स्नानं न जपः पूजा होमो नैव च साधनम् ।
अग्निकार्यादिकार्यं च नैतस्यास्ति महेश्वरि ॥ ६२ ॥
नियमोऽपि न तस्यास्ति क्षेत्रपीठे च सेवनम् ।
नार्चनं पितृकार्यादि तीर्थयात्रा व्रतानि च ॥ ६३ ॥
धर्माधर्मफलं नास्ति न तिथिर्लौकिकक्रिया ।
सन्त्यजेत्सर्वकर्माणि लोकाचारं च सर्वशः ॥ ६४ ॥
समयाचारनिःशेषान् कृत्यजातं तु बन्धनम् ।
संकल्पं च विकल्पं च ये चान्ये कुलधर्मिकाः ॥ ६५ ॥
सिद्धीश्च विविधाकाराः पातालादि रसायनम् ।
प्रत्यक्षेणापि लभ्येरन्नैव गृह्णीत साधकः ॥ ६६ ॥
सर्वे ते पशुबन्धाः स्युरधोमार्गप्रदायकाः ।
एतैर्नास्ति परा मुक्तिश्चिद्रूपं व्यापकं विना ॥ ६७ ॥
येन केन विशेषेण सर्वावस्थोऽपि योगधृक् ।
क्षेत्रपीठे च सन्देहाद्वर्जयेद्यदि कौतुकम् ॥ ६८ ॥
कृमिकीटपतङ्गाश्च तथा देवि वनस्पतीन् ।
न नाशयेद्बुधो जीवान् परमार्थमतिर्यतः ॥ ६९ ॥
न मूलोत्पाटनं कुर्यात्पत्त्रच्छेदं विवर्जयेत् ।
भूतपीडां न कुर्वीत पुष्पाणां च निकृन्तनम् ॥ ७० ॥
स्वयंपतितपुष्पैस्तु कर्तव्यं शिवपूजनम् ।
मारणोच्चाटनादीनि विद्वेषस्तम्भने तथा ॥ ७१ ॥
ज्वरभूतग्रहावेश- वश्याकर्षणमोहनम् ।
न कुर्यात्क्षुद्रकर्माणि काष्ठपाषाणपूजनम् ॥ ७२ ॥
समोऽमित्रे च मित्रे च समो लोष्टे च काञ्चने ।
अभिलाषो न कर्तव्य इन्द्रियार्थे कदाचन ॥ ७३ ॥
आत्मारामो भवेद्योगी निर्भयो विगतस्पृहः ।
समनिन्दाप्रशंसश्च सर्वभूतसमस्तथा ॥ ७४ ॥
समदृष्टिस्तु कर्तव्या यथात्मनि तथा परे ।
विवादं लोकगोष्ठीं च कलहाश्च विवर्जयेत् ॥ ७५ ॥
शास्त्रगोष्ठीं न कुर्वीत कुभाषितसुभाषितान् ॥ ७६ ॥
ईर्ष्यां पैशुन्यदम्भे च रागं मात्सर्यमेव च ।
कामक्रोधौ भयं शोकं त्यजेत्सर्वं शनैः शनैः ॥ ७७ ॥
सर्वद्वन्द्वविनिर्मुक्तः सन्ततं जनवर्जितः ।
अनेनैव शरीरेण सर्वज्ञः सन् प्रकाशते ॥ ७८ ॥
ज्ञानेनैव यथा मोक्षस्तथा सिद्धिर्निरर्थिका ।
तथापि भोगमिच्छन्तः सिद्धिमिच्छन्ति साधकाः ॥ ७९ ॥
अणिमादिगुणावाप्तिर्जायतां वा न जायताम् ।
तथापि मुच्यते देही पतिं विज्ञाय निर्मलम् ॥ ८० ॥
पञ्चभूतात्मको देहः शिवस्तत्रैव तिष्ठति ।
शिवाद्यवनिपर्यन्तो लोकोऽयं शङ्करात्मकः ॥ ८१ ॥
ईदृशं ज्ञानिनं दृष्ट्वा पूजयन्ति च ये नराः ।
गन्धं पुष्पं फलं धूपं स्नानं वस्त्रं च भोजनम् ॥ ८२ ॥
निवेदयन्ति ये केचिद्वाङ्मनःकायकर्मभिः ।
तथैव ते विमुच्यन्ते मुक्तिमार्गाभिकाङ्क्षिणः ॥ ८३ ॥
स्तुतिनिन्दाकरास्तस्य पुण्यपापे समाप्नुयुः ।
यज्ज्ञानाचरणं पृष्टं तत्सर्वं कथितं मया ।
कालज्ञानं वरारोहे किमन्यत्परिपृच्छसि ॥ ८४ ॥

इति देवीकालोत्तरागमः परिसमाप्तः

"https://sa.wikisource.org/w/index.php?title=देवीकालोत्तरागमः&oldid=207770" इत्यस्माद् पुनः प्राप्तिः