देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०८

← अध्यायः ०७ देवीभागवतपुराणम्/स्कन्धः ०१०/अध्यायः ०८
वेदव्यासः‎
अध्यायः ०९ →

मनूत्पत्तिवर्णनम्

शौनक उवाच
 आद्यो मन्वन्तरः प्रोक्तो भवता चायमुत्तमः ।
 अन्येषामुद्‍भवं ब्रूहि मनूनां दिव्यतेजसाम् ॥ १ ॥
 सूत उवाच
 एवमाद्यस्य चोत्पत्तिं श्रुत्वा स्वायम्भुवस्य हि ।
 अन्येषां क्रमशस्तेषां सम्भूतिं परिपृच्छति ॥ २ ॥
 नारदः परमो ज्ञानी देवीतत्त्वार्थकोविदः ।
 नारद उवाच
 मनूनां मे समाख्याहि सूत्पत्तिं च सनातन ॥ ३ ॥
 श्रीनारायण उवाच
 प्रथमोऽयं मनुः स्वायम्भुव उक्तो महामुने ।
 देव्याराधनतो येन प्राप्तं राज्यमकण्टकम् ॥ ४ ॥
 प्रियव्रतोत्तानपादौ मनुपुत्रौ महौजसौ ।
 राज्यपालनकर्तारौ विख्यातौ वसुधातले ॥ ५ ॥
 द्वितीयश्च मनुः स्वारोचिष उक्तो मनीषिभिः ।
 प्रियव्रतसुतः श्रीमानप्रमेयपराक्रमः ॥ ६ ॥
 स स्वारोचिषनामापि कालिन्दीकूलतो मनुः ।
 निवासं कल्पयामास सर्वसत्त्वप्रियङ्‌करः ॥ ७ ॥
 जीर्णपत्राशनो भूत्वा तपः कर्तुमनुव्रतः ।
 देव्या मूर्तिं मृण्मयीं च पूजयामास भक्तितः ॥ ८ ॥
 एवं द्वादश वर्षाणि वनस्थस्य तपस्यतः ।
 देवी प्रादुरभूत्तात सहस्रार्कसमद्युतिः ॥ ९ ॥
 ततः प्रसन्ना देवेशी स्तवराजेन सुव्रता ।
 ददौ स्वारोचिषायैव सर्वमन्वन्तराश्रयम् ॥ १० ॥
 आधिपत्यं जगद्धात्री तारिणीति प्रथामगात् ।
 एवं स्वारोचिषमनुस्तारिण्याराधनात्ततः ॥ ११ ॥
 आधिपत्यं च लेभे स सर्वारातिविवर्जितम् ।
 धर्मं संस्थाप्य विधिवद्‌राज्यं पुत्रैः समं विभुः ॥ १२ ॥
 भुक्त्वा जगाम स्वर्लोकं निजमन्वन्तराश्रयात् ।
 तृतीय उत्तमो नाम प्रियव्रतसुतो मनुः ॥ १३ ॥
 गङ्‌गाकूले तपस्तप्त्वा वाग्भवं सञ्जपन् रहः ।
 वर्षाणि त्रीण्युपवसन् देव्यनुग्रहमाविशत् ॥ १४ ॥
 स्तुत्वा देवीं स्तोत्रवरैर्भक्तिभावितमानसः ।
 राज्यं निष्कण्टकं लेभे सन्ततिं चिरकालिकीम् ॥ १५ ॥
 राज्योत्थान्यानि सौख्यानि भुक्त्वा धर्मान्युगस्य च ।
 सोऽप्याजगाम पदवीं राजर्षिवरभाविताम् ॥ १६ ॥
 चतुर्थस्तामसो नाम प्रियव्रतसुतो मनुः ।
 नर्मदादक्षिणे कूले समाराध्य जगन्मयीम् ॥ १७ ॥
 महेश्वरीं कामराजकूटजापपरायणः ।
 वासन्ते शारदे काले नवरात्रसपर्यया ॥ १८ ॥
 तोषयामास देवेशीं जलजाक्षीमनूपमाम् ।
 तस्याः प्रसादमासाद्य नत्वा स्तोत्रैरनुत्तमैः ॥ १९ ॥
 अकण्टकं महद्‌राज्यं बुभुजे गतसाध्वसः ।
 पुत्रान्वलोद्धताञ्छूरान्दश वीर्यनिकेतनान् ॥ २० ॥
 उत्पाद्य निजभार्यायां जगामाम्बरमुत्तमम् ।
 पञ्चमो मनुराख्यातो रैवतस्तामसानुजः ॥ २१ ॥
 कालिन्दीकूलमाश्रित्य जजाप कामसंज्ञकम् ।
 बीजं परमवाग्दर्पदायकं साधकाश्रयम् ॥ २२ ॥
 एतदाराधनादाप स्वाराज्यर्द्धिमनुत्तमाम् ।
 बलमप्रहतं लोके सर्वसिद्धिविधायकम् ॥ २३ ॥
 सन्ततिं चिरकालीनां पुत्रपौत्रमयीं शुभाम् ।
 धर्मान्व्यस्य व्यवस्थाप्य विषयानुपभुज्य च ।
 जगामाप्रतिमः शूरो महेन्द्रालयमुत्तमम् ॥ २४ ॥
इति श्रीमद्देवीभागवते महापुराणेऽष्टादशसाहस्र्यां संहितायां दशमस्कन्धे मनूत्पत्तिवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥