देवीचतुःषष्ट्युपचारपूजास्तोत्रम्

देवीचतुःषष्ट्युपचारपूजास्तोत्रम्
शङ्कराचार्यः
१९१०

॥ श्रीः॥

॥ देवीचतुःषष्ट्युपचारपूजास्तोत्रम् ॥


उषसि मागधमङ्गलगायनै-
 र्झटिति जागृहि जागृहि जागृहि ।
अतिकृपाकटाक्षनिरीक्षणै-
 र्जगदिदं जगदम्ब सुखीकुरु ॥ १ ॥

कनकमयवितर्दिशोभमानं
 दिशि दिशि पूर्णसुवर्णकुम्भयुक्तम् ।
मणिमयमण्टपमध्यमेहि मात-
 र्मयि कृपयाशु समर्चनं ग्रहीतुम् ॥ २॥

कनककलशशोभमानशीर्षं
 जलधरलम्बि समुल्लसत्पताकम् ।
भगवति तव संनिवासहेतो-
 मणिमयमन्दिरमेतदर्पयामि ॥ ३ ॥

तपनीयमयी सुतूलिका
 कमनीया मृदुलोत्तरच्छदा ।
नवरत्नविभूषिता मया
 शिबिकेयं जगदम्ब तेऽर्पिता ।। ४ ॥

कनकमयवितर्दिस्थापिते तूलिकाढ्ये
 विविधकुसुमकीर्णे कोटिबालार्कवणे ।
भगवति रमणीये रत्नसिंहासनेऽस्मि-
 न्नुपविश पदयुग्मं हेमपीठे निधाय ॥ ५॥

मणिमौक्तिकनिर्मितं महान्तं
 कनकस्तम्भचतुष्टयेन युक्तम् ।
कमनीयतमं भवानि तुभ्यं
 नवमुल्लोचमहं समर्पयामि ॥ ६॥

दूर्वया सरसिजान्वितविष्णु-
 क्रान्तया च सहितं कुसुमाढ्यम् ।
पद्मयुग्मसदृशे पदयुग्मे
 पाद्यमेतदुररीकुरु मातः ॥ ७ ॥

गन्धपुष्पयवसर्षपदूर्वा-
 संयुतं तिलकुशाक्षतमिश्रम् ।
हेमपात्रनिहितं सह रत्नै-
 रर्घ्यमेतदुररीकुरु मात: ॥ ८ ॥

जलजद्युतिना करेण जाती-
 फलतक्कोललवङ्गगन्धयुक्तैः ।
अमृतैरमृतैरिवातिशीतै-
 र्भगवत्याचमनं विधीयताम् ।। ९ ।।

निहितं कनकस्य संपुटे
 पिहितं रत्नपिधानकेन यत् ।
तदिदं जगदम्ब तेऽर्पित
 मधुपर्कं जननि प्रगृह्यताम् ॥ १० ॥

एतञ्चम्पकतैलमम्ब विविधैः पुष्पैर्मुहुर्वासितं
 न्यस्तं रत्नमये सुवर्णचषके भृङ्गैर्भ्रमद्भिर्वृतम् ।
सानन्दं सुरसुन्दरीभिरभितो हस्तैघृतं ते मया
 केशेषु भ्रमरभ्रमेषु सकलेष्वङ्गेषु चालिप्यते ॥ ११ ॥

मात: कुङ्कुमपङ्कनिर्मितमिदं देहे तवोद्वर्तनं
 भक्त्याहं कलयामि हेमरजसा संमिश्रितं केसरैः ।
केशानामलकैर्विशोध्य विशदान्कस्तूरिकोदञ्चितैः
 स्नानं ते नवरत्नकुम्भसहितैः संवासितोष्णोदकैः ॥१२॥

दधिदुग्धघृतैः समाक्षिकैः
 सितया शर्करया समन्वितैः ।
स्नपयामि तवाहमादरा-
 ज्जननि त्वां पुनरुष्णवारिभिः ॥ १३ ॥

एलोशीरसुवासितैः सकुसुमैर्गङ्गादितीर्थोदकै-
 माणिक्यामलमौक्तिकामृतरसै: स्वच्छैः सुवर्णोदकैः ।
मन्त्रान्वैदिकतान्त्रिकान्परिपठन्सानन्दमयादरा-
 स्नानं ते परिकल्पयामि जननि स्नेहात्वमङ्गीकुरु ॥ १४ ॥

बालार्कद्युति दाडिमीयकुसुमप्रस्पर्धि सर्वोत्तम
 मातस्त्वं परिधेहि दिव्यवसनं भक्त्या मया कल्पितम् ।
मुक्ताभिर्ग्रथितं सुकञ्चुकमिदं स्वीकृत्य पीतप्रभं
 तप्तस्वर्णसमानवर्णमतुलं प्रावर्णमङ्गीकुरु ॥ १५ ॥

नवरत्नमये मयार्पिते
 कमनीये तपनीयपादुके।
सविलासमिदं पदद्वयं
 कृपया देवि तयोर्निधीयताम् ॥ १६ ॥

बहुभिरगरुधूपैः सादरं धूपयित्वा
 भगवति तव केशान्कङ्कतैर्मार्जयित्वा ।
सुरभिभिररविन्दैश्चम्पकैश्चार्चयित्वा
 झटिति कनकसूत्रैर्जूटयन्वेष्टयामि ॥ १७ ॥

सौवीराञ्जनमिदमम्ब चक्षुषोस्ते
 विन्यस्तं कनकशलाकया मया यत् ।
तन्न्यून मलिनमपि त्वदक्षिसङ्गात्
 ब्रह्मेन्द्राद्यभिलषणीयतामियाय ॥ १८ ॥

मञ्जीरे पदयोर्निधाय रुचिरा विन्यस्य काञ्ची कटौ
 मुक्ताहारमुरोजयोरनुपमा नक्षत्रमालां गले ।
केयूराणि भुजेषु रत्नवलयश्रेणी करेषु क्रमा- .
 त्ताटङ्के तव कर्णयोर्विनिदधे शीर्षे च चूडामणिम् ।।१९।।

धम्मिल्ले तव देवि हेमकुसुमान्याधाय फालस्थले
 मुक्ताराजिविराजमानतिलकं नासापुटे मौक्तिकम् ।
मातर्मौक्तिकजालिकां च कुचयोः सर्वाङ्गुलीषूर्मिकाः
 कट्या काञ्चनकिङ्किणीर्विनिदधे रत्नावतंसं श्रुतौ ॥२०॥

मात: फालतले तवातिविमले काश्मीरकस्तूरिका-
 कर्पूरागरुभिः करोमि तिलकं देहेऽङ्गरागं ततः ।
वक्षोजादिषु यक्षकर्दमरसं सिक्त्वा च पुष्पद्रवं
 पादौ चन्दनलेपनादिभिरहं संपूजयामि मात् ।। २१ ।।

रत्नाक्षतैस्त्वां परिपूजयामि
 मुक्ताफलैर्वा रुचिरैरविद्धैः ।
अखण्डितैर्देवि यवादिभिर्वा
 काश्मीरपङ्काङ्किततण्डुलैर्वा !। २२ ।।

जननि चम्पकतैलमिदं पुरो
 मृगमदोपयुतं पटवासकम् ।
सुरभिगन्धमिदं च चतुःसमं
 सपदि सर्वमिदं परिगृह्यताम् ।। २३ ॥

सीमन्ते ते भगवति मया सादरं न्यस्तमेत-
 त्सिन्दूरं मे हृदयकमले हर्षवर्ष तनोति ।
बालादित्यद्युतिरिव सदा लोहिता यस्य कान्ती-
 रन्तर्धान्तं हरति सकलं चेतसा चिन्तयैव ॥ २४॥

मन्दारकुन्दकरवीरलवङ्गपुष्पै-
 स्त्वां देवि संततमहं परिपूजयामि ।
जातीजपावकुलचम्पककेतकादि-
 नानाविधानि कुसुमानि च तेऽर्पयामि ॥ २५ ।।

मालतीवकुलहेमपुष्पिका-
 काञ्चनारकरवीरकैतकैः ।।
कर्णिकारगिरिकर्णिकादिभिः
 पूजयामि जगदम्ब ते वपुः ॥ २६ ॥

पारिजातशतपत्रपाटलै-
 र्मल्लिकावकुलचम्पकादिभिः ।
अम्बुजैः सुकुसुमैश्च सारं
 पूजयामि जगदम्ब ते वपुः ॥ २७ ॥

लाक्षासंमिलितैः सिताभ्रसहितैः श्रीवाससंमिश्रितैः
 कर्पूराकलितैः शिरैमधुयुतैर्गोसर्पिषा लोडितैः ।
श्रीखण्डागरुगुग्गुलुप्रभृतिभिर्नानाविधैर्वस्तुभि-
 र्धूपं ते परिकल्पयामि जननि स्नेहात्त्वमङ्गीकुरु ॥ २८॥

रत्नालंकृतहेमपात्रनिहितैर्गोसर्पिषा लोडितै-
 र्दीपैर्दीर्घतरान्धकारभिदुरैर्बालार्ककोटिप्रभैः ।
आताम्रज्वलदुज्ज्वलप्रविलसद्रत्नप्रदीपैस्तथा
 मातस्त्वामहमादरादनुदिनं नीराजयाम्युच्चकैः ।। २९ ॥

मातस्त्वां दधिदुग्धपायसमहाशाल्यनसंतानिकाः
 सूपापूपसिताघृतैः सवटकैः सक्षौद्ररम्भाफलैः ।
एलाजीरकहिङ्गुनागरनिशाकुस्तुम्भरीसंस्कृतैः
 शाकैः साकमहं सुधाधिकरसैः संतर्पयाम्यर्चयन ॥ ३० ॥

सापूपसूपदधिदुग्धसिताघृतानि
 सुस्वादुभक्तपरमानपुरःसराणि ।
शाकोल्लसन्मरिचिजीरकबाहिकानि
 भक्ष्याणि भुङ्क्ष्व जगदम्ब मयार्पितानि ॥ ३१ ॥

क्षीरमेतदिदमुत्तमोत्तमं
 प्राज्यमाज्यमिदमुज्ज्वलं मधु ।
मातरेतदमृतोपमं पयः
 संभ्रमेण परिपीयतां मुहुः ।। ३२ ।।

उष्णोदकैः पाणियुगं मुखं च
 प्रक्षाल्य मात: कलधौतपाने ।
कर्पूरमिश्रेण सकुङ्कुमेन
 हस्तौ समुद्वर्तय चन्दनेन ।। ३३ ॥

अतिशीतमुशीरवासितं
 तपनीये कलशे निवेशितम् ।
पटपूतमिदं जितामृतं
 शुचि गङ्गाजलमम्ब पीयताम् ॥ ३४॥

जम्ब्वाम्ररम्भाफलसंयुतानि
 द्राक्षाफलौद्रसमन्वितानि ।
सनारिकेलानि सदाडिमानि
 फलानि ते देवि समर्पयामि ॥ ३५ ॥

कूश्माण्डकोशातकिसंयुतानि
 जम्बीरनारङ्गसमन्वितानि ।
सबीजपूराणि सबादराणि
 फलानि ते देवि समर्पयामि ॥ ३६ ।।

कर्पूरेण युतैर्लवङ्गसहितैस्तकोलचूर्णान्वितैः
 सुस्वादुक्रमुकैः सगौरखदिरैः सुस्निग्धजातीफलैः ।
मात: कैतकपत्नपाण्डुरुचिभिस्ताम्बूलवल्लीदलैः
 सानन्दं मुखमण्डनार्थमतुलं ताम्बूलमगीकुरु ।। ३७ ॥

एलालवङ्गादिसमन्वितानि
 तक्कोलकर्पूरविमिश्रितानि ।
ताम्बूलवल्लीदलसंयुतानि
 पूगानि ते देवि समर्पयामि ॥ ३८ ॥

ताम्बूलनिर्जितसुतप्तसुवर्णवर्ण
 स्वर्णाक्तपूगफलमौक्तिकचूर्णयुक्तम् ।
सौवर्णपात्रनिहितं खदिरेण सार्ध
 ताम्बूलमम्ब बदनाम्बुरुहे गृहाण ॥ ३९ ।।

महति कनकपाले स्थापयित्वा विशालान्
 डमरुसदृशरूपान्बद्धगोधूमदीपान् ।
बहुघृतमथ तेषु न्यस्य दीपान्प्रकृष्टा-
 न्भुवनजननि कुर्वे नित्यमारार्तिकं ते ॥ ४० ॥

सविनयमथ दत्वा जानुयुग्मं धरण्यां
 सपदि शिरसि धृत्वा पात्रमारार्तिकस्य ।
मुखकमलसमीपे तेऽम्ब सार्थं त्रिवारं
 भ्रमयति मयि भूयात्ते कृपाः कटाक्षः ॥ ४१ ॥

अथ बहुमणिमिश्रैर्मौक्तिकैस्त्वां विकीर्य
 त्रिभुवनकमनीयैः पूजयित्वा च वस्त्रैः ।
मिलितविविधमुक्तां दिव्यमाणिक्ययुक्तां
 जननि कनकवृष्टिं दक्षिणां तेऽर्पयामि ॥ ४२ ॥

मातः काञ्चनदण्डमण्डितमिदं पूर्णेन्दुबिम्बप्रभं
 नानारत्नविशोभिहेमकलशं लोकत्रयाह्लादकम् ।
भास्वन्मौक्तिकजालिकापरिवृतं प्रीत्यात्महस्ते धृतं
 छत्रं ते परिकल्पयामि शिरसि त्वष्ट्रा स्वयं निर्मितम् ।। ४३ ॥

शरदिन्दुमरीचिगौरवर्णै-
 र्मणिमुक्ताविलसत्सुवर्णदण्डैः ।
जगदम्ब विचित्रचामरैस्त्वा-
 महमानन्दभरेण वीजयामि ॥ ४४ ॥

मार्ताण्डमण्डलनिभो जगदम्ब योऽयं
 भक्त्या मया मणिमयो मुकुरोऽर्पितस्ते ।
पूर्णेन्दुबिम्बरुचिरं वदनं स्वकीय-
 मस्मिन्विलोकय बिलोलविलोचने त्वम् ॥ ४५ ॥

इन्द्रादयो नतिनतैर्मकुटप्रदीपै-
 र्नीराजयन्ति सततं तव पादपीठम् ।
तस्मादहं तव समस्तशरीरमेत-
 नीराजयामि जगदम्ब सहस्रदीपैः ॥ ४६॥

प्रियगतिरतितुङ्गो रत्नपल्याणयुक्तः
 कनकमयविभूषः स्निग्धगम्भीरघोषः ।
भगवति कलितोऽयं वाहनार्थ मया ते
 तुरगशतसमेतो वायुवेगस्तुरंगः ॥ ४७ ॥

मधुकरवृतकुम्भन्यस्तसिन्दूररेणुः
 कनककलिलघण्टाकिङ्किणीशोभिकण्ठः ।
श्रवणयुगलचञ्चचामरो मेघतुल्यो
 जननि तव मुदे स्यान्मत्तमातङ्ग एषः ॥ ४८ ॥

द्रुततरतुरगैर्विराजमान
 मणिमयचक्रचतुष्टयेन युक्तम् ।
कनकमयममुं वितानवन्तं
 भगवति ते हि रथं समर्पयामि ॥ ४९ ॥

हयगजरथपत्तिशोभमानं
 दिशि दिशि दुन्दुभिमेघनादयुक्तम् ।
अतिबहु चतुरङ्गसैन्यमेत-
 द्भगवति भक्तिभरेण तेऽर्पयामि ॥ ५० ॥

परिधीकृतसप्तसागरं
 बहुसंपत्सहितं मयाम्ब ते विपुलम् ।
प्रबलं धरणीतलाभिधं
 दृढदुर्गं निखिलं समर्पयामि ॥ ५१ ॥

शतपत्रयुतैः स्वभावशीतै-
 रतिसौरभ्ययुतैः परागपीतैः ।
भ्रमरीमुखरीकृतैरनन्तै-
 र्व्यजनस्त्वां जगदम्ब बीजयामि ।। ५२ ॥

भ्रमरलुलितलोलकुन्तलाली-
 विगलितमाल्यविकीर्णरङ्गभूमिः ।
इयमतिरुचिरा नटी नटन्ती
 तव हृदये मुदमातनोतु मातः ॥ ५३ ।।

मुखनयनविलासलोलवेणी-
 विलसितनिर्जितलोलभृङ्गमालाः ।
युवजनसुखकारिचारुलीला
 भगवति ते पुरतो नटन्ति बालाः ।। ५४ ॥

भ्रमदलिकुलतुल्यालोलधम्मिल्लभारा:
 स्मितमुखकमलोद्यद्दिव्यलावण्यपूराः ।
अनुपमितसुवेषा वारयोषा नटन्ति
 परभृतकलकण्ठ्यो देवि दैन्यं धुनोतु ॥ ५५ ॥

डमरुडिण्डिमजर्झरझल्लरी-
 मृदुरवद्रगडगडादयः ।
झटिति झाङ्कृतझाकृतझाङ्कृतै-
 र्बहुदयं हृदयं सुखयन्तु ते ॥ ५६ ॥

विषञ्चीषु सप्तस्वरान्वादयन्त्य-
 स्तव द्वारि गायन्ति गन्धर्वकन्या: ।
क्षणं सावधानेन चित्तेन मात:
 समाकर्णय त्वं मया प्रार्थितासि ।। ५७ ।।

अभिनयकमनीयैर्नर्तनैर्नर्तकीनां
 क्षणमपि रमयित्वा चेत एतत्त्वदीयम् ।
स्वयमहमतिचित्रैर्नृत्तवादित्रगीतै-
 भगवति भवदीयं मानसं रञ्जयामि ।। ५८ ॥

तव देवि गुणानुवर्णने
 चतुरा नो चतुराननादयः ।
तदिहैकमुखेषु जन्तुषु
 स्तवनं कस्तव कर्तुमीश्वरः ।। ५९ ॥

पदे पदे यत्परिपूजकेभ्यः सद्योऽश्वमेधादिफलं ददाति ।
तत्सर्वपापक्षयहेतुभूतं प्रदक्षिणं ते परितः करोमि ॥ ६० ॥

रक्तोत्पलारक्तलताप्रभाभ्यां ध्वजोर्ध्वरेखाकुलिशाङ्किताभ्याम् ।
अशेषबृन्दारकवन्दिताभ्यां नमो भवानीपदपङ्कजाभ्याम् ॥ ६१ ॥

चरणनलिनयुग्मं पङ्कजै: पूजयित्वा
 कनककमलमालां कण्ठदेशेऽर्पयित्वा ।
शिरसि विनिहितोऽयं रत्नपुष्पाञ्जलिस्ते
 हृदयकमलमध्ये देवि हर्ष तनोतु ॥ ६२ ।।

अथ मणिमयमञ्चकाभिरामे
 कनकमयवितानराजमाने ।
प्रसरदगरुधूपधूपितेऽस्मि-
 न्भगवति भवनेऽस्तु ते निवासः ॥ ६३ ॥

एतस्मिन्मणिखचिते सुवर्णपीठे
 त्रैलोक्याभयवरदौ निधाय हस्तौ।
विस्तीर्णे मृदुलतरोत्तरच्छदेऽस्मि-
 न्पर्यङ्के कनकमये निषीद मातः ॥ ६४ ॥

तव देवि सरोजचिह्नयोः पदयोर्निर्जितपद्मरागयोः ।
अतिरक्ततरैरलक्तकैः पुनरुक्ता रचयामि रक्तताम् ।। ६५ ।।

अथ मातरुशीरवासितं निजताम्बूलरसेन रञ्जितम् ।
तपनीयमये हि पट्टके मुखगण्डूषजलं विधीयताम् ॥ ६६ ॥

क्षणमथ जगदम्ब मञ्चकेऽस्मि-
 न्मृदुतलतूलिकया विराजमाने ।
अतिरहसि मुदा शिवेन सार्ध
 सुखशयनं कुरु तत्र मां स्मरन्ती ॥ ६७ ॥

मुक्ताकुन्देन्दुगौरां मणिमयमकुटां रत्नताटकयुक्ता-
 मक्षस्रक्पुष्पहस्तामभयवरकरां चन्द्रचूडां त्रिनेत्राम् ।
नानालंकारयुक्तां सुरमकुटमणिद्योतितस्वर्णपीठां
 सानन्दो सुप्रसन्नां त्रिभुवनजननी चेतसा चिन्तयामि ।। ६८ ॥

एषा भक्त्या तव विरचिता या मया देवि पूजा
 स्वीकृत्यैनां सपदि सकलान्मेऽपराधान्क्षमस्व ।
न्यूनं यत्तत्तव करुणया पूर्णतामेतु सद्यः
 सानन्दं मे हृदयकमले तेऽस्तु नित्यं निवास: ।। ६९ ॥

पूजामिमां यः पठति प्रभाते
 मध्याह्नकाले यदि वा प्रदोषे ।
धर्मार्थकामान्पुरुषोऽभ्युपैति
 देहावसाने शिवभावमेति ॥ ७० ॥

पूजामिमां पठेन्नित्यं पूजां कर्तुमनीश्वरः ।
पूजाफलमवाप्नोति वाञ्छितार्थं च विन्दति ।। ७१ ।।

प्रत्यहं भक्तिसंयुक्तो य: पूजनमिदं पठेत् ।
वाग्वादिन्याः प्रसादेन बत्सरात्स कविर्भवेत् ॥ ७२ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छंकरभगवतः कृतौ
देवीचतुःषष्ट्युपचारपूजास्तोत्रं संपूर्णम् ॥